०४५

पञ्चचत्वारिंशः सर्गः ४५

श्रीसरस्वत्युवाच ।

विदूरथस्ते भर्तैष तनुं त्यक्त्वा रणाङ्गणे ।
तदेवान्तःपुरं प्राप्य तादृगात्मा भविष्यति ॥ १ ॥

वरो द्वितीयलीलायाः पद्मप्राप्तिरिहोच्यते ।
जीवानां फललाभश्च स्वसङ्कल्पानुसारतः ॥ १ ॥

तादृगात्मा पद्मभूपालात्मा ॥ १ ॥

श्रीवसिष्ठ उवाच ।

इत्याकर्ण्य वचो देव्या लीला सा तत्पुरास्पदा ।
पुरः प्रह्वा स्थितोवाच वचनं विहिताञ्जलिः ॥ २ ॥

प्रह्वा भक्तिनम्रा पुरः स्थिता । विहिताञ्जलिः ॥ २ ॥

द्वितीयलीलोवाच ।

देवी भगवती ज्ञप्तिर्नित्यमेवार्चिता मया ।
स्वप्ने सन्दर्शनं [स्वमित्यपि पाठः] देवी सा ददाति निशासु मे
॥ ३ ॥

सा यादृश्येव देवेशि तादृश्येव त्वमम्बिके ।
तन्मे कृपणकारुण्याद्वरं देहि वरानने ॥ ४ ॥

त्वं तादृश्येव दृश्यसे अतः सैव त्वमित्याशयः ॥ ४ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्ता सा तदा ज्ञप्तिः स्मृत्वा तद्भक्तिभावनम् ।
इदं प्रसन्ना प्रोवाच तां लीलां तत्पुरास्पदाम् ॥ ५ ॥

भक्त्या भावनं चिन्तनं पूजनं च ॥ ५ ॥

श्रीदेव्युवाच ।

अनन्यया भावनया यावज्जीवमजीर्णया ।
परितुष्टास्मि ते वत्से गृहाणाभिमतं वरम् ॥ ६ ॥

तद्देशलीलोवाच ।

रणाद्देहं परित्यज्य यत्र तिष्ठति मे पतिः ।
अनेनैव शरीरेण तत्र स्यामेतदङ्गना ॥ ७ ॥

तिष्ठति स्थास्यति । वर्तमानसामीप्ये वर्तमानवत् ॥ ७ ॥

श्रीदेव्युवाच ।

एवमस्तु त्वयाऽविघ्नं पूजितास्मि सुते चिरम् ।
अनन्यभावया भूरि पुष्पधूपसपर्यया ॥ ८ ॥

अविघ्नमिति कर्मसाङ्गतामाह । अनन्यभावया असाधारण्या ॥ ८ ॥

श्रीवसिष्ठ उवाच ।

अथ तद्देशलीलायां फुल्लायां तद्वरोदयात् ।
पूर्वलीलाब्रवीद्देवीं सन्देहलुलिताशया ॥ ९ ॥

फुल्लायां सन्तोषेण विकासितायां सत्याम् । तस्याः स्थूलशरीरेण
भर्तृलोकप्राप्तिः स्वस्य तु देहं त्यक्त्वेति कुतो विशेष इति सन्देहेन लुलितो लोलः
कृत आशयो यस्याः सा ॥ ९ ॥

प्। २४१)

पूर्वलीलोवाच ।

ये सत्यकामाः सन्त्येवंसङ्कल्पा ब्रह्मरूपिणः ।
त्वादृशाः सर्वमेवाशु तेषां सिद्ध्यत्यभीप्सितम् ॥ १० ॥

तत्रादौ सन्देहबीजमाह - ये इति ॥ १० ॥

तत्तेनैव शरीरेण किमर्थं नाहमीश्वरि ।
लोकान्तरमिदं नीता तं गिरिग्रामकं वद ॥ ११ ॥

तत्तस्मात्सत्यकामताबलात् ॥ ११ ॥

श्रीदेव्युवाच ।

न किञ्चित्कस्यचिदहं करोमि वरवर्णिनि ।
सर्वं सम्पादयत्याशु स्वयं जीवः स्वमीहितम् ॥ १२ ॥

स्वस्य न स्वतः कामनास्ति पूर्णकामत्वात् । प्राणिकर्मानुसारिणी तु सा
तद्व्यवस्थयैव व्यवस्थितेत्याशयेन ज्ञप्तिः समाधत्ते - न
किञ्चिदित्यादिना ॥ १२ ॥

अहं हितं रटे ज्ञप्तिः संविन्मात्राधिदेवता ।
प्रत्येकमस्ति चिच्छक्तिर्जीवशक्तिस्वरूपिणी ॥ १३ ॥

हितं प्राण्यभिलषितं भाविशुभं रटे वरदानेन प्रकाशयामि ।
फलोत्पादने च जीवानां प्रत्येकं
प्राक्तनकामकर्मवासनावच्छिन्नचिदात्मकजीवशक्तिस्वरूपिणी
तत्तत्कार्यबीजभूता मायासंवलितचिच्छक्तिरस्ति ॥ १३ ॥

जीवस्योदेति या शक्तिर्यस्य यस्य यथा यथा ।
भाति तत्फलदा नित्यं तस्य तस्य तथा तथा ॥ १४ ॥

अतस्तदनुसारेणैवाहं फलप्रदेत्याह - जीवस्येति । भाति
कर्मानुष्ठानहेतुकामनाविषयतया स्फुरति ॥ १४ ॥

मां समाराधयन्त्यास्तु जीवशक्तिस्तवोदिता ।
तदा भवद्यदीह स्यां मुक्तास्मीति चिरं तदा ॥ १५ ॥

अस्मीत्यहंशब्दपर्यायं तिङन्तप्रतिरूपकमव्ययम् । अहं मुक्ता स्यां इति
भाविकर्मतत्फलसूक्ष्मावस्थानगर्भकामनावच्छिन्नचिद्रूपा जीवशक्तिः ॥
१५ ॥

तेन तेन प्रकारेण त्वं मया सम्प्रबोधिता ।
तया युक्त्यामलं भावं नीतासि वरवर्णिनि ॥ १६ ॥

बोधनिरस्ताज्ञानावरणनिर्मलात्मावस्थितिलक्षणममलं भावम् ॥ १६ ॥

अनयैवं भावनया बोधितासि चिरं तदा ।
तमेवार्थं प्राप्तवती सदा स्वचितिशक्तितः ॥ १७ ॥

मुक्ता स्यामित्येवम्भावनया चिरं युक्ता त्वमनया प्राग्दर्शितयुक्त्या
बोधितासि । तं भावितमेवार्थम् ॥ १७ ॥

यस्य यस्य यथोदेति स्वचित्प्रयतनं चिरम् ।
फलं ददाति कालेन तस्य तस्य तथा तथा ॥ १८ ॥

स्वचिदवच्छिन्नं प्रयतनं पुरुषप्रयत्नः ॥ १८ ॥

तपो वा देवता वापि भूत्वा स्वैव चिदन्यथा ।
फलं ददात्यथ स्वैरं नभःफलनिपातवत् ॥ १९ ॥

नभःफलनिपातवन्मिथ्याभूतमित्यर्थः ॥ १९ ॥

स्वसंविद्यतनादन्यन्न किञ्चिच्च कदाचन ।
फलं ददाति तेनाशु यथेच्छसि तथा कुरु ॥ २० ॥

यथा यादृशं फलमिच्छसि तथा तदनुरूपं कर्म कुरु ॥ २० ॥

चिद्भाव एव ननु सर्गगतोऽन्तरात्मा [सर्वगतः इति पाठः]
यच्चेतति प्रयतते च तदैति तच्छ्रीः ।
रम्यं ह्यरम्यमथवेति विचारयस्व
यत्पावनं तदवबुध्य तदन्तरास्स्व ॥ २१ ॥

चिद्भावश्चित्सत्ता । नन्विति निश्चये । तदा प्राक्काले रम्यं विहितमथवा अरम्यं
निषिद्धं यत्कर्म चेतति प्रयतते च उत्तरकालं तस्यैव फलरूपा श्रीः एति उदेति
इति विचारयस्व । विचारेण च यत्पावनं पदं तदवबुध्य तदन्तः आस्स्व तिष्ठ
॥ २१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली०
सत्यकामसत्यसङ्कल्पास्तिता नाम पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सत्यकामसत्यसङ्कल्पास्तिता नाम पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥