०४९

एकोनपञ्चाशः सर्गः ४९

श्रीवसिष्ठ उवाच ।

ववुर्वलितनीहारा विकीर्णवनपल्लवाः ।
वायवो धूतवृक्षौघाः सल्लीलापीडपांसवः ॥ १ ॥

पर्वतास्त्रं च वज्रास्त्रं ब्रह्मास्त्रं चात्र वर्ण्यते ।
विस्तरेण पिशाचास्त्रं पिशाचचरितान्वितम् ॥ १ ॥

सतां मूर्तिमतां लीलया आपीडाः शिरोभूषणीकृताः पांसवो यैः ॥ १ ॥

पक्षिवद्भ्रान्तवृक्षौघाः पतनोत्पातनोद्भटाः ।
विकुट्टिताट्टालखण्डाश्चाभ्रभित्तिविभेदिनः ॥ २ ॥

पक्षिवद्भ्रान्ता भ्रमिता वृक्षौघा यैः । विकुट्टिताश्चूर्णिताः ॥ २ ॥

तेनातिभीमवातेन विदूरथरथोऽप्यथ ।
उह्यमानोऽभवन्नद्या यथा जर्जरपल्लवः ॥ ३ ॥

उह्यमानः प्रवाह्यमाणः ॥ ३ ॥

विदूरथोऽथ तत्याज पार्वतास्त्रं महास्त्रवित् ।
व्योमापि घनतोयेन समादातुम्वोद्यतम् ॥ ४ ॥

घनतोयेन मेघोदकेन समं व्योमापि समादातुं ग्रसितुमिवोद्यतमुद्युक्तम्
॥ ४ ॥

तेन शैलास्त्रघातेन विराट् प्राणसमीरणः ।
शमं चैतन्यशान्त्येव प्रययौ वायुराततः ॥ ५ ॥

तत्त्वावबोधाच्चैतन्यस्य मायालक्षणकारणशान्त्या तत्कार्यभूतो विराट्
प्राणसमीरणः सूत्रात्मेव वायुः शमं ययौ ॥ ५ ॥

अन्तरिक्षगता वृक्षपङ्क्तयः पतिता भुवि ।
नानाजनशवव्यूहे काकानामिव कोटयः ॥ ६ ॥

शेमुः सूत्कारडात्कारभाङ्कारोत्कारका दिशाम् ।
प्रलापा इव विध्वस्ताः पूर्ग्रामवनवीरुधाम् ॥ ७ ॥

निःश्वासशब्दाः सूत्कारा डात्कारा लुण्ठनारवाः । भाङ्कारा भीषणाः
शब्दा उत्कारा उद्भटारवाः ॥ पुरां ग्रामाणां वनानां वीरुधां वल्लीनां
च प्रलापा निरर्थकवर्णनवाक्यानीव ॥ ७ ॥

गिरीनपश्यन्नभसः पततः पत्रवर्णवत् ।
सिन्धुः सिन्धुरिवोत्पक्षान्मैनाकादीनितस्ततः ॥ ८ ॥

सिन्धुः राजा । सिन्धुः समुद्रः स्वस्मिन्नुत्पततो मैनाकादीनिव ॥ ८ ॥

वज्रास्त्रमसृजद्दीप्तं चेरुर्वज्रगणास्ततः ।
पिबन्तोऽद्रीन्द्रतिमिरमग्निदाहमिवाग्नयः ॥ ९ ॥

अग्निभिर्दह्यत इत्यग्निदाहं इन्धनम् ॥ ९ ॥

ते गिरीणां तथा क्षिप्ताः कोटितुण्डावखण्डनैः ।
शिरांसि पातयामासुः फलानीवोल्बणानिलाह् ॥ १० ॥

कोटयः अग्रभागास्तल्लक्षणैस्तुण्डैश्चञ्चुभिरवखण्डनैश्छेदनैः ।
गिरीणां शिरांसि शिखराणि ॥ १० ॥

विदूरथोऽथ वज्रास्त्रशन्त्यै ब्रह्मास्त्रमत्यगात् ।
ततो ब्रह्मास्त्रवज्रास्त्रे समं प्रशममागते ॥ ११ ॥

अत्यगात् इतरास्त्राण्यतिक्रम्य प्रयोक्तुं अगात्प्रापत् । समं एककालम् ॥ ११ ॥

प्। २४९)

श्यामाश्यामं पिशाचास्त्रमथ सिन्धुरचोदयत् ।
तेनोदगुः पिशाचानां पङ्क्तयोऽत्यन्तभीतिदाः ॥ १२ ॥

श्यामा तमिस्रेव श्यामम् ॥ १२ ॥

सन्ध्यायामथ भीत्येव दिवसः श्यामतां ययौ ।
पिशाचा भुवनं जग्मुरन्धकारभरा इव ॥ १३ ॥

इवकार आवृत्त्योभयत्र सम्बध्यते । तेन सन्ध्यायामिवेत्युपमा । भीत्येवेति
हेतूत्प्रेक्षा । जग्मुः आजग्मुः ॥ १३ ॥

भस्मनःस्तम्भसदृशास्तालोत्तालविलासिनः ।
दृश्यमानमहाकारा मुष्टिग्राह्या न किञ्चन ॥ १४ ॥

भस्मनः सम्बन्धी स्तम्भो दग्धस्तम्भ इति यावत् ।
असमर्थसमासश्छान्दसः । मुष्टिग्राह्या हस्तप्राप्याः ॥ १४ ॥

ऊर्ध्वकेशाः कृशाङ्गाश्चकेचिच्च श्मश्रुला अपि ।
कृष्णाङ्गा मलिनाङ्गाश्च ग्राम्या इव नभश्चराः ॥ १५ ॥

ग्राम्याः ग्रामीणा दरिद्रजना इव । नभश्चरा आकाशसञ्चारिणः ॥ १५ ॥

सभया मूढदृष्टाश्च यत्किञ्चनकराश्चलाः ।
दीना वज्रासिनः क्रूरा दीना ग्राम्यजना इव ॥ १६ ॥

मूढैर्मुर्खैरशुच्यनाचारैर्दृष्टाः । यत्किञ्चनास्थिकपालादि करे येषाम् ।
वज्रं चासिश्चोभयोः समाहारो वज्रासि तस्मादपि क्रूरा निष्ठुराः ।
समाहारनपुंसकत्वे इकोऽचि विभक्तौ इति नुम् ॥ १६ ॥

तरुकर्दमरथ्यान्तःशून्यगेहगृहाश्चलाः ।
लेलिहानाः प्रेतरूपाः कृष्णाङ्गाश्चपला इव ॥ १७ ॥

लेलिहानाः सृक्किणी । चपला विद्युत इव दृश्यादृश्यस्वभावाः ॥ १७ ॥

जगृहुस्ते तदा मत्ता हतशिष्टमरेर्बलम् ।
आसंस्तत्सैनिकास्तत्र भिन्नास्त्रक्षुब्धचेतनाः ॥ १८ ॥

तत्सैनिका विदूरथसैनिकाः ॥ १८ ॥

त्यक्तायुधतनुत्राणास्त्रस्तप्राणाः स्खलद्गमाः ।
नेत्रैरङ्गैर्मुखैः पादैर्विकारभरकारिणः ॥ १९ ॥

विकारभरा भूताविष्टचेष्टाः ॥ १९ ॥

त्यक्तकौपीनवसना निमग्नावसनोत्तराः ।
विष्ठां मूत्रं च कुर्वन्तः स्थिरमारब्धनर्तनाः ॥ २० ॥

ता एव दर्शयति - त्यक्तेति । निमग्नानि
सङ्कुचितान्यवसनान्युत्तराण्यधराङ्गानि येषाम् ॥ २० ॥

पिशाचराजी राजानं तस्य यावद्विदूरथम् ।
समाक्रामति तावत्तां मायां स बुबुधे बुधः ॥ २१ ॥

पिशाचानां राजिः पङ्क्तिः ॥ २१ ॥

पिशाचसङ्ग्रामकरीं मायां वेत्ति स भूमिपः ।
तया पिशाचसैन्यं तत्परसैन्ये न्ययोजयत् ॥ २२ ॥

परप्रयुक्तानां पिशाचानां स्ववशीकारेण परसैन्यसङ्ग्रामकरीम् ॥ २२ ॥

ततः स्वसैनिकाः स्वस्थाः परयोधाः पिशाचिनः ।
तस्याशु रूपिकास्त्रं च ददावन्यदसौ रुषा ॥ २३ ॥

तस्य पिशाचसैन्यस्य सहायभूतम् । रूपिकाः पूतनाभेदाः । असौ विदूरथः ॥
२३ ॥

उदगुर्भूतलाद्व्योम्नो रूपिका ऊर्ध्वमूर्धजाः ।
निर्मग्नविकरालाक्ष्यश्चलच्छ्रोणिपयोधराः ॥ २४ ॥

उद्भिन्नयौवना वृद्धाः पीवराङ्ग्योऽथ जर्जराः ।
स्वरूपारूपजघना [स्वरूपेण स्वरूपतः अरूपाणि निराकाराणि
जघनानि यासां तथाविधाः दुर्लक्ष्यजघना इत्यर्थः] दुर्नाभ्यो
विकसद्भगाः ॥ २५ ॥

नररक्तशिरोहस्ताः सन्ध्याभ्रारुणगात्रिकाः ।
अर्धचर्वितमांसासृक्स्रवत्सृक्क्याकुलाननाः ॥ २६ ॥

रक्तपदेन तत्पूर्णकपालानि लक्ष्यन्ते । स्रवद्भ्यां
सृक्किभ्यामोष्ठप्रान्ताभ्यामाकुलाननाः ॥ २६ ॥

नानाङ्गवलना नानानमन्नमनसत्तमाः ।
शिलाभुजगवक्रोरुकटिपार्श्वकराङ्गिकाः ॥ २७ ॥

नानाविधान्यङ्गवलनान्यवयवचेष्टा यासाम् ।
नानाविधानामनमतामुत्तब्धानामपि नमने प्रह्वीकरणे सत्तमाः
समर्थाः । शिला इव कठिना भुजगा इव वक्राश्च वक्रादयो यासाम् ॥ २७ ॥

नारीकृतार्भकशवा हस्ताकृष्टान्त्ररज्जवः ।
श्वकाकोलूकवदना निम्नवक्रहनूदराः ॥ २८ ॥

नराणामियं नारी नरमाला तथाकृताः अर्भकशवा याभिः ॥ २८ ॥

जगृहुस्तान्पिशाचांस्ता दुर्बलान्दुःशिशूनिव ।
पिशाचरूपिकासैन्यं तदासीदेकतां गतम् ॥ २९ ॥

जगृहुः पतित्वेन स्वीचक्रुः । दुष्क्र्तकारिशिशूनिव । उपभोग्यतांशे
साम्याद्दृष्टान्तः ॥ २९ ॥

निर्मग्ननर्तनोत्तानवदनाङ्गविलोचनम् ।
परस्पराक्रान्तिकरं प्रधावच्च परस्परम् ॥ ३० ॥

एकतां गतं तद्वर्णयति - निर्मग्नेत्यादिना । क्रीडारसावेशे नितरां
मग्नम् ॥ ३० ॥

निस्कासितमहाजिह्वं नानामुखविकारदम् ।
शरभाराढ्यमन्योन्यं [न्योन्यह्रियमाण इति पाठः]
ह्रियमाणशवाङ्गकम् ॥ ३१ ॥

शरो रुधिरमण्डस्तद्भाराढ्यम् । अन्योन्यप्रीतये ह्रियमाणानि शवाङ्गानि
येन ॥ ३१ ॥

रुधिराम्भसि मज्जं तदुन्मज्जद्धृल्लसत्तनु ।
लम्बोदरं लम्बभुजं लम्बकर्णोष्ठनासिकम् ॥ ३२ ॥

मज्जं उन्मज्जत् । पुनःपुनर्निमज्ज्योन्मज्जत् । आभीक्ष्ण्ये णमुलि
द्विर्वचनाभावश्चान्दसः । घृत् क्षरद्रक्तं तेन लसत्तनु ॥ ३२ ॥

रक्तमांसमहापङ्केष्वन्योन्यं वेल्लनाभ्यसत् ।
मन्दरोद्धूतदुग्धाब्धिलसत्कलकलाकुलम् ॥ ३३ ॥

वेल्लनान्यालिङ्गनान्यभ्यसत् आवर्तयत् । मन्दरेणोद्भूतस्य मथ्यमानस्य
दुग्धाब्धेरिव लसता कलकलेन कोलाहलेन आकुलम् ॥ ३३ ॥

यथैव मायासञ्चारस्तेन तस्य कृतः पुरा ।
तेनापि तस्याशु तथा कृतो बुद्ध्वा स लाघवात् ॥ ३४ ॥

मायायाः सञ्चारः परावृत्य प्रेषणम् । तेन विदूरथेन । तस्य सिन्धोः । सः
मायासञ्चारः कृतः ॥ ३४ ॥

वेतालास्त्रं ततो दत्ते तेनोत्तस्थुः शवव्रजाः ।
अमूर्धानः समूर्धानो वेताला वेशवल्लिताः ॥ ३५ ॥

ततस्तत्सहायार्थं दत्ते ददाविति यावत् । वेशेन परमर्दनावेशेन वल्लिताः
सञ्चलिताः । वल वल्ल संवरणे सञ्चलने च ॥ ३५ ॥

प्। २५०) १५०

ततः पिशाचवेतालरूपिकोग्रकबन्धवत् ।
तद्वभूव बलं भीममुर्वीनिगरणक्षमम् ॥ ३६ ॥

अथेतरोऽपि भूपालो मायां सञ्चार्य तां गुरौ ।
राक्षसास्त्रं ससर्जाथ त्रैलोक्यग्रहणोन्मुखम् ॥ ३७ ॥

इतरो विदूरथः । गुरौ पूर्वप्रयोगेणोपदेष्टरीव सिन्धौ ॥ ३७ ॥

उदगुः पर्वताकाराः सर्वतः स्थूलराक्षसाः ।
देहमाश्रित्य निष्क्रान्ताः पातालान्नरका इव ॥ ३८ ॥

अथोदभूद्बलं भीमं ससुरासुरभीतिदम् ।
गर्जद्रक्षोमहानादवाद्यनृत्यत्कबन्धकम् ॥ ३९ ॥

मेदोमांसोपदंशाढ्यं रुधिरासवसुन्दरम् ।
क्षीबकूश्माण्डवेतालयक्षताण्डवसुन्दरम् ॥ ४० ॥

क्षीबाणां मत्तानाम् ॥ ४० ॥

कूश्माण्डकोत्ताण्डवदण्डपाद-
क्षुब्धासृगुत्क्षिप्ततरङ्गसिक्तैः ।
सन्ध्याभ्ररागोत्करकोटिकान्ति
भूतैरसृक्स्रोतसि दत्तसेतु ॥ ४१ ॥

दण्डपादो नाट्यशास्त्रप्रसिद्धः पादाघातविशेषः । सिक्तैर्भूतैः । दत्तसेतु
निबद्धसेतु । बलं उदभूदिति पूर्वेणान्वयः ॥ ४१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
तृतीयास्त्रयुद्धं नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
तृतीयास्त्रयुद्धं नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥