त्रिचत्वारिंशः सर्गः ४३
श्रीसरस्वत्युवाच ।
अस्मिन् रणवरे राजन्मर्तव्यं भवताधुना ।
प्राप्तव्यं प्राक्तनं राज्यं सर्वं प्रत्यक्षमेव ते ॥ १ ॥
अभीष्टवरदानं च पुरस्याक्रमदीपनम् ।
वर्ण्यते दह्यमानानां चेष्टा च पुरवासिनाम् ॥ १ ॥
देवी तज्जिज्ञासितं भाव्यर्थमपि स्पष्टमाचक्षाणा वरशेषमपि दातुमाह
- अस्मिन्निति । सर्वं ते प्रत्यक्षमेव भविष्यतीति शेषः ॥ १ ॥
कुमार्या मन्त्रिणा चैव त्वया च प्राक्तनं पुरम् ।
आगन्तव्यं शवीभूतं प्राप्तव्यं तच्छरीरकम् ॥ २ ॥
त्वया च प्राक्तनं शवीभूतं तच्छरीरकं प्राप्तव्यमिति सम्बन्धः ॥ २ ॥
आवां यावो यथायातं वातरूपेण च त्वया ।
आगन्तव्यः स देशस्तु कुमार्या मन्त्रिणापि च ॥ ३ ॥
मृत्वा वायुरूपिणा आतिवाहिकदेशरूपेण त्वया स प्राक्तनो देश आगन्तव्यः ॥
३ ॥
अन्यैव गतिरश्वस्य गतिरन्या खरोष्ट्रयोः ।
मदस्विन्नकपोलस्य गतिरन्यैव दन्तिनः ॥ ४ ॥
इयमातिवाहिकदेहगतिर्मानोरथिकगतिवन्मण्डपान्तःसंवृताकाशेऽपि
सुदूरमिव सम्भवति नाश्वादिगतिवद्दैशवैपुल्यं प्राक्सिद्धमपेक्षत
इत्याशयेनाह - अन्यैवेति ॥ ४ ॥
प्रस्तुतेति कथा यावन्मिथो मधुरभाषिणोः ।
तावत्प्रविश्य सम्भ्रान्त उवाचोर्ध्वस्थितो नरः ॥ ५ ॥
ऊर्ध्वस्थितः प्रासादाग्राद्युन्नतप्रदेशमारुह्य निशि
बाह्यपुरवृत्तान्तदर्शी पुरुषो राजसन्निधिं प्रविश्योवाच ॥ ५ ॥
प्। २३५)
देव सायकचक्रासिगदापरिघवृष्टिमत् ।
महत्परबलं प्राप्तमेकार्णव इवोद्धतः ॥ ६ ॥
देवेति राजसम्बोधनम् ॥ ६ ॥
कल्पकालानिलोद्धूतकुलाचलशिलोपमम् ।
गदाशक्तिभुशुण्डीनां वृष्टिं मुञ्चति तुष्टिमत् ॥ ७ ॥
तुष्टिमत् उत्साहप्रहृष्टं परबलम् ॥ ७ ॥
नगरे नगसङ्काशे लग्नोऽग्निर्व्याप्तदिक्तटः ।
दहंश्चटचटास्फोटैः पातयत्युत्तमां पुरीम् ॥ ८ ॥
उन्नतप्रासादशिखरैस्तृणकाष्ठादिसमृद्ध्या च नगसङ्काशे
पर्वतसदृशे ॥ ८ ॥
कल्पाम्बुदघटातुल्या व्योम्नि धूममहाद्रयः ।
बलात्प्रोड्डयनं कर्तुं प्रवृत्ता गरुडा इव ॥ ९ ॥
कल्पाम्बुदानां संवर्तमेघानां घटाभिः समूहैस्तुल्याः ॥ ९ ॥
श्रीवसिष्ठ उवाच ।
ससम्भ्रमं वदत्येवं पुरुषे परुषारवः ।
उदभूत्पूरयन्नाशा बहिः कोलाहलो महान् ॥ १० ॥
ससम्भ्रमं सभयम् । परुषा निष्ठुरभाषणरूपा आरवा यत्र तथाविधः
कोलाहलः । आशा दिशः ॥ १० ॥
बलादाकर्णकृष्टानां धनुषां शरवर्षिणाम् ।
बृंहतामतिमत्तानां कुञ्जराणां तरस्विनाम् ॥ ११ ॥
कोलाहलमेव सम्बन्धिभेदैर्विशिष्य वर्णयति - बलादित्यादिना ॥ ११ ॥
पुरे चटचटास्फोटैर्दहतां जातवेदसाम् ।
पौराणां दग्धदाराणां महाहलहलारवैः ॥ १२ ॥
महाहलहलारवैह् कथित इत्युत्तरत्रान्वयः [पौराणामिति
द्वादशश्लोकोत्तरार्धेन इति भावः] ॥ १२ ॥
तरतामग्निखण्डानां टाङ्कारः कथितो रवैः ।
ज्वलितानां परिस्पन्दाद्धगद्धगिति चार्चिषाम् ॥ १३ ॥
अर्चिषां धगद्धगिति रवैः सह जनैः कथितष्टाङ्कार उदभूदित्यनुकृष्यते
॥ १३ ॥
अथ वातायनाद्देव्यौ मन्त्री राजा विदूरथः ।
ददृशुः प्रोल्लसन्नादं महानिशि महापुरम् ॥ १४ ॥
वातायनात्प्रासादगवाक्षात् ॥ १४ ॥
प्रलयानलसङ्क्षुब्धपूर्णैकार्णवरंहसा ।
पूर्णं परबलेनोग्रहेतिमेघतरङ्गिणा ॥ १५ ॥
उग्रैर्हेतिभिर्मेघतरङ्गोभयवता ॥ १५ ॥
कल्पान्तवह्निविगलन्मेरुभूधरभासुरैः ।
दह्यमानं महाज्वालाज्वालैरम्बरपूरकैः ॥ १६ ॥
महाज्वालानां ज्वालैः शिखाभिः । जालैः इति पाठे स्पष्टम् ॥ १६ ॥
मुष्टिग्राह्यमहामेघगर्जासन्तर्जितोर्जितैः ।
घोरं कलकलारावैर्मांसलैर्दस्युजल्पितैः ॥ १७ ॥
मोषणं मुष्टिः परलुण्ठनं तद्बाह्यविषये परभीषणाय
महामेघगर्जासदृशैः सन्तर्जितैर्भर्त्सनैरूर्जितैः प्रबलैर्मांसलैः
पुष्टैर्दस्यवश्चोरास्तज्जल्पितैर्घोरम् ॥ १७ ॥
पुष्करावर्तसङ्काशधूम्राभ्रपिहिताम्बरम् ।
प्रोड्डीनहेमाग्रनिभैर्ज्वालापुञ्जैर्निरन्तरम् ॥ १८ ॥
पुष्करावर्ताः प्रलयमेघाः । निरन्तरं निरवकाशम् ॥ १८ ॥
तरदुल्मुकखण्डोग्रतारातरलिताम्बरम् ।
अन्योन्यदेशसद्मौघप्रज्वलज्ज्वलनाचलम् ॥ १९ ॥
उल्मुकानां ज्वलत्काष्ठानां खण्डा एवोग्रा औत्पातिका रक्तास्ताराः
ज्वालापरिवर्तेन अन्योन्यदेशविनिमयेन प्रज्वलन्तो ज्वलनाचला यत्र ॥ १९ ॥
हतसैन्यपुरापातं द्रुताङ्गाराभ्रकोटरैः ।
कर्कशाक्रन्दनिर्दग्धलोकपूगोग्रगर्जितम् ॥ २० ॥
हतावशिष्टसैन्यानां पुरापातो नगरप्रवेशो यत्र । द्रुताः प्रसृता अङ्गारा
येषु तथाविधैरभ्रकोटरैर्मेघच्छिद्रैरुपलक्षितमित्यर्थः ।
कर्कशाक्रन्दं यथा स्यात्तथा निर्दग्धजनसमूहैः शत्रुभिरुग्रगर्जितं
यत्र ॥ २० ॥
कृशानुकणनाराचनिरन्तरतराम्बरम् ।
बहुहेतिशिलाजाललुटद्दग्धपुरोत्करम् ॥ २१ ॥
कृशानुकणैर्नाराचैश्च निरन्तरतरमत्यन्तनिरवकाशमम्बरं यत्र ।
हेतिभिः शिलाजालैश्च लुठन्तो निपतन्तः । पुरशब्देन पुरजना उच्यन्ते ।
लुठन्तः प्रधावन्तो दग्धं पुरं यैस्तथाविधा उत्करा ऊर्ध्वीकृतहस्ताः
शत्रवो यत्रेति वा ॥ २१ ॥
रणद्द्विरदसङ्घट्टकुट्टितोद्भटसद्भटम् ।
विद्रवत्तस्करच्छेदमार्गकीर्णमहाधनम् ॥ २२ ॥
अङ्गारराशिनिपतन्नरनार्युग्ररोदनम् ।
स्फुटच्चटचटाशब्दप्रलुठत्स्फुटकाष्ठकम् ॥ २३ ॥
रणे द्विरदानां सङ्घट्टैः कुट्टिताश्चूर्णिता उद्भटाः शूरतराः
सद्भटा यत्र । तस्कराणां शिरश्छेदेन ॥ २२ ॥ २३ ॥
विपुलालातचक्रौघशतसूर्यनभस्तलम् ।
अङ्गारशिखिराकीर्णसमस्तवसुधातलम् ॥ २४ ॥
अलातानि ज्वलदुल्मुकानि । शिखिरैरग्निमिराकीर्णानि ॥ २४ ॥
दग्धाग्निकाष्ठक्रेङ्काररणज्ज्वलनवैणवम् ।
दग्धजन्तुघनाक्रन्दरुदत्सकलसैनिकम् ॥ २५ ॥
दग्धैरग्निकाष्ठैः सहक्रेङ्कारेण रणत्प्रज्वलनयुक्तं वैणवं
वेणुकाष्ठं यत्र ॥ २५ ॥
पांसुशेषात्तराजश्रीवृद्धतृप्तहुताशनम् ।
सकलग्रसनारम्भसोद्योगाग्निमहाशनम् ॥ २६ ॥
पांसव एव शिष्यन्ते यथा तथा आत्तायां दग्धायां राजश्रियि वृद्धः
प्रवृद्धस्तृप्तश्च हुताशनो यत्र । अग्निलक्षणो महाशनो घस्मरो यत्र ॥
२६ ॥
यदृच्छात्कारडात्कारकठिनाग्निरटद्गृहम् ।
अनन्तजन्तुभोज्यान्नवह्निभुक्तेन्धनस्पृहम् ॥ २७ ॥
यदृच्छया अकस्मादेव दैवोपपादिताभ्यां सर्वस्वादानमात्कारो निशि
सुप्तेषु दस्युभिः प्रहरणं डात्कारस्ताभ्यां कठिनेन कुर्वारेणाग्निना च
रटन्तो गृहा यत्र । अनन्तानां जन्तूनां भोज्येषु भोजनार्हेष्वन्नेषु
धान्यराशिषु वह्निना भुक्तेषु अवशिष्टेन्धनमात्रे केषाञ्चित्स्पृहा यत्र ॥
२७ ॥
अथ शुश्राव तत्रासौ गिरो राजा विदूरथः ।
योधानां दग्धदाराणां पश्यताम्भिधावताम् ॥ २८ ॥
दारग्रहणं सर्वस्वोपलक्षणम् ॥ २८ ॥
प्। २३६)
हा मत्तमरुदूर्ध्वस्थानङ्गार गृहपादपान् ।
रणत्खरखरं नीरजालामातपपन्थिनः ॥ २९ ॥
अङ्ग आर इति च्छेदः । अङ्गेति कश्चित्कञ्चित्सम्बोध्याह - नीरजालेन
रसातिशयेन आमान् हरितानत एवातपस्य सन्तापस्य पन्थिनः परिपन्थिनो
निवारकान् ऊर्ध्वस्थान् औन्नत्ये स्थितान्
अस्मद्गृहलक्षणानस्मद्गृहसंवृद्धांश्च पादपान् वृक्षान्
उन्मूलयितुं मत्तः प्रचण्डो मरुत् विपल्लक्षणो वायुर्वा रणत्खरखरं
[१] यथा स्यात्तथा आर आजगाम । हा इति खेदे ॥ २९ ॥
हा दग्धदाराः प्रालेयशीता देहेषु दन्तिनाम् ।
मग्ना मनस्सु महतामिव विज्ञानसूक्तयः ॥ ३० ॥
प्राक्प्रालेयशीता दग्धाः सन्तप्ता दारा दन्तिनां मृतानां देहेषु लीनाः
प्रच्छन्नाः सूक्तिपक्षे ज्ञानाग्निना दग्धाः स्थूलादिदेहा याभिः ।
त्रिविधतापोपशमनात्प्रालेयादपि शीतलाः ॥ ३० ॥
हा तात हेतयो लग्नास्तरुणीकबरीतृणे ।
ज्वलन्ति शुष्कपर्णौघा इव वीरानिलेरिताः ॥ ३१ ॥
हेतयः शस्त्राग्नयो विविधास्तज्ज्वाला वा । कवर्यः केशास्तल्लक्षणे तृणे ।
ज्वलन्ति दीप्यन्ते ॥ ३१ ॥
आवर्तननदीदीर्घा वहत्यूर्ध्वतरङ्गिणी ।
पश्येयं धूमयमुना व्योमगङ्गां प्रधावति ॥ ३२ ॥
आवर्तनैरावर्तैर्नदीसदृशप्रवाहभेदैश्च दीर्घा । व्योमलक्षणां
गङ्गां मन्दाकिनीं वा ॥ ३२ ॥
वहदुल्मुककाष्ठोर्ध्वगामिनी धूमनिम्नगा ।
वैमानिकानन्धयति पश्याग्निकणबुद्बुदा ॥ ३३ ॥
वहन्ति प्रवहन्ति उल्मुककाष्ठानि यस्यां सा । अग्निकणा एव बुद्बुदा यस्याम् ॥
३३ ॥
अस्या माता पिता भ्राता जामाता स्तनपाः सुते ।
अस्मिन्सद्मनि निर्दग्धा दग्धैवासत्समिन्धने ॥ ३४ ॥
स्तनपाः स्तनधयाः । सुते कन्ये । पुत्रीसम्बोधनं वा । इयमपि
तद्विरहलक्षणे असत्समिन्धने अविद्यमानेऽप्यग्नौ दग्धैव ॥ ३४ ॥
हा हा हागच्छ ते शीघ्रमेतदङ्गारमन्दिरम् ।
इतः प्रवृत्तं पतितुं सुमेरुः प्रलये यथा ॥ ३५ ॥
शीघ्रं आगच्छ निर्गच्छ ते तव एतदङ्गारवज्ज्वलितं मन्दिरं इतः
स्वस्थानाच्चलनेन पतितुं प्रवृत्तम् ॥ ३५ ॥
अहो शरशिलाशक्तिकुन्तप्रासासिहेतयः ।
जालसन्ध्याभ्रपटलं विशन्ति शलभा इव ॥ ३६ ॥
वातायनजालकलक्षणं सन्ध्याभ्रपटलम् ॥ ३६ ॥
हेतिप्रवाहा ज्वलनं नभस्यन्त्यां विशन्त्यहो ।
वडवानलमुज्ज्वालमर्णः [कतिपयादर्शान्तरैरप्यत्र रणादित्येव
पठ्यते परन्त्वेतत्पाठो मूलानुगत्वात्सुवच इति स एव
सङ्गृहीतोऽस्माभिः] पूरा इवार्णवात् ॥ ३७ ॥
नभस्यान्त्यां भयान्नभ उत्पतितुमिच्छन्त्यां पुर्याम् । अर्णःपूरा
[अर्णपूराः इति पाठः] जलप्रवाहाः ॥ ३७ ॥
धूमायन्ति महाभ्राणि ज्वालाः शिखरिकोटिषु ।
सरसान्यपि शुष्यन्ति हृदयानीव रागिणाम् ॥ ३८ ॥
शिखरिणां शृङ्गवतां प्रासादानां कोटिष्वग्रभागेषु । सरसानि सजलानि
वाप्यादीनि उद्यानानि च ॥ ३८ ॥
आलानत्वरुषेवैता दन्तिभिर्वृक्षपङ्क्तयः ।
स्फुरत्कटकटारावं पात्यन्ते कृतचीत्कृतैः ॥ ३९ ॥
आलानं बन्धनस्तम्भस्तज्जातीयत्वप्रयुक्तया रुषा ॥ ३९ ॥
पुष्टपुष्पफलस्कन्धा गतश्रीका गृहद्रुमाः ।
गता निर्दग्धसर्वस्वा गृहस्था इव दीनताम् ॥ ४० ॥
मातापितृविनिर्मुक्ता बालकास्तिमिरावलीम् ।
मग्नन्तोऽङ्गेषुरथ्यासु कुड्यपातेन हा हताः ॥ ४१ ॥
तिमिरावलीं निलयनाय मग्नन्तः शोधयन्तः । मृगयन्त इति यावत् । मस्जेः
शोधनार्थाच्छतरि च्छान्दसे कुत्वनत्वे । अङ्गेत्यामन्त्रणे । इषुकीर्णासु
रथ्यासु । कुड्यपातेन भित्तिपतनेन ॥ ४१ ॥
वातविद्रावितात्त्रस्यन्करिण्यो रणमूर्धनि ।
पतदङ्गारकागारभारिणः कटुकूजितम् ॥ ४२ ॥
वातेन विद्रावितात् प्रोड्डायितात् । पतन्तः अङ्गारका यस्मात्तथाविधात् । अगारं
भर्तु वर्षातपादिभ्यस्त्रातुं शीलमस्येत्यगारभारि
च्छदिस्तस्मात्करिण्योऽभ्रम्बः कटुकूजितं यथा स्यात्तथा त्रस्यन् । त्रसेर्लङि
वा भ्राशभ्लाश इति श्यन् । अडभावश्छान्दसः ॥ ४२ ॥
हा कष्टमसिनिर्भिन्ने स्कन्धे सन्नदृढोल्मुके ।
पतितो यन्त्रपाषाणः पुरुषस्याशनिर्यथा ॥ ४३ ॥
गवाश्वमहिषेभोष्ट्रश्वशृगालैडकैरहो ।
घोरै रणमिवारब्धं मार्गरोधकमाकुलैः ॥ ४४ ॥
एडकैर्मेषैः गन्तॄणां मार्गनिरोधकं रणं युद्धमारब्धमिव
पश्यन्त्विति शेषः ॥ ४४ ॥
पटैः पटपटाशब्दजलजालालिमालितैः ।
आक्रन्दन्त्यः स्त्रियो यान्ति स्थलपद्माचिता इव ॥ ४५ ॥
अग्निशिखास्कन्दनभयादार्द्रपटान्परिधाय निर्गच्छन्तीः स्त्रियो वर्णयति ##-
परिवृतैर्हस्तपादवक्रलक्षणैः स्थलपद्मैराचिता घटिता इव ॥ ४५ ॥
स्त्रीणां ज्वालालवाः पश्य लिहन्त्यलकवल्लरीः ।
कुर्वन्तोऽशोकपुष्पाभां करभा इव पन्नगीः ॥ ४६ ॥
करभा उष्ट्राः । पन्नं पतितं यथा स्यात्तथा गच्छन्त्यः पन्नग्यः
प्रलम्बिततरुशाखाः दैवात्तदालम्बिसर्पिणीर्वा ॥ ४६ ॥
हा हा हरिणशावाक्ष्याः पक्षलक्षणपक्ष्मसु ।
कुमार्गेष्विव विश्रान्तिमेति कार्शानवि शिखा ॥ ४७ ॥
पक्षलक्षणेषु भ्रमरपक्षसदृशेष्वक्षिपक्ष्मसु ।
कृशानुरग्निस्तत्सम्बन्धिनी कार्शानवी शिखा ज्वाला ॥ ४७ ॥
दह्यमानो विनिर्याति न कलत्रं विना नरः ।
अहो बत दुरुच्छेदाः प्राणिनां स्नेहवागुराः ॥ ४८ ॥
स्वयं दह्यमानोऽपि ॥ ४८ ॥
करी रभसनिर्लूनज्वलदङ्गारपादपः ।
प्लुष्टपुष्करकः कोपान्मग्नः पुष्करदं सरः ॥ ४९ ॥
रभसेन बलवेगेन निर्लूनो भग्नो ज्वलदङ्गारमिश्र आलानपादपो येन । अत
एव तदाकर्षणकाले प्लुष्टो दग्धः पुष्करः शुण्डाग्रं यस्य तथाविधः
करी पलाय्य जनेभ्यः पुष्करदं पद्मदं सरः प्राप्य तत्र मग्नः ।
दग्धपुष्करस्य पुनर्लाभेच्छयेवेति श्लेषमूला उत्प्रेक्षा ॥ ४९ ॥
प्। २३७)
धूमोऽम्बुदपदं प्राप्य विलोलान्तस्तडिल्लतः ।
ज्वलदङ्गारनाराचनिकरं परिवर्षति ॥ ५० ॥
अम्बुदानां पदं वृष्ट्यधिकारनिर्वाहकमाकाशस्थानं प्राप्य
विलोलवह्निज्वालालक्षणा अन्तर्गतास्तडिल्लता यस्य । ज्वलतामङ्गाराणां
नाराचानां शराणां च निकरं स्वानुरूपं परितो वर्षतीत्युत्प्रेक्षा ॥ ५० ॥
देव धूमस्फुरद्वह्निकण आवर्तवृत्तिमान् ।
स्थित आपीडवान्व्योम्नि रत्नपूर्ण इवार्णवः ॥ ५१ ॥
देवेति राजानं सम्बोध्य कस्यचिदुक्तिः । धूमो व्योम्नि अर्णव इव स्थितः ।
आपीडवान् शिखातरङ्गवान् ॥ ५१ ॥
गौरमम्बरमाभाति ज्वालाशिखरतेजसा ।
मृत्युनेवोत्सवे दत्तः कुङ्कुमाक्तकरण्डकः ॥ ५२ ॥
गौरं पीतमम्बरमाकाशः । कुङ्कुमैः अक्तो रञ्जितः करण्डकः
सम्पुटको दत्तः । अर्थाद्दिग्वधूभ्य इति गम्यते ॥ ५२ ॥
अहो नु विषमं चेदं वर्तते वृत्तवर्जितम् ।
ध्रियन्ते राजनार्योऽपि वैरिवीरैरुदायुधैः ॥ ५३ ॥
वृत्तं सच्चरितं तेन वर्जितं बहिष्कृतम् ॥ ५३ ॥
लोलस्रगदामकुसुमैर्मार्गप्राकारकारकैः ।
अर्धनिर्दग्धकबरीकीर्णवक्षस्थलस्तनाः ॥ ५४ ॥
आसर्गसम्माप्ते राजनारीरेव विशिनष्टि - लोलेत्यादिना । मार्गे प्र आकिरणं
प्राकारस्तस्य कारकैर्लोलैः स्रग्दामभिः कुसुमैश्चोपलक्षिताः ॥ ५४ ॥
आलोलाम्बरसंलक्ष्यनितम्बजघनस्थलाः ।
पतन्माणिक्यवलयवलितावनिमण्डलाः ॥ ५५ ॥
पतद्भिर्माणिक्यैर्वलयैश्च माणिक्यखचितैर्वलयैर्वा वलितानि
संवृतान्यवनिमण्डलानि याभिः ॥ ५५ ॥
छिन्नहारलताजालविकीर्णामलमौक्तिकाः ।
दृष्टादृष्टस्तनश्रेणीपार्श्वोद्यत्कनकप्रभाः ॥ ५६ ॥
कुररीकर्कशाक्रन्दमन्दीकृतरणारवाः ।
धारावाहास्रुतारावभिन्नपार्श्वविचेतनाः ॥ ५७ ॥
कुररीशब्दवत्कर्कशैर्दुःश्रवैराक्रन्दैर्मन्दीकृतोऽभिभूतो रणारवो
याभिः । धारावाहमविच्छिन्नधारं यथा स्यात्तथा
आस्रुतैर्निर्गतैराक्रन्दारावैर्भिन्नानि विदारितानीव पीडितानि कुक्षिपार्श्वानि
यासाम् । अत एव विचेतनाः कर्तव्यार्थचेतनाशून्याः ॥ ५७ ॥
रक्तकर्दमबाष्पाम्बुक्लिन्नग्रन्थितवाससः ।
भुजमूलार्पितभुजैर्नीयमाना बलान्नृभिः ॥ ५८ ॥
पलायनशङ्कया परस्परं ग्रन्थितवाससः ॥ ५८ ॥
क इवास्मिन्परित्राता स्यादित्यादीनवीक्षितैः ।
उत्पलालीव वर्षद्भिः परिरोदितसैनिकाः ॥ ५९ ॥
दीनैर्वीक्षितैर्वीक्षणैः । परितो दयया रोदिताः रोदनशीलाः कृताः
स्वपक्षसैनिका याभिस्ताः ॥ ५९ ॥
मृणालकोमलाच्छोरुमूलजालैः सुनिर्मलैः ।
स्वच्छाम्बरतलालक्ष्यैराकाशनलिनीनिभाः ॥ ६० ॥
स्वच्छेष्वम्बरतलेषु वस्त्रान्तःप्रदेशेष्वालक्ष्यैः ।
अम्बरपदश्लेषादाकाशनलिनीनिभाः ॥ ६० ॥
आलोलमाल्यवसनाभरणाङ्गरागा
बाष्पाकुलाततचलालकवल्लरीकाः ।
आनन्दमन्दरनिरन्तरमथ्यमाना-
त्कामार्णवात्समुदिता इव राजलक्ष्म्यः ॥ ६१ ॥
आतता दीर्घाश्चलाश्चालकवल्लर्यो यासां ताः । आनन्दोऽत्र विषयसुखं
तल्लक्षणेन मन्दरेण मथ्यमानात् । राज्ञां मूर्तिभूता लक्ष्म्यः सम्पदो
राजा चन्द्रस्तद्घटिता लक्ष्म्यः श्रियो वा ॥ ६१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
अग्निदग्धगृहादिवर्णनं नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
अग्निदग्धगृहादिवर्णनं नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥