०४२

द्विचत्वारिंशः सर्गः ४२

श्रीवसिष्ठ उवाच ।

यस्त्वबुद्धमतिर्मूढो रूढो न वितते पदे ।
वज्रसारमिदं तस्य जगदस्त्यसदेव सत् ॥ १ ॥

सत्यत्वं जगतोऽज्ञाने स्वप्नस्यापि प्रपञ्चयते ।
अत्रान्ते तु कथाशेषो वरदानान्त ईर्यते ॥ १ ॥

विद्वद्दृशा जगतो मिथ्यात्वं विस्तरेणोपवर्ण्य
तद्दृढीकारायाज्ञदृशा तस्यात्यन्तदृढसत्यतामाह - यस्त्विति ।
रूढो दृढव्युत्पन्नो न वज्रस्य सारो दार्ढ्यमिव सारो यस्य तत्तथाविधं
परमार्थसदस्ति । लोके अर्थक्रियाकारित्वस्यैव सत्यत्वेन प्रसिद्धेरिति भावः ॥ १ ॥

यथा बालस्य वेतालो मृतिपर्यन्तदुःखदः ।
असदेव सदाकारं तथा मूढमतेर्जगत् ॥ २ ॥

असतोऽज्ञं प्रत्यर्थक्रियाकारित्वलक्षणं सत्त्वं(त्यं?) क्व
दृष्टं तत्राह - यथेति ॥ २ ॥

ताप एव यथा वारि मृगाणां भ्रमकारणम् ।
असत्यमेव सत्याभं तथा मूढमतेर्जगत् ॥ ३ ॥

यथा तापो मरुभूम्यातप एवाज्ञमृगदृशा सत्यवारि सत् मृगाणां
भ्रमकारणम् ॥ ३ ॥

यथा स्वप्नमृतिर्जन्तोरसत्या सत्यरूपिणी ।
अर्थक्रियाकरी भाति तथा मूढधियां जगत् ॥ ४ ॥

शोकरोदनाद्यर्थक्रियाकरि ॥ ४ ॥

अव्युत्पन्नस्य कनके कानके कटके यथा ।
कटकज्ञप्तिरेवास्ति न मनागपि हेमधीः ॥ ५ ॥

कनके अव्युत्पन्नस्य अनुगतकनकस्वरूपानभिज्ञस्येत्यर्थः ॥ ५ ॥

तथाऽज्ञस्य पुरागारनगनागेन्द्रभासुरा [भास्वरा इति पाठः] ।
इयं दृश्यदृगेवास्ति नत्वन्या परमार्थदृक् ॥ ६ ॥

अगाराणि गृहाः नगाः पर्वता वृक्षाश्च नागेन्द्रा गजाः सर्पा वा
तैर्भासुरा परमार्थदृक् सर्वानुगतैकसद्ब्रह्मदृष्टिः ॥ ६ ॥

यथा नभसि मुक्तालीपिच्छकेशोण्ड्रकादयः ।
असत्याः सत्यतां याता भात्येवं दुर्दृशां जगत् ॥ ७ ॥

मुक्ताली मौक्तिकमाला । पिच्छानिं वर्हाणि ॥ ७ ॥

प्। २३३)

दीर्घस्वनमिदं विश्वं विद्ध्यहन्तादिसंयुतम् ।
अत्रान्ये स्वप्नपुरुषा यथा सत्यास्तथा शृणु ॥ ८ ॥

अन्ये स्वातिरिक्तसत्यजनाः स्वप्नपुरुषाः स्वप्नदृष्टपुरुषान्तरप्रायाः । तर्हि
ते कथं शास्त्रीययाजनप्रतिग्रहोपदेशाद्यर्थक्रियाक्षमाः सत्या इति
शास्त्रेऽभ्युपगतास्तत्राह - यथा सत्यास्तथा शृण्विति ॥ ८ ॥

अस्ति सर्वगतं शान्तं परमार्थघनं शुचि ।
अचेत्यचिन्मात्रवपुः परमाकाशमाततम् ॥ ९ ॥

सर्वगतं सर्वाधिष्ठानम् । परमार्थघनं निरतिशयसत्यम् । प्राप्त वै
सत्यं तेषामेष सत्यम् इत्यादिश्रुतेः ॥ ९ ॥

तत्सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम् ।
यत्र यत्र यथोदेति तथास्ते तत्र तत्र वै ॥ १० ॥

तस्य मायाशबलं रूपमाह - तत्सर्वगमिति । मायया यत्र यत्र यथा
यथा यादृशार्थक्रियायोग्यमाविर्भवति तत्र तत्र तथा आस्ते ॥ १० ॥

तेन स्वप्नपुरे द्रष्टा यान्वेत्ति पुरवासिनः ।
नरानिति नरा एव क्षणात्तस्य भवन्ति ते ॥ ११ ॥

तथा जागरे शास्त्रीयार्थक्रियायोग्यं तदाविर्भूतं न स्वप्ने
इत्यवान्तरविशेषेऽपि न सद्रूपे विशेष इत्याशयेनाह - तेनेति ॥ ११ ॥

यद्द्रष्टुश्चित्स्वरूपं तत्स्वप्नाकाशान्तरस्थितम् ।
स्वप्नाकाशचित्ताभं हि नरानामेति भावितम् ॥ १२ ॥

स्वप्नकाशो विकाशः सूक्ष्मतमनाडीच्छिद्रं तदन्तःस्थितं
स्वप्नाध्यस्तविपुलाकाशपरिवर्तिचित्ताभं चित्तवासनानुसारेण
विवर्तमानमित्यर्थः ॥ १२ ॥

वेदितृत्वैक्यवशतो नरतेवावबुध्यते ।
आत्मन्यतश्चिद्बलेन द्वयोरप्येति सत्यता ॥ १३ ॥

स्वप्नजागरयोर्द्वयोरपि आत्मनि नरताद्यवबोधे अध्यस्ते सत्यतावबोधे
चान्योन्यतादात्म्यसंसर्गाध्यास एव हेतुरित्याह - वेदितृत्वेति ।
वेदितुर्भावो वेदितृत्वं सत्यस्वप्रकाशापरोक्षचैतन्यं तदैक्यं
तत्तादात्म्याध्यासस्तद्वशः संसर्गाध्यासस्तस्मादित्यर्थः । द्वयोः
स्वप्नजागरयोरध्यस्ततद्धर्मयोर्वा सत्यता एति प्रथते ॥ १३ ॥

श्रीराम उवाच ।

स्वप्नेऽपि स्वप्नपुरुषा न सत्याः स्युर्मुने यदि ।
वद तत्को भवेद्दोषो मायामात्रशरीरिणि ॥ १४ ॥

तदेवं स्वप्नजाग्रद्दृश्यपदार्थानां
मिथुनीभूतमायातदधिष्ठानलक्षणसत्यानृतोभयशरीरतोक्ता । तत्र
रामः स्वप्नस्यानृतमायामात्रशरीरत्वमस्तु किं सत्यांशानुप्रवेशेनेति
शङ्कते - स्वप्ने इति । यदि जाग्रत्पुरुषा अधिष्ठानसत्तया सत्या न स्युस्तर्हि
व्यवहारविसंवादः कर्मशास्त्राप्रामाण्यं च दोषः स्यादिति तेषां
तथात्वमस्तु । यदि सत्यासंवलितमायामात्रशरीरिणि [सत्याः संवलित इति
पाठः] स्वप्नेऽपि कल्पिताः स्वप्नपुरुषास्तथा सत्या न स्युस्तदा को दोषः ।
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् इति भगवत व्यासेन स्वप्नस्य
मायामात्रत्वोक्तेः । तथाच कथं स्वजगतः स्वप्नसाम्यमिति भावः ॥ १४ ॥

श्रीवसिष्ठ उवाच ।

स्वप्ने न पुरवास्तव्या वस्तुतः सत्यरूपिणः ।
प्रमाणमत्र शृणु मे प्रत्यक्षं नाम नेतरत् ॥ १५ ॥

स्वाप्नार्था ब्रह्मवद्वस्तुतः सत्या न भवन्तीत्येतावदेव शक्यं वक्तुं न
निरधिष्ठानत्वादधिष्ठानसत्तयापि सत्या न भवन्तीति ।
प्रत्यक्षप्रमाणविरोधादित्याशयेन वसिष्ठ उवाच - स्वप्ने इति । नेतरदिति
प्रमाणान्तरस्यानादरार्थमुक्तं न प्रतिषेधार्थम् । नह्यत्यन्तासतः
प्रत्यक्षं नामोपपद्यते वन्ध्यापुत्रादावदर्शनादित्याशयः ॥ १५ ॥

सर्गादावात्मभूर्भाति स्वप्नाभानुभवात्मकः ।
तत्सङ्कल्पकलं [कलाविश्वं इति पाठः] विश्वमेवं
स्वप्नाभमेव तत् ॥ १६ ॥

किञ्च स्वप्नस्यात्यन्तासत्त्वे जाग्रत्प्रपञ्चस्यापि तद्दुर्वारम् तस्यापि
हैरण्यगर्भस्वप्नरूपत्वादित्याशयेनाह - सर्गादाविति ॥ १६ ॥

एवं विश्वमिदं स्वप्नस्तत्र सत्यं भवान्मम ।
यथैव त्वं तथैवान्ये स्वप्ने स्वप्नवरा नृणाम् ॥ १७ ॥

तथाच जगतः स्वप्नसाम्यं प्रागुक्तसत्यता च सिद्धेत्याह - एवमिति । तत्र
स्वप्ने भवान्मम सत्यं त्वत्सत्यतायास्त्वया अपलपितुमशक्यत्वात् । यथैव
त्वं तथैवान्येऽपि त्वद्दृशा मद्दृशा च सत्याः । एवमन्येषामपि
नृणां स्वस्वानुभवानुसारात्स्वप्नसत्यता सिद्धेत्यर्थः ॥ १७ ॥

स्वप्ने नगरवास्तव्याः सत्या न स्युरिमे यदि ।
तदिहापि तदाकारे न सत्यं मे मनागपि ॥ १८ ॥

उक्तमेवार्थं पुनः स्पष्टमाह - स्वप्ने इत्यादिना । नगरस्य वास्तुनि
वेश्मभुवि भवा नगरवास्तव्याः नगरे वसन्तीति वा नगरवास्तव्याः ।
वसेस्तव्यत्कर्तरि णिच्च इति वचनात् ॥ १८ ॥

यथाहं तव सत्यात्मा सत्यं सर्वं भवेन्मम ।
स्वप्नोपलम्भे संसारे मिथः सिद्ध्यै प्रमेदृशी ॥ १९ ॥

संसारे विपुले स्वप्ने यथा सत्यमहं तव ।
यथा त्वमपि मे सत्यं सर्वं स्वप्नेष्विति क्रमः ॥ २० ॥

श्रीराम उवाच ।

स्वप्नद्रष्टरि निर्निद्रे तद्द्रष्टुः स्वप्नपत्तनम् ।
सद्रूपत्वात्तथैवास्ते ममेति भगवन्मतिः ॥ २१ ॥

एवं चेत्तर्हि स्वप्नद्रष्टुर्जागरणे जातेऽपि स्वप्नप्रपञ्चस्य
जाग्रत्प्रपञ्चवदवस्थानं स्यादिति रामः शङ्कते - स्वप्नेति । इति
मतिर्मम त्वद्वचनात्सम्पन्नेति शेषः ॥ २१ ॥

श्रीवसिष्ठ उवाच ।

एवमेतत्तथैवास्ते सत्यत्वात्स्वप्नपत्तनम् ।
स्वप्नद्रष्टरि निर्निद्रेऽप्याकाशविशदाकृति ॥ २२ ॥

इष्टापत्त्या वसिष्ठः परिहरति - एवमेतदिति । आकाशविशदाकृति
अधिष्ठानसन्मात्रस्वभावं सत्यमेवेत्यर्थः ॥ २२ ॥

एतदास्तामिदं तावद्यज्जाग्रदिव मन्यसे ।
विद्धि तत्स्वप्नमेवान्तर्देशकालाद्यपूरकम् ॥ २३ ॥

एवं तर्हि जाग्रदर्थवत्स्वप्नस्यापि स्वप्नान्तरे व्यवहारसंवादः स्यादिति
रामस्य विवक्षामालक्ष्य देशान्तरकालान्तराननुवृत्तिकृतोऽसंवादो
जाग्रत्पदार्थेष्वपि बहुष्वस्ति ।
पृथिव्याकाशनामजात्यादिकतिपयपदार्थानुवृत्तिसंवादः स्वप्नेऽप्यस्तीति
न विशेष उपपादयितुं शक्य इत्याशयेन प्रौढिमादर्शयन्नाह -
एतदास्तामिति । अथवा यदि स्वाप्नार्थाः सत्यास्तर्हि जागरेऽप्यनुवर्तेरन्निति
रामस्याशङ्कामालाक्ष्याह वसिष्ठः - एतदिति । स्वाप्नस्य
जाग्रद्बाह्यदेशकालाद्यननुवृत्त्या यद्यलीकत्वम्मन्यसे तर्हि यज्जाग्रदिति
मन्यसे तदपि अन्तः स्वाप्नदेशकालाद्यपूरकमिति तुल्यमिति द्वयोः
स्वप्नतैवेत्यर्थः ॥ २३ ॥

प्। २३४)

एवं सर्वमिदं भाति न सत्यं सत्यवस्थितम् ।
रञ्जयत्यपि मिथ्यैव स्वप्नस्त्रीसुरतोपमम् ॥ २४ ॥

एवमधिष्ठानसत्तया सत्यत्वेऽपि सर्वदेशकालाद्यपूरकत्वान्न स्वतस्तथेति
मिथ्यात्वमुभयोः सममित्याह - एवमिति । रञ्जयति स्वासक्त्या मोहयति ॥ २४

सर्वत्र विद्यते सर्वं देहस्यान्तर्बहिस्तथा ।
यत्तु वेत्ति यथा संवित्तत्तथा स्वैव पश्यति ॥ २५ ॥

संविदस्तु सर्वदेशकालादिपूरकत्वात्सत्यत्वं सर्वत्र मायाशक्त्या
सर्वभावेन स्फुरणसामर्थ्यं चेत्याह - सर्वत्रेति । स्वैव स्वयमेव ॥ २५ ॥

यत्कोशे विद्यते द्रव्यं तद्द्रष्ट्रा लभ्यते यथा ।
तथास्ति सर्वं चिद्व्योम्नि चेत्यते तत्त्वनेन वै ॥ २६ ॥

कोशे धनागारे । द्रव्यं धनम् । अनेन चिद्व्योम्ना ॥ २६ ॥

अनन्तरमुवाचेदं देवी ज्ञप्तिर्विदूरथम् ।
कृत्वा बोधामृतासेकैर्विवेकाङ्कुरसुन्दरम् ॥ २७ ॥

एवमुत्कथं रामं समाधाय प्रस्तुतकथामालम्ब्याह - अनन्तरमिति ॥ २७

एतदेव मया राजṁल्लीलार्थमुपवर्णितम् ।
स्वस्ति तेऽस्तु गमिष्यावो दृष्टा दृष्टान्तदृष्टयः ॥ २८ ॥

एतत्प्रागुक्तं तत्त्वम् । लीलार्थं लीलाप्रीत्यर्थम् । स्वस्ति अभिलषितार्थसिद्धिरस्तु ।
जगन्मिथ्यात्वस्योक्तस्य दृष्टान्तदृष्टयो
मण्डपान्तस्त्वदीयब्रह्माण्डकल्पनालक्षणा दृष्टा लीलयेति शेषः ॥ २८ ॥

श्रीवसिष्ठ उवाच ।

इति प्रोक्ते सरस्वत्या गिरा मधुरवर्णया ।
उवाच वचनं धीमान्भूमिपालो विदूरथः ॥ २९ ॥

धीमान्स्वस्ति तेऽस्त्वित्युक्तेस्तात्पर्यं विद्वान् ॥ २९ ॥

विदूरथ उवाच ।

ममापि दर्शनं देवि मोघं भवति नार्थिनि ।
महाफलप्रदायास्तु कथं तव भविष्यति ॥ ३० ॥

मम मनुष्यमात्रस्याल्पदानसमर्थस्यापीत्याशयः ॥ ३० ॥

अहं देहं समुत्सृज्य लोकान्तरमितोऽपरम् ।
निजमायामि हे देवि स्वप्नात्स्वप्नान्तरं यथा ॥ ३१ ॥

निजं प्राक्तनम् । आयामि अविलम्बेनागमिष्यामि ॥ ३१ ॥

पश्यादिशाशु मां मातः प्रपन्नं शरणागतम् ।
भक्तेऽवहेला वरदे महतां न विराजते ॥ ३२ ॥

पश्य कृपादृष्ट्या । आदिश प्रयच्छ मत्प्रार्थितमुपदेशोत्तरकार्यं च ॥
३२ ॥

यं प्रदेशमहं यामि तमेवायात्वयं मम ।
मन्त्री कुमारी चैवेयं बालेति कुरु मे दयाम् ॥ ३३ ॥

प्रार्थनीयार्थमाह - यमिति । कुमारी अनूढा कन्या ॥ ३३ ॥

श्रीसरस्वत्युवाच ।

आगच्छ राज्यमुचितार्थविलासचारु
प्राग्जन्ममण्डलपते कुरु निर्विशङ्कम् ।
अस्माभिरर्थिजनकामनिराकृतिर्हि
दृष्टा न काचन कदाचिदपीति विद्धि ॥ ३४ ॥

लीलाभक्तिभाग्योचितैरर्थविलासैश्चारु राज्यं कुरु । अस्माभिर्निराकृतिः
प्रत्याख्यानं कदाचिदपि न कृतेति शेषः । केनचिदपि न दृष्टेत्यर्थः ॥ ३४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
स्वप्नपुरुषसत्यत्वनिरूपणं नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
स्वप्नपुरुषसत्यत्वनिरूपणं नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥