एकपञ्चाशः सर्गः ५१
श्रीवसिष्ठ उवाच ।
हतो राजा हतो राजा प्रतिराजेन संयुगे ।
इतिशब्दे समुद्भूते राष्ट्रमासीद्भयाकुलम् ॥ १ ॥
अथ राजवधोदन्ताद्वर्ण्यते राष्ट्रविड्वरः ।
सिन्धौ प्रतिष्ठिते भूयो देशस्वास्थ्यं च विस्तरात् ॥ १ ॥
राजा विदूरथः । प्रतिराजेन सिन्धुना । संयुगे युद्धे ॥ १ ॥
भाण्डोपस्करभाराढ्यं विद्रवच्छकटव्रजम् ।
साक्रन्द्रार्तकलत्राढ्यं द्रवन्नागरदुर्गमम् ॥ २ ॥
पलायमानसाक्रन्दं मार्गाहृतवधूगणम् ।
अन्योन्यलुण्ठनव्यग्रलोकलग्नमहाभयम् ॥ ३ ॥
परराष्ट्रजनानीकताण्डवोल्लाससारवम् ।
निरधिष्ठितमातङ्गहयवीरपतज्जनम् ॥ ४ ॥
शत्रुराष्ट्रजनान्तराणां सिन्ध्वनीकस्य च जयताण्डवोल्लासेन सारवं
सशब्दम् ॥ ४ ॥
प्। २५३) १५१
कपाटपाटनोड्डीनकोशान्तरवघर्घरम् ।
लुण्ठितासङ्ख्यकौशेयप्रावृताभिभटोद्भटम् ॥ ५ ॥
कपाटानां पाटनेन उड्डीन इव बहिराकाशे निर्गतो यः कोशगृहस्यान्ते
विनाशे रवस्तेन घर्घरम् । कौशेयप्रावृता अभिभूतकोशपालभटा
उद्भटा यत्र ॥ ५ ॥
क्षुरिकोत्पाटितार्द्रान्त्रमृतराजगृहाङ्गनम् ।
राजान्तःपुरविश्रान्तचण्डालश्वपचोत्करम् ॥ ६ ॥
चोरैः क्षुरिकाभिः शस्त्रीभिरुत्पाटितैरार्द्रैरान्त्रैरुपलक्षिता मृता
राजगृहाङ्गना यत्र ॥ ६ ॥
गृहापहृतभोज्यान्नभोजनोन्मुखपामरम् ।
सहेमहारवीरौघपादाहतरुदच्छिशु ॥ ७ ॥
भोज्यानां राजभोजनयोग्यानामन्नानां भोजने उन्मुखाः पामराः
पृथग्जना यत्र ॥ ७ ॥
अपूर्वतरुणाक्रान्तकेशान्तःपुरिकाङ्गनम् ।
चोरहस्तच्युतानर्घ्यरत्नदन्तुरमार्गगम् ॥ ८ ॥
रत्नैर्दन्तुरा उन्नतदन्ता इव धवलिता मार्गगा यत्र ॥ ८ ॥
हयेभरथसङ्घट्टव्यग्रसामन्तमण्डलम् ।
अभिषेकोद्यमादेशपरमन्त्रिपुरःसरम् [द्यमादेशं परं इत्यपि
आदर्शान्तरे पाठो लभ्यते तथाप्येतत्पाठस्य
सुसङ्गतत्वाट्टीकाकारसम्मतत्वाच्चैष एवास्माभिरादृतः] ॥ ९ ॥
सङ्घट्टनं सङ्घट्टः अपहृत्य मेलनं तत्र व्यग्रं सामन्तमण्डलं
यत्र । सिन्धुसुतपट्टाभिषेकोद्यमस्य आदेशे आज्ञापने परास्तत्पराः । ९ ॥
राजधानीविनिर्माणसारम्भस्थपतीश्वरम् ।
कृतवातायनश्वभ्रनिपतद्राजवल्लभम् ॥ १० ॥
स्थपतीश्वराः कारुश्रेष्ठाः । कारुकृतेषु वातायनश्वभ्रेषु
अपूर्वनगरसौन्दर्यदर्शनाय निपतन्त्यः प्रविशन्त्यः सिन्धुराजवल्लभा
यत्र ॥ १० ॥
जयशब्दशतोद्घोषसिन्धुराजन्यनिर्भरम् ।
असङ्ख्यनिजराजौघधृतसिन्धुकृतास्थिति ॥ ११ ॥
जयशब्दशतोद्घोषैः प्रवेशितस्य सिन्धुराजन्यस्य सिन्धुराजपुत्रस्य
अभिषिक्तस्य निर्भरः प्रभावातिशयो यत्र । निजैः स्वपक्षीयै राजौघैः शिरसा
धृता सिन्धुना कृता स्थिती राष्ट्रमर्यादा यत्र ॥ ११ ॥
ग्रामान्तरसमाक्रान्तविद्रवद्राजवल्लभम् ।
मण्डलान्तरसञ्जातनगरग्रामलुण्ठनम् ॥ १२ ॥
ग्रामान्तरप्रच्छन्नाः परैः परिज्ञातास्ततोऽपि विद्रवन्तः
पूर्वराजवल्लभजना यत्र ॥ १२ ॥
अनन्तचोरमोषार्थरुद्धमार्गगमागमम् ।
महानुभाववैधुर्यसनीहारदिनातपम् ॥ १३ ॥
अनन्तैश्चोरैर्मोषार्थं रुद्धा मार्गेषु गमागमा जनसञ्चारा यत्र ।
महानुभावो विदूरथस्तद्वैधुर्येण सनीहारा दिनेषु आतपा यत्र ॥ १३ ॥
मृतबन्धुजनाक्रन्दैर्मृततूर्यरवैरपि ।
हयेभरथशब्दैश्च पिण्डग्राह्यघनध्वनि ॥ १४ ॥
पिण्डवत्करे ग्रहीतुं शक्या इत्यौत्प्रेक्षिकम् । घना ध्वनयो यत्र ॥ १४ ॥
सिन्धुदेवो जयत्येकच्छत्रभूमण्डलाधिअपः ।
इत्यनन्तरमारेभे भेर्यः प्रतिपुरं तदा ॥ १५ ॥
इति उद्घोषयन् भेर्यः भेरीः । छान्दसः सुव्व्यत्ययः । वादयितुमारेभे जन इति
शेषः ॥ १५ ॥
राजधानीं विवेशाथ सिन्धुरुद्धुरकन्धरः ।
प्रजाः स्रष्टुं युगस्यान्ते मनुर्जगदिवापरः ॥ १६ ॥
अथ पुत्रस्य राज्याभिषेकानन्तरम् । सिन्धुः स्वराजधानीं विवेश ॥ १६ ॥
प्रवृत्ता दशदिग्भ्योऽथ प्रवेष्टुं सैन्धवं पुरम् ।
कराः करिहयाकारै रत्नपूरा इवाम्बुधिम् ॥ १७ ॥
निबन्धनानि चिह्नानि शासनानि दिशं प्रति ।
क्षणान्निवेशयामासुर्मण्डलं प्रति मन्त्रिणः ॥ १८ ॥
निबन्धनानि मर्यादाः । चिह्नानि मुद्रादिषु सिन्धु नामाङ्कनानि ॥ १८ ॥
उदभूदचिरेणैव देशे देशे पुरे पुरे ।
जीविते मरणे माने नियमोऽयमतो यथा ॥ १९ ॥
अथ शेमुर्निमेषेण देशोपप्लवविभ्रमाः ।
प्रशान्तोत्पातपवनाः पदार्थावृत्तयो यथा ॥ २० ॥
पवने शान्ते पवनकृतास्तृणपर्णधूल्यादिपदार्थानामावृत्तयो
भ्रमणानि यथा शाम्यन्ति तद्वत् ॥ २० ॥
सौम्यतामाजगामाशु देशो दशदिगन्वितः ।
क्षीरोदः क्षुभितावर्तो द्रागिवोद्धृतमन्दरः ॥ २१ ॥
ववुरलकचयान्विलोलयन्तो
मुखकमलालिकुलानि सैन्धवीनाम् ।
जललववलनाकुलाः समीरा
अशिवगुणानिव सर्वतः क्षणेन ॥ २२ ॥
समीरा वायवः सैन्धवीनां मुखकमले अलिकुलानि
भ्रमरपङ्क्तिभूतानलकचयान्विलोलयन्तः । तन्मधुप्रायाणां
तत्स्वेदजललवानां वलनेन मत्ता इव मन्दगतित्वादाकुलाः
सन्तस्तच्छैत्यसौरभ्यादिमङ्गलगुणैः सर्वदेशतः
सन्तापदौर्गन्ध्याद्यशिवगुणान्विलोलयन्तो डलयोरभेदाद्विलोडयन्त
उपघन्त इव ववुः ॥ २२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
सिन्दुराष्ट्रवर्णनं नामैकपञ्चाशः सर्गः ॥ ५१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सिन्धुराष्ट्रवर्णनं नामैकपञ्चासः सर्गः ॥ ५१ ॥
प्। २५४) १५२