सप्तचत्वारिंशः सर्गः ४७
श्रीवसिष्ठ उवाच ।
एतस्मिन्वर्तमाने तु घोरे समरसङ्गमे ।
लीलाद्वयमुवाचेदं ज्ञप्तिं भगवतीं पुनः ॥ १ ॥
सिन्धोः शत्रुजये हेतुः सूर्योदयरणक्रमः ।
युद्धं च द्वैरथं राज्ञोर्मन्त्रास्त्रैरिह कीर्त्यते ॥ १ ॥
पुनःशब्देन वक्ष्यमाणप्रश्नोत्तरयोः प्रागुक्तयुक्तिभिरेव गतार्थत्वात्
पुनरुक्तप्रायतया उक्तार्थस्फुटीकारमात्रप्रयोजनतां दर्शयति ॥ १ ॥
लीलाद्वयमुवाच ।
देवि कस्मादकस्मान्नौ भर्ता जयति नो रणे ।
वद त्वय्यपि तुष्टायामस्मिन्विद्रुतवारणे ॥ २ ॥
विद्रुताः प्रधाविता वारणा यस्मिंस्तथाविधे रणे नौ आवयोर्भर्ता विदूरथः
॥ २ ॥
श्रीसरस्वत्युवाच ।
चिरमाराधितानेन विदूरथनृपारिणा ।
अहं पुत्रि जयार्थेन न विदूरथभूभृता ॥ ३ ॥
आराधिता जयकामनयेति शेषः ॥ ३ ॥
तेनासावेव जयति जीयते च विदूरथः ।
ज्ञप्तिरन्तर्गता संविदेतां मां यो यदा यथा ॥ ४ ॥
अन्तर्गता सर्वप्राणिमनोन्तर्गता संवित्संवेदनमहमिति शेषः ॥ ४ ॥
प्रेरयत्याशु तत्तस्य तदा सम्पादयाम्यहम् ।
यो यथा प्रेरयति मां तस्य तिष्ठामि तत्फला ॥ ५ ॥
प्रेरयति कामकर्मवासनाबलात्फलदानोन्मुखीकरोति । सम्पादनं च स्वस्य
तत्तत्फलभावेन विवर्त एवेत्युक्तार्थस्फुटीकारेणाह - य इति ॥ ५ ॥
न स्वभावोऽन्यतां धत्ते वह्नेरौष्ण्यमिवैष मे ।
अनेन मुक्त एव स्यामहमित्यस्मि भाविता ॥ ६ ॥
अनेन विदूरथेन ॥ ६ ॥
प्रतिभारूपिणी तेन बाले मुक्तो भविष्यति ।
एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः ॥ ७ ॥
बाले इत्यप्रबुद्धलीलासम्बोधनम् । प्रबुद्धलीलायाः प्रागेव समाहितत्वात् ॥ ७ ॥
जयाम्यहं स्यां सङ्ग्राम इत्यनेनास्मि पूजिता ।
तस्माद्विदूरथो देहं तत्प्राप्य सह भार्यया ॥ ८ ॥
जयेन आमयति पीडयति शत्रूनिति जयामी अहं स्यां इति सङ्कल्पेन । स्यामिति
सामान्यस्य जयामीति क्रियाविशेषेण पचतिभवतीतिवदभेदान्वयो वा ॥ ८ ॥
त्वयानया च कालेन वाले मुक्तो भविष्यति ।
एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः ॥ ९ ॥
त्वया अनया च भार्यया सह ॥ ९ ॥
हत्वैनं वसुधापीठे जयी राज्यं करिष्यति [भविष्यति इति पाठः]
।
श्रीवसिष्ठ उवाच ।
एवं देव्यां वदन्त्यां तु बलयोर्युध्यमानयोः ॥ १० ॥
रविर्द्रष्टुमिवाश्चर्यमाजगामोदयाचलम् ।
चेलुस्तिमिरसङ्घाता बलानीवारिरूपिणः ॥ ११ ॥
विदूरथस्यारिरूपिणो ये तिमिरसङ्घाता रात्रौ रक्षःपिशाचादीन् जीवसङ्घान्
बलानि स्वसैन्यानीव असृजन् आविश्चकुरित्युत्प्रेक्षा । सन्ध्यायां तारका इवेति
तस्योपमानम् ॥ ११ ॥
असृजन्जीवसङ्घान्ये सन्ध्यायां तारका इव ।
शनैः प्रकटतां जग्मुर्नीलाकाशाद्रिभूमयः [बिलाकाशाद्रि इति
मुद्रितपुस्तके पाठः] ॥ १२ ॥
भुवनं कज्जलाम्भोधेरिवोत्क्षिप्तमराजत ।
पेतुः कनकनिःस्यन्दसुन्दरा रविरश्मयः ॥ १३ ॥
उत्क्षिप्तं पर्यानीतम् ॥ १३ ॥
शैलेषु वरवीरेषु रणे रक्तच्छटा इव ।
अदृश्यत ततो व्योम तथा रणमहीतलम् ॥ १४ ॥
रणमहीतलं वीरबाहुभिर्भ्रान्तभुजगमिव व्योम तु सूर्यस्य बाहुभिरिव
किरणैः ॥ १४ ॥
बाहुभिर्भ्रान्तभुजगं प्रभाभिः कीर्णकाञ्चनम् ।
कुण्डलैः कीर्णरत्नौघं शिरोभिर्दृष्टपङ्कजम् ॥ १५ ॥
उभयमुभयप्रभाभिः कीर्णकाञ्चनमिवादृश्यतेत्यर्थः ।
एवमग्रेऽप्युत्प्रेक्षयोभयवर्णनं बोध्यम् । उत्पतद्भिः पतितैश्च कुण्डलैः
कीर्णरत्नौघं शिरोभिश्च दृष्टपङ्कजं सर इव ॥ १५ ॥
आयुधैः खड्गनीरन्ध्रं शरैः शलभनिर्भरम् ।
रक्ताभास्थिरसन्ध्याढ्यं ससिद्धपुरुषं शवैः ॥ १६ ॥
खड्गैर्मृगजातिभिर्नीरन्ध्रं निबिडितमिव । रक्ताभाभिः रक्तकान्तिभिः
स्थिरसन्ध्याढ्यमिव । एवं सर्वत्र ॥ १६ ॥
प्। २४४) १४७
हारैः ससर्पनिर्मोकं कटैरिद्धं सुसङ्कुलम् ।
लसल्लतं पताकाभिरुरुभिः कृततोरणम् ॥ १७ ॥
कटैः कङ्कटैः ॥ १७ ॥
हस्तैः पादैः पल्लवितं शरैः शरवणोपमम् ।
शस्त्रांशुशाद्वलश्यामं शस्त्रपूरैः सकैतकम् ॥ १८ ॥
कीर्णमायुधमालाभिरुन्मत्तमिव भैरवम् ।
फुल्लाशोकवनाकारं शस्त्रसङ्घट्टवह्निभिः ॥ १९ ॥
उदघुङ्घुमहाशब्दैर्विद्रवत्सिद्धनायकैः ।
सौवर्णनगराकारं बालार्ककचितायुधैः ॥ २० ॥
उदधिवद्घुङ्घुमहाशब्दैः । उदधिशब्दस्य च्छान्दसो धिलोपः ।
सौवर्णनगरं त्रिपुरे प्रसिद्धं तदाकारम् ॥ २० ॥
प्रासासिशक्तिचक्रर्ष्टिमुद्गरारणिताम्बरम् ।
वहद्रक्तनदीरंहःप्रोह्यमानशवोत्करम् ॥ २१ ॥
भुशुण्डीशक्तिकुन्तासिशूलपाषाणसङ्कुलम् ।
शूलशस्त्राहतिच्छन्नकबन्धपतनान्वितम् ॥ २२ ॥
कालताण्डववेतालकुलारब्धहलारवम् ।
शून्ये रणाङ्गणे दीप्तौ पद्मसिन्ध्वो रथौ चलौ ॥ २३ ॥
इत्थं व्योमरणमहीतले वर्णयित्वा सिन्धुविदूरथयोर्द्वैरथं युद्धं
रथादिद्वारा वर्णयति - शून्ये इत्यादिना । शून्ये परिवारयोधानां
परस्परं युद्धेन क्षयादिति भावः ॥ २३ ॥
अदृश्येतां नभश्चिह्नौ चन्द्रसूर्यौ दिवीव तौ ।
चक्रशूलभुशुण्ड्यृष्टिप्रासायुधसमाकुलौ ॥ २४ ॥
नभसश्चिह्नौ लक्षणभूतौ । दिवि स्वर्गे ॥ २४ ॥
सहस्रेण सहस्रेण वीराणां परिवारितौ ।
विचरन्तौ यथाकामं मण्डलैर्विततारवैः ॥ २५ ॥
सचीत्कारमहाचक्रपिष्टानेकमृतामृतौ ।
तरन्तौ रक्तसरितौ मत्तवारणलीलया ॥ २६ ॥
रक्तसरितौ अन्योन्यसम्पादिते तरन्तौ ॥ २६ ॥
केशशैवलसम्पन्ने चक्रचक्रजलेन्दुके ।
वहच्चक्राहतिक्षोभपातिताकुलवारणौ ॥ २७ ॥
चक्राण्येव चक्राश्चक्रवाका जलप्रतिबिम्बितेन्दुकाश्च ययोस्तथाविधे
रक्तसरितौ ॥ २७ ॥
मणिमुक्ताझणत्काररणत्कूबरकारवौ ।
वाताहतपताकाग्रपटत्पटपटारवौ ॥ २८ ॥
झणत्कारलक्षणा रणतां रणप्रवृत्तानां वा रथकूबरकाणामारवा
ध्वनयो ययोस्तौ ॥ २८ ॥
अनुयातौ महावीरैर्भूरिभिर्भीरुसैनिकैः ।
धारा वमद्भिः कुन्तानां शराणां धनुषामपि ॥ २९ ॥
भीरवः सैनिका येषां तथाविधैर्भूरिभिर्महावीरैरनुयातौ । धनुषां
सम्बन्धिनां शराणां शक्त्यादीनामपि धारा वमद्भिः । क्षिपद्भिरिति यावत्
॥ २९ ॥
शक्तीनां प्रासशङ्कूनां चक्राणां कचतां रणे ।
तत्र तौ क्षणमावृत्य मण्डले भूमिकुण्डले ॥ ३० ॥
रणभूमेः कुण्डले इवालङ्कारभूते रथयोः परिवर्तनरूपे मण्डले
क्षणमावृत्य ॥ ३० ॥
उभौ व्यतिबभूवाते सम्मुखावायुधावुभौ ।
नाराचधारानिकरविक्षेपकरकध्वनौ ॥ ३१ ॥
आयोधनमायुधिर्युद्धं तस्मिन्नुभौ व्यतिबभूवाते परस्परक्रियाव्यत्यासेन
बभूवतुः । व्यतिशब्दौ कर्मव्यतिहारद्योतनार्थौ । कर्तरि कर्मव्यतिहारे
इत्यात्मनेपदम् । व्यतिहृतक्रियां दर्शयति - नाराचेति । नाराच एव
जलधारानिकराः । विक्षिप्यन्त इति विक्षेपाः प्रासकुन्तादयस्त एव करका
वर्षोपलास्तत्पातनसहनप्रयुक्तध्वनौ विषये अब्धिजलदाविव पुनःपुनः
पर्यायेणैको जलद इव ववर्ष अपरोऽब्धिरिव सेहे । तत्र च ध्वनिमात्रं वृत्तं
न क्षतादिफलान्तरमिति द्योतनाय ध्वनावित्युक्तिः ॥ ३१ ॥
अन्योन्यमपि गर्जन्तौ मत्तब्धिजलदाविव ।
तयोः प्रहरतोर्बाणा वसुधानरसिंहयोः ॥ ३२ ॥
पाषाणमुसलाकारा व्योमविस्तारिणोऽभवन् ।
करवालमुखाः केचिन्मुद्गराननकाः परे ॥ ३३ ॥
तयोः शराणां वैचित्र्यं वर्णयति - पाषाणेत्यादिना । व्योम्नि विस्तारिणः
अभवन्निति सर्वत्र सम्बध्यते ॥ ३३ ॥
शितचक्रमुखाः केचित्केचित्परशुवक्रकाः ।
केचिच्छक्तिमुखाः केचित्केचिच्छूलशिलामुखाः ।
त्रिशूलवदनाः केचित्स्थूला इव महाशिलाः ॥ ३४ ॥
केचित्केचिदिति वीप्साविवक्षया द्विरुक्तिः ॥ ३४ ॥
प्रलयपवनपातिताः शिलौघा
इव निपतन्ति शिलीमुखास्तदा स्म ।
प्रमिलितमभवत्तयोस्तदानीं
प्रलयविजृम्भितसिन्धुसम्भ्रमेण ॥ ३५ ॥
शिलीमुखा बाणाः तयोः सिन्धुविदूरथयोः प्रमिलितमन्योन्यमेलनं
प्रलयार्थं विजृम्भितयोर्विवृद्धयोः सिन्ध्वोः समुद्रयोः सम्भ्रमेण
परस्परमेलनविलासेन अभवत् तुल्यमिति शेषः ॥ ३५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली०
विदूरथसिन्धुसमागमो नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
विदूरथसिन्धुसमागमो नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
प्। २४५) १४७