द्विपञ्चाशः सर्गः ५२
श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे राम लीलोवाच सरस्वतीम् ।
श्वासावशेषमालोक्य मूढं भर्तारमग्रगम् ॥ १ ॥
राज्ञोऽत्र मरणं तस्य संसारस्य मृषात्मता ।
तथा तत्पुरलीलाया वर्ण्यते वासनात्मता ॥ १ ॥
मूढं मूर्च्छितम् ॥ १ ॥
प्रवृत्तो देहमुत्स्रष्टुं मद्भर्तायमिहाम्बिके ।
ज्ञप्तिरुवाच ।
एवंरूपमहारम्भे सङ्ग्रामे राष्ट्रसम्भ्रमे ॥ २ ॥
सम्पन्नेऽपि स्थितेऽप्युच्चैर्विचित्रारम्भमन्थरे ।
न किञ्चिदपि सम्पन्नं राष्ट्रं न च महीतलम् ॥ ३ ॥
सम्पन्ने उत्पन्ने स्थिते अपिशब्दाद्विनष्टेऽपि क्वचन क्वचिदपि ।
क्वचनेत्यखण्डमव्ययम् । न सम्पन्नं न स्थितं न नष्टं चेत्यर्थः ।
तन्मण्डपस्य प्राग्दृष्टतादृशाल्पतरमण्डपस्यान्तः पद्मशवस्य ॥ ३ ॥
न स्थितं क्वचनाप्येवं स्वप्नात्मकमिदं जगत् ।
तस्य तन्मण्डपस्यान्तः शवस्य निकटाम्बरे ॥ ४ ॥
इदं भूराष्ट्रमाभाति भर्तृजीवस्य तेऽनघे ।
अन्तःपुरगृहान्ते तदिदं राष्ट्रान्वितोदरम् ॥ ५ ॥
तद्विदूरथब्रह्माण्डं पद्मान्तःपुरगृहान्ते स्थितं
राष्ट्रैरन्वितमुदरं यस्य तथाभूतमिदं पाद्मब्रह्माण्डं
वसिष्ठविप्रगेहेन्तःस्थितमित्यन्वयः ॥ ५ ॥
वसिष्ठविप्रगेहेऽन्तर्विन्ध्याद्रिग्रामके स्थितम् ।
वसिष्ठविप्रगेहेन्तः शवगेहजगत्स्थितम् ॥ ६ ॥
उक्तमेव व्यतिहारेण द्रढयति - वसिष्ठेति ॥ ६ ॥
शवगेहजगत्कुक्षाविदं गेहजगत्स्थितम् ।
एवमेष महारम्भो जगत्त्रयमयो भ्रमः ॥ ७ ॥
त्वया मयाऽनयाऽनेन संयुक्तः सार्णवावनिः ।
गिरिग्रामकदेहान्तर्मध्ये गगनकोशके ॥ ८ ॥
अनया द्वितीयलीलया । अनेन त्वद्भर्त्रा ॥ ८ ॥
स्वात्मैव कचति व्यर्थो न कचत्येव वा क्वचित् ।
तत्पदं परमं विद्धि नाशोत्पादविवर्जितम् ॥ ९ ॥
एकैकान्तरपरमुत्पन्नमित्यपि कल्पनैव । वस्तुततश्चैतन्य एव नाकाशे ।
आकाशादिसहितत्रितयाध्यासादित्याशयेनाह - स्वात्मैवेति । विषयमिथ्यात्वे
चिति तत्संवलितरूपमपि नास्त्येवेत्याशयेनाह - न कचत्येवेति । तथाच
निर्विषयचिन्मात्रमेवावशिष्यते तदेव मुख्यं ज्ञेयमित्याह - तदिति ॥ ९ ॥
स्वयं कचितमाभातं शान्तं परमनामयम् ।
किल मण्डपगेहेन्तः स्वस्वभावोदितात्मनि ॥ १० ॥
स्वयं कचितं स्वप्रकाशं तदेव मण्डपगेहान्तः स्वेन
चिन्मात्रस्वभावेनोदिते स्वात्मनि आभातं न वस्त्वन्तरमित्यर्थः । किलेति
विद्वत्प्रसिद्धौ ॥ १० ॥
एवमारम्भघनयोरपि मण्डपयोस्तयोः ।
उदरे शून्यमाकाशमेवास्ति न जगद्भ्रमः ॥ ११ ॥
मण्डपान्तर्गते भूताकाशेऽपि न जगदष्ति किं वाच्यं शुद्धचिदाकाश
इत्याशयेनाह - एवमिति ॥ ११ ॥
भ्रमद्रष्टुरभावे हि कीदृशी भ्रमता भ्रमे ।
नास्त्येव भ्रमसत्तातो यदस्ति तदजं पदम् ॥ १२ ॥
नन्वल्पान्ते बृहतोऽसमावेशात्तत्प्रत्ययो यदि भ्रमस्तर्ह्यतिबृहतो ब्रह्मणो
मण्डपहृदयाद्याकाशेष्वसमावेशात्तत्र
शास्त्राचार्योपदेशात्तत्प्रत्ययोऽपि भ्रमः किं न स्यादित्या
शङ्क्योपजीव्यविरोधान्मैवमित्याह - भ्रमद्रष्टुरिति ॥ १२ ॥
भ्रमो दृश्यमसत्तस्य द्रष्टृदृश्यदशा कुतः ।
द्रष्टृदृश्यक्रमाभावादद्वयं सहजं हि तत् ॥ १३ ॥
ननु तर्हि भ्रम एव भ्रमं पश्यतु नान्यस्तत्राह - भ्रम इति ।
द्रष्टृव्यापारफलाधारो हि दृश्यः । न च स्वात्मनि केनचिद्व्यापारितुं
शक्यते एकत्र कर्तृकर्मताविरोधात् । न च द्रष्टर्यसति दृश्यस्य सत्तास्फूर्ती
सिध्यत इति भावः । अयं द्रष्टृदृश्यक्रमाभावो द्वैतस्यैव दूषणम् ।
अद्वैतस्य तु सहजस्य भूषणमेवेत्याशयेनाह - द्रष्ट्रिति ॥ १३ ॥
तत्पदं परमं विद्धि नाशोत्पादविवर्जितम् ।
स्वयं कचितमाभातं शान्तमाद्यमनामयम् ॥ १४ ॥
किल मण्डपगेहान्तः स्वस्वभावोदितात्मनि ।
विहरन्ति जनास्तत्र स्वगेहे स्वव्यवस्थया ॥ १५ ॥
एवमल्पतरे बृहत्तरासमावेशोऽपि दृश्यस्यैव दूषणं न
सर्वाधिष्ठानचैतन्यस्येत्याशयेनाह - किलेत्यादिना ।
स्वस्वव्यवहारानुकूलदेशवैपुल्यव्यवस्थया विहरन्ति सञ्चरन्ति ।
किलेत्याश्चर्ये ॥ १५ ॥
न जगत्तत्र नो सर्गः कश्चिदप्यनुभूयते [क्वचित् इति पाठः] ।
तेनाहमजमाकाशं जगदित्येव वर्तते ॥ १६ ॥
अनुभूयते तत्त्वज्ञैरित्यर्थः ।
तेनानुभवात्मकप्रत्यक्षप्रमाणेनाहङ्कारसाक्षिभूतं यच्चिदाकाशं
तदेकाज्ञदृशा जगदिति रूपेण वर्तत इति निश्चितमित्यर्थः ॥ १६ ॥
सर्वं शून्यात्मविज्ञानं मेर्वादिगिरिजालकम् ।
नेदं कुड्यमयं किञ्चिद्यथा स्वप्ने महापुरम् ॥ १७ ॥
एवमनुमानेनापि तन्निश्चयं साधयति - सर्वमिति ।
मेर्वादिगिरिजालकोपलक्षितं सर्वमिदं दृश्यं
शून्यात्मस्वरूपज्ञानमात्रमेव न कुड्यमयं न
यथादृष्टस्थूलस्वभावम् । तत्समावेशायोग्ये अल्पप्रदेशे प्रतीतत्वात् ।
देहान्तः स्वप्नदृष्टमहापुरवदित्यर्थः ॥ १७ ॥
देशे प्रादेशमात्रेऽपि गिरिजालमयान्यपि ।
वज्रसाराणि स्वान्येव लक्षाणि जगतो विदुः ॥ १८ ॥
स्वप्ने सर्वानुभवसिद्धां व्याप्तिं दर्शयति - देशे इति । कण्ठे स्वप्नः
समाविशेदिति श्रुतेः कण्ठादिहृदयान्ते प्रादेशमात्रे खानि
तत्प्रदेशावच्छिन्नात्मचैतन्यान्येव । औपाधिकं बहुवचनम् । गिरिजालमयानि
विदुः पश्यन्ति सर्वे स्वप्ने ॥ १८ ॥
प्। २५५) १५२
जगन्ति सुबहून्येव सम्भवन्त्यणुकेऽपि च ।
कदलीपल्लवानीव सन्निवेशेन भूरिशः ॥ १९ ॥
तथा दार्ष्टान्तिकेऽपि सम्भवमुपनयेन दर्शयति - जगन्तीति ॥ १९ ॥
त्रिजगच्चिदणावन्तरस्ति स्वप्नपुरं यथा ।
तस्याप्यन्तश्चिदणवस्तेष्वप्येकैकशो जगत् ॥ २० ॥
निगमनेन प्रसाधितं द्रढयति - त्रिजगदिति ॥ २० ॥
तेषां यस्मिञ्जगत्येष पद्मो राजा शवः स्थितः ।
लीला तव सपत्नीयं प्राप्ता पूर्वतरा शुभे ॥ २१ ॥
पृष्टं समाधाय तत्पुरलीलातत्त्वं वक्तुकामा प्रस्तुतकथामादत्ते -
तेषामित्यादिना । पूर्वराजगमनापेक्षया पूर्वतरा ॥ २१ ॥
यदैव मूर्च्छामायाता लीलेयं पुरतस्तव ।
तदैव भर्तुः पद्मस्य शवस्य निकटे स्थिता ॥ २२ ॥
लीलोवाच ।
कथमेषा पुरा देवि सम्पन्ना तत्र देहिनी ।
कथं च तत्सपत्नीकभावमाप्तवती स्थिता ॥ २३ ॥
सा सपत्नी यस्य भावस्य स्थितेस्तं तत्सपत्नीकं भावम् ॥ २३ ॥
ते चास्या वद किं रूपं पश्यन्त्यथ वदन्ति किम् ।
तद्गेहवरवास्तव्याः समासेनेति मे वद ॥ २४ ॥
तस्य पद्मस्य वरगेहलक्षणे वास्तुनि भवा वास्तव्यास्ते जना अस्याः किं रूपं
पश्यन्ति अथवा किं वदन्ति इत्येतत्सर्वं समासेन सङ्क्षेपेण वद ॥ २४ ॥
श्रीदेव्युवाच ।
शृणु सर्वं समासेन यथापृष्टं वदामि ते ।
लीले लीलास्ववृत्तान्तमन्तदं दृश्यदुर्दशम् ॥ २५ ॥
लीलान्तरभूतायाः स्वस्या एव वृत्तान्तम् । अन्तं निर्णयं ददातीत्यन्तदम् ।
दृश्याः सम्यग् द्रष्टुं शक्या मरणपरलोकगमनादिदुर्दशा येन तम् ॥
२५ ॥
पद्मस्तव स भर्तैष भ्रान्तिं तावत्ततामिमाम् ।
इयं जगन्मयी तस्मिन्नेव सद्मनि पश्यति ॥ २६ ॥
इयमेतन्नगरादिभावेन दृश्यमाना जगन्मयी भ्रान्तिस्तां भ्रान्तिमेष
विदूरथभूतस्तव स पद्मो भर्ता तस्मिन्नेव शवाश्रये सद्मनि
पश्यतीत्यन्वयः ॥ २६ ॥
भ्रान्तियुद्धमिदं युद्धमेषा भ्रान्तिर्जनोऽजनः ।
भ्रान्त्यैवास्तीह मरणमेष चैवं भ्रमात्मकः ॥ २७ ॥
इदं त्वया दृष्टं युद्धं स्वाप्नयुद्धवद्भ्रान्तियुद्धमेव । एषा
त्वत्पृष्टलीलापि भ्रान्तिरेव । एष जनश्चाऽजनो जन्मादिविक्रियारहितात्मैव । एष
संसारः ॥ २७ ॥
भ्रमक्रमेणानेनैव लीलास्य दयिता स्थिता ।
त्वं चैषा च वरारोहे स्वप्नमात्रं वराङ्गने ॥ २८ ॥
यथा भवत्यावेतस्य स्वप्नमात्रं वराङ्गने ।
तथा भवत्योर्भर्तैष तथैवाहमपि स्वयम् ॥ २९ ॥
जगच्छोभैवेदृशीयं दृश्यमेतदिहोच्यते ।
एतदेव परिज्ञातं दृश्यशब्दार्थमुज्झति ॥ ३० ॥
दृश्यशब्दस्यार्थं दृशि कर्मतामुज्झति त्यजति ॥ ३० ॥
एवमेषा त्वमेषा च सम्पन्नैवमसौ नृपः ।
अहं चात्मनि सत्यत्वं गता सर्वतयात्मनः ॥ ३१ ॥
एषा संसारस्थितिः । एवं भ्रान्तिरूपैव । आत्मनः सर्वतया पूर्णतया ॥ ३१ ॥
इमे वयमिहान्योन्यं सपन्नाश्चोदिता इति ।
इत्थं सर्वात्मकतया महाचिद्धनसंस्थितेः ॥ ३२ ॥
इमे नृपादयो वयमन्योन्यमनुग्राह्यानुग्राहकभावेन चोदिताः प्रेरिता
इतीत्थं महाचिद्धनस्य संस्थितेर्मिथ्याकल्पनास्थितेर्यथा सम्पन्ना
एवमेषापि राज्ञी सम्पन्ना स्थितेत्यन्वयः ॥ ३२ ॥
एवमेषा स्थिता राज्ञी हारिहासविलासिनी ।
लीला विलोलवदना नवयौवनशालिनी ॥ ३३ ॥
पेशलाचारमधुरा मधुरोदारभाषिणी ।
कोकिलास्वरसङ्काशा मदमन्मथमन्थरा ॥ ३४ ॥
पेशला दक्षा । आचारेण मधुरा हृद्या । कोकिलायाः स्वरेण सङ्काशा
सदृशस्वरा ॥ ३४ ॥
असितोत्पलपत्राक्षी वृत्तपीनपयोधरा ।
कान्ता काञ्चनगौराङ्गी पक्वबिम्बफलाधरा ॥ ३५ ॥
त्वत्सङ्कल्पात्मकस्यैषा यदा भर्तुर्मनःकला ।
तदा त्वत्सदृशाकारा स्थितैषा चिच्चमत्कृतौ ॥ ३६ ॥
मनःकला मनोवृत्तिस्तद्वासना च जातेति शेषः ॥ ३६ ॥
त्वद्भर्तुर्मरणे क्षिप्रं समनन्तरमेव हि ।
त्वद्भर्त्रैषा पुरो दृष्टा त्वत्सङ्कल्पात्मनामुना ॥ ३७ ॥
यदाधिभौतिकं भावं चेतोऽनुभवति स्वयम् ।
चेत्यं सन्मयमेवात आतिवाहिककल्पनम् ॥ ३८ ॥
यदि वासनामयीयं कथं तर्हि सत्यतया तेनानुभूता तत्राह - यदेति ।
वस्तुत आतिवाहिककल्पनं प्रातिभासिकमेव । चेत्यं दृश्यम् । तत्र चेतश्चित्तं
यदाभ्यासदृढवासनया आधिभौतिकं व्यावहारिकं भावमनुभवति
तदा अतोऽनुभवाच्चेत्यं सन्मयं परमार्थसत्यमित्येव भवतीत्यर्थः ॥ ३८ ॥
यदाधिभौतिकं भावं चेतो वेत्ति न सन्मयम् ।
आतिवाहिकसङ्कल्पस्तदा सत्योपजायते ॥ ३९ ॥
यदा तु विवेकज्ञानाभ्यासेनाधिभौतिकं भावं न सन्मयं अनृतं वेत्ति
तदा सत्या दृढया तद्वासनया प्रपञ्चे आतिवाहिकसङ्कल्पः
प्रातिभासिकनिर्णय उपजायते ॥ ३९ ॥
अथो मरणसंवित्त्या पुनर्जन्ममये भ्रमे ।
त्वं हि संविदितानेन त्वया च गत एव सः ॥ ४० ॥
वासनामयलीलान्तररूपया त्वया गतः सङ्गत एव ॥ ४० ॥
इत्थं त्वां दृष्टवानेष दृष्टश्चैष त्वयेति च ।
त्वमप्यात्मनि सम्पन्ना सर्वगत्वाच्चिदात्मनः ॥ ४१ ॥
त्वयाप्यसौ स्ववासनामय एव दृष्ट इति प्राग्दर्शितब्रह्माण्डत्रयतया
परिणता । सर्वगत्वात्सर्ववासनानुगतत्वात्सर्वाकारविवर्तोपपत्तेरित्यर्थः ॥ ४१ ॥
ब्रह्म सर्वगतं यस्माद्यथा यत्र यदोदितम् ।
भवत्याशु तथा तत्र स्वप्नशक्त्यैव पश्यति ॥ ४२ ॥
तदेव स्पष्टमाह - ब्रह्मेति । स्वप्नशक्त्या विक्षेपशक्त्या । स्वस्वशक्त्या
इति पाठे तत्तद्वासनाशक्त्या ॥ ४२ ॥
प्। २५६) १५३
सर्वत्र सर्वशक्तित्वाद्यत्र या शक्तिरुन्नयेत् ।
आस्ते तत्र तथा भाति तीव्रसंवेगहेतुतः ॥ ४३ ॥
यथा यथा यद्यद्रूपेण उन्नयेद्भोजकादृष्टबलादाविर्भावयेत् ।
तीव्रसंवेगो दृढाभिनिवेशवासना तस्माद्धेतोः ॥ ४३ ॥
मृतिमोहक्षणेनैव यदैतौ दम्पती स्थितौ ।
तदैवाभ्यामिदं बुद्धं प्रतिभासवशाद्धृदि ॥ ४४ ॥
मृतिमोहः स्वस्वमरणानुकूलमूर्च्छा तत्क्षणेनोपलक्षितौ यदा स्थितौ
तदैवाभ्यामिदं वक्ष्यमाणं सर्वं बुद्धं स्वकल्पनयाऽनुभूतम् ।
प्रतिभासो वासनोद्बोधस्तद्वशात् ॥ ४४ ॥
आवयोः पितरावेताविमे वै चापि मातरौ ।
देश एष धनं चेदं कर्मेदं पूर्वमीदृशम् ॥ ४५ ॥
पूर्व ईदृशं कर्म कृतमिति शेषः ॥ ४५ ॥
आवां विवाहितावेवमेवं नामैकतां गतौ ।
एतयोः सापि जनता याता तत्रैव सत्यताम् ॥ ४६ ॥
सा कल्पनात्मिकापि जनता भोजकादृष्टबलात्सत्यतामर्थक्रियासमर्थतां
याता ॥ ४६ ॥
तथैवात्रास्ति दृष्टान्तः प्रत्यक्षं स्वप्नवेदनम् ।
इत्येवम्भावया लीले लीलयाहमथार्चिता ॥ ४७ ॥
यत्पृष्टं पूर्वं तत्र कथं प्राप्तेति तस्योत्तरमाह - इत्येवमिति । इति एवं
वक्ष्यमाणप्रकारो भावोऽभिसन्धिर्यस्याः सा तया ॥ ४७ ॥
नाहं स्यां विधवेत्येवं वरो दत्तो मयाप्यसौ ।
इत्यर्थेन मृता पूर्वमेवेह खलु बालिका ॥ ४८ ॥
इत्यर्थेनैतस्माद्धेतोः पूर्वमेव मृता ॥ ४८ ॥
भवतां चेतनांशानामहं चेतनधर्मिणी ।
कुलदेवी सदा पूज्या स्वत एव करोम्यहम् ॥ ४९ ॥
अस्या मम च त्वदाराधने त्वत्प्रसादे च को हेतुस्तत्राह - भवतामिति ।
चेतनांशानां व्यष्टिचेतनानां चेतनधर्मिणी हैरण्यगर्भचेतना
त्वत्समष्टिचेतनात्मिका ॥ ४९ ॥
अथास्या जीवको देहात्प्राणमारुतरूपधृक् ।
मनसा चलतां प्राप्तो मुखाग्रत्यक्तदेहकः ॥ ५० ॥
पुरा कथं प्राप्तेत्यस्य प्रश्नांशस्योत्तरमुक्त्वा देहिनी कथं सम्पन्नेति
तदंशस्योत्तरमाह - अथेत्यादिना । अथ देहादुच्चिक्रमिषुरस्या
अङ्गुष्ठपरिमितलिङ्गदेहमात्रत्वादल्पो जीवो जीवकः प्राणस्तेजसा युक्तः
सहात्मना यथासङ्कल्पितं लोकं नयतीति श्रुतेरुत्क्रमणस्य प्राणाधीनत्वात्
प्राणं तर्हि वागप्येति इत्यादिश्रुत्या सर्वकरणानां प्राणेऽप्ययाच्च
प्राणमारुतरूपधृग् बभूवेत्यर्थः । यथासङ्कल्पितं लोकं नयति इति
श्रुतेः यं यं वापि स्मरन्भावम् इत्यादिस्मृतेश्च
भाव्यर्थसङ्कल्पप्रधानेन मनसा चलतां तत्तदर्थप्राप्त्युत्सुकतां तस्य
हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा
मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्य इति श्रुत्युक्तक्रमेण नाडीमार्गेण
त्यक्तदेहकः अभूदिति शेषः ॥ ५० ॥
ततो मरणमूर्च्छान्ते गृहेऽस्मिन्नेव चैतया ।
बुद्धौ भावित आकाशे दृष्टो जीवात्मना ततः ॥ ५१ ॥
ततस्तदनन्तरं जीवात्मना अनया अस्मिन्नेव गृहे ब्रह्माकाशे भूताकाशे वा
बुद्धौ भावितः सङ्कल्पितो वक्ष्यमाणशरीरगमनकुमारीप्राप्त्यादिरूपोऽर्थो
दृष्टः ॥ ५१ ॥
सम्पन्नैषा हरिणनयना चन्द्रबिम्बाननश्री-
र्मानोन्नद्धा दयितललिता कान्तमाभोक्तुकामा ।
पूर्वस्मृत्या सरभसमुखी संयुता मण्डलान्तः
स्वप्नान्ते वाऽप्रकृतिविभवा पद्मिनी चोदितेव ॥ ५२ ॥
ततो भावनावशात्पूर्वदेहस्मृत्या स्वप्नान्ते स्वप्नमध्ये इव । इवार्थेऽत्र
वशब्दो वाशब्दो वा बोध्यः । रविकरैश्चोदिता पद्मिनीवविकासितवासनामुकुला
एषा लीला दयितस्य स्वयं ललिता उपभोगयोग्या स्वयं च कान्तं मनोहरं
भर्तारमाभोक्तुमनुभवितुं कामो यस्यास्तथाविधा । तुं काममनसोरपि इति
तुमुनो मलोपः । सरभसं लावण्यकान्तवेगसहितं मुखं यस्यास्तथाविधा
सती पद्मब्रह्माण्डमण्डलान्तर्गत्वा भर्त्रा संयुता सम्पन्नेत्यर्थह् ॥ ५२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये लीलोपाख्याने०
मरणसमनन्तरदेहप्रतिभाववर्णनं नाम द्विपञ्चाशः सर्गः ॥
५२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
मरणसमनन्तरदेहप्रतिभावर्णनं नाम द्विपञ्चाशः सर्गः ॥ ५२ ॥