चत्वारिंशः सर्गः ४०
श्रीवसिष्ठ उवाच ।
एवं निशाचराचारचिरघोरे रणाङ्गणे ।
अहनीव जनाचारे स्थिते यामावरेहिते ॥ १ ॥
सुप्ते विदूरथे वेश्मप्रवेशो ज्ञप्तिलीलयोः ।
आतिवाहिकदेहस्य तत्त्वं चात्र निरूप्यते ॥ १ ॥
निशाचराणामाचारेण चिरं घोरे भयानके रणाङ्गणे । यामानां
यमसम्बन्धिनां दूतानामवराणां निकृष्टानां पिशाचादीनां च ईहिते
चेष्टिते । अहनि जनानां यथोचिताचारवत् एवं वर्णितप्रकारेण स्थिते सतीत्यर्थः
॥ १ ॥
हस्तहार्यतमःपिण्डस्फुटकुड्ये निशागृहे ।
लाभोच्छदोच्चलचते भूतसङ्घे प्रवल्गति ॥ २ ॥
हस्तेन हर्तुं शक्यैरिव निबिडैस्तमःपिण्डैः स्फुटानि प्रकटीभूतानि
कुड्यानि यत्र तथाविधे निशालक्षणे गृहे भक्ष्यसमृद्धिलाभे उच्छदं
उद्गतवस्त्रं उच्चलं पलायमानं च तं याल्वादैन्यं यस्मात्तथाविधे
भूतसङ्घे प्रवल्गति क्रीडति सति । चते याचने । घञर्थे कविधानमिति भावे
कः ॥ २ ॥
निःशब्दे ध्वान्तसञ्चारे निद्रारुद्धककुब्गणे ।
लीलापतिरुदारात्मा किञ्चित्खिन्नमना इव ॥ ३ ॥
रणाङ्गणस्थितिमुक्त्वा नगरस्थितिमाह - निःशब्द इति । ककुब्गणशब्देन
दिक्समूहस्थितप्राणिनो लक्ष्यन्ते ॥ ३ ॥
प्रातःकार्यं विचार्याशु मन्त्रिभिर्मन्त्रकोविदैः ।
दीर्घचन्द्रसमाकारे शयने हिमशीतले ॥ ४ ॥
चन्द्रोदरनिभे चारुगृहे शिशिरकोटरे ।
निद्रां मुहूर्तमगमन्मुद्रितेक्षणपुष्करः ॥ ५ ॥
अगमत्प्राप ॥ ५ ॥
अथ ते ललने व्योम तत्परित्यज्य तद्गृहम् ।
रन्ध्रैर्विविशतुर्वातलेखेऽब्जमुकुलं यथा ॥ ६ ॥
ते ललने ज्ञप्तिलीले ॥ ६ ॥
श्रीराम उवाच ।
कियन्मात्रमिदं स्थूलं शरीरं वाग्विदांवर ।
रन्ध्रेण तन्तुतनुना कथमाश्वाविशत्प्रभो ॥ ७ ॥
सूक्ष्मतमब्रह्माण्डच्छिद्रान्निर्गमने प्राक्पृष्टमेवार्थं रामः
पुनर्दृढीकारायाधिक जिज्ञासया पृच्छति - कियदिति । कियन्मात्रं
चतुर्हस्तप्रमाणदैर्घ्यमिति यावत् ॥ ७ ॥
प्। २२६)
श्रीवसिष्ठ उवाच ।
आधिभौतिकदेहोऽहमिति यस्य मतिभ्रमः ।
तस्यासावणुरन्ध्रेण गन्तुं शक्नोति नानघ ॥ ८ ॥
असौ स्थूलदेहः । अणुरन्ध्रेण सूक्ष्मच्छिद्रेण ॥ ८ ॥
रोधितोऽहमनेनेति न माम्यत्रेति यस्य धीः ।
अनुभूतानुभवति भवतीत्यनुभूयते ॥ ९ ॥
तत्कुतस्तत्राह - रोधित इति । रोधितो निरुद्धः अत्रास्मिञ्छिद्रे न मामि मातुं
न शक्नोमि नरदेहस्वभावत्वादिति यस्य धीः पूर्वं शतशोऽनुभूतमेव
स्थूलदेहस्वरूपत्वमात्मनोऽनुभवति भवति ।
शप्श्यनोर्नित्यवचनान्नुमभावश्छान्दसः । तेन इति एवंरीत्या
अगमनमेवानुभूयते इत्यर्थः ॥ ९ ॥
येनानुभूतं पूर्वार्धं गच्छामीति स तत्क्रियः ।
कथं भवति पश्चार्धं गमनोन्मुखचेतनः ॥ १० ॥
येन तु स्थूलनरदेहतादात्म्यबुद्ध्यभावादातिवाहिकदेहमात्रत्वनिश्चयाच्च
पूर्वार्धपौर्वकालिकदृढवासनासमृद्धं सूक्ष्मतमेऽपि च्छिद्रे
गच्छामि गमनसमर्थोऽस्मीत्येवं शतशोऽनुभूतं स
तादृशगमनस्वभावोन्मुखात्मचेतनांशस्वभावः पुरुषः पश्चार्धं
उत्तरकाले तत्क्रियः स्थूलदेहानुरूपनिरोधादिक्रियाविशिष्टः कथं भवति ।
प्रागाविर्भूतशक्तिस्वभावस्यान्यथात्वायोगादिति भावः ॥ १० ॥
नहि वार्यूर्ध्वमायाति नाधो गच्छति पावकः ।
या यथैव प्रवृत्ता चित्सा तथैव प्रतिष्ठिता ॥ ११ ॥
बहिरपि वस्तुशक्तिस्वभावस्तथैव नियतो दृष्ट इत्याह - नहीति । प्रवृत्ता
प्रागाविर्भूतशक्तिः ॥ ११ ॥
छायायामुपविष्टस्य कुतस्तापानुभूतयः ।
यस्य संवेदनेऽन्योऽर्थः केनचिन्नानुभूयते ॥ १२ ॥
स्थूलदेहात्मबुद्धिरहितयोगिपिशाचादीनामपि निरोधदुःखाभावे
द्वैतमात्राध्यासरहितानां तत्त्वज्ञानां तद्दुःखं नास्तीति किं
वक्तव्यमित्याशयेनाह - छायायामिति । यस्य परमात्मनः सम्यग्वेदने
साक्षात्कारे सति ॥ १२ ॥
यथा संवित्तथा चित्तं सा तथावस्थितिं गता ।
परमेण प्रयत्नेन नीयतेऽन्यदशां पुनः ॥ १३ ॥
नन्वधिष्ठाने संविदि स्थौल्यसौक्ष्म्यादिशक्त्याविर्भावेऽपि चित्तस्य
तदनुविधायित्वं कुतस्तत्राह - यथेति । कथं तर्ह्यन्यथाभावस्तत्राह
- परमेणेति । योगज्ञानाभ्यासादिप्रयत्नेनेत्यर्थः ॥ १३ ॥
सर्पैकप्रत्ययो रज्ज्वामसर्पप्रत्यये बलात् ।
निवर्ततेऽन्यथा त्वेष तिष्ठत्येव यथास्थितः ॥ १४ ॥
तत्र ज्ञानप्रयत्नेनान्यथाभावमुदाहरति - सर्पेति । असर्पप्रत्यये
रज्जुतत्त्वनिर्णये सति ॥ १४ ॥
यथा संवित्तथा चित्तं यथा चित्तं तथेहितम् ।
बालं प्रत्यपि संसिद्धमेतत्को नानुभूतवान् ॥ १५ ॥
चित्तस्य संविच्छक्त्यनुसारित्वमिव चेष्टायाश्चित्तानुसारित्वमपि
प्रसिद्धतरमित्याह - यथेति ॥ १५ ॥
यः पुनः स्वप्नसङ्कल्पपुरुषः प्रतिमाकृतिः ।
आकाशमात्रकाकारः स कथं केन रोध्यते ॥ १६ ॥
ननु स्थूलदेहवदातिवाहिकं चित्तशरीरमपि कुतो न रोध्यते तत्राह - य इति ॥
१६ ॥
चित्तमात्रं शरीरं तु सर्वस्यैव हि सर्वतः ।
विद्यते वेदनाच्चैतत्क्वचिदेतीव हृद्गतात् ॥ १७ ॥
ननु भौतिकस्यास्य देहस्य ज्ञानबलाद्वा कथं चित्तशरीरत्वप्राप्तिस्तत्राह ##-
तथाच न भूतानि चित्तात्पृथक्सन्तीति भावः ॥ १७ ॥
यथाभिमतमेवास्य भवत्यस्तमयोदयम् ।
आदिसर्गे स्वभावोत्थं पश्चाद्द्वैतैक्यकारणम् ॥ १८ ॥
भूतानां चित्तादपृथक्सत्तामुपपादयति - यथाभिमतमिति । अस्य
परमात्मनः अभिमतं चित्तवृत्तिस्तदनतिक्रम्येति यथाभिमतम् । अस्य
भूतजातस्य । अस्तमयोदयमिति समाहारद्वन्द्वः । स्वभावः
स्वाभाविकमज्ञानं कर्म वा तदुत्थम् । स्थूलानि भूतानि भौतिकानि च
द्वैतं तेषां मेलनेनैकदेहभावेनैक्यं च तत्र कारणं पञ्चीकरणं
पश्चाद्भवतीत्यर्थः ॥ १८ ॥
चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।
विद्ध्येतन्त्रयमेकं त्वमविनाभावनावशात् ॥ १९ ॥
एवं चित्ताव्यक्तयोरपि न शुद्धचितः पृथक्सत्तेत्याह - चित्ताकाशमिति ।
अविनाभावना अधिष्ठानसत्ताव्यतिरेकेणास्फुरणं तद्वशात् ॥ १९ ॥
एतच्चित्तशरीरत्वं विद्धि सर्वगतोदयम् ।
यथासंवेदनेच्छत्वाद्यथासंवेदनोदयम् ॥ २० ॥
एवमधिष्ठानसत्ताधीनसत्तासाम्येऽपि स्थूलात्सूक्ष्मे
अनिरोधहेतुर्विशेषोऽस्तीत्याह - एतदिति । सर्ववस्तुषु गतः प्राप्त उदयः
स्वैरमाविर्भावशक्तिर्यस्य तत्तथाविधं विद्धि । तत्कुतः । यतो
यथासंवेदनोदयं संवेदनं
पूर्ववासनाकर्मानुसारिपदार्थस्फूर्तिस्तदनतिक्रम्योदयो यस्य
तथास्वभावं न बाह्यवस्तुशक्त्यनुसारिस्वभावम् । तदपि कुतः ।
यथासंवेदनेच्छत्वात् । यतः शुक्तिमपि रजतात्मना संविदितामिच्छति न
शुक्तिशक्तिमनुसृत्योपेक्षते । तथाच स्थूलस्य बाह्यवस्त्वनुसारित्वान्निरोधेऽपि
न संवेदनेच्छामात्रानुसारिणश्चित्तशरीरस्य निरोध इति भावः ॥ २० ॥
वसति त्रसरेण्वन्तर्ध्रियते गगनोदरे ।
लीयतेऽङ्कुरकोशेषु रसीभवति पल्लवे ॥ २१ ॥
सर्वगतोदयत्वं प्रपञ्चयति - वसतीत्यादिना ॥ २१ ॥
उल्लसत्यम्बुवीचित्वे प्रनृत्यति शिलोदरे ।
प्रवर्षत्यम्बुदो भूत्वा शिलीभूयावतिष्ठते ॥ २२ ॥
यथेच्छमम्बरे याति जठरेऽपि च भूभृताम् ।
अनन्तराकाशवपुर्धत्तेऽथ परमाणुताम् ॥ २३ ॥
न विद्यतेऽन्तः आकाशवपुरवकाशस्वरूपं यत्र तथाविधं सत्परमाणुतां
धत्ते ॥ २३ ॥
भवत्यद्रिर्धराधारो बद्धपीठो नभः शिराः ।
देहस्यान्तर्बहिरपि दधद्वनतनूरुहम् ॥ २४ ॥
वनलक्षणं तनूरुहं दधत् सत् अद्रिर्भवति । बद्धपीठो दृढमूलः ।
देहस्यान्तरद्र्यादिभावः स्वप्ने प्रसिद्धो बहिस्त्विन्द्रजालादौ ॥ २४ ॥
प्। २२७)
भवत्याकाशमाधत्ते कोटीः पद्मजसद्मनाम् ।
अनन्याः स्वात्मनोऽम्भोधिरावर्तरचना इव ॥ २५ ॥
स्वात्मनाश्चित्तस्वरूपादनन्या अभिन्नाः पद्मजसद्मनां ब्रह्माण्डानां
कोटीः आसमन्ताद्धत्ते ॥ २५ ॥
अनुद्विग्नप्रबोधोऽसौ सर्गादौ चित्तदेहकः ।
आकाशात्मा महान्भूत्वा वेत्ति प्रकृततां ततः ॥ २६ ॥
अनुद्विग्नः उद्वेगादविपर्यस्तः कर्मानुसारी प्रबोधो यस्य । आकाशात्मा
आकाशादिक्रमेण महान् ब्रह्माण्डात्मा भूत्वा प्रकृततां प्रस्तुततां
प्रारब्धकर्मानुसारिप्रवृत्तिम् ॥ २६ ॥
असत्यमेव वारित्वं बुद्ध्योदेतीव तत्तथा ।
वन्ध्यापुत्रोऽयमस्तीति यथा स्वप्ने भ्रमो नरः ॥ २७ ॥
वारित्वं मृतगृष्णादौ यथेति शेषः । वन्ध्यापुत्रोऽयं नरोऽस्तीति यथा
स्वप्ने भ्रम उदेतीत्यन्वयः ॥ २७ ॥
श्रीराम उवाच ।
किं चित्तमेतद्भवति किंवा भवति नो कथम् ।
कथमेव न सद्रूपं नान्यद्भवति वीक्षणात् ॥ २८ ॥
सूक्ष्मतमं चित्तमेव सर्वजगत्सर्वशक्तिमत् तदेवापरिज्ञाततत्त्वं
स्थूलमिव भूत्वा परतन्त्रं भवति । परिज्ञाततत्त्वं तु व्यवहारे
सर्वत्राप्रतिहतं स्वतन्त्रमित्युक्तं तत्र किमस्मादिचित्तं
प्रत्येकमेवंशक्तिकं भवत्युत न । आद्ये प्रतिचित्तं
विचित्रसर्वभेदसत्त्वप्रसङ्गः । द्वितीये तु चित्ताजन्यं चित्तादन्यदेव
जगद्रूपं स्यात्तथैव सर्वैर्वीक्षणात्तथा च ज्ञानेन चित्तनाशेऽपि
जगदनुवृत्तिरेव स्यादित्याशयेन श्रीरामः पृच्छति - किमिति ।
एतदस्मदादिसम्बन्धि चित्तं एतदुक्तशक्तिकं भवति किंवा नो भवति । आद्ये
प्रतिचित्तं भिन्नं जगत्सद्रूपं कथं न । द्वितीये तु अन्यत्कथं न भवतीति
कथंशब्दद्वयस्य प्रत्येकमन्वयः ॥ २८ ॥
श्रीवसिष्ठ उवाच ।
प्रत्येकमेव यच्चित्तं तदेवंरूपशक्तिकम् ।
पृथक्प्रत्येकमुदितः प्रतिचित्तं जगद्भ्रमः ॥ २९ ॥
तत्राद्यकल्पमेवाभ्युपगम्य वसिष्ठ उत्तरमाह - प्रत्येकमिति ॥ २९ ॥
क्षणकल्पजगत्सङ्घाः समुद्यन्ति गलन्ति च ।
निमेषात्कस्यचित्कल्पात्कस्यचिच्च क्रमं शृणु ॥ ३० ॥
मरणादिमयी मूर्च्छा प्रत्येकेनानुभूयते ।
यैषा तां विद्धि सुमते महाप्रलययामिनीम् ॥ ३१ ॥
कथं तर्हि महाप्रलयानन्तरं सृष्टिप्रवादस्तत्राह - मरणेति ।
व्यष्टिकृतसर्गे प्राक्तनमरणमेव महाप्रलय इत्यर्थः ॥ ३१ ॥
तदन्ते तनुते सर्गं सर्व एव पृथक्पृथक् ।
सहजस्वप्नसङ्कल्पान्सम्भ्रमाचलनृत्यवत् ॥ ३२ ॥
सहजान्स्वाभाविकाविद्योत्थानवस्थात्रयस्वप्नसङ्कल्पान् । तस्य त्रय
आवसथास्त्रयः स्वप्नाः इति श्रुतेः । सम्भ्रमश्चित्तमोहः ॥ ३२ ॥
महाप्रलयरात्र्यन्ते चिरादात्ममनोवपुः ।
यथेदं तनुते तद्वत्प्रत्येकं मृत्यनन्तरम् ॥ ३३ ॥
आत्मनः परब्रह्मणः समष्टिमनोवपुर्हिरण्यगर्भः सत्यसङ्कल्पात्तनुते
तथैव न तदतिक्रम्येति न प्रतिचित्तं जाग्रत्प्रपञ्चवैचित्र्यप्रसक्तिः । स्वप्नादौ
तु वैचित्र्यं दृष्टत्वादिष्टमेवेति भावः । अथवायं दृष्टान्तः -
यथा समष्टिमनोवपुर्हिरण्यगर्भः समष्टिभोग्यं प्रपञ्चं तनुते तथा
व्यष्टिमनोमात्रो जीवोऽपि स्वस्वभोग्यं स्वप्नादिव्यष्टिप्रपञ्चमिति ॥ ३३ ॥
श्रीराम उवाच ।
मृतेरनन्तरं सर्गो यथा स्मृत्यानुभूयते ।
चिरात्तथानुभवति नातो विश्वमकारणम् ॥ ३४ ॥
ननु यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति इति श्रुत्या
सर्वानुभवाच्च स्मृतिवत्क्रियाणामेकवस्तुविषयत्वं निश्चितं स्मृतिश्च
स्वकारणानुभवस्य सत्यार्थत्वे यथार्था असत्यार्थत्वे त्वयथार्था ।
तत्रास्माकं भ्रान्तिबहुलत्वादसत्यसङ्कल्पत्वाच्चास्मत्स्मृतेरयथार्थत्वे
तज्जन्यकतिपयस्वप्नादिप्रपञ्चस्यासत्यतास्तु । हिरण्यगर्भस्य तु
सर्वज्ञत्वेनाभ्रान्तत्वात्सत्यसङ्कल्पत्वाच्च तत्स्मृतेरयथार्थत्वायोगेन
तत्सृष्टप्रपञ्चस्य न मिथ्यात्वप्रसक्तिरित्याशयेन रामः शङ्कते -
मृतेरिति । यथा व्यष्टिजीवैर्मृतेरव्यवहितोत्तरकाले स्मृत्या
स्वकृतसर्गोऽनुभूयते तथा समष्टिरपि चिरान्महाप्रलयादनन्तरं
स्वकीयया यथार्थस्मृत्या सृष्टं प्रपञ्चमनुभवति अतस्तत्स्मृत्या
रूढप्राक्तनसत्यार्थानामेवैतत्कल्पीयसत्यविश्वकारणत्वसम्भवाद्विश्वम्
अकारणं ब्रह्मातिरिक्तसत्यकारणताशून्यमिति यत्प्राक्प्रतिज्ञातं
तन्मतव्याघात इत्यर्थः ॥ ३४ ॥
श्रीवसिष्ठ उवाच ।
महति प्रलये राम सर्वे हरिहरादयः ।
विदेहमुक्ततां यान्ति स्मृतेः क इव सम्भवः ॥ ३५ ॥
भवेदेवं यद्यादिसर्गे यथार्थानुभवजन्या सर्गहेतुः स्मृतिस्तस्य
सम्भवेत् । नहि सा प्रथमं हिरण्यगर्भपदप्राप्तस्योपासकस्य सम्भवति
तस्य हि स्मृतिरुपासनोपनीतसंस्कारजन्या न यथार्थानुभवजन्या । उपासना
च प्राक्तनी व्यष्टेरेव समष्टिभावचिन्तनं न यथार्थानुभव
इत्ययथार्थोपासनासंस्कारजस्मृतिजन्यत्वान्नादिसर्गस्य सत्यताप्रसक्तिः ।
नहि प्राक्तनाः केचिदन्ये सर्वज्ञास्तदानीं सन्ति । सर्वेषां प्रागेव मुक्तत्वात् ।
द्वितीयकल्पादिसर्गहेतुस्मृतेस्तु पूर्वसर्गानुभूतमिथ्यार्थविषयतैवेति न
क्वापि सर्गसत्यताप्रसक्तिरित्याशयेन वसिष्ठः समाधत्ते - महतीत्यादिना ॥
३५ ॥
अस्मदादिः प्रबुद्धात्मा किलावश्यं विमुच्यते ।
कथं भवन्तु नो मुक्ता विदेहाः पद्मजादयः ॥ ३६ ॥
प्रबुद्धात्मा तत्त्ववित् ॥ ३६ ॥
अन्ये त्वमिव [त्वपि च इति पाठः] ये जीवास्तेषां मरणजन्मसु ।
स्मृतिः कारणतामेति मोक्षाभाववशादिह ॥ ३७ ॥
मरणजन्मसु मरणजन्मप्रयोजकसर्गेषु स्मृतिः
प्राक्तनमिथ्यार्थानुभववासनाजन्यैवेत्याशयः ॥ ३७ ॥
प्। २२८)
जीवो हि मृतिमूर्च्छान्ते यदन्तः प्रोन्मिषन्निव ।
अनुन्मिषित एवास्ते तत्प्रधानमुदाहृतम् ॥ ३८ ॥
ननु हैरण्यगर्भी सृष्टिः प्रधानान्महदहङ्कारादिक्रमेण पुराणादिषु
श्रूयते जैवी तु सा सहसैव जायते तत्र कथं तत्सृष्टिसाम्यं
जैवसृष्टेरित्याशङ्क्य तत्रापि प्रधानमहदादिक्रममुपपादयति - जीवो
हीत्यादिना । अनुन्मिषितो बहिरिति शेषः । तत्तादवस्थ्यं प्रधानं
मूलप्रकृतिरित्युदाहृतं पुराणादावित्यर्थः ॥ ३८ ॥
तद्व्योमप्रकृतिः प्रोक्ता तदव्यक्तं जडाजडम् ।
संस्मृतेरस्मृतेश्चैव क्रम एष भवोदये ॥ ३९ ॥
आकाश इव तदोतं च प्रोतं च इत्यादिश्रुतेर्व्योमादिशब्दानामपि तत्र
प्रसिद्धिमाह - तदिति । चित्प्रतिबिम्बग्रहाज्जडाजडम् । संस्मृतेः सर्गस्य
अस्मृतेः प्रलयस्य च क्रमः आद्यन्तावधिरेष इत्यर्थः ॥ ३९ ॥
बोधोन्मुखत्वे हि महत्तत्प्रबुद्धं यदा भवेत् ।
तदा तन्मात्रदिक्कालक्रिया भूताद्युदेति खात् ॥ ४० ॥
तदेव बोधोन्मुखत्वे महत्तत्त्वं प्रबुद्धं सदहङ्काराख्यं यदा
भवेत्तदा तदवस्थात् खात्
प्रागुक्तावकाशात्तन्मात्रादिभूतभौतिकान्तमुदेतीत्यन्वयः ॥ ४० ॥
तदेवोच्छूनमाबुद्धं भवतीन्द्रियपञ्चकम् ।
तदेव बुध्यते देहः स एषोऽस्यातिवाहिकः ॥ ४१ ॥
आ उच्छूनमीषदुच्छूनं सूक्ष्मावस्थमित्यर्थः । बुध्यते स्वप्नजागरयोः ॥
४१ ॥
चिरकालप्रत्ययतः कल्पनापरिपीवरः ।
आधिभौतिकताबोधमाधत्ते चैष बालवत् ॥ ४२ ॥
आधिभौतिकताबोधं भौतिकस्थूलदेहाहम्भावम् ॥ ४२ ॥
ततो दिक्कालकलनास्तदाधारतया स्थिताः ।
उद्यन्त्यनुदिता एव वायोः स्पन्दक्रिया इव ॥ ४३ ॥
दिक्कालपदेन तदाश्रितपदार्था लक्ष्यन्ते । तदाधारतया
स्थूलदेहाश्रितचक्षुराद्यधीनतया स्थितास्तत्तद्देशकालगतपदार्थकलनाः
उद्यन्ति प्रादुर्भवन्तीत्यर्थः ॥ ४३ ॥
वृद्धिमित्थमयं यातो मुधैव भुवनभ्रमः ।
स्वप्नाङ्गनासङ्गसमस्त्वनुभूतोऽप्यसन्मयः ॥ ४४ ॥
यत्रैव म्रियते जन्तुः पश्यत्याशु तदेव सः ।
तत्रैव भुवनाभोगमिममित्थमिव स्थितम् ॥ ४५ ॥
व्योमैवानुभवत्यच्छमहं जगदिति भ्रमम् ।
व्योमरूपं व्योमरूपी जीवो जात इवात्मवान् ॥ ४६ ॥
आगन्तुकदेहाद्यात्मना आत्मवान् जात इव सन् अहमिति जगदिति च
भ्रममनुभवतीत्यर्थः ॥ ४६ ॥
[पूर्वत्र व्योमैवानुभवतीति षट्चत्वारिंशत्तमश्लोके इति भावः]
सुरपत्तनशैलार्कतारानिकरसुन्दरम् ।
जरामरणवैक्लव्यव्याधिसङ्कटकोटरम् ॥ ४७ ॥
जगद्भ्रममेव विशेषणैः प्रपञ्चयति - सुरेत्यादिना । इन्द्रादयः सुराः
अमरावत्यादीनि तत्पत्तनानि मेर्वादयस्तदाधारशैलास्तान्प्रदक्षिणीकुर्वाणा
अर्कतारानिकरास्तैः सुन्दरम् । कोटरमत्र मर्त्यलोकादिच्छिद्रम् ॥ ४७ ॥
स्वभावाभावसंरम्भस्थूलसूक्ष्मचराचरम् ।
साब्ध्यद्र्युर्वीनदीशाहोरात्रिकल्पक्षणक्षयम् ॥ ४८ ॥
स्वानुकूलानां भावः सम्पादनं प्रतिकूलानां चाभावो निवारणं
तद्विषये संरम्भेणोद्योगेन युक्ताः स्थूलाः सूक्ष्माश्चरा अचराश्च प्राणिनो
यत्र । अचराणामपि लतानां सालम्बनदेशे प्रसरस्य
निरालम्बनप्रदेशपरिहारस्य च दर्शनादचरसाधारण्योक्तिः । अब्धयश्च
अद्रयश्च उर्वी च नद्यश्च ईशास्तत्तदधिपतयश्च तैः सहिता अहोरात्र्यादयो
यत्र ॥ ४८ ॥
अहं जातोऽमुना पित्रा किलात्रेत्याप्तनिश्चयम् ।
इयं माता धनमिदं ममेत्युदितवासनम् ॥ ४९ ॥
सुकृतं दुष्कृतं चेदं ममेति कृतकल्पनम् ।
बालोऽभूवमहं त्वद्य युवेति विलसद्धृदि ॥ ५० ॥
हृदि विलसत् स्फुरन्तं जगद्भ्रमं पश्यतीति पूर्वत्र सम्बन्धः ।
पुंलिङ्गविशेषणस्य क्लीबता पदसंस्कारपक्षाश्रयणात् ॥ ५० ॥
प्रत्येकमेवमुदितः संसारवनखण्डकः ।
ताराकुसुमितो नीलमेघचञ्चलपल्लवः ॥ ५१ ॥
इदानीं तमेव प्रत्येकं जीवसंसारं वनखण्डत्वेन वर्णयति -
प्रत्येकमित्यादिना । ताराभिः कुसुमितः सञ्जातपुष्पः ॥ ५१ ॥
चरन्नरमृगानीकः सुरासुरविहङ्गमः ।
आलोककौसुमरजाः श्यामागहनकुञ्जकः ॥ ५२ ॥
नरा एव मृगानीकानि यत्र । आलोकप्रधानान्यहानि कौसुमरजांसि यत्र ।
श्यामा रात्रय एव गहना दुष्प्रवेशाः कुञ्जका लतागृहाणि यत्र ॥ ५२ ॥
अब्धिपुष्करिणीपूर्णो मेवाद्यचललोष्टकः ।
चित्तपुष्करबीजान्तर्निलीनानुभवाङ्कुरः ॥ ५३ ॥
निलीनाः संस्कारात्मना स्थिता अनुभवाश्चित्तवृत्तयोऽङ्कुरा यत्र ॥ ५३ ॥
यत्रैष म्रियते जीवस्तत्रैवं पश्यति क्षणात् ।
प्रत्येकमुदितेष्वेवं जगत्खण्डेषु भूरिशः ॥ ५४ ॥
पश्यति वर्णितवनखण्डकमिति शेषः ॥ ५४ ॥
कोटयो ब्रह्मरुद्रेन्द्रमरुद्विष्णुविवस्वताम् ।
गिर्यब्धिमण्डलद्वीपलोकान्तरदृशां गताः ॥ ५५ ॥
मरुतो देवाः । लोकान्तान्यान्तराणि ब्रह्माण्डगर्भस्थानि पश्यन्तीति
तद्दृशस्तेषां ब्रह्मादीनां कोटयो गताः ॥ ५५ ॥
याता यास्यन्ति यान्त्येता दृष्टयो नष्टरूपिणीः ।
या ब्रह्मण्युपबृंहाढ्यास्ताः के गणयितुं क्षमाः ॥ ५६ ॥
नष्टरूपिणीः असत्स्वरूपाः । छान्दसो विभक्तिव्यत्ययः ।
उपबृहणमुपबृम्ह आविर्भावस्तदाढ्याः । घञर्थे कः ॥ ५६ ॥
एवं कुड्यमयं विश्वं नास्त्येव मननादृते ।
मनने चलमेवान्तस्तदिदानीं विचारय ॥ ५७ ॥
एवं प्रपञ्चस्यारोपक्रममुपवर्ण्यापवादं क्रमेणाह - एवमित्यादिना
। कुड्यमयं भित्तिवत्स्थूलं विश्वं
मननान्मनःसङ्कल्पलक्षणात्सूक्ष्मादृते तद्व्यतिरेकेण नास्त्येव । त्रीणि
रूपाणीत्येव सत्यम् इत्यादिश्रुतेः । ननु स्थूलं स्थिरस्वभावं मनस्तु
चलस्वभावं तत्कथमस्य मनोमात्रता तत्राह - मनने इति । यद्यपि
बहिर्विश्वं स्थिरं भाति तथापि मननेन मनसा यथेच्छं विभाव्यमानं
चलमस्थिरस्वभावमेवानुभूयते । भ्राम्यति मनसि भ्रमदिव प्रसन्ने
प्रसन्नमिव मलिने मलिनमिव मनोरथादौ उत्पाद्यान्यत्रारोप्यमाणमिव
सर्वैरनुभूयते तदिदानीं त्वं स्वानुभवेनैव विचारयेत्यर्थः ॥ ५७ ॥
प्। २२९)
यदेव तच्चिदाकाशं तदेव मननं स्मृतम् ।
यदेव च चिदाकाशं तदेव परमं पदम् ॥ ५८ ॥
मनसश्च विमर्शे तत्साक्षिमात्रत्वं साक्षिणश्च ब्रह्ममात्रतेति
पूर्णैकचिन्मात्रपरिशेष इत्याह - यदेवेति । मननं यच्चिदाकाशं तदेवेति
सम्बन्धः ॥ ५८ ॥
यदेवाम्बु स आवर्तो नत्वस्यावर्त वस्तु सन् ।
द्रष्टैवास्ते दृश्यमिव दृश्यं नत्वस्ति वस्तु सत् ॥ ५९ ॥
उक्तमर्थं दृष्टान्तेनोपपादयति - यदेवेति । आवर्त इति
विभक्तिलोपश्छान्दसः ॥ ५९ ॥
चिद्व्योम्नो भूतनभसि कचनं यन्मणेरिव ।
तज्जगद्भाविनानासत्तत्त्वं श्वभ्रमिवाम्बरे ॥ ६० ॥
अभूते असत्ये अनादौ वा मायानभसि सूक्ष्मभूतकार्यचित्तनभसि वा कचनं
जीवभावेन स्फुरणं यत्तदेव नामरूपात्मना भावि नानाभवनशीलं
सज्जगदित्युच्यते । यथा ऐन्द्रजालिकमणेरम्बरे कचनं
बहुविधगन्धर्वनगरच्छिद्रमिव भवति तच्चिद्व्योमैव तत्त्वं परमार्थ
इत्यर्थः ॥ ६० ॥
मद्बुद्धार्थो जगच्छब्दो विद्यते परमामृतम् ।
त्वद्बुद्धार्थस्तु नास्त्येव त्वमहंशब्दकादपि [त्वमहंशब्दौ
कायतीति विचारणीय्ॐऽशः] ॥ ६१ ॥
मद्बुद्धार्थोऽधिष्ठानसन्मात्रम् । त्वद्बुद्धार्थ आरोपितसत्ता । एवं
त्वमहंशब्दौ कायति अभिलपति यः स त्वमहंशब्दकात् जगत्प्रमाता सोऽपि
मद्बुद्धः साक्षिचिन्मात्रस्वभाव एवास्ति न त्वद्बुद्धजीवस्वभाव इत्यर्थः ॥
६१ ॥
तस्माल्लीलासरस्वत्यावाकाशवपुषौ स्थिते ।
सर्वगे परमात्माच्छे सर्वत्राप्रतिघेऽनघे ॥ ६२ ॥
उक्तमुपसंहृत्य प्रस्तुते योजयति - तस्मादिति । आकाशवपुषौ
सत्यसङ्कल्पचित्ताकाशमात्रशरीरे । अप्रतिघे सूक्ष्मतमेऽपि च्छिद्रे
प्रवेशप्रतिघातरहिते ॥ ६२ ॥
यत्र यत्र सदा [महाव्योम्नि इति पाठः] व्योम्नि यथाकामं
यथेप्सितम् ।
उदयं कुरुतस्तेन तद्गेहेऽस्ति गतिस्तयोः ॥ ६३ ॥
अप्राप्तप्राप्तीच्छा ईप्सा । प्राप्तोपभोगेच्छा काम इति भेदः । उदयमाविर्भावम्
। तेन हेतुना । तद्गेहे विदूरथगृहे ॥ ६३ ॥
सर्वत्र सम्भवति चिद्गगनं तदत्र
सद्वेदनं कलनमामननं [वलनं इति कतिपयपुस्तकेषु
पठ्यते] विसारि ।
तच्चातिवाहिकमिहाहुरकुड्यमेव
देहं कथं क इव तं वद किं रुणद्धि ॥ ६४ ॥
चिद्गगनं सर्वत्र सम्भवति । न प्रतिहन्यत इति यावत् । तदेव कलनं सत्
आमननं मानसविषयावधारणपर्यन्तं विसारि बहिःप्रसरणस्वभावं
सद्वेदनं यथार्थज्ञानं भवति । अकुड्यमस्थूलं सूक्ष्ममेवाहुः । को
रुणद्धि किं निमित्तं कथं केन प्रकारेण वा । न कथञ्चिदपि तस्य
रोधसम्भावनेत्यर्थः ॥ ६४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
समरसमनन्तरसंस्मृत्यनुभववर्णनं नाम चत्वारिंशः सर्गः
॥ ४० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
समरसमनन्तरसंस्मृत्यनुभववर्णनं नाम चत्वारिंशः सर्गः ॥ ४० ॥