०४६

षट्चत्वारिंशः सर्गः ४६

श्रीराम उवाच ।

एवं सङ्कथयन्तीषु तासु तस्मिन्गृहोदरे ।
विदूरथः किमकरोन्निर्गत्य कुपितो गृहात् ॥ १ ॥

विदूरथस्य युद्धार्थं निर्गमः सैन्यसम्भ्रमैः ।
रणभूमिप्रवेशेन युद्धारम्भश्च वर्ण्यते ॥ १ ॥

श्रीवसिष्ठ उवाच ।

विदूरथः स्वसदनान्निर्गतः परिवारितः ।
परिवारेण महता ऋक्षौघेणेव चन्द्रमाः ॥ २ ॥

ऋक्षौघेण नक्षत्रगणेन ॥ २ ॥

सन्नद्धसर्वावयवो लग्नहारविभूषणः ।
महाजयजयारावैः सुरेन्द्र इव निर्गतः ॥ ३ ॥

वर्मायुधादिना सन्नद्धसर्वावयवः । लग्नानि स्वस्वोचितस्थानेष्वासक्तानि
हारविभूषणानि यस्य ॥ ३ ॥

समादिशन्योधगणं शृण्वन्मण्डलसंस्थितिम् ।
आलोकयन्वीरगणानारुरोह नृपो रथम् ॥ ४ ॥

समादिशन् तत्तदुचितकार्येष्वाज्ञापयन् । मन्त्रिभिरुक्तां मण्डलस्य
व्यूहरचनाविशेषस्य संस्थितिं जनपद व्यवस्थां वा ॥ ४ ॥

कूटाकारसमाकारं मुक्तामाणिक्यमण्डितम् ।
पताकापञ्चभिर्व्याप्तं द्युविमानमिवोत्तमम् ॥ ५ ॥

कूटस्य मेर्वादिशिखरस्याकारेण सम आकारो यस्य । द्युविमानं स्वर्गे
प्रसिद्धं विमानम् ॥ ५ ॥

प्। २४२)

चक्रभित्तिपरिप्रोतप्रकचत्काञ्चनाङ्कुरम् ।
मुक्ताजालरणत्कारचारुविक्रमकूबरम् ॥ ६ ॥

चक्रेषु भित्तिषु च परिप्रोता निखाताः प्रकचन्तः काञ्चनाङ्कुराः स्वर्णकीला
यत्र । विक्रमकूबरं दीर्घाग्रभागम् ॥ ६ ॥

सुग्रीवैर्लक्षणोपेतैः प्रशस्तैः प्रचलैः कृशैः ।
जवोड्डयनवेगेन प्रवहद्भिः सुरानिव ॥ ७ ॥

प्रशस्तैरुत्तमजातिजैः । सुरानिवान्तरिक्षे प्रवहद्भिरित्यतिशयोक्तिः ॥ ७ ॥

वायुं जवेन सहसा असहद्भिर्गतिक्रमैः ।
प्रोह्यद्भिरिव पश्चार्धमापिबद्भिरिवाम्बरम् ॥ ८ ॥

पूर्वकायगतिक्रमैः पश्चार्धं प्रोह्यद्भिर्वहद्भिरिव । छान्दसो
विकरणव्यत्ययः ॥ ८ ॥

योजितैरिव सम्पूर्णैश्चन्द्रैश्चामरदीप्तिभिः ।
अश्वैरष्टभिराबद्धमाशापूरकहेषितैः ॥ ९ ॥

चामरदीप्तिभिः सम्पूर्णैश्चन्द्रैर्योजितैरिवेति सर्वत्रोत्प्रेक्षा ॥ ९ ॥

अथोदपतदुद्दामनागाभ्ररवनिर्भरः ।
शैलभित्तिप्रतिध्वानदारुणो दुन्दुभिध्वनिः ॥ १० ॥

नागा गजास्तल्लक्षणानामभ्राणां रवेण निर्भरोऽतिशयितः । शैलानां
भित्तिषु वप्रेषु प्रतिध्वानेन दारुणो भीरुभीषणः ॥ १० ॥

मत्तसैनिकनिर्मुक्तैर्व्याप्तं कलकलारवैः ।
किङ्किणीजालनिर्ध्वानैर्हेतिसङ्घट्टघट्टितैः ॥ ११ ॥

हेतीनामायुधानां सङ्घट्टेन सङ्घट्टनशब्देन घट्टितैर्निबिडितैः ॥ ११

धनुश्चटचटाशब्दैः शरसीत्कारगायनैः ।
परस्पराङ्गनिष्पिष्टकवचौघझण्ज्झणैः ॥ १२ ॥

ज्वलदग्निटणत्कारैरार्तिमत्क्रन्दनारवैः ।
परस्परभटाह्वानैर्बन्दिविक्षुब्धरोदनैः ॥ १३ ॥

बन्दिभिर्वीरोत्साहायाधिक्षेपेण विक्षुब्धानामयुद्धक्षतपीडितानां
कातराणां रोदनैः ॥ १३ ॥

शिलाघनीकृताशेषब्रह्माण्डकुहरो ध्वनिः ।
हस्तग्राह्योऽभवद्भीमो दशाशाकुञ्जपूरकः ॥ १४ ॥

स्वपूरणेन शिलावद्घनीकृतं निरन्तरीकृतमशेषं ब्रह्माण्डकुहरं
येन । घनत्वादेव हस्तग्राह्य इत्युत्प्रेक्षा ॥ १४ ॥

अथोदपतदादित्यपथपीवररोधकम् ।
रजोनिभेन भूपीठमम्बरोड्डयनोन्मुखम् ॥ १५ ॥

आदित्यपथस्य पीवरं सत् रोधं कामयते इति रोधकम् । कमेः क्विप् । रजोनिभेन
वेषेण भूपीठमेव अम्बरोड्डयनोन्मुखं भूत्वा उदतिष्ठदित्युत्प्रेक्षा ॥ १५

गर्भवासमिवापन्नं तेनासीत्तन्महापुरम् ।
मूढत्वं यौवनेनेव घनतामाययौ तमः ॥ १६ ॥

तेज रजसा । मूढत्वं स्वाभाविकमज्ञानम् । रजोधिकेन यौवनेनेव ।
तमोन्धकारो घनतां निबिडताम् ॥ १६ ॥

प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः ।
आययुर्बलमालोला नैशभूतप्रम्पराः ॥ १७ ॥

बलं वीर्यं आययुः प्रापुः ॥ १७ ॥

ददृशुस्तन्महायुद्धं द्वे लीले सा कुमारिका ।
प्रस्फुटद्धृदयेनेव देवीदत्तमहादृशौ ॥ १८ ॥

देव्या ज्ञप्त्या दत्ता महादृशो दिव्यदृष्टयो ययोस्ते । सा विदूरथस्य
कुमारिका कन्या च देवीदत्तमहादृगिति विपरिणामेन सम्बध्यते ॥ १८ ॥

प्रशेमुरथ हेतीषु प्रोद्यत्कटकटारवाः ।
एकार्णवपयःपूरैर्वालवा इव वह्नयः ॥ १९ ॥

अथ विदूरथनिर्गमनानन्तरं नगरलुण्टाकानां सैन्धवानां
हेतीनामिषूणां च प्रोद्यन्तः कटकटारवाः प्रशेमुः प्रलये
एकार्णवपयःपूरैर्वालवा वाडवा वह्नय इव । लडयोरभेदात् ॥ १९ ॥

शनैः सेनां समाकर्षन्नाज्ञायत बलान्तरम् ।
विवेशपक्षप्रोड्डीनो मेरुरेकमिवार्णवम् ॥ २० ॥

सेनां समाकर्षन्स विदूरथः सैन्धवानां बलस्य स्वबलस्य च अन्तरं
तारतम्यं न अज्ञायत । अविज्ञायैव एकं सांवर्तमर्णवं मेरुरिव विवेश
परबलमिति शेषः ॥ २० ॥

अथोदभूद्गुणध्वानं चटच्चटदिति स्फुटम् ।
रचितांशुमयाम्भोदाश्चेरुः परपरम्पराः ॥ २१ ॥

गुणध्वानं ज्यासिञ्जितम् । रचिताः स्वायुधांशुमया अम्भोदा मेघा
याभिस्ताः परेषां शत्रूणां परम्पराश्चेरुः ॥ २१ ॥

ययुरम्बरमाश्रित्य नानाहेतिविहङ्गमाः ।
प्रसभ्रुरलमात्तासुमलिनाः शस्त्रदीप्तयः ॥ २२ ॥

आत्तासवओ गृहीतपरप्राणा अत एव पापेनेव मलिनाः श्यामाः । प्रसस्रुः
प्रसृताः ॥ २२ ॥

जज्वलुः शस्त्रसङ्घट्टज्वलना उल्मुकाग्निवत् ।
जगर्जुः शरधारौघान्वर्षन्तो वीरवारिदाः ॥ २३ ॥

विविशुः क्रकचक्रूरा वीराङ्गेषु च हेतयः ।
पेतुः पटपटारावं हेतिनिष्पिष्टयोऽम्बरे ॥ २४ ॥

हेतिनिष्पिष्टयः खड्गप्रहारा एव पटपटारावात्मना अम्बरे पेतुरुत्पेतुः ॥ २४

जग्मुः शमं तमांस्याशु शस्त्रकानलदीपकैः ।
बभूवुरखिला सेना नवनाराचरोमशाः ॥ २५ ॥

उत्तस्थुर्यमयात्रायां कबन्धनटपङ्क्तयः ।
जगुरुच्चै रणोद्रेकं पिशाच्यो रणदारिकाः ॥ २६ ॥

यमयात्रायां यमाराधनयात्रोत्सवे इति यावत् । नटास्तदनुरूपा
रणोत्सवालङ्कारभूता दारिका बालिकास्तरुण्य इति यावत् ॥ २६ ॥

उदगुर्दन्तसङ्घट्टटङ्कारा दन्तिनां बलात् ।
ऊहुः क्षेपणपाषाणमहानद्यो नभस्तले ॥ २७ ॥

उत् ऊर्ध्वमगुः ॥ २७ ॥

पेतुः शवा निवातास्तसंशुष्कवनपर्णवत् ।
निर्ययुर्लोहिता नद्यो रणाद्रेर्मृतिवर्षिणः ॥ २८ ॥

नितरां वातेनास्तैः क्षिप्तैः संशुष्कैर्वनपर्णैस्तुल्यं तद्वन्निपेतुः ।
मृतिः प्राणिमरणं तेन वर्षिणो वृष्टिप्लाविताद्रणलक्षणादद्रेः सकाशात्
॥ २८ ॥

प्। २४३)

प्रशेमुः पांसवो रक्तैस्तमांस्यायुधवह्निभिः ।
युद्धैकध्यानतः शब्दा भयानि मृतिनिश्चयैः ॥ २९ ॥

प्रशेमुरिति सर्वत्र सम्बध्यते । शब्दा वाक्प्रसराः ॥ २९ ॥

अभवत्केवलं युद्धमपशब्दमसम्भ्रमम् ।
अनाकुलाम्बुवाहाभं खड्गवीचिसटाकृतम् ॥ ३० ॥

अपशब्दमपगतशब्दम् । वाय्वाद्यनाकुलवर्षदम्बुवाहाभम् । वीचयोऽत्र
विद्युत्तरङ्गास्तैः सटाङ्कृतम् ॥ ३० ॥

खदखदरवसंवहच्छरौघं
टकटककितारवसम्पतद्भुशुण्डि ।
झणझणरवसम्मिलन्महास्त्रं
तिमितिमिवद्रणमास दुस्तरं तत् ॥ ३१ ॥

तिमितिमीत्युक्तशस्त्रातिरिक्तप्रहरणध्वन्यनुकरणम् । तद्वत् रणं युद्धं
दुस्तरं आस । भीरूणामिति शेषः ॥ ३१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
विदूरथनिर्याणं नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
विदूरथनिर्याणं नाम षट्चत्वारिंशः सर्गः ४६ ॥