०४४

चतुश्चत्वारिंशः सर्गः ४४

श्रीवसिष्ठ उवाच ।

एतस्मिन्नन्तरे राजमहिषी मत्तयौवना ।
तद्विवेश गृहं लक्ष्मीरिव पङ्कजकोटरम् ॥ १ ॥

भीतां विलोक्य महिषीं श्रुत्वान्तःपुरधर्षणम् ।
युद्धाय राज्ञो निर्याणं लीलातत्त्वं च वर्ण्यते ॥ १ ॥

मत्तमिव विघूर्णमानं यौवनं यस्याम् । तल्लीलाप्रज्ञाधिष्ठितं राज्ञो
गृहम् ॥ १ ॥

आलोलमाल्यवसना भिन्नहारलताकुला ।
अनुयाता वयस्याभिर्दासीभिर्भयविह्वला ॥ २ ॥

चन्द्राननावदाताङ्गी श्वासोत्कम्पिपयोधरा ।
तारकाकारदशना स्थिता द्यौरिव रूपिणी ॥ ३ ॥

चन्द्र इव चन्द्र एव च आननं यस्याः । अवदातानि गौराणि स्वच्छानि चाङ्गानि
यस्याः ॥ ३ ॥

अथ तस्या वयस्यैका राजानं तं व्यजिझपत् ।
भूतसङ्ग्रामसंरब्धममरेन्द्रमिवाप्सराः ॥ ४ ॥

देव देवी सहास्माभिः पलाय्यान्तःपुरान्तरात् ।
शरणं देवमायाता वातार्तेव लता द्रुमम् ॥ ५ ॥

देवी कृताभिषेका प्रधानमहिषी ॥ ५ ॥

राजन्दारा हृतास्तास्ते बलवद्भिरुदायुधैः ।
ऊर्मिजालैर्महाब्धीनां तीरद्रुमलता इव ॥ ६ ॥

दाराः अन्या भोगिन्यः ॥ ६ ॥

अन्तःपुराधिपाः सर्वे पिष्टाः शत्रुभिरुद्धतैः ।
अशङ्किताभिपतितैर्वातैरिव वरद्रुमाः ॥ ७ ॥

पिष्टाः सञ्चूर्णिताः ॥ ७ ॥

दूरेणाशङ्कमायातैः परैर्नः पुरमाहृतम् ।
रात्रौ वर्षास्विवोद्घोषैः कमलानीव वारिभिः ॥ ८ ॥

दूरेण दूरात् । दूरान्तिकार्थेभ्यो द्वितीया च इति चात्तृतीया । आहृतमास्कन्दितम् ॥
८ ॥

प्। २३८)

धूमं वर्षद्भिरुन्नादैर्लेलिहानोग्रहेतिभिः ।
वह्निभिर्नः पुरं प्राप्तं परयोधैश्च भूरिभिः ॥ ९ ॥

धूमं वर्षद्भिः किरद्भिः । उन्नादैर्ध्वनद्भिः । धूमवर्मभिः इति पाठे
स्पष्टम् । उन्मादैः इति पाठे उत्कृष्टो मादो हर्षो ग्लेपनं च येषां तैः ।
लेलिहाना इव चलन्त उग्रा हेतयः खड्गा ज्वालाश्च येषाम् ॥ ९ ॥

परिवारैर्विलासिन्यो देव्य आहृत्य मूर्धजैः ।
आक्रन्दन्त्यो बलान्नीताः कुरर्य इव धीवरैः ॥ १० ॥

परिवारैः शत्रुसैनिकैः । कुरर्यो मृग्यः पक्षिण्यश्च । धीवरैर्लुब्धकैः ॥
१० ॥

इति नो येयमायाता शाखा प्रसरशालिनी ।
आपत्तामलमुद्धर्तुं देवस्यैवास्ति शक्तता ॥ ११ ॥

आपत् विपत् । तामलमत्यर्थमुद्धर्तुं निवारयितुम् ॥ ११ ॥

इत्याकर्ण्यावलोक्यासौ देव्यौ युद्धाय याम्यतः ।
क्षम्यतां मम भार्येयं युष्मत्पादाब्जषट्पदी ॥ १२ ॥

असौ राजा इति वाक्यमाकर्ण्य देव्यौ विलोक्य उवाचेति शेषः । हे देव्यौ अहं
युद्धाय यामि गच्छामि क्षम्यताम् । आज्ञां विनैवान्तराले
निर्गमनापराधः । युष्मत्पादाब्जषट्पदीति युवाभ्यां रक्षणीयेत्याशयः ॥
१२ ॥

इत्युक्त्वा निर्ययौ राजा कोपारुणितलोचनः ।
मत्तेभनिर्भिन्नवनः कन्दरादिव केसरी ॥ १३ ॥

लीला लीलां ददर्शाथ स्वाकारसदृशाकृतिम् ।
प्रतिबिम्बमिवायातामादर्शे चारुदर्शनाम् ॥ १४ ॥

लीला प्रबुद्धलीला ॥ १४ ॥

प्रबुद्धलीलोवाच ।

किमिदं देवि हे ब्रूहि [मे ब्रूहीति पाठः] कस्मादियमहं स्थिता ।
या साऽभवमहं पूर्वं कथं सेयमहं स्थिता ॥ १५ ॥

सेयं भूत्वेति शेषः । या अहं सा इयं कथम् । या प्रथमवयस्का अभवं सा
तथैव स्थिता कथम् । स्वस्या अन्यत्वायोगादतीतावस्थायाश्च स्थित्यसम्भवादिति
भावः ॥ १५ ॥

मन्त्रिप्रभृतयः पौरा योधाः सबलवाहनाः ।
सर्व एव त एवेमे स्थितास्तत्र तथैव ते ॥ १६ ॥

किञ्च मन्त्र्यादिष्वपि भेदप्रत्यभिज्ञे विरुद्धे इत्याह - मन्त्रिप्रभृतय
इति ॥ १६ ॥

तत्रापीह च हे देवि सर्वे कथमवस्थिताः ।
बहिरन्तश्च मुकुरे इवैते किं प्रचेतनाः ॥ १७ ॥

प्रचेतनाः सचेतनाः किम् ॥ १७ ॥

श्रीदेव्युवाच ।

यथा ज्ञप्तिरुदेत्यन्तस्तथानुभवति क्षणात् ।
चितिश्चेत्यार्थतामेति चित्तं चित्तार्थतामिव ॥ १८ ॥

चितिशक्तीनामतर्क्यत्वात्तुल्यकर्मोद्बोधितानां तुल्य एवाविर्भावः
क्वचिद्भवतीति देवी दृष्टिसृष्टिवादमालम्ब्य समाधत्ते - यथेति ।
चेत्यार्थतां अध्यासेन चेत्याकारताम् । यथा चित्तं मनः स्वप्नादौ
चित्तानुभूतजाग्रदर्थाकारतामित्यर्थः ॥ १८ ॥

यादृगर्थं जगद्रूपं तत्रैवोदेति तत्क्षणात् ।
न देशकालदीर्घत्वं न वैचित्र्यं पदार्थजम् ॥ १९ ॥

यादृक् यदाकारोऽर्थो यस्मिंस्तथाविधं संस्कारात्मकं जगद्रूपं तत्र
चित्ते चिति च अस्ति तादृगेवोदेति । भोजकादृष्टोद्बोधिता
मायासम्बलितचिच्छक्तिरघटितमपि घटयितुं समर्थेत्यर्थः । एवञ्च
देशकालाल्पतावैपुल्यविरोधोऽपि परिहृत इत्याशयेनाह - नेति । यदि
पदार्थजं स्यात्तर्हि तत्स्वभावविरुद्धं न घटेत नतु तथेति भावः ॥ १९ ॥

बाह्यमाभ्यन्तरं भाति स्वप्नार्थोऽत्र निदर्शनम् ।
यदन्तः स्वप्नसङ्कल्पपुरं च कचनं चितेः ॥ २० ॥

चैतन्ये अध्यस्तत्वात्तदाभ्यन्तरं जगद्बाह्यं बहिर्भवमिव भाति ॥ २० ॥

तदेतद्बाह्यनाम्नैव स्वभ्यासात्सत्स्फुटं स्थितम् ।
यादृग्भावो भृतो भर्ता तव तस्मिंस्तदा पुरे ॥ २१ ॥

स्वभ्यासाच्चिराभ्यासात् स्फुटं व्यक्तं सत्सत्यमिव स्थितम् । यादृक् भावो
वासना यस्य स तथाविधः सन् मृतः ॥ २१ ॥

तादृग्भावस्तमेवार्थं तत्रैव समुपागतः ।
अन्य एव ह्यमी भूतास्तेभ्यस्तास्तादृशा अपि ॥ २२ ॥

समुपागतः प्राप्तवान् । समानकर्मवासनोद्बोधितत्वादाकारसाम्येऽप्येते
मन्त्र्यादिजीवा न त एव किन्त्वन्ये इत्याह - अन्य एवेति । त एवेति प्रत्यभिज्ञया
अभ्यस्ताः पुनःपुनरनुभूता अपि तादृशा अन्ये एव ॥ २२ ॥

सद्रूपा एव चैतस्य स्वप्नसङ्कल्पसैन्यवत् ।
अविसंवादि सर्वार्थरूपं यदनुभूयते ॥ २३ ॥

एतस्य राज्ञश्चित्सत्तया सद्रूपा एव । एतावदेव स्वाप्नाज्जाग्रद्वस्तुनो
वैलक्षण्यं यदविसंवादि सर्वपुरुषसाधारणार्थत्वं नैतावन्मात्रेण
सत्यतासिद्धिरित्याह - अविसंवादीति । चन्द्रप्रादेशिकत्वेन्द्रजालादावपि
अविसंवादि सर्वार्थत्वदर्शनादिति भावः ॥ २३ ॥

तस्य तावद्वद कथं कीदृशी वापि सत्यता ।
अथवोत्तरकाले तु भङ्गुरत्वादवस्तु तत् ॥ २४ ॥

उत्तरकाले बाध्यत्वात्स्वप्नस्यासत्यत्वं चेज्जाग्रत्यपि समानं
नाशबाधयोर्वस्तुनि विशेषाभावादित्याशयेनाह - अथवेति । तत्स्वाप्नम् ॥
२४ ॥

ईदृक्च सर्वमेवेदं तत्र का नास्तिताधिका ।
स्वप्ने जाग्रदसद्रूपा स्वप्नो जाग्रत्यसन्मयः ॥ २५ ॥

अधिका जाग्रदर्थेष्वित्यर्थः । परस्परकालासत्त्वमप्यविशिष्टमित्याह -
स्वप्ने इति ॥ २५ ॥

मृतिर्जन्मन्यसद्रूपा मृत्यां जन्माप्यसन्मयम् ।
विशरेद्विशरारुत्वादनुभूतेश्च राघव ॥ २६ ॥

नाशेऽपि बाधवत्परस्परकालासत्त्वं तुल्यमित्याह - मृतिरिति । नाशे
अवयवानां विशरारुत्वाद्द्रव्यं विशरेन्नश्येत् । बाधे
त्वनुभूतेरनुभवबलाद्विशरेत् । इति निमित्तभेदेऽपि न विशरणे विशेष इत्यर्थः ॥
२६ ॥

एवं न सन्नासदिदं भ्रान्तिमात्रं विभासते ।
महाकल्पान्तसम्पत्तावप्यद्याथ युगेऽनघ ॥ २७ ॥

प्राक् सत्यतोपपादिता इह त्वसत्यतेत्यनिर्वचनीयता द्वयोरपि समेत्याह -
एवमिति । एवं च सृष्टिकाले प्रलयकाले चाविशिष्टं सद्रूपं ब्रह्म
सिद्धमित्याह - महाकल्पान्तेति । महाकल्पान्तसम्पत्तावपि अद्यापि
अथानन्तरमतीतानागतयुगभेदेऽपि कदाचन कदापि यन्नास्ति तत्स्वरूपेण न
किन्तु तत्कल्पनाधिष्ठानं ब्रह्मैवास्ति अतस्तदेव जगन्नतु
भासमानमब्रह्मरूपं जगदित्यर्थः ॥ २७ ॥

प्। २३९)

न कदाचन यन्नास्ति तद्ब्रह्मैवास्ति तज्जगत् ।
तस्मिन्मध्ये कचन्तीमा भ्रान्तयः सृष्टिनामिकाः ॥ २८ ॥

व्योम्नि केशोण्ड्रकानीव न कचन्तीव वस्तुतः ।
यथा तरङ्गा जलधौ तथेमाः सृष्टयः परे ॥ २९ ॥

न कचन्त्येवेति वक्तव्ये इवकारः प्रपञ्चवत्तदभावस्यापि ब्रह्मातिरिक्तस्य
मिथ्यात्वद्योतनार्थः ॥ २९ ॥

उत्पत्त्योत्पत्त्य लीयन्ते रजांसीव महानिले ।
तस्माद्भ्रान्तिमयाभासे मिथ्यात्वमहमात्मनि ॥ ३० ॥

मिथ्यैव त्वं अहं इत्येवंविभागात्मनि ॥ ३० ॥

मृगतृष्णाजलचये कैवास्था सर्गभस्मनि ।
भ्रान्तयश्च न तत्रान्यास्तास्तदेव परं पदम् ॥ ३१ ॥

सर्गभस्मनि दग्धपटभस्मप्राये प्रपञ्चे । ननु विषयबाधेऽपि
भ्रान्तिज्ञानस्वरूपाबाधात्तैरेव द्वैतं स्यात्तत्राह - भ्रान्तयश्चेति ।
निर्विषयज्ञानानां परस्परं ब्रह्मतश्च
भेदकाभावाद्ब्रह्ममात्रत्वमित्यर्थः ॥ ३१ ॥

घने तमसि यक्षाभास्तम एव न यक्षकः ।
तस्माज्जन्ममृतिर्मोहो व्यामोहत्वमिदं ततम् ॥ ३२ ॥

यक्षाभाः बालस्य यक्षभ्रान्तयः । व्यामोहोऽज्ञानं तस्य भावो
व्यामोहत्वं तदीयावरणविक्षेपशक्तिस्तदेवेदं जगद्रूपं ततम् ॥ ३२ ॥

सर्वं तत्समहाकल्पं शान्तौ यदवशिष्यते ।
नातः सत्यमिदं दृश्यं न चासत्यं कदाचन ॥ ३३ ॥

महाकल्पो ब्रह्मज्ञानेन सर्वबाधलक्षणो वैज्ञानिकः प्रलयस्तेन सहितं
बाध्यमित्यर्थः । अधिष्ठानब्रह्मसत्तैव दृश्यस्य
सत्त्वासत्वादिसर्वपक्षान्निरुणद्धीत्याह - शान्तावित्यादिना । सर्वशान्तौ
यदवशिष्यते ब्रह्म अतो ब्रह्मतः सत्यं नेत्यादिसम्बन्धः ॥ ३३ ॥

द्वयमेवैतदथवा ब्रह्म तत्रैव सम्भवात् ।
आकाशे परमाण्वन्तर्द्रव्यादेरणुकेऽपि च ॥ ३४ ॥

द्वयं सत्यासत्योभयरूपं तु नैव । एकस्य
विरुद्धोभयरूपत्वासम्भवादित्यर्थः । तत्र त्रिष्वपि विरुद्धेषु
कल्पेष्वविरोधेन सम्भवाद्ब्रह्मैवेति कल्पः श्रेयानित्याह - ब्रह्मेति ।
कल्पनामात्रत्वं प्रपञ्चस्य सर्वत्र सम्भवतीत्याह - आकाशे इति ।
द्रव्यगुणादेरणुके अल्पतरेऽप्यन्तर्भागे ॥ ३४ ॥

जीवाणुर्यत्र तत्रेदं जगद्वेत्ति निजं वपुः ।
अग्निरौष्ण्यं यथा वेत्ति निजभावक्रमोदितम् ॥ ३५ ॥

वासनाबलेनात्मन्यनात्माध्यासे दृष्टान्तमाह - अग्निरिति ।
पूर्वमनग्निरेवोपासकोऽहमेवाग्निरित्युपासनात्मकनिजभावना##-

पश्यतीदं तथैवात्मा स्वात्मभूतं विशुद्धचित् ।
यथा सूर्योदये गेहे भ्रमन्ति त्रसरेणवः ॥ ३६ ॥

तथेमे परमाकाशे ब्रह्माण्डत्रसरेणवः ।
यथा वायौ स्थितः स्पन्द आमोदः शून्यमम्बरे ॥ ३७ ॥

स्पन्द आमोदश्च वायौ यथा स्थितः । शून्यं शून्यत्वम् ॥ ३७ ॥

पिण्डग्रहविनिर्मुक्तं यथा विश्वं स्थितं परे ।
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ॥ ३८ ॥

पिण्डग्रहः स्थौल्यम् । भावाभावौ आविर्भावतिरोभावौ । ग्रह उपादानम् ।
उत्सर्गस्त्यागः । क्रियामात्रोपलक्षणमेतत् ॥ ३८ ॥

विवर्जितस्यावयवैर्भागा ब्रह्मण ईदृशाः ।
साकारस्यावबोधाय विज्ञेया भवताधुना ॥ ३९ ॥

भागाः कल्पितविभागाः । भवतेति पुंस्त्वाद्रामं प्रति वसिष्ठोक्तिः । ते च
साकारस्य तस्य विश्वस्य निराकारत्वावबोधाय तादृशस्वात्मनोऽनन्या
अनवयवा इव विज्ञेयाः । इवकारः सावयवतावन्निरवयवताया अपि
मिथ्यात्वद्योतनार्थः ॥ ३९ ॥

अनन्याः स्वात्मनस्तस्य तेनानवयवा इव ।
यथास्थितमिदं विश्वं निजभावक्रमोदितम् ॥ ४० ॥

एवमनवयवत्वेन निजभावनाक्रमेण पारमार्थिकरूपेणाविर्भूतं
यथास्थितमेव विश्वशब्दार्थै रिक्तं शून्यं न भविष्यति । विश्वशब्दस्य
पूर्णार्थत्वपर्यवसानात्पूर्णस्य च रिक्तत्वायोगादिति भावः ॥ ४० ॥

रिक्तं न विश्वशब्दार्थैरनन्यद्ब्रह्मणि स्थितम् ।
न तत्सत्यं न चासत्यं रज्जुसर्पभ्रमो यथा ॥ ४१ ॥

तत्र हेतुः - अनन्यदिति । तर्हि यत्सावयवं विश्वं भासते तत्किं तत्राह ##-

मिथ्यानुभूतितः सत्यमसत्यं सत्परीक्षितम् ।
परमं कारणं चित्त्वाज्जीवत्वमिति चेत्यलम् ॥ ४२ ॥

तत्र हेतुमाह - मिथ्येति । नहि भ्रान्तिज्ञानानुभूतं सत्यं भवति न वा
वस्तुतत्त्वपरीक्षणात्मकं तद्बाधकज्ञानं सत्यमपह्नुते येनासत्यं
स्यादिति भावः । चित्त्वात् मायापिहितस्वरूपचित्त्वात् ॥ ४२ ॥

ततस्तथैवानुभवाज्जीवत्वं विन्दति स्फुटम् ।
सत्यं भवत्वसत्यं वा खे विभातमिदं जगत् ॥ ४३ ॥

अनुभवाच्चिरसंवेदनदृढानुभवात् । संसारस्य च जैवी भोगेच्छा
हेतुर्विषयरञ्जनैवोपयुज्यते न सत्यत्वमसत्यत्वं वेत्याह - सत्यमिति ॥ ४३

रञ्जयत्येव जीवाणुः स्वेच्छाभिरनुभूतिभिः ।
अनुभूयन्त एवाशु काश्चित्पूर्वानुभूतितः ॥ ४४ ॥

औपोद्घातिकमुक्त्वा प्रस्तुतप्रश्नसमाधानमाह - अनुभूयन्त इत्यादिना ।
पूर्वानुभूतितः पूर्वानुभूत्या समा असमाश्च केचिदपूर्वानुभवा
अनुभूयन्त इत्यन्वयः ॥ ४४ ॥

अपूर्वानुभवाः काश्चित्समाश्चैवासमास्तथा ।
क्वचित्कदाचित्ता एव क्वचिदर्धसमा अपि ॥ ४५ ॥

सर्वतद्वासनोद्भवे भेदाग्रहात्ता एवेति कचन्ति । अर्धवासनोद्भवे अर्धसमा
अपि ॥ ४५ ॥

प्। २४०)

कचन्त्यसत्याः सत्याभा जीवाकाशेऽनुभूतयः ।
तत्कुलास्तत्समाचारास्तज्जन्मानस्तदीहिताः ॥ ४६ ॥

तयोः प्रथमोऽयं प्रकार इत्याह - तत्कुला इत्यादिना ॥ ४६ ॥

त एव मन्त्रिणः पौराः प्रतिभाने भवन्ति च ।
ते चैवात्मन्यलं सत्या देशकालेहितैः समाः ॥ ४७ ॥

तेषामधिष्ठानदृष्ट्या परमार्थतः प्राक्तनाभेदः अध्यस्तदृष्ट्या तु
साम्यं पर्यवस्यतीत्याह - ते चेति । आत्मनि पारमार्थिकस्वरूपे अलमत्यन्तं
त एवेति सत्याः स्वस्वदेशकालेहितदृष्ट्या तु समास्तुल्याः ॥ ४७ ॥

सर्वगात्मस्वरूपायाः प्रतिभाया इति स्थितिः ।
यथा राजात्मनि व्योम्नि प्रतिभोदेति सन्मयी ॥ ४८ ॥

सर्वत्रैवमेव चैतन्यस्थितिरित्याह - सर्वगेति । नन्वीश्वरस्य
प्रतिभानुसार्यर्थनिर्मातृत्वं श्रुतं जीवस्य त्वर्थानुसार्येव प्रतिभोदयः ।
अन्यथा मानोरथिकस्यापि सत्यत्वसाधारण्ययोरापत्तेस्तत्कथं
राजप्रतिभामात्रादर्थानां सिद्धिरितरजीवसाधारणव्यवहारयोग्यता
चेत्याशङ्क्याह - यथेति । राजात्मनि यथा यादृशी सन्मयी
सर्वसाधारणसत्यार्था प्रतिभा उदेति तथा तदग्रगा ततः पूर्वभाविनी
साधारणभोजकादृष्टवशात् सच्छब्दवाच्ये अम्बरे अव्याकृताकाशरूपे
ईश्वरे सत्यसङ्कल्परूपा प्रतिभा उदेत्येव । तथाच नोक्तदोष इति भावः ॥ ४८ ॥

तथा तदग्रगोदेति सत्येव प्रतिभाम्बरे ।
त्वच्छीला त्वत्समाचारा त्वत्कुला त्वद्वपुर्मयी ॥ ४९ ॥

इति लीलेयमाभाति प्रतिभाप्रतिबिम्बजा ।
सर्वगे संविदादर्शे प्रतिभा प्रतिबिम्बति ॥ ५० ॥

इति उक्तदिशा आभाति । सर्वत्रेयमेव रीतिरित्याह - सर्वगे इति ॥ ५० ॥

यादृशी यत्र सा तत्र तथोदेति निरन्तरम् ।
जीवाकाशस्य यान्तस्था प्रतिभा कुरुते स्वयम् ।
सा बहिश्च चिदादर्शे प्रतिबिम्बादियं स्थिता ॥ ५१ ॥

अन्तस्था अन्तर्यामीश्वरप्रतिभासा बहिश्च कुरुते । तथाच बाह्यत्वेन
साधारणदृश्यत्वोपपत्तिरिति भावः ॥ ५१ ॥

एषा त्वमम्बरमहं भुवनं धरा च
राजेति सर्वमहमेव विभातमात्रम् ।
चिद्व्योमबिल्वजठरं विदुरङ्ग विद्धि
त्वं तेन शान्तमलमास्स्व यथास्थितेह ॥ ५२ ॥

अम्बरमाकाशं तदन्तर्गतं भुवनं तदन्तर्गता धरा तदन्तर्गता त्वं
अहं राजा चेति सर्वं विभातमात्रं चिन्मात्रस्वभावं अहं प्रत्यग्रूपमेव ।
एवमेवान्ये तत्त्वज्ञाः सर्व चिद्व्योमलक्षणबिल्वस्य जठरं तत्सत्तामात्रं
बीजगर्भं विदुः । हे अङ्ग लीले त्वमपि तथा विद्धि । तेन यथास्थिता
स्वभावस्था शान्तं निर्विक्षेपमास्स्व ॥ ५२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो०
अग्निदाहरात्रियुद्धे जगद्ब्रह्मवर्णनं नाम चतुश्चत्वारिंशः सर्गः
॥ ४४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जगद्ब्रह्मवर्णनं नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥