एकचत्वारिंशः सर्गः ४१
श्रीवसिष्ठ उवाच ।
तयोः प्रविष्टयोर्देव्योः पद्मसद्म बभूव तत् ।
चन्द्रद्वयोदयोद्योतधवलोदरसुन्दरम् ॥ १ ॥
प्रविष्टयोस्तयो राज्ञा सुप्तबुद्धेन पूजनम् ।
राज्ञोऽन्वयः स्मृतिर्ज्ञप्त्यात्मोपदेशश्च वर्ण्यते ॥ १ ॥
चन्द्रद्वयोदय इव उद्द्योतधवलेनोदरेण सुन्दरं शोभमानम् ॥ १ ॥
कोमलामलसौगन्ध्यमृदुमन्दारमारुतम् ।
तत्प्रभावेन निद्रालुनृपेतरनराङ्गनम् ॥ २ ॥
कोमलाः सुखस्पर्शा अमलसौगन्ध्या मृदवः
साङ्कल्पिकमन्दारपुष्पमारुता यत्र । तयोर्देव्योः प्रभावेन कारणेन ।
सम्बन्धिशब्दस्य नित्यसापेक्षत्वेन सामर्थ्याविघातात्समासः ॥ २ ॥
सौभाग्यनन्दनोद्यानं विद्रुतव्याधिवेदनम् ।
सवसन्तं वनमिव फुल्लं प्रातरिवाम्बुजम् ॥ ३ ॥
सौभाग्येन नन्दनोद्यानमिव ॥ ३ ॥
तयोर्देहप्रभापूरैः शशिनिस्यन्दशीतलैः ।
आह्लादितोऽसौ बुबुधे राजोक्षित इवामृतैः ॥ ४ ॥
उक्षितः सिक्त इव ॥ ४ ॥
आसनद्वयविश्रान्तं स ददर्शाप्सरोद्वयम् ।
मेरुशृङ्गद्वये चन्द्रबिम्बद्वयमिवोदितम् ॥ ५ ॥
साङ्कल्पिके आसनद्वये विश्रान्तमुपविष्टम् । अप्सरोद्वयं दिव्यस्त्रीद्वयम् ॥ ५ ॥
निमेषमिव सञ्चिन्त्य स विस्मितमना नृपः ।
उत्तस्थौ शयनाच्छेषादिव चक्रगदाधरः ॥ ६ ॥
निमेषमल्पकालं सञ्चिन्त्यान्तर्विमृश्य । चिरं विमर्शे
पूजादिविलम्बेनापराधापत्तेः । अत एवाल्पविमर्शस्यापि
निगूहनद्योतनायेवकारः ॥ ६ ॥
परिसंयमितालम्बिमाल्यहाराधराम्बरः ।
पुष्पाहार इवोत्फुल्लं जग्राह कुसुमाञ्जलिम् ॥ ७ ॥
निद्राकाले व्यत्यस्तानि परितः संयमितानि स्वस्वोचितस्थानं प्रापितानि अत एव
कण्ठाद्यालम्बीनि माल्यादीनि यस्य तथाविधः सन् । पुष्पाण्याहरतीति
पुष्पाहारो भृत्य इव ॥ ७ ॥
प्। २३०)
उपधानप्रदेशस्थात्स्वयं पटलकोटरात् ।
बद्धपद्मासनो भूमौ भूत्वोवाचेदमानतः ॥ ८ ॥
पटलं पुष्पकरण्डम् ॥ ८ ॥
जयतां जन्मदौस्थित्यदाहदोषशशिप्रभे ।
देव्यौ वाह्यान्तरतमोविद्रावणरविप्रभे ॥ ९ ॥
दौस्थित्यं दुःखजीवनम् । दाहस्त्रिविधसन्तापः ॥ ९ ॥
तयोरुक्त्वेति तत्याज पादयोः कुसुमाञ्जलिम् ।
तीरद्रुमो विकसितः पद्मिन्योः पद्मयोरिव ॥ १० ॥
इत्युक्त्वा तयोः पादयोः कुसुमाञ्जलिं तत्याजेत्यन्वयः ॥ १० ॥
लीलायै भूपजन्माथ वक्तुं मन्त्रिणमीश्वरी ।
बोधयामास पार्श्वस्थं सङ्कल्पेन सरस्वती ॥ ११ ॥
प्रबुद्धोप्सरसौ दृष्ट्वा प्रणम्य कुसुमाञ्जलिम् ।
तयोः पादेषु सन्त्यज्य विवेश पुरतो नतः ॥ १२ ॥
उवाच देवी हे राजन्कस्त्वं कस्य सुतः कदा ।
इह जात इति श्रुत्वा स मन्त्री वाक्यमब्रवीत् ॥ १३ ॥
इति प्रश्नं स मन्त्री श्रुत्वा ॥ १३ ॥
देव्यौ युष्मत्प्रसादोऽयं भवत्योरपि यत्पुरः ।
वक्तुं शक्नोमि तद्देव्यौ [तदिदं इति पाठः] श्रूयेतां जन्म
मत्प्रभोः ॥ १४ ॥
आसीदिक्ष्वाकुवंशोत्थो राजा राजीवलोचनः ।
श्रीमान्कुन्दरथो नाम दोश्छायाच्छादितावनिः ॥ १५ ॥
दोश्छायया आच्छादितेव शत्रुदारिद्र्यादिसन्तापनिवारणेन पालिता अवनिर्येन ॥
१५ ॥
तस्याभूदिन्दुवदनः पुत्रो भद्ररथाभिधः ।
तस्य विश्वरथः पुत्रस्तस्य पुत्रो बृहद्रथः ॥ १६ ॥
तस्य सिन्धुरथः पुत्रस्तस्य शैलरथः सुतः ।
तस्य कामरथः पुत्रस्तस्य पुत्रो महारथः ॥ १७ ॥
तस्य विष्णुरथः पुत्रस्तस्य पुत्रो नभोरथः ।
अयमस्न्त्प्रभुस्तस्य पुत्रः पूर्णामलाकृतिः ॥ १८ ॥
तस्य नभोरथस्य पुण्यसम्भारैर्जातः ॥ १८ ॥
अमृतापूरितजनः क्षीरोदस्येव चन्द्रमाः ।
महद्भिः पुण्यसम्भारैर्विदूरथ इति श्रुतः ॥ १९ ॥
अमृतसदृशैः स्नेहमाधुर्यौदार्यादिगुणैरापूरिता जना येन ।
पुण्यसम्भारैरित्येतद्देहलीदीपकन्यायेन मात्रापि सम्बध्यते ॥ १९ ॥
जातो मातुः सुमित्राया गौर्या गुह इवापरः ।
पितास्य दशवर्षस्य दत्त्वा राज्यं वनं गतः ॥ २० ॥
अस्य दशवर्षस्येति षष्ठी चानादरे इति भावलक्षणे षष्ठी
वैराग्यातिशयाद्राज्ये पुत्रे चानादरद्योतनार्था ॥ २० ॥
पालयत्येष भूपीठं ततः प्रभृति धर्मतः ।
भवत्यावद्यसम्प्राप्ते फलिते सुकृतद्रुमे ॥ २१ ॥
अस्माकं सुकृतद्रुमे फलिते सति अद्य सम्प्राप्ते ॥ २१ ॥
देव्यौ दीर्घतपःक्लेशशतैर्दुष्प्रापदर्शने ।
इत्ययं वसुधाधीशो विदूरथ इति श्रुतः ॥ २२ ॥
अद्य युष्मत्प्रसादेन परां पावनतां गतः ।
इत्युक्त्वा संस्थिते तूष्णीं मन्त्रिण्यवनिपे तथा ॥ २३ ॥
कृताञ्जलौ नतमुखे बद्धपद्मासनेऽवनौ ।
राजन्स्मर विवेकेन पूर्वजातिमिति स्वयम् ॥ २४ ॥
इति वदन्ती सरस्वती मूर्ध्नि पस्पर्शेति परेणान्वयः ॥ २४ ॥
वदन्ती मूर्ध्नि पस्पर्श तं करेण सरस्वती ।
अथ हार्दं तमो मायापद्मस्य क्षयमाययौ ॥ २५ ॥
हार्दं हृदयाकाशस्थजीवावरकम् ॥ २५ ॥
सुविकासं च हृदयं ज्ञप्तिस्पर्शोदयेऽभवत् ।
सस्मार पूर्ववृत्तान्तमन्तः स्फुरदिव स्थितम् ॥ २६ ॥
हृदयं मनः सुविकासं सान्तःप्रकाशम् ॥ २६ ॥
त्यक्तदेहैकराज्यत्वं लीलाविलसितान्वितम् ।
ज्ञात्वा प्रज्ञप्तिवृत्तान्तं लीलायास्तु विजृम्भितम् ॥ २७ ॥
एक एव राजा यस्य भुवनस्य तदेकराट् तद्भाव ऐकराज्यं देहश्च ऐकराज्यं
च देहैकराज्ये त्यक्ते देहैकराज्ये येन स त्यक्तदेहैकराज्यस्तस्य
भावस्त्यक्तदेहैकराज्यत्वम् । ज्ञप्त्यनुग्रहबलादननुभूतमपि
ज्ञातवानित्याह - ज्ञात्वेति ॥ २७ ॥
आत्मोदन्तं बभूवासावुह्यमान इवार्णवे ।
उवाचात्मनि संसारे बत मायेयमातता ॥ २८ ॥
आत्मोदन्तं स्वपूर्ववृत्तान्तम् । आत्मनि स्वमनसि ॥ २८ ॥
परिज्ञाता प्रसादेन देव्योरिह मयाधुना ।
राजोवाच ।
हे देव्यौ किमिदं नाम दिनमेकं मृतस्य मे ॥ २९ ॥
गतमद्येह जातानि वयो वर्षाणि सप्ततिः ।
स्मराम्यनेककार्याणि स्मरामि प्रपितामहम् ॥ ३० ॥
स्मरामि बाल्यं तारुण्यं मित्रं बन्धुपरिच्छदम् ।
ज्ञप्तिरुवाच ।
राजन्मृतिमहामोहमूर्च्छायाः समनन्तरम् ॥ ३१ ॥
परिच्छदं परीवारम् । यत्स्मरामि तदिदं किमिति तत्तत्त्वजिज्ञासया प्रश्नः ।
स्वरूपत्वमधिष्ठानचिन्मात्रमेव सर्वप्रपञ्चतत्त्वमितरत्तु मायामात्रमिति
तत्त्वमुपदेष्टुं प्रथमं विप्रकृष्टदेशकालस्थितं
लोकान्तरागमनभ्रमं वारयन्ती ज्ञप्तिरुवाच - राजन्नित्यादिना ॥ ३१ ॥
तस्मिṁल्लोकान्तरेऽतीते तस्मिन्नेव मुहूर्तके ।
तस्मिन्नेव गृहे चास्मिन्नेव व्योम्न्यपि सद्मनि ॥ ३२ ॥
अस्मिन्नेव त्वत्सद्मनि तदधिष्ठानचिद्व्योमनि अतीते मायावरणतिरोहिते
गिरिग्रामकविप्रस्य गृहेऽन्तःस्थिते तस्मिन्पाद्मे लोकान्तरे तस्मिन्नेव राजगृहे
तत्रापि प्रधानगृहस्यान्तर्व्योमन्येवायं ब्रह्माण्डमण्डपः किलास्तीति
प्राक्तनकथाक्रमानुरोधादन्वयः ॥ ३२ ॥
अयं तस्य गृहस्यान्तर्व्योमन्येव किल स्थिते ।
गिरिग्रामकविप्रस्य गृहेऽन्तर्भूप मण्डपः ॥ ३३ ॥
तस्यान्तरेऽयमाभाति प्रत्येकं च जगद्गृहम् ।
किल ब्राह्मणगेहान्तर्जीवस्ते मदुपास्थितः ॥ ३४ ॥
तस्य ब्रह्माण्डमण्डपस्यान्तरे अयं परिदृश्यमानस्त्वदीयजन्मादिराभाति
आपाततः प्रथते तर्हि किं तदेव ब्राह्मणजगदित्थं भाति नेत्याह -
प्रत्येकमिति । भिन्नभिन्नमित्यर्थः । प्रत्येकतामेवोपपादयन्त्याह -
किलेत्यादिना । मां उपास्थितो मदुपास्थितः मद्भक्त इत्यर्थः ॥ ३४ ॥
प्। २३१)
तत्रैव तस्य भूपीठं तस्मिंश्च किल मण्डपे ।
तस्यैव च गृहस्यान्तरिदं संसारमण्डलम् ॥ ३५ ॥
इदं सन्निहितं पाद्मसंसारमण्डलम् ॥ ३५ ॥
तत्रैवेदं तव गृहं स्थितमारम्भमन्थरम् ।
तत्रैव चेतसि तव निर्मलाकाशनिर्मले ॥ ३६ ॥
तत्र पाद्मगृहमण्डपे एव । प्रपञ्चत्रयस्यापि
चित्तविकारमात्रत्वमित्याशयेनाह - तत्रैव चेतसीति ।
नैर्मल्योक्तिश्चित्प्रतिबिम्बोपपत्त्यर्था ॥ ३६ ॥
प्रतिभामागतन्दं व्यवहारभ्रमाततम् ।
यथेदं नाम मे जन्म तथेक्ष्वाकुकुलं मम ॥ ३७ ॥
व्यवहारभ्रमाततत्वमनुभूतमुल्लिख्य प्रपञ्चयति - यथेत्यादिना ।
नामेति किलार्थे ॥ ३७ ॥
एवन्नामान एते मे पुराभूवन्पितामहाः ।
जातोऽहमभवं बालो दशवर्षस्य मे पिता ॥ ३८ ॥
परिव्राड्विपिनं यात इह राज्येऽभिषिच्य माम् ।
ततो दिग्विजयं कृत्वा कृत्वा राज्यमकण्टकम् ॥ ३९ ॥
अमीभिर्मन्त्रिभिः पौरैः पालयामि वसुन्धराम् ।
यज्ञक्रियाक्रमवतो धर्मे पालयतः प्रजाः ॥ ४० ॥
मन्त्रिभिः पौरैः सहेति शेषः ॥ ४० ॥
वयसः समतीतानि मम वर्षाणि सप्ततिः ।
इदं परबलं प्राप्तं मम दारुणविग्रहः ॥ ४१ ॥
दारुणो विग्रहः सङ्ग्रामः प्राप्त इति विपरिणामेनानुषज्यते ॥ ४१ ॥
युद्धं कृत्वेदमायातो गृहमस्मिन्यथास्थितम् ।
इमे देव्यौ गृहे प्राप्ते ममैते पूजयाम्यहम् ॥ ४२ ॥
अस्मिन्गृहे यथापूर्वं स्थितं मयेति शेषः ॥ ४२ ॥
पूजिता हि प्रयच्छन्ति देवताः स्वसमीहितम् ।
ममेयमेतयोरेका ज्ञानं जातिस्मृतिप्रदम् ॥ ४३ ॥
एतयोर्देव्योर्मध्ये एका ॥ ४३ ॥
इह दत्तवती देवी भाब्जस्येव विकासनम् ।
इदानीं कृतकृत्योऽस्मि जातोऽस्मि गतसंशयः ॥ ४४ ॥
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ।
इतीयमातता भ्रान्तिर्भवतो भूरिसम्भ्रमा ॥ ४५ ॥
सर्वदुःखोपशमाच्छाम्यामि । निरतिशयसुखसमृद्ध्या परिनिर्वामि ।
केवलं एकरसं सुखमेवाहं भूत्वा आसे तिष्ठामि ॥ ४५ ॥
नानाचारविहाराढ्या सलोकान्तरसञ्चरा ।
यस्मिन्नेव मुहूर्ते त्वं मृतिमभ्यागतः पुरा ॥ ४६ ॥
लोकान्तरसञ्चराः सिद्धा अस्मदादयस्तत्सहिता ॥ ४६ ॥
तदैव प्रतिभैषा ते स्वयमेवोदिता हृदि ।
एकामावर्तचलनां त्यक्त्वा दत्ते यथाऽपराम् [यथा पुरा इति
पाठः] ॥ ४७ ॥
क्षिप्रमेव नदीवाहो वित्प्रवाहस्तथैव च ।
आवर्तान्तरसम्मिश्रो [संसिद्धो इति पाठः] यथावर्तः प्रवर्तते
॥ ४८ ॥
वेत्तीति विच्चितं तत्प्रवाहः ॥ ४८ ॥
कदाचिदेवं सर्गश्रीर्मिश्राऽमिश्रा च वर्धते ।
तस्मिन्म्र्तिमुहूर्ते ते प्रतिभानमुपागतम् ॥ ४९ ॥
मिश्रा जीवान्तरसर्गसंवलिता जाग्रति । अमिश्रा स्वप्ने । चिद्भानोस्ते
प्रतिभानमुपागतमिति सम्बन्धः ॥ ४९ ॥
एतज्जालमसद्रूपं चिद्भानोः समुपस्थितम् ।
यथा स्वप्नमुहूर्तेऽन्तः संवत्सरशतभ्रमः ॥ ५० ॥
यथा सङ्कल्पनिर्माणे जीवनं मरणं पुनः ।
यथा गन्धर्वनगरे कुड्यमण्डनवेदनम् ॥ ५१ ॥
कुड्यानां तन्मण्डनचित्रादीनां च वेदनं दर्शनम् ॥ ५१ ॥
यथा नौयानसंरम्भे वृक्षपर्वतवेपनम् ।
यथा स्वधातुसङ्क्षोभे पूर्वपर्वतनर्तनम् ॥ ५२ ॥
वेपनं कम्पनम् । स्वस्य धातूनां वातपित्तश्लेष्मणां सङ्क्षोभे सन्निपाते
अपूर्वं पर्वतनर्तनम् ॥ ५२ ॥
यथा समञ्जसं स्वप्ने स्वशिरःप्रविकर्तनम् ।
मिथैवैवमियं प्रौढा भ्रान्तिराततरूपिणी ॥ ५३ ॥
असमञ्जसं व्यवहारे अननुरूपं मथ्यैव तथएति शेषः ॥ ५३ ॥
वस्तुतस्तु न जातोऽसि न मृतोऽसि कदाचन ।
शुद्धविज्ञानरूपस्त्वं शान्त आत्मनि तिष्ठसि ॥ ५४ ॥
तर्हि कः परमार्थसत्यस्तत्राह - वस्तुतस्त्विति ॥ ५४ ॥
पश्यसीवैतदखिलं न च पश्यसि किञ्चन ।
सर्वात्मकतया नित्यं प्रकचस्यात्मनात्मनि ॥ ५५ ॥
दृश्यमिथ्यात्वे तत्संवलितचिदाभासलक्षणं तद्दर्शनमपि मिथ्यैवेति
निर्विषयचिन्मात्रपरिशेष इत्याशयेनाह - पश्यसीवेति । प्रकचसि प्रदीप्यसे ॥
५५ ॥
महामणिरिवोदार आलोक इव भास्वरः ।
वस्तुतस्तु न भूपीठमिदं न च भवानयम् ॥ ५६ ॥
आलोकः सूर्यादिः । भवान् अयं विदूरथदेहः ॥ ५६ ॥
न चेमे गिरयो ग्रामा न चैते न च वै वयम् ।
गिरिग्रामकविप्रस्य मण्डपाकाशके किल ॥ ५७ ॥
एते तव परिजनाः शत्रवश्च । अल्पतरे महत्तरस्यासम्माननमेव
मिथ्यात्वकारणमित्याशयेनाह - गिरिग्रामकेत्यादिना ॥ ५७ ॥
तल्लीलाभर्तृदाराढ्यं जगदाभाति भास्वरम् ।
तत्र लीलाराजधानी मण्डपामण्डिताकृतिः ॥ ५८ ॥
मण्डपैः शालाभिरासमन्तान्मण्डिता आकृतिः संस्थानं यस्याः ॥ ५८ ॥
भाति तस्योदरे व्योम्नि तदेवं विदितं जगत् ।
तस्मिञ्जगति गेहेऽन्तर्यस्मिन्वयमिह स्थिताः ॥ ५९ ॥
यस्मिन्गृहे इह साम्प्रतं वयं स्थितास्तद्भातीत्यर्थः ॥ ५९ ॥
एवं तेषां मण्डपानां व्योमाव्योमैव निर्मलम् ।
तथैव मण्डपेष्वस्ति न मही न च पत्तनम् ॥ ६० ॥
तेषां मण्डपानां यद्व्योम तदव्योम आकाशादिशून्यं ब्रह्मैव ॥ ६० ॥
प्। २३२)
न वनानि न शैलौघा न मेघसरिदर्णवाः ।
केवलं तत्र निःशून्ये विहरन्ति गृहे जनाः ॥ ६१ ॥
निःशून्ये चिन्मात्रपूर्णे तत्र ब्रह्मणि मिथ्यागृहे मिथ्याजना
विहरन्तीत्यर्थः ॥ ६१ ॥
न पश्यन्ति जना नापि पार्थिवा न च भूधराः ।
विदूरथ उवाच ।
एवं चेत्तत्कथं देवि ममेहानुचरा इमे ॥ ६२ ॥
जना न पश्यन्तीत्युक्त्यां मन्त्रिभृत्यादीनां
स्वप्नदृष्टसामाजिकजनसाम्यं प्राप्तं तदसम्भावयन् राजा पृच्छति
- एवं चेदित्यादिना ॥ ६२ ॥
सम्पन्ना आत्मना सन्ति ते किमात्मनि नोऽथवा ।
जगत्स्वप्नार्थवद्भाति तस्य स्वप्ननरादयः ॥ ६३ ॥
आत्मना जीवेन सम्पन्ना युक्ताः सन्ति । अहमिवात्मनि सत्स्वभावे ।
स्वशङ्काबीजमाह - जगदिति । तस्य ममेत्यर्थः ॥ ६३ ॥
कथमात्मनि सत्याः स्युर्न सत्या वेति मे वद ।
श्रीसरस्वत्युवाच ।
राजन्विदितवेद्येषु शुद्धबोधैकरूपिषु ॥ ६४ ॥
कथं सत्याः स्युस्त्वदुक्तकल्पे इत्यर्थः । अज्ञदृशा जीवभावेन तेषां यदि
सत्यतां पृच्छसि तर्हि सा तवापि नास्ति । तत्त्वदृशा
अधिष्ठानचिन्मात्रभावेन चेत्तेषामपि सास्त्येवेत्याशयेन देव्युत्तरमाह -
राजन्नित्यादिना ॥ ६४ ॥
न किञ्चिदेतत्सद्रूपञ्चिद्व्योमात्मसु जागतम् ।
शुद्धबोधात्मनो भाति कृतो नाम जगद्भ्रमः ॥ ६५ ॥
रज्ज्वां सर्पभ्रमे शान्ते पुनः सर्पभ्रमः कुतः ।
असद्भावे परिज्ञाए कुतः सत्ता जगद्भ्रमे ॥ ६६ ॥
परिज्ञाते मृगजले पुनर्जलमतिः कुतः ।
स्वप्नकाले परिज्ञाते स्वे स्वप्नमरणं कुतः ।
स्वस्वप्ने स्वप्नमृतिभीरमृतस्यैव जायते ॥ ६७ ॥
स्वप्नकाले स्वे जीवस्वरूपे प्रबोधेन परिज्ञाते सति स्वप्नमरणं कुतः कथं
सत्यमित्यर्थः ॥ ६७ ॥
बुद्धस्य शुद्धस्य शरन्नभःश्रीः
स्वच्छावदातातितताशयस्य ।
अहं जगच्चेति कुशब्दकार्थो
न वस्तुतः सोऽङ्ग हि वाचिकं तत् ॥ ६८ ॥
बोधेनाज्ञानमेधावरणापाये शरन्नभःश्रीरिव स्वच्छो निर्मलः
स्फुरदात्मभाभिरवदातो धवलीकृतस्तदैकरस्यापत्त्या अतिततः अतिविस्तारं
पूर्णतालक्षणं प्राप्त आशयो यस्य बुद्धस्य तत्त्वविदः सः अज्ञदृशा
प्रसिद्धः अहमिति जगदिति च कुत्सितस्याल्पस्यं शब्दस्यार्थो वस्तुतो नास्त्येव ।
अङ्गेति कोमलामन्त्रणे । हि यस्मात्तद्वाचिकं वाचारम्भणमात्रम् ।
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्यादिश्रुतेरिति
भावः ॥ ६८ ॥
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ ६९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
भ्रान्तिविचारवर्णनं नामैकचत्वारिंशः सर्गः ॥ ४१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
भ्रान्तिविचारवर्णनं नामैकचत्वारिंशः सर्गः ॥ ४१ ॥
पञ्चमदिनम् ।