त्रिपञ्चाशः सर्गः ५३
श्रीवसिष्ठ उवाच ।
अथ लब्धवरा देहेनानेनैव महीपतिम् ।
पतिमाप्तुं प्रयात्येषा नभोमार्गेण विष्टपम् ॥ १ ॥
गतिमार्गोऽत्र लीलाया भर्तृप्राप्तिश्च वर्ण्यते ।
अज्ञानयोगसिद्धानामगतिश्च नभःपथि ॥ १ ॥
अनेन प्राग्वर्णितवासनामयेनैव देहेन । विष्टपं वक्ष्यमाणभुवनानि ।
जातावेकवचनम् ॥ १ ॥
इति सञ्चिन्त्य सानन्दमुद्दममकरध्वजा ।
पुप्लुवे पेलवाकारा पक्षिणीव नभस्तले ॥ २ ॥
इति उक्तप्रकारेण सञ्चिन्त्य स्मरणेन देहादिभावं सम्पद्य पतिप्राप्त्युत्साहेन
सानन्दं यथा स्यात्तथा पुप्लुवे । पेलवाकारा लघुशरीरा ॥ २ ॥
कुमारीं तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम् ।
स्वसङ्कल्पमहादर्शात्पुरतो निर्गतामिव ॥ ३ ॥
कुमारीं स्वकन्याम् ॥ ३ ॥
कुमार्युवाच ।
दुहितास्मि सखि ज्ञप्तेः स्वागतं तेऽस्तु सुन्दरि ।
प्रतीक्षमाणा त्वामेव स्थितास्मीह नभःपथि ॥ ४ ॥
हे ज्ञप्तेः सखि इति मातुः सम्बोधनम् ॥ ४ ॥
प्। २५७) १६१
लीलोवाच ।
देवि भर्तुः समीपं मां नय नीरजलोचने ।
महतां दर्शनं यस्मान्न कदाचन निष्फलम् ॥ ५ ॥
पूर्वमागमनान्मार्गाभिज्ञतां तस्या निश्चित्य लीलोवाच - देवीति । देवि
देवताशरीरं प्राप्ते । मम भर्तुस्त्वत्पितुः । ननु तवेव कान्तार्थिन्या मम किं
पितृसमीपगमनेन तत्राह - महतामिति । तथाच मत्प्रियार्थं मदुक्तं
सम्पादयेत्यर्थः ॥ ५ ॥
श्रीवसिष्ठ उवाच ।
एहि तत्रैव गच्छाव इत्युक्त्वा सा कुमारिका ।
पुरस्तस्याः स्थिता व्योम्नि मार्गदर्शनतत्परा ॥ ६ ॥
ततस्तदनुयाता सा प्राप कोटरमम्बरम् ।
निर्मलं करमालाग्रं यथा लक्षणलेखिका ॥ ७ ॥
कोटरं ब्रह्माण्डच्छिद्रभूतम् । करमालानां प्राणिहस्तसमूहानामग्रं
तलं यथा भाविशुभाशुभलक्षणभूता विधातृकृता लेखिका रेखा ॥ ७ ॥
मेघमार्गमथोल्लङ्घ्य वातस्कन्धान्तरे गता ।
सूर्यमार्गादभिगता तारामार्गमतीत्य च ॥ ८ ॥
अभिगता निर्गता ॥ ८ ॥
वाय्विन्द्रसुरसिद्धानां लोकानुल्लङ्घ्य लाघवात् ।
ब्रह्मविष्णुमहेशानां प्राप ब्रह्माण्डखर्परम् ॥ ९ ॥
ब्रह्मविष्णुमहेशानां लोकांश्चोल्लङ्घ्येत्यर्थः ॥ ९ ॥
हिमशैत्यं यथान्तस्थं कुम्भेऽभिन्ने बहिर्भवेत् ।
तथा सङ्कल्पसिद्धा सा ब्रह्माण्डान्निर्गता बहिः ॥ १० ॥
हिमस्य जलस्य शैत्यं अभिन्ने अच्छिद्रेऽपि कुम्भे यथा बहिर्भवेन्निःसरेत् ॥ १० ॥
स्वचित्तमात्रदेहैषा स्वसङ्कल्पस्वभावजम् ।
अन्तरेवानुभवति किलैवं नाम विभ्रमम् ॥ ११ ॥
इदं च गमनं चित्तकल्पनामात्रमिति स्मारयति - स्वचित्तेति ॥ ११ ॥
ब्रह्मादिस्थानमाक्रम्य प्राप्य ब्रह्माण्डखर्परम् ।
ततो ब्रह्माण्डपारस्था जलाद्यावरणानि च ॥ १२ ॥
श्लोकार्धमनुवादः ॥ १२ ॥
समुल्लङ्घ्य पुरः प्राप महाचिद्गगनान्तरम् ।
अदृष्टपारपर्यन्तमतिवेगेन धावता ।
सर्वतो गरुडेनापि कल्पकोटिशतैरपि ॥ १३ ॥
चिद्गगनं मायासंवलितचिदाकाशः । अतिवेगेन धावता गरुडेनापि सर्वतः ।
अदृष्टपारपर्यन्तमित्यन्वयः ॥ १३ ॥
तत्र ब्रह्माण्डलक्षाणि सन्त्यसङ्ख्यानि भूरिशः ।
तान्यन्योन्यमदृष्टानि फलानीव महावने ॥ १४ ॥
तत्रैकस्मिन्पुरःसंस्थे विततावरणान्विते ।
वेधयित्वा विवेशान्तर्बदरं कृमिको यथा ॥ १५ ॥
वेधयित्वा छिद्रीकृत्येवेत्यौत्प्रेक्षिकम् । वास्तवच्छिद्रानपेक्षणात् ॥ १५ ॥
पुनर्ब्रह्मेन्द्रविष्ण्वादिलोकानुल्लङ्घ्य भास्वरान् ।
तन्महीमण्डलं श्रीमत्प्राप तारापथादधः ॥ १६ ॥
तारापथान्नभसः अधस्तस्य पद्मस्य महीमण्डलम् ॥ १६ ॥
तत्र तन्मण्डलं प्राप्य तत्पुरं तच्च मण्डपम् ।
प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता ॥ १७ ॥
एतस्मिन्नन्तरे सा च न ददर्श कुमारिकाम् ।
मायामिव परिज्ञातां क्वापि यातां वरानना ॥ १८ ॥
मुखमालोक्य सा तस्य स्वभर्तुः शवरूपिणः ।
इदं बुद्धवती सत्यं प्रतिभावशतः स्वतः ॥ १९ ॥
स्वतः प्रतिभावशतः स्वतर्कतः ॥ १९ ॥
अयं स भर्ता सङ्ग्रामे निहतो मम सिन्धुना ।
वीरलोकानिमान्प्राप्य क्षणं शेते यथासुखम् ॥ २० ॥
अहं देव्याः प्रसादेन सशरीरैवमीदृशम् ।
इह प्राप्तवती धन्या मत्समा नास्ति काचन ॥ २१ ॥
प्राप्तवती भर्तारमिति शेषः ॥ २१ ॥
इति सञ्चिन्त्य सा हस्ते गृहीत्वा चारु चामरम् ।
बीजयामास चन्द्रेण द्यौरिवावनिमण्डलम् ॥ २२ ॥
प्रबुद्धलीलोवाच ।
ते भृत्यास्ताश्च वै दास्यः स राजा च प्रबुद्धवान् ।
वक्ष्यन्ति वदतां देवि किं कयैव कथं धिया ॥ २३ ॥
पूर्वप्रश्नशेषसहितं पुनः पृच्छति - ते भृत्या इति । कया धिया किं
वक्ष्यन्ति तच्च कथमुपपद्यते । राज्ञः पूर्ववृत्तान्तस्य विस्मरणे केयं
कस्येयमिति शङ्कया स्मरणेऽपि शिष्टलोकविगर्हिततया तत्परिग्रहासिद्धेरिति
भावः । तां कथां वद ॥ २३ ॥
श्रीदेव्युवाच ।
स राजा सा च ते भृत्याः सर्व एव परस्परम् ।
चिदाकाशैकतावेशादावयोश्च प्रभावतः ॥ २४ ॥
अपूर्वा काचिदियमिति सर्वेषां प्रतीतौ हि उक्तदोषः स्यात् सैव
तावत्सत्यसङ्कल्पास्मदादिप्रभावान्न भविष्यतीति देवी समाधत्ते - स
राजेत्यादिना । राजादयः सर्व एवान्योन्यमैकमत्येन परस्परमेवं
वक्ष्यमाणप्रकारेण पश्यन्तीत्यन्वयः । ऐकमत्ये हेतवश्चिदाकाशेत्यादयः
। मिथः स्वस्वबुद्धौ सम्प्रतिबिम्बितात् प्रतिबिम्बवदन्तर्निविष्टात्
साक्षिचिदाकाशस्यैकतयैकमत्यानुगुण्येन आवेशात्स्फुरणात् ।
महाचिद्ब्रह्मचैतन्यं तत्प्रतिभासत्वाद्भोजकादृष्टानुगुणतद्विवर्तत्वात्
महानियतिरनेनेत्थमेव
भाव्यमितीश्वरसङ्कल्पस्तत्संश्रयात्तदधीनत्वाच्चेत्यर्थः ॥ २४ ॥
महाचित्प्रतिभासत्वान्महानियतिनिश्चयात् ।
अन्योन्यमेव पश्यन्ति मिथः सम्प्रतिबिम्बितात् ॥ २५ ॥
इयं मे सहजा भार्या ममेयं सहजा सखी ।
ममेयं सहजा राज्ञी भृत्योऽयं सहजो मम ॥ २६ ॥
केवलं त्वमहं सा च यथावृत्तमखण्डितम् ।
ज्ञास्याम इदमाश्चर्यं नतु कश्चिदपीतरः ॥ २७ ॥
सा विदूरथलीला च । इतरः नतु ज्ञास्यतीत्यर्थः ॥ २७ ॥
प्रबुद्धलीलोवाच ।
अमुनैव शरीरेण किमर्थं न गता पतिम् ।
एषा वरेण सम्प्राप्ता लीला ललितवादिनी ॥ २८ ॥
पतिं सम्प्राप्तेति वर्णिता एषा लीला त्वद्वरबलेनामुना स्थूलेन शरीरेण किमर्थ
न गतेत्यन्वयः ॥ २८ ॥
प्। २५८) १६२
श्रीदेव्युवाच ।
अप्रबुद्धधियः सिद्धलोकान्पुण्यवशोदितान् ।
न समर्थाः स्वदेहेन प्राप्तुं छाया इवातपान् ॥ २९ ॥
अप्रबुद्धधियः अस्थूलात्मप्रबोधहीनाः ॥ २९ ॥
आदिसर्गे च नियतिः स्थापितेति प्रबोधिभिः ।
यथा सत्यमलीकेन न मिलत्येव किञ्चन ॥ ३० ॥
प्रबोधिभिः सत्यसङ्कल्पैरीश्वरहिरण्यगर्भादिभिरिति नियतिर्मर्यादा स्थापिता ।
तत्र दृष्टान्तः - यथेति । तथाच भाष्यम् - यत्र हि
यदध्यासस्तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि स न सम्बध्यते इति ॥ ३०
॥
यावद्वेतालसङ्कल्पो बालस्य किल विद्यते ।
निर्वेतालधियस्तावदुदयस्तस्य कः कथम् ॥ ३१ ॥
नन्वस्यास्त्वद्वरादस्थूलात्मनिश्चयः कुतो नाभूत्तत्राह - यावदित्यादिना
॥ ३१ ॥
अविवेकज्वरोष्णत्वं विद्यते यावदात्मनि ।
तावद्विवेकशीतांशुशैत्यं कुत उदेत्यलम् ॥ ३२ ॥
अहं पृथ्व्यादिदेहः खे गतिर्नास्ति ममोत्तमा ।
इति निश्चयवान्योऽन्तः कथं स्यात्सोऽन्यनिश्चयः ॥ ३३ ॥
अतो ज्ञानविवेकेन पुण्येनाथ वरेण च ।
पुण्यदेहेन गच्छन्ति परं लोकमनेन तु ॥ ३४ ॥
अनेन त्वद्देहसदृशेन ॥ ३४ ॥
शुष्कपर्णं किलाङ्गारे एतदेवाशु [पतदेवाशु इति पाठः
क्वचिल्लभ्यते] दह्यते ।
अयं देहमहन्देहः प्राप्त एव विशीर्यते ॥ ३५ ॥
आतिवाहिकदेहप्राप्तौ वा कथं स्थूलाहम्भावनिवृत्तिस्तत्राह - शुष्केति ।
अङ्गारे ज्वलदग्नौ पतद्दह्यते एतदेव निदर्शनमिति । अयं स्थूलो देहः
अहन्देहं अहङ्कारवासनामात्रमयमातिवाहिकदेहं प्राप्त एव सन् विशीर्यते
॥ ३५ ॥
एतावदेव भवति वरशापविजृम्भितैः ।
यथा सञ्चिन्त्य एवाहं तथा स्मृत इति स्मृतिः ॥ ३६ ॥
वरशापावपि प्राक्तनवासनाकर्मानुसारिणावेव तदुद्बोधकतया
प्राणिभिर्लभ्येते इति स्मृतिदृष्टान्तेनाह - एतावदेवेति । यथा
प्रागभ्यस्तेऽपि झटिति संस्कारानुद्बोधात्सञ्चिन्त्ये चिरचिन्तनयोग्ये
अनुवाकाद्यर्थे केनचित्प्रतीकोदाहरणेन स्मारिते सति यथा त्वयाहं
स्मारितस्तथा स स्मृत इति स्मृतिर्भवति तद्वदित्यर्थः ॥ ३६ ॥
यः सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत् ।
आत्मन्येव हि यो नास्ति तस्य का कार्यकारिता ॥ ३७ ॥
नन्वर्थक्रियाकारी स्थूलो देहः कथं तत्त्वबोधेन बाध्यते इत्याशङ्क्य
तत्त्वदृशा अर्थक्रियैव नास्तीत्याह - य इति । आत्मनि स्वस्वरूपे ॥ ३७ ॥
यस्त्वेतन्मृत इत्येव मिथ्या समनुभूयते ।
प्रागभ्यासस्य पुष्टस्य नामैतत्प्रविजृम्भते ॥ ३८ ॥
यद्यसन्नेव देहस्तर्हि कथं मृतोऽयं देह इति सर्वानुभवस्तत्राह -
यस्त्विति । यस्तु भ्रमो मिथ्या मिथ्यार्थः समनुभूयते एतदनुभवनं
पुष्टस्योपचितस्य प्राक्तनाभ्यासस्य संस्कारात् प्रविजृम्भते इत्यर्थः ॥ ३८ ॥
स्वानुभूते जगज्जाले सुगमाः संस्मृतिभ्रमाः ।
नान्यसङ्कल्पितो नाम सर्गाद्यभ्यास ईदृशः ॥ ३९ ॥
अन्येन वरशापादिप्रदेन हिरण्यगर्भेणेश्वरेण वा सम्यक्कल्पितः
अस्मद्वासनादिनिर्पेक्षतयैव रचित इति न ॥ ३९ ॥
अन्तरनुभूयमानाः
संसृतयो बाह्यभूतजालानाम् ।
अविदितवेद्यदृशामपि
दूरे पुंसामिवैन्दवं बिम्बम् ॥ ४० ॥
ननु संसारस्यान्तरवासनामयत्वे कथं बाह्यताप्रत्यय इत्याशङ्क्य
दृष्टान्तेन समाधत्ते - अन्तरिति । अविदिततत्त्वदृशामज्ञानामप्यन्तरेव
संसृतयो न बहिः अध्यस्तं द्वितीयमैन्दवं बिम्बं दूरे भासमानमपि
यथा आन्तरभ्रान्तिकल्प्यत्वादान्तरमेव तद्वदित्यर्थः ॥ ४० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो०
संसृतिविदितवेद्यं नाम त्रिपञ्चाशः सर्गः ॥ ५३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
संसृतिविदितवेद्यं नाम त्रिपञ्चाशः सर्गः ॥ ५३ ॥