अष्टचत्वारिंशः सर्गः ४८
श्रीवसिष्ठ उवाच ।
प्राप्य राजा पुरः प्राप्तं सिन्धुमुद्धुरकन्धरम् ।
मध्याह्नतपनान्तेन कोपेन विततोऽभवत् ॥ १ ॥
विचित्रमायाजननैर्मन्त्रास्त्रैर्विश्वमोहनः ।
वर्ण्यते विस्तरेणात्र समरः सिन्धुपद्मयोः ॥ १ ॥
मध्याह्नतपनं अन्तयति सादृश्येन बध्नातीति मध्याह्नतपनान्तस्तेन ।
तत्सदृशेनेति यावत् । अति बन्धने कर्मण्यण् ॥ १ ॥
धनुरास्फालयामास चिरारावितदिङ्मुखम् ।
कल्पान्तपवनास्फोटैव मेरुगिरेस्तटम् ॥ २ ॥
आस्फालयामास विस्फारयामास ॥ २ ॥
विससर्जोर्जितो राजा प्रलयार्कः करानिव ।
तूणीररजनीबद्धाः शिलीमुखपरम्पराः ॥ ३ ॥
रजनीपदेन तत्स्थानि मुकुलितपद्मानि लक्ष्यन्ते । तेषु बद्धाः शिलीमुखा बाणा
भ्रमराश्च तत्परम्पराः ॥ ३ ॥
एक एव विनिर्याति गुणात्तस्य शिलीमुखः ।
सहस्रं भवति व्योम्नि गच्छन्पतति लक्षशः ॥ ४ ॥
यदा विनिर्याति तदैक एव ॥ ४ ॥
सिन्धोरपि तथैवासीच्छक्तिर्लाघवमेव च ।
वरेण वरदस्यैवं विष्णोर्धानुष्कता तयोः ॥ ५ ॥
कुत ईदृशं युद्धकौशलं तयोरिति तत्राह - वरेणेति । विष्णोस्तपसा
आराधितस्येति गम्यते । धानुष्कता धनुर्युद्धकुशलता ॥ ५ ॥
मुसला नाम ते बाणा मुसलाकृतयोऽम्बरम् ।
छादयामासुरुन्नादाः कल्पान्ताशनयो यथा ॥ ६ ॥
उन्नादा महाध्वनयः ॥ ६ ॥
रेजुः कनकनाराचराजयो व्योम्नि सस्वनाः ।
रसन्त्यः कल्पवातार्ताः पतन्त्य इव तारकाः ॥ ७ ॥
कनकरञ्जिता नाराचा बाणाः । रसन्त्यो ध्वनन्त्यः ॥ ७ ॥
विदूरथाच्छरासारा अजस्रमभिनिर्ययुः ।
अब्धेरिव पयःपूराः सूर्यादिव मरीचयः ॥ ८ ॥
प्रचण्डपवनोद्धूतात्पुष्पाणीव महातरोः ।
अयःपिण्डादिवोत्तप्तात्ताडितात्कणपङ्क्तयः ॥ ९ ॥
धारा वर्षमुच इव सीकरा इव निर्झरात् ।
तत्पुराग्निमहादाहात्स्फुलिङ्गा इव भासुराः ॥ १० ॥
वर्षाणि वृष्टीर्मुञ्चतीति वर्षमुक् तस्माद्वर्षमुचो धारा इव । तत्पुरस्य
विदुरथनगरस्य । प्रागुक्तादग्निमहादाहात् ॥ १० ॥
तयोश्चटचटास्फोटं शृण्वत्कोदण्डयोर्द्वयोः ।
बलद्वयमभूत्प्रेक्षामूकं शान्त इवाम्बुधिः ॥ ११ ॥
बलद्वयं सेनाद्वयम् ॥ ११ ॥
वहन्ति स्म शरापूरा गङ्गापूरा इवाम्बरे ।
सिन्धोरभिमुखं युद्धे घर्घरारावरंहसः ॥ १२ ॥
सिन्धो राज्ञः समुद्रस्य च । घर्घरारावयुक्तानि रंहांसि वेगा येषाम् ॥ १२ ॥
कचत्कनकनाराचशरवर्षा अनारतम् ।
वहच्छवशवाशब्दं निर्ययुर्धनुरम्बुदात् ॥ १३ ॥
बाणमन्दाकिनीपूरं व्रजन्तं सिन्धुपूरणे ।
वातायनात्तमालोक्य लीला तत्पुरवासिनी ॥ १४ ॥
तेन बाणसमूहेन जयमाशङ्क्य भर्तरि ।
उवाच वाक्यमानन्दविकसन्मुखपङ्कजा ॥ १५ ॥
जय देवि जयत्येष नाथोऽस्माकं विलोकय ।
किञ्चानेन शरौघेण मेरुरप्येति चूर्णताम् ॥ १६ ॥
तस्यामेवं वदन्त्यां तु घनस्नेहरवाकुलम् ।
प्रेक्षणव्यग्रयोर्देव्योर्हसन्त्योर्मानुषीं हृदा ॥ १७ ॥
मानुषीं मनुष्यदेहात्मबुद्धिम् । अप्रबुद्धामिति यावत् ॥ १७ ॥
तच्छरार्णवमामत्तमपिबत्सिन्धुवाडवः ।
शरोष्मणा ह्यगस्त्येन जह्नुर्मन्दाकिनीमिव ॥ १८ ॥
अगस्त्येनागस्त्यीभूतेन शरोष्मणा करणेनापिवत् । उपसंहृतवानिति यावत् ॥ १८
॥
बाणवर्षेण कणशस्तं सायकमहाघनम् ।
छित्त्वा तनुरजः कृत्वा चिक्षेप गगनार्णवे ॥ १९ ॥
तनुरजः कृत्वा धूलीकृत्येत्यर्थः ॥ १९ ॥
यथा दीपस्य शान्तस्य न परिज्ञायते गतिः ।
तस्य सायकसङ्घस्य न विज्ञाता तथा गतिः ॥ २० ॥
तं छित्त्वा सायकासारं शरीराम्बुधरं घनम् ।
व्योम्नि प्रसारयामास रसाच्छवशतान्वितम् [रसात् युद्धविषये
रागात्] ॥ २१ ॥
शरीरलक्षणानामम्बूनां धरम् । तस्योपपत्तिः शवशतान्वितमिति ॥ २१ ॥
विदूरथस्तमप्याशु व्यधमत्सायकोत्तमैः ।
सामान्यजलदं मत्तं कल्पान्तपवनो यथा ॥ २२ ॥
कृतप्रतिकृतैरेवं बाणवर्षैर्महीपती ।
व्यर्थीकृतैरनयतां प्रहारमविचारणैः ॥ २३ ॥
प्रहारं बाणाभिघातं अविचारणैर्लक्षीकरणैरनयतां अत्यवाहयताम् ।
यद्वा प्रहारं छान्दसो दीर्घः । प्रहरमितं कालं
कृतप्रतिकृतैरनयताम् ॥ २३ ॥
अथादधे मोहनास्त्रं सिन्धुर्गन्धर्वसौहृदात् ।
प्राप्तं तेन ययुर्लोका विना मोहं विदूरथात् ॥ २४ ॥
गन्धर्वस्य सौहृदान्मैत्रीवशात्प्राप्तम् । विदूरथाद्विना विदूरथमेकं
वर्जयित्वा अन्ये परिवारलोका मोहं ययुः ।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम् इति सूत्रे अपादाने पञ्चमीत्यतः
पञ्चम्यप्यनुवर्तत इति मतेन पञ्चमी ॥ २४ ॥
व्यस्तशस्त्राम्बरा मूका विषण्णवदनेक्षणाः ।
मृता इवाभवन्योधाश्चित्रन्यस्ता इवाथवा ॥ २५ ॥
मोहप्रकारमेव वर्णयति - व्यस्तेति ॥ २५ ॥
यावद्विदूरथादन्यं मोहो नयति मन्दताम् ।
तावद्विदूरथो राजा प्रबोधास्त्रमथाददे ॥ २६ ॥
अन्यं जनम् ॥ २६ ॥
प्। २४६) १४८
ततः प्रबोधमापन्नाः प्रजाः प्रातरिवाब्जिनी ।
विदूरथे भवत्सिन्धुः क्रुद्धोऽर्क इव राक्षसे ॥ २७ ॥
विदूरथे विषये । राक्षसे मन्देहाख्येऽर्क इव क्रुद्धो लोहितोऽभूदित्यर्थः ॥ २७ ॥
नागास्त्रमाददे भीमं पाशबन्धनखेददम् ।
तेनाभवन्नभो व्याप्तं भोगिभिः पर्वतोपमैः ॥ २८ ॥
भोगिभिः सर्पैः ॥ २८ ॥
सर्पैर्विलसिता भूमिर्मृणालैः सरसी यथा ।
सम्पन्ना गिरयः सर्वे कृष्णपन्नगकम्बलाः ॥ २९ ॥
तत्र भूः पाण्डुरैः सर्पैर्व्याप्ता पर्वतास्तु कृष्णैरिति वैचित्र्यमाह -
सर्पैरिति ॥ २९ ॥
पदार्थाः सर्व एवेमे विषोष्मखिन्नतां ययुः ।
सपर्वतवनाभोगा ययौ विवशतां मही ॥ ३० ॥
विषोष्मणा खिन्नतामिव म्लानताम् । विवशतां व्याकुलताम् ॥ ३० ॥
पूताङ्गारसमाकीर्णं विषवैषम्यशंसिनः ।
ववू रूक्षोष्णनीहारवाता ज्वलनरेणवः ॥ ३१ ॥
रुक्षा उष्णाश्च नीहारा हिमाः स्निग्धशीतला अपि पदार्था यैस्तथाविधा ये
वातास्तल्लक्षणा ज्वलनरेणवः पूतैर्भस्मनो विवेचितैरङ्गारैः समाकीर्णं
यथा स्यात्तथा ववुः ॥ ३१ ॥
विदूरथोऽथ सौपर्णमाददेऽस्त्रं महास्त्रवित् ।
उदगुर्गरुडास्त्रेण सौपर्णाः पर्वता इव ॥ ३२ ॥
उदगुर्निर्ययुः । सुपर्णा एव सौपर्णाः ॥ ३२ ॥
काञ्चनीकृतसर्वाशाः सर्वाशापरिपूरकाः ।
पक्षपर्वतसंरम्भजनितप्रलयानिलाः ॥ ३३ ॥
पक्षैः सपक्षपर्वतसदृशेनोड्डयनसंरम्भेण जनितप्रलयानिलाः ॥ ३३ ॥
घोणानिलजवाकृष्टश्वसद्भुजगमण्डलाः ।
महाघुरघुरारावपूरिताम्भोधिखण्डकाः ॥ ३४ ॥
घोणा नासास्तदनिलजवेन श्वासवेगेन ॥ ३४ ॥
स सुपर्णघनोऽपात्तं सर्पौघं भूप्रपूरकम् ।
कष्टं शलशलायन्तमगस्त्य इव वारिधिम् ॥ ३५ ॥
सः सुपर्णलक्षणो घनो मेघस्तं सर्पलक्षणमोघं प्रवाहं अपात् अपिबत् ।
पिबतेर्लुङि गातिस्था इति सिचो लुक् । विशेषणान्योघवारिध्योः साधारण्येन
योज्यानि ॥ ३५ ॥
सर्पकम्बलनिर्मुक्तं भूमण्डलमराजत ।
चिरात्तमवनीरन्ध्रमिव निर्वारिराशि च ॥ ३६ ॥
चिराद्वराहेण आत्तमुद्धृतमत एव निर्गतं वारिराशेरिति निर्वारिराशि च ।
अवनीरन्ध्रं भूम्यवकाशमिव ॥ ३६ ॥
ततस्तद्गरुडानीकं क्वाप्यगच्छददृश्यताम् ।
दीपौघ इव वातेन शरदेवाब्दमण्डलम् ॥ ३७ ॥
वज्रभीत्येव पक्षौघपर्वतप्रकरः पुरः ।
स्वप्नदृष्टं जगदिव सङ्कल्पपुरपूरवत् ॥ ३८ ॥
पक्षौघयुक्तमैनाकादिपर्वतप्रकर इव । सङ्कल्पकल्पितं पुरं पूरश्च
तद्वत् ॥ ३८ ॥
ततस्तमोऽस्त्रमसृजत्सिन्धुरन्धान्धकारदम् ।
तेनान्धकारो [तेनान्धकारः कृष्णोऽभूद्भुबिले जठरोपमः इति
पाठ तत्र भूबिले पाताले यज्जठरं मध्यं तदुपम इत्यर्थः]
ववृधे कृष्णो भूजठरोपमः ॥ ३९ ॥
जठरं मध्यम् ॥ ३९ ॥
रोदोरन्ध्रे प्रविसृत एकार्णव इवाभवत् ।
मत्स्या इवाभवन्सेनास्ताराश्च मणयोऽभवन् ॥ ४० ॥
रोदस्योर्द्यावाभूम्योः रन्ध्रेऽन्तराले । एकार्णवसाम्योपपादनायाह -
मत्स्या इवेति । मणय इवेत्यत्रापि सम्बध्यते ॥ ४० ॥
अन्धकारप्रवृत्तेन मषीपङ्कार्णवोपमम् ।
कज्जलाचलसम्भारोद्भूतकल्पानिलैरिव ॥ ४१ ॥
अन्धकारस्य प्रवृत्तेन प्रवृत्त्या । भावे क्तः । मषीपङ्कार्णवोपमं
अभूज्जगदिति शेषः । कज्जलाचलस्याञ्जनगिरेः सम्भारैः उपादानभूतै
रेणुभिः सह उद्भूतैः कल्पानिलैः प्रलयवायुभिरिव व्याप्तमिति शेषः ॥ ४१ ॥
अन्धकूपे निपतिता इवासन्सकलाः प्रजाः ।
कल्पान्त इव संशेमुर्व्यवहारा दिशं प्रति ॥ ४२ ॥
दिशं [दिशः इति पाठः] प्रति प्रतिदिशम् ॥ असमासश्छान्दसः ॥ ४२ ॥
विदूरथोऽथ मार्तण्डं दीपं ब्रह्माण्डमण्डपे ।
अस्त्रं मन्त्रविदां श्रेष्ठः सृष्ट्वा मन्त्रो व्यचेष्टयत् ॥ ४३ ॥
अमन्त्रः मन्त्रणं मन्त्रो गुप्तविचारस्तदनपेक्ष एव व्यचेष्टयज्जगदित्यर्थः
॥ ४३ ॥
अथोदिततमोम्भोधिमर्कागस्त्यो गभस्तिभिः ।
अपिबत्कृष्णमम्भोदं शरत्काल इवामलः ॥ ४४ ॥
अन्धकाराम्बरोन्मुक्ता विरेजुरमला दिशः ।
भूपतेः पुरतः कान्ता इव रम्यपयोधराः ॥ ४५ ॥
अन्धकारलक्षणेनाम्बरेण वस्त्रेण । पयोधरा मेघाः स्तनाश्च ॥ ४५ ॥
ययुः प्रकटतामन्तरखिला वनराजयः ।
लोभकज्जलजालेन मुक्ता इव सतां धियः ॥ ४६ ॥
अथ कोपाकुलः सिन्धु राक्षसास्त्रं महाभयम् ।
क्षणादुदीरयामास मन्त्रोदीर्णशरात्मकम् ॥ ४७ ॥
उदगुर्भीषणा दिग्भ्यः परुषा वनराक्षसाः ।
पातालगजफुत्कारक्षुब्धा इव महार्णवाः ॥ ४८ ॥
उदगुर्निर्जग्मुः । पातालस्था गजा दिग्गजाः ॥ ४८ ॥
कपिलोर्ध्वजटाधूम्राः स्फुटच्चटचटारवाः ।
अग्नयो लेलिहानोग्रजिह्वा आर्द्रेन्धना इव ॥ ४९ ॥
आर्द्रं इन्धनं येषां तथाविधा अग्नय इव धूम्राः । अग्निपक्षे काली कराली च
मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी
लेलायमाना इति सप्त जिह्वाः इति श्रुतिप्रसिद्धा जिह्वाः ॥ ४९ ॥
सावर्तवृत्तयो व्योम्नि भीमचीत्कारटाङ्कृताः ।
अग्निदाहा महाधूमविलोला इव सोल्मुकाः ॥ ५० ॥
आवर्तानां वृत्तिर्भ्रमणं तत्सहिताः ॥ ५० ॥
दंष्ट्राबिसाङ्कुराक्रान्तमुखपङ्काक्षदेहकाः ।
उदिता लोमजम्बाला दुष्पल्वलतटा इव ॥ ५१ ॥
दंष्ट्रालक्षणैर्बिसाङ्कुरैर्मृणालैराक्रान्तैर्मुखैः
पङ्कैर्मलिनैरक्षैश्चक्षुरादिभिः कर्दमैः पद्मबीजैश्चोपलक्षितदेहकाः ।
लोमान्येव जम्बालानि शैवला येषाम् ॥ ५१ ॥
प्। २४७) १४८
निगिरन्तः प्रधावन्तो गर्जन्तः सर्जिता इव ।
जटाजालतडित्पुञ्जा जलदाः सजला इव ॥ ५२ ॥
निगिरन्तो जनान् जलदपक्षे ज्योतीषि । जगन्निगरणार्थमेव सर्जिताः सृष्टा इव ।
निवृत्तप्रेषणाद्घातोः प्राकृतेऽर्थे णिच् ॥ ५२ ॥
एतस्मिन्नन्तरे तस्मिṁल्लीलानाथो विदूरथः ।
नारायणास्त्रं प्रददे दुष्टभूतनिवारणम् ॥ ५३ ॥
तस्मिन्युद्धे । प्रददे प्रयोक्तुमाददे ॥ ५३ ॥
उदीर्यमाण एवास्मिन्मन्त्रराजेऽस्त्रराजयः ।
राक्षसानां प्रशेमुस्ता अन्धकार इवोदये ॥ ५४ ॥
प्रमुष्टराक्षसानीकमभवद्भुवनत्रयम् ।
शरदीव गताम्भोदं व्योम निर्मलमाबभौ ॥ ५५ ॥
अथ सिन्धुर्मुमोचास्त्रमाग्नेयं ज्वलिताम्बरम् ।
जज्वलुः ककुभस्तेन कल्पाग्निज्वलिता इव ॥ ५६ ॥
ककुभो दिशः ॥ ५६ ॥
धूमाम्बुदभराच्छन्ना बभूवुः सकला दिशः ।
गगने प्रोतपातालतिमिराकुलिता इव ॥ ५७ ॥
गगने प्रोतेन पातालसम्बन्धिना तिमिरेणाकुलिता व्याकुलीकृताः ॥ ५७ ॥
बभूवुर्ज्वलिताकारा गिरयः काञ्चना इव ।
प्रफुल्लवननीरन्ध्रचम्पकौघवना इव ॥ ५८ ॥
ययुर्व्योमाद्रिदिक्कुञ्जा ज्वालाजालजटालताम् ।
कुङ्कुमेनोत्सवे मृत्योः समालब्धा इव स्रजः ॥ ५९ ॥
ज्वालाजालैर्जटालतां जटिलताम् । मृत्योः क्ष्वेलिकासेचनोत्सवे कुङ्कुमेन
समालब्धाः सिक्ताः स्रज इव ॥ ५९ ॥
ज्वलिता जनता चैकशङ्किनी सा नभःस्पृशा ।
सहस्राकृतिनौवेगचलितेनेव सागरात् ॥ ६० ॥
सागरात् सहस्राकृतिभिर्नावां वेगैश्चलितेन आगतेन वडवाग्निनेव जनता
एकशङ्किनी वह्न्यद्वैतमेव जगतः सम्भावयन्ती सती ज्वलिता ॥ ६० ॥
जित्वा रिपुं पुनरसौ यथा प्रहरते तथा ।
वारुणं विससर्जास्त्रं पूजयित्वा विदूरथः ॥ ६१ ॥
असौ वक्ष्यमाणास्त्रविशेषः । आग्नेयमस्त्रं जित्वा । अप्यर्थे पुनःशब्दः ।
रिपुं सिन्धुमपि यथा प्रहरते तथा वारुणं अस्त्रं पूजयित्वा विससर्ज ॥ ६१ ॥
आययुः सलिलापूरास्तमःपूरा इवाभितः ।
अधस्तादूर्ध्वतो दिग्भ्यो द्रवरूपा इवाद्रयः ॥ ६२ ॥
भागा इव शरव्योम्नि धृतयाना इवाम्बुदाः ।
महार्णवा इवोच्चस्थाः कुलशैलशिला इव ॥ ६३ ॥
शरव्योम्नि शरमार्गावकाशे तदीयभागा अवयवा इव । धृतयाना
निबद्धगतयः । उच्चस्था ऊर्ध्वदेशाद्विलुठिताः कुलशैलानां बृहच्छिला
इव ॥ ६३ ॥
तमालौघा इवोड्डीनाह् सन्धिता इव रात्रयः ।
कज्जलौघा इवोद्भूता लोकालोकतटादिव ॥ ६४ ॥
लोकालोकस्य गिरेस्तटान्धकारकज्जलौघा इव ॥ ६४ ॥
रसतलगुहाभोगा इव व्योमदिदृक्षवः ।
महाघुरघुरारावरंहोबृंहितमूर्तयः ॥ ६५ ॥
व्योम ऊर्ध्वाकाशं दिदृक्षव इवेत्युत्प्रेक्षा । सूर्मयः इति पाठे सूर्मिः
प्रतिमा मूर्तिरिवेत्येवार्थः ॥ ६५ ॥
तामग्निसन्ततिं मत्तामाचचामाम्बुसन्ततिः ।
भुवनव्यापिनी सन्ध्यामाशु कृष्णेव यामिनी ॥ ६६ ॥
तामग्निसन्ततिं पीत्वा पूरयामास भूतलम् ।
जलश्रीर्जटितं देहं निद्रेव व्यक्तिमेयुषी ॥ ६७ ॥
एवंविधानस्त्रमोहान्विदधुर्धावनेतरे ।
मिथोमायामयानग्रे पश्यन्त्यनुभवन्ति च ॥ ६८ ॥
धावनाह् पूर्वास्त्रकृतमालिन्यविशोधकास्तदितरे
तद्विरुद्धाश्चान्येऽयस्त्रविदः । विभाषा जसि इति वैकल्पिकी सर्वनामता ।
मिथ्याभूतानामप्यस्त्रमोहानामर्थक्रियासामर्थ्यं दर्शयति - मिथ इति
। अनुभवन्ति शत्रुविध्वंसादिफलमुखेनापि जना इति शेषः ॥ ६८ ॥
हेतिभारवराः सिन्धोश्चक्ररक्षास्ततोऽम्भसा ।
तृणानीव गताः प्रोह्य रथश्चास्याभवत्प्लुतः ॥ ६९ ॥
चक्रं स्वबलं रक्षन्तीति चक्ररक्षाः हेतीनामायुधानां भारावराः
श्रेष्ठा योधाश्च ॥ ६९ ॥
एतस्मिन्नन्तरे सिन्धुरस्त्रं सस्मार शोषणम् ।
आपत्त्राणकरं दैवं ददौ च शररूपिणम् ॥ ७० ॥
शररूपिणं शोषणास्त्रं ददौ । धनुषि सन्दधे इत्यर्थः ॥ ७० ॥
शशामाम्बुमयी माया तेन यामेव भास्वता ।
ये मृतास्ते मृता एव बभूवुः शोषिता भुवः ॥ ७१ ॥
नामैकदेशे नामग्रहणाद्यामा त्रियामा रात्रिरिव । भास्वता सूर्येण । भुवो
भूप्रदेशाः शोषिता बभूवुः ॥ ७१ ॥
अथ मूर्खरुषा तुल्यस्तापः सन्तापयन्प्रजाः ।
जजृम्भे झर्झराकीर्णवनविस्तारकर्कशः ॥ ७२ ॥
तापस्तीव्रातपः । झर्झरैः शुष्कपर्णैराकीर्णैर्वनविस्तारैः कर्कशः ॥ ७२ ॥
कचत्कनकनिःस्यन्दसुन्दराङ्गच्छविर्दिशाम् ।
आसीद्राजवरस्त्रीणामिवालेपोऽङ्गसङ्गतः ॥ ७३ ॥
दिशामालेपोऽङ्गराग इव आसीत् ॥ ७३ ॥
तेन घर्ममयीं मूर्च्छामाजग्मुस्तद्विरोधिनः ।
ग्रीष्मदावानलोत्तप्ता मृदवः पल्लवा इव ॥ ७४ ॥
विदूरथो रणोद्रेके तावत्क्रेङ्कारमाततम् ।
कोदण्डं कुण्डलीकृत्य पर्जन्यास्त्रमथाददे ॥ ७५ ॥
क्रेङ्कारो ज्यास्वनस्तस्य मा श्रीस्तया ततम् ॥ ७५ ॥
उदगुः पङ्क्तयोऽब्दानां यामिन्य इव सञ्चिताः ।
तमालविपिनोड्डीनसंरम्भादम्बुमन्थराः ॥ ७६ ॥
तमालविपिनस्य यदुड्डीनमाकाशे गमनं तदिव संरम्भाद्विभ्रमात् ।
उदगुः उद्ययुः ॥ ७६ ॥
वामना वारिपूरेण गर्जनोद्दामसञ्चराः ।
महिम्नामन्थराशेषककुम्मण्डलकुण्डलाः ॥ ७७ ॥
वारिपूरेण नम्रत्वाद्वामना अप्रांशवः । महिम्ना तिर्यग्विस्तारेण
अमन्थराणि स्वाभाविकविस्तारे कुण्ठितगतीनीव सङ्कुचितानि
अशेषदिङ्मण्डलानि कुण्डलानीव सम्पन्नानि येषाम् ॥ ७७ ॥
प्। २४८) १४९
ववुरावलितासारा मेघडम्बरभेदिनः ।
कीर्णसीकरनीहारभारोदाराः समीरणाः ॥ ७८ ॥
कीर्णैः शीकरैरम्बुकणैर्नीहारभारेण शैत्योत्कर्षेण उदाराः सुखदाः
समीरणा वायवो ववुः ॥ ७८ ॥
प्रपुस्फुरुः सुसौवर्णसर्पापत्सरणोपमाः ।
विद्युतो दिवि दैव्यस्त्रीकटाक्षवलना इव ॥ ७९ ॥
सौवर्णानां सर्पाणां प्रागुक्तसन्तापलक्षणाया आपदः सकाशात्सरणं
बहिर्निःसरणं यत्पर्वतादौ प्रसिद्धं तदेव उपमा यासाम् । दैव्यो
देवविषयिण्यः । अर्थाद्दिव्यस्त्रीकटाक्षा इति गम्यते ॥ ७९ ॥
जुघूर्णुर्गर्जनोच्छूनप्रतिशुद्धनकन्दराः ।
दिशश्चलितमातङ्गसिंहर्क्षरवघर्घराः ॥ ८० ॥
उच्छूनैः प्रबृद्धैः प्रतिश्रुद्भिः प्रतिध्वनिभिर्घना निबिडिता गिरिकन्दरा
यासु । रोषाच्चलितानामभिमुखप्रस्थितानां मातङ्गादीनां
प्रतिगर्जितरवैर्घर्घरा मुखराः ॥ ८० ॥
महामुसलधाराभिः पेतुरासारवृष्टयः ।
कष्टटङ्कारकठिनाः कृतान्तस्येव दृष्टयः ॥ ८१ ॥
कष्टैष्टङ्कारैः करकनिपातध्वनिभिर्मर्मशिराभेदनध्वनिभिश्च
कठिनाः ॥ ८१ ॥
उदभूत्प्रथमं वाष्प उष्णोऽनलनिभो भुवः ।
पातालादभ्रवृन्दानां युद्धायेवात्तविभ्रमः ॥ ८२ ॥
अभ्रवृन्दानां सम्बन्धिने युद्धाय आत्तः स्वीकृतो विभ्रमः शौर्यविलासो
येन तथाविध इवेत्युत्प्रेक्षा ॥ ८२ ॥
ततो निमेषमात्रेण प्रशेमुर्मृगतृष्णिकाः ।
परबोधरसापूरैर्यथा संसारवासनाः ॥ ८३ ॥
मृगतृष्णिकाशब्देन तद्धेतव आतपा लक्ष्यन्ते । परस्यात्मनो बोधः
साक्षात्कारस्तल्लक्षणैर्निरतिशयानन्दरसापूरैः ॥ ८३ ॥
आसीत्पङ्काङ्कमखिलं भूमण्डलमसञ्चरम् ।
पूरितः पूर्णधाराभिः सिन्धुः सिन्धुरिवाम्बुना ॥ ८४ ॥
असञ्चरं सञ्चाराक्षमम् । सिन्धुः राजा सिन्धुः समुद्र इव पूरितः ॥ ८४ ॥
वायव्यमस्त्रमसृजत्पूरिताकाशकोटरम् ।
कल्पान्तनृत्तसम्मत्तरटद्भैरवभीषणम् ॥ ८५ ॥
ववुरशनिनिपातपीडिताङ्गा
दलितशिलाशकलाः ककुम्मुखेषु ।
प्रलयसमयसूचका भटानां
कृतपटुताङ्कृतटङ्किनः समीराः ॥ ८६ ॥
अशनिनिपातेनेव पीडितानि प्राणिनामङ्गानि यैः भटानां प्रतियोद्धृभिरिव
कृतैः पटुभिष्टाङ्कृतैः शिलाद्यभिघातध्वनिभिष्टङ्कः
पाषाणदारणायुधविशेषस्तद्वन्त इव समीरा वायवः ककुभां दिशां
मुखेषु ववुः ॥ ८६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो०
आयुधवर्णनं नामाष्टचत्वारिंशः सर्गः ॥ ४८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे आयुधवर्णनं
नामाष्टचत्वारिंशः सर्गः ॥ ४८ ॥