०५०

पञ्चाशः सर्गः ५०

श्रीवसिष्ठ उवाच ।

तस्मिंस्तदा वर्तमाने घोरे समरविभ्रमे ।
सर्वारिसैन्यनाशार्थमेकं स्वबलशान्तये ॥ १ ॥

अत्रास्त्रयोर्वैष्णवयोर्युद्धं विरथता द्वयोः ।
मृतिर्विदूरथस्यापि गृहानीतस्य वर्ण्यते ॥ १ ॥

एकमसाधारणम् । स्वबलस्य स्वसैन्यस्य शान्तये रक्षःपिशाचपीडाशान्तये ॥
१ ॥

सस्मार स्मृतिमानन्तो महोदाराधिधैर्यभृत् ।
अस्त्रमस्त्रेश्वरं श्रीमद्वैष्णवं शङ्करोपमम् ॥ २ ॥

अन्तः कालोचितप्रतिभावतामवधिभूतः सिन्धुः महोदारः
सन्नधिकधैर्यमृदधिकधैर्यवान् । शङ्करोपमं
कालरुद्रवत्संहारकम् ॥ २ ॥

अथ योऽसौ शरस्तेन वैष्णवास्त्राभिमन्त्रितः ।
मुक्तस्तस्य फलप्रान्तादुल्मुका दिवि निर्ययौ ॥ ३ ॥

फलप्रान्तात् शल्यप्रदेशात् ॥ ३ ॥

पङ्क्तयः स्फारचक्राणां शतार्कीकृतदिक्तटाः ।
गदानामभियान्तीनां शतवंशीकृताम्बराः ॥ ४ ॥

उल्मुकादीत्युक्तमादिशब्दार्थं प्रपञ्चयति - पङ्क्तय इत्यादिना । त्रिषु
श्लोकेषु पङ्कय एव विशेष्याः । वंशपदेन गदाकाराणि वंशकरीराणि
गृह्यन्ते ॥ ४ ॥

वज्राणां शतधाराणां तृणराजीकृताम्बराः
[तरच्छृङ्गीकृताम्बरा इति पाठः] ।
पट्टिशानां सपद्मानां दीनवृक्षीकृताम्बराः ॥ ५ ॥

सपद्मानां पद्मदलमुकुलाकारानेकशाखाशालिनां पट्टिशानां
पङ्क्तयः । दीना लूना ये वृक्षास्तद्व्याप्तप्रायं कृतमम्बरं
याभिरित्यर्थः । ल्वादिभ्यः इति निष्ठानत्वम् ॥ ५ ॥

शराणां शितधाराणां पुष्पजालीकृताम्बराः
[तृणजालीकृताम्बरा इति पाठः] ।
खड्गानां श्यामलाङ्गानां पत्रराशीकृताम्बराः ॥ ६ ॥

अथ राजा द्वितीयोऽपि वैष्णवास्त्रस्य शान्तये ।
ददौ वैष्णवमेवास्त्रं शत्रुनिष्ठावपूरकम् ॥ ७ ॥

द्वितीयो राजा विदूरथः शत्रोर्निष्ठा पराक्रमस्थितिस्तस्या अवपूरकं
पूर्तिकरम् । तदनुरूपमिति यावत् ॥ ७ ॥

ततोऽपि निर्ययुर्नद्यो हेतीनां हतहेतयः ।
शरशक्तिगदाप्रासपट्टिशादिपयोमयाः ॥ ८ ॥

हताश्छिन्नाः पूर्वास्त्रप्रयुक्तहेतयो याभिस्ताः ॥ ८ ॥

शस्त्रास्त्रसरितां तासां व्योम्नि युद्धमवर्तत ।
रोदोरन्ध्रक्षयकरं कुलशैलेन्द्रदारणम् ॥ ९ ॥

शरपातितशूलासिखड्गकुट्टितपट्टिशम् [शरापतित इति
टीकाकारसम्मतः पाठः] ।
मुसलप्रतनाप्रासशूलशातितशक्तिकम् ॥ १० ॥

शस्त्रास्त्रसरितां युद्धमेव विस्तराद्वर्णयति - शरेत्यादिना । शरेभ्य
आपतितैर्निर्गतैः शूलादिभिः कुट्टितानि चूर्णितानि पट्टिशानि यत्र ।
असिखड्गयोरवान्तरजातिभेदविवक्षया पृथग्ग्रहणम् । मुसलानां
प्रतननं प्रतना विस्तारः । भिदादित्वादङ् । तया प्रासादिभिश्च शातिताः
खण्डिताः शक्तयो यत्र ॥ १० ॥

शराम्बुराशिमथनमत्तमुद्गरमन्दरम् ।
गदावदनतो युक्तं दुर्वारास्त्रिनिभासिनि ॥ ११ ॥

शरलक्षणस्याम्बुराशेर्मथने मत्तः प्रहृष्टाः । समर्था इति यावत् ।
मुद्गरा एव मन्दरपर्वता यत्र । गदानां वदनतः । सार्वविभक्तिकस्तसिः ।
मुखसदृशैरग्रभागैर्युक्तं सङ्घट्टितम् । दुर्वाराः अस्त्रं येषामस्ति
तेऽस्त्रिणः प्रतियोद्धारस्तन्निभास्तत्समानप्रमाणप्रभावा असिन्यः
खड्गजातिभेदा यत्र । गोस्त्रियोरुपसर्जनस्य इति ङीपो ह्रस्वः ॥ ११ ॥

रिष्टारिष्टप्रशमनभ्रमत्कुन्तेन्दुमण्डलम् ।
प्रासप्रसरसंरब्धप्रोद्यतान्तकृतान्तकम् ॥ १२ ॥

रिष्टम् । रिष हिंसायां भावे क्तः । स्वस्वसैन्यहिंसनं
तल्लक्षणस्यारिष्टस्याशुभतमसः प्रशमनाय भ्रमन्ति
कुन्तलक्षणानिन्दुमण्डलानि यत्र । प्रासानां प्रसरैः संरब्धः कुपितः अत
एव प्रोद्यतान्तह् प्रारब्धजनविनाश एव कृतान्तो यमो यत्र ॥ १२ ॥

प्। २५१) १५०

चक्रावकुण्ठितोर्ध्वास्त्रं सर्वायुधक्षयङ्करम् ।
शब्दस्फुटद्विरिञ्चाण्डं घातभग्नकुलाचलम् ॥ १३ ॥

धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः ।
मदस्त्रवारणेनेव वज्राविजरपर्वतम् ॥ १४ ॥

मत्कृतेन विश्वामित्रास्त्रनिवारणेनेव
परस्परप्रतिबद्धकार्ययोर्युध्यमानयोर्नारायणास्त्रयोः
सम्बन्धिभिर्वज्रैः अविजरा जरयितुमशक्याः पर्वता यत्र ।
असमर्थसमासश्छान्दसः ॥ १४ ॥

शङ्कुशङ्कितसूत्कारकाशिशूलशिलाशतम् ।
भुशुण्डीनिर्जितोद्दण्डभिन्दिपालोग्रमण्डलम् ॥ १५ ॥

शङ्कवः कीलानीव कार्याच्छङ्कितानि सम्भावितानि
सूत्कारशब्दमात्रकाशीनि शूलानि शिलाशतानि च यत्र ॥ १५ ॥

परशूलकराभैकपरशूलैकलम्पितम् ।
वहदुच्छिन्नचञ्चूरचारणं शत्रुवारणम् ॥ १६ ॥

पर उत्कृष्टः सर्वसंहारसमर्थः शूलकरो रुद्रस्तदाभं
एकैकमायुधं परं श्रेष्ठं यद्रुद्रशूलं तत्सदृशेनैकैकेन
लम्पितं कुण्ठितं यत्र । वहतां निःसरतामेवोच्छिन्नानां
खण्डितानामायुधानां चञूराणि कुटिलविषमगतिफलानि च चारणानि
प्रवर्तनानि यत्र । चरतेः नित्यं कौटिल्ये गतौ इति यङि पचाद्यचि यङोऽचि च इति
लुकि उत्परस्यातः इत्युत्वे छान्दसो दीर्घः ॥ १६ ॥

स्फुटच्चटचटास्फोटरुद्धत्त्रिपथगारयम् [रुद्धत्रिपथगा इति
पाठः] ।
हेत्यस्त्रीचूर्णसम्भारमहाधूमवितानकम् ॥ १७ ॥

हेतीनामस्त्राणां च समाहारो हेत्यस्त्री । स्त्रीत्वं छान्दसम् ॥ १७ ॥

अन्योन्यशस्त्रसङ्घट्टाद्भ्रमज्जालोल्लसत्तडित् ।
शब्दस्फुटद्विरिञ्चाण्डं धातमग्नकुलाचलम् ॥ १८ ॥

भ्रमत् जालमानाय इवोल्लसन्त्यस्तडितो यत्र ॥ १८ ॥

धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः ।
मदस्त्रवारणेनैव कालोपायोऽचलात्मनः ॥ १९ ॥

पुनरुक्तं श्लोकार्धद्वयं व्याख्यातम् । अचलात्मनः युद्धे
अचलवज्जडीभूतस्य विदूरथस्य मदीयास्त्रनिवारणमात्रेणावस्थितिरियं
कालस्य कालक्षेपमात्रस्य उपायः ॥ १९ ॥

अयं कियद्बल इति सिन्धौ तिष्ठति हेलया ।
विदूरथोऽस्त्रमाग्नेयं तत्याजाशनिशब्दवत् ॥ २० ॥

अयं तु मदग्रे कियद्बल इति हेलया अवज्ञाबुद्ध्या सिन्धौ तिष्ठति सति ॥ २० ॥

ज्वालयामास स रथं सिन्धोः कक्षमिवारसम् ।
एतस्मिन्नन्तरे व्योम्नि हेतिनिर्विवरोदरे ॥ २१ ॥

कक्षं तृणगुच्छम् । अरसं शुष्कम् ॥ २१ ॥

ससन्नाह इव प्रावृट्पयोदतटिनीव यः ।
अस्त्रे राज्ञोः क्षणं कृत्वा युद्धं परमदारुणम् ॥ २२ ॥

यो राजा स सन्नाहः प्रावृडिव यश्चान्यो राजा पयोदवर्धिता तटिनी नदीव
शरान्वर्षति वहति च । तयो राज्ञोः अस्त्रे प्राक् प्रयुक्ते द्वे नारायणास्त्रे ॥ २२ ॥

अन्योन्यं शममायाते सवीर्ये सुभटाविव ।
एतस्मिन्नन्तरे सोऽग्नी रथं कृत्वा तु भस्मसात् ॥ २३ ॥

स आग्नेयास्त्रसम्बन्धी अग्निः ॥ २३ ॥

प्राप दग्ध्वा वनं सिन्धुं मृगेन्द्रमिव कन्दरात् ।
सिन्धुरभ्यासतोऽग्न्यस्त्रं वारुणास्त्रेण शामयन् ॥ २४ ॥

वनं दग्ध्वा । वनकन्दरान्निर्गतं मृगेन्द्रमिव ॥ २४ ॥

रथं त्यक्त्वावनिं प्राप्य खड्गास्फोटकवानभूत् ।
अक्ष्णोर्निमेषमात्रेण रथाश्वानां रिपोः खुरान् ॥ २५ ॥

आस्फोटकं चर्म तद्वान् अभूत् ॥ २५ ॥

लुलाव करवालेन मृणालानीव लाघवात् ।
विदूरथोऽपि विरथो बभूवास्फोटकासिमान् ॥ २६ ॥

समायुधौ समोत्साहौ चेरतुर्मण्डलानि तौ ।
खड्गौ क्रकचतां यातौ मिथः प्रहरतोस्तयोः ॥ २७ ॥

क्रकचतां क्रकचवत्कठिनतरचर्मादिविदारणसमर्थतां यातौ प्राप्तौ ॥ २७

दन्तमालेयमस्येव बले चर्वयतः प्रजाः ।
शक्तिमादाय चिक्षेप खड्गं त्यक्त्वा विदूरथः ॥ २८ ॥

बले सैन्यद्बये ॥ २८ ॥

सिन्ध्वम्बुघर्गरारावो महोत्पात इवाशनिः ।
अविच्छिन्ना समायाता पतिता सास्य वक्षसि ॥ २९ ॥

सिन्धोः समुद्रस्याम्बु जलमिव घर्घरारावः महाप्रलयादिसूचक उत्पातः
सा शक्तिरस्य सिन्धोर्वक्षसि ॥ २९ ॥

अप्रियस्य यथा भर्तुरनिच्छन्ती स्वकामिनी ।
तेन शक्तिप्रहारेण नासौ मरणमाप्तवान् ॥ ३० ॥

केवलं रुधिरव्रातं नागो जलमिवात्यजत् ।
तद्देशलीला तं दृष्ट्वा भग्नं तम इवेन्दुना ॥ ३१ ॥

नागो गजो जलं मदजलमिवात्यजत् अस्रवत् ॥ ३१ ॥

सविकासघनानन्दा पूर्वलीलामुवाच ह ।
देवि पश्य नृसिंहेन हतो भर्त्रायमावयोः ॥ ३२ ॥

आवयोर्भर्त्रा नृसिंहेन सिन्धुर्दैत्यो हिरण्यकशिपुर्हत इति व्यस्तरूपकम् ॥ ३२

शक्तिकोटिनखैर्दैत्यः सिन्धुरुद्धुरकन्धरः ।
सरःस्थलस्थनागेन्द्रकरफूत्कृतवारिवत् ॥ ३३ ॥

पिष्टो रसोऽस्य निर्याति रक्तं चुलचुलारवैः ।
हा कष्टं रथमानीतं सिन्धुरारोढुमुद्यतः ॥ ३४ ॥

पिष्टात्सञ्चूर्णितात् उरसः सकाशात् । रक्तं सरःस्थलस्थस्य सरोमध्यस्थस्य
गजेन्द्रस्य करात् पूत्कृतं वारीव निर्यातीति पूर्वेणान्वयः ॥ ३४ ॥

सौवर्णं मैरवं शृङ्गं पुष्करावर्तको यथा ।
पश्य देवि रथोऽस्यासौ मुद्गरेण विचूर्णितः ॥ ३५ ॥

मैरवं मेरोः सम्बन्धि शृङ्गम् । पुष्करावर्तको मेघराजः । अस्य सिन्धो
रथः ॥ ३५ ॥

भ्रन्त्पार्थनिपातेन सौवर्णं नगरं यथा ।
प्रवृत्तो रथमारोढुमानीतं पतिरेष मे ॥ ३६ ॥

पार्थस्यार्जुनस्य शरनिपातेन भ्रमन्निपातकवचानां सौवर्णं नगरं
यथा तथा भ्रमन्तमर्थात्तं रथं पश्येत्यर्थः । तद्ब्रह्माण्डेऽपि
पार्थादिजन्मसम्भवान्नाप्रसिद्धोपमा ॥ ३६ ॥

प्। २५२) १५१

कष्टं वज्रमिवेन्द्रेण मुसलं सिन्धुनेक्षितम् ।
जवात्पतिः प्रयातो मे सैन्धवं मुसलायुधम् ॥ ३७ ॥

ईक्षितं प्रहरणार्थमिति शेषः । सैन्धवं वञ्चयित्वा ॥ ३७ ॥

वञ्चयित्वा विलासेन रथमारुह्य लाघवात् ।
हा धिक्कष्टमसौ सिन्धुरार्यपुत्ररथं रयात् ॥ ३८ ॥

हरिश्वभ्रमिवारूढं प्लवेनोर्ध्वमिव द्रुमम् ।
क्रीडित्वा पीडयामास शरवर्षिर्विदूरथम् ॥ ३९ ॥

ध्वजलाञ्छितत्वात् प्लवेन पक्षिविशेषेण उपलक्षितम् । शैवलादिना हरि
हरितवर्णं श्वभ्रं पल्वलमिव । तथाविध्मूर्ध्वमुच्छ्रितं द्रुममिव वा
स्थितं रथमारूढमार्यपुत्रं स्वभर्तारं विदूरथं पीडयामासेति
सम्बन्धः ॥ ३९ ॥

छिन्नध्वजं छिन्नरथं छिन्नाश्वं छिन्नसारथिम् ।
छिन्नकार्मुकवर्माणं भिन्नसर्वाङ्गमाकुलम् ॥ ४० ॥

हृदि स्फोटशिलापट्टदृढे पीवरमूर्धनि ।
भित्त्वा वज्रसमैर्बाणैः पातयत्येष भूतले ॥ ४१ ॥

स्फोटे स्फोटनविषये शिलापट्टवद्दृढे । अशक्यस्फोटने इति यावत् । पीवरे
स्थूले मूर्धनि च भित्त्वा ॥ ४१ ॥

अथान्यं रथमानीतं कृच्छ्रेण प्राप्य चेतनाम् ।
खड्गेनारोहतोऽस्यांसं छिन्नं भर्तुर्विलोकय ॥ ४२ ॥

रथं कृच्छ्रेणारोहतोऽस्य मे भर्तुः सिन्धुना छिन्नमंसं स्कन्धदेशं
विलोकय ॥ ४२ ॥

पद्मरागगिरिद्योतमिवर्द्धासृग्विमुञ्चति ।
हा हा धिक्कष्टमेतेन सिन्धुना खड्गधारया ॥ ४३ ॥

अत एव भर्तारं भिन्नस्य पद्मरागगिरेर्निःसृतं
द्योतमारक्तप्रभामिवर्द्धं समृद्धमसृग्रक्तं विमुञ्चति ।
पश्येत्यत्राप्यनुकृष्यते ॥ ४३ ॥

जङ्घयोर्मे पतिश्छिन्नः क्रकचेनेव पादपः ।
हा हा हतास्मि दग्धास्मि मृतास्म्युपहतास्मि च ॥ ४४ ॥

हता हननव्यापारविषयीकृता मृता तत्फलमरणभागिनीति भेदः ॥ ४४ ॥

मृणाले इव पत्युर्मे लूने द्वे अपि जानुनी ।
इत्युक्त्वा सा तदालोक्य भर्तुर्भावभयातुरा ॥ ४५ ॥

भर्तुर्विषये भावः स्नेहातिशयस्तेन भयेन चातुरा । सीदतीति सा ।
सदेर्डप्रत्यये टाप् ॥ ४५ ॥

लता परशुकृत्तेव मूर्च्छिता भुवि सापतत् ।
विदूरथोऽपि निर्जानुः प्रहरन्नेव विद्विषि ॥ ४६ ॥

पपात स्यन्दनस्याधश्छिन्नमूल इव द्रुमः ।
पतन्नेवैष सूतेन रथेनैवापवाहितः ॥ ४७ ॥

पपात पतनोन्मुखो बभूवेत्यर्थः । पतन् पतनोन्मुख एवैष सूतेन विष्टभ्य
रथेनैवापवाहितो गृहं प्रतीति शेषः । द्वाविमौ पुरुषौ लोके
सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः । इति
स्मृतेः । रणे अभिमुखमरणे सूर्यमण्डलमेदिनो ब्रह्मलोकावाप्तौ
विरक्तस्य । ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते
कृतात्मानः प्रविशन्ति परं पदम् ॥ इति वचनात्क्रममुक्तिप्रसक्तौ अविरक्तस्य
इमं मानवमावर्तं नावर्तन्ते इति श्रुतेः कल्पान्तरे पुनरावृत्तौ वा
प्राक्तनपद्मशरीरेण
प्रारब्धशेषभोगासिद्धेस्तदनुगुणसरस्वतीसङ्कल्पवरदानबलादेव सूतस्य
राजयशःश्रेयोविनाशे अपवाहने प्रवृत्तिरासीदिति बोध्यम् ॥ ४७ ॥

यदा तदाहतिं तस्य कण्ठेऽदात्सिन्धुरुद्धतः ।
अर्धविच्छिन्नकण्ठऽसावनुयातोऽथ सिन्धुना ॥ ४८ ॥

यदा अपवाहितस्तदा आहतिं खड्गाघातं अदात् । अपवाह्यमाने असम्मुखे
शत्रौ प्रहारः शूरविगर्हितः कृत इति सूचयन्विशिनष्टि - उद्धत इति ॥ ४८ ॥

स्यन्दनेनाविशत्सद्म पद्मं रविकरो यथा ।
सरस्वत्याः प्रभावाढ्यं तत्प्रवेष्टुमसौ गृहम् ।
नाशकन्मशको मत्तो महाज्वालोदरं यथा ॥ ४९ ॥

असौ सिन्धुः पद्मगृहं प्रवेष्टुं नाशकत् ॥ ४९ ॥

खड्गावकृत्तगलगर्तगलत्सवात-
रक्तच्छटाछुरितवस्त्रतनुत्रगात्रम् ।
तत्याज तं भगवतीमभितो गृहान्तः
सूतः प्रवेश्य मृतितल्पतले गतोऽरिः ॥ ५० ॥

खड्गेन अवकृत्तस्य गलस्य गर्ताच्छिद्रात् गलद्भिः सवाताभिः रक्तस्य
च्छटाभिर्धाराभिश्छुरितानि सिक्तानि वस्त्रादीनि यस्य तथाविधं तं
विदूरथं सूतो गृहं प्रवेश्य गृहान्तर्भगवतीं सरस्वतीमभितः
अभिमुखे मृतितल्पतले सुखमरणयोग्यमृद्वास्तरणोपरि तत्याज ।
अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि इति षष्ठ्यर्थे द्वितीया । अरिः शत्रुः
सिन्धुश्च गृहप्रवेशासामर्थ्याद्गतः परावृत्त इत्यर्थः ॥ ५० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
विदूरथमरणवर्णनं नाम पञ्चाशः सर्गः ॥ ५० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
विदूरथमरणवर्णनं नाम पञ्चाशः सर्गः ॥ ५० ॥