०३९

एकोनचत्वारिंशः सर्गः ३९

श्रीवसिष्ठ उवाच ।

अथ वीर इवारक्तः कालेनास्तमितो रविः ।
अस्त्रतेजःपरिम्लानप्रतापोऽब्धौ समुज्झितः ॥ १ ॥

सूर्यस्यास्तमयः सन्ध्या रक्षोवेतालसङ्कुला ।
बीभत्सबहलं रात्रौ रणस्थानं च वर्ण्यते ॥ १ ॥

सूर्यपक्षे अस्त्रतेजसि स्वच्छे नभसि परिम्लानप्रतापो मन्दरश्मिः ।
समुज्झितस्त्यक्तः पातित इति यावत् ॥ १ ॥

रणरक्तरुचिर्व्योमदर्पणप्रतिबिम्बिता ।
जहौ सूर्यशिरश्छेदे सन्ध्यालेखोदभूत्क्षणम् ॥ २ ॥

सूर्यलक्षणस्य सादिनः शिरसश्छेदे पातने सति प्राग्व्योमदर्पणे प्रतिबिम्बिता
रक्तरुचिर्व्योम जहौ । क्षणमल्पकालम् ॥ २ ॥

भूपातालनभोदिग्भ्यः प्रलयाब्धिजलौघवत् ।
समाजग्मुस्तनत्ताला वेताला वलया इव ॥ ३ ॥

सर्वदिग्वलयनाद्वलयाकाराः स्तनन्तो ध्वनन्तस्तालाः करताला येषां स्तनन्तो
ध्वनन्तस्ताला इव दीर्घा वा वेतालाः ॥ ३ ॥

मृष्टध्वान्तासिवलिते दिननागेन्द्रमस्तके ।
सन्ध्यारागारुणं कीर्णं तारानिकरमौक्तिकम् ॥ ४ ॥

दिनलक्षणस्य नागेन्द्रस्य गजश्रेष्ठस्य मस्तके मृष्टेन
शाणनिघृष्टेन ध्वान्तासिना वलिते खण्डिते सति रागो रक्तं तेनारुणं
तारानिकरलक्षणं गजमौक्तिकं विकीर्णमित्युत्प्रेक्षा ॥ ४ ॥

निःसत्त्वेषु तमोन्धेषु रसनारसशालिषु ।
सङ्कोचमाययुः पद्मामृतानां हृदयेष्विव ॥ ५ ॥

निह्सत्त्वेषु निर्गतहंसादिजन्तुषु निष्प्राणेषु च । तमसान्धकारेण मोहेन
चान्धेषु । रसशालिषु सरःसु प्राग्जीवनप्रेमवत्सु च । रसनाः
प्राग्भ्रमरादिभिः प्राणैश्च ध्वनन्तः ॥ ५ ॥

मीलत्पक्षाः क्षणात्सुप्ताः कृच्छ्रप्रोच्छ्रितकन्धराः ।
कुलायेषु खगा आसञ्छवाङ्गेष्विव हेतयः ॥ ६ ॥

हेतिपक्षे कृच्छ्रेण मरणदुःखेन प्रोच्छ्रिता उन्नामिताः कन्धराः कण्ठा
यैः ॥ ६ ॥

आसन्नचन्द्रसुभगा लोकाः कुसुमपङ्क्तयः ।
उल्लसद्धृदया जाता वीरपक्षेष्विव श्रियः ॥ ७ ॥

आसन्नस्य चन्द्रस्य सुभगालोकलक्षणास्तत्सदृशाश्च
कुमुदादिकुसुमपङ्क्तयः ॥ ७ ॥

रक्तवारिमयी सायमङ्गगुप्तशिलीमुखा ।
सङ्कुचद्वक्रपद्माभूद्रणभूमिरिवाब्जिनी ॥ ८ ॥

अब्जिनीपक्षे सन्ध्यारागप्रतिफलाद्रक्तसदृशवारिप्रचुराः । शिलीमुखा
बाणा भ्रमराश्च । वक्राण्येव वक्राणीव वा पद्मानि यस्याः ॥ ८ ॥

उपर्यभूद्व्योमसरस्ताराकुमुदमण्डितम् ।
अधस्त्वभूद्वारिसरः स्फुरत्कुमुदतारकम् ॥ ९ ॥

तमस्यपेतभीतानि भूतानि मिलितान्यलम् ।
पयांसीव विसेतूनि प्रसृतानि दिशं प्रति ॥ १० ॥

प्रागपेतानि वियुक्तानि पश्चान्मिलितान्यप्यपरिचयात्परस्परस्माद्भीतानीत्यर्थः
॥ १० ॥

आसीद्रणाङ्गणं गायद्वेतालकुलसङ्कुलम् ।
क्वणत्कङ्कालकाङ्कस्थकङ्ककाकोलकेलिमत् ॥ ११ ॥

कङ्कालकानां शवानामङ्के उत्सङ्गे ॥ ११ ॥

अथ काष्ठचिताज्वालसताराम्बरभास्वरम् ।
पचत्पचपचाशब्दिमेदोमांसमयानलम् ॥ १२ ॥

अथ रणाङ्गणं वक्ष्यमाणविशेषणमासीदित्यासर्गान्तमनुवर्तते ॥ १२ ॥

सर्वाङ्गास्थिस्फुटास्फोटस्फुटच्चितिचयोन्मुखम् ।
वेतालललनारब्धजललीलातिरोहितम् ॥ १३ ॥

अस्थ्नां स्फुटैरासमन्तात्स्फोटैः स्फुटन्तश्चितिचया एव वीरवदुन्मुखाः
प्राधान्येन प्रकाशमाना यत्र । वेतालललनाभिरारब्धं जललीला जलक्रीडा
तस्यामिव चिताग्निषु तिरोहितमन्तर्धानं यत्र ॥ १३ ॥

श्वकाकयक्षवेतालतालकोलाहलोल्बणम् ।
गमागमेन भूतानां समुड्डीनवनोपमम् ॥ १४ ॥

रक्तमांसवसामेदोहरणव्य्ग्रडाकिनि ।
चर्वितासृग्वसामांसस्रवत्सृक्किपिशाचकम् ॥ १५ ॥

स्रवन्त्यौ सृक्किणी ओष्ठप्रान्तौ येषां तथाविधाः पिशाचका यत्र ॥ १५ ॥

मध्यमध्यचितालोकप्रकटासृक्शवव्रजम् ।
विरूपिकानीयमानस्वांसन्यस्तमहाशवम् ॥ १६ ॥

मध्यमध्यचितासु आलोकाः पिशाचैरालोक्यमानाः प्रकटासृजः शवव्रजा
यत्र । विरूपिकाः पूतनाः ॥ १६ ॥

उत्ताण्डवोग्रकुम्भाण्डमण्डलोड्डामरोदरम् ।
छमिच्छमित्प्रलापान्तं मेदोसृग्बाष्पसाम्बुदम् ॥ १७ ॥

कुम्भाण्डाः पिचण्डिलाः पिशाचजातिभेदाः । छमिच्छमिदिति प्रलापा इव
शववक्रान्ते ज्वालाशब्दा यत्र । मेदोसृजां वाष्पैः सार्द्रधूमैः
साम्बुदमिव ॥ १७ ॥

वहद्रक्तनदीरंहोरूढभूचररूपिकम् ।
वेतालकुलकङ्कालकर्षणाकुलकाकलम् ॥ १८ ॥

रक्तनदीरंहसि रूढा निखातपादा अत एव भूचरीव लक्ष्यमाणा रूपिका यत्र ।
वेतालकुलानां कङ्कालानां शवानां कर्षणासु कुलोचितानि काकलानि
हर्षकलकूजितानि यत्र ॥ १८ ॥

मृतेभोदरमञ्जूषासुप्तवेतालबालकम् ।
विविक्तैकरणोद्देशपानक्रीडास्थराक्षसम् ॥ १९ ॥

मत्तवेतालकलहचितालातरणोज्ज्वलम् ।
वहद्रक्तवसामिश्रगन्धबन्धुरमारुतम् ॥ २० ॥

चितानामलातैर्ज्वलदुल्मुकैर्यो रणस्तेनोज्ज्वलं दीप्रम् ॥ २० ॥

प्। २२५)

रूपिकापेटिकावान्तारणद्रटरटारवम् ।
अर्धपक्वशवास्वादलुब्धयक्षोल्लसत्कलि ॥ २१ ॥

रूपिकाणां पूतनाभेदानां पेटिका करण्डास्तासामेव प्रसिद्धाः ।
यक्षाणां उल्लसन्कलिः कलहो यत्र ॥ २१ ॥

तुङ्गवङ्गकलिङ्गाङ्गतङ्गणाङ्गलगत्खगम् ।
तारापातोपमहसत्सम्मुखज्वालरूपिकम् ॥ २२ ॥

तुङ्गेषु वङ्गादिवेशजानामङ्गेषु लगन्तो निशाचरखगा यत्र ।
तारापातोपमैर्दशनैर्हसन्त्यः सम्मुखीकृतज्वालारूपिका यत्र ॥ २२ ॥

पतद्वेतालसोल्लासमध्यस्थासृग्विरूपिकम् ।
पिशाचाकर्णिताभ्यर्णयोगिनीगणनायकम् ॥ २३ ॥

असृक्पिच्छिले पतत्सु वेतालेषु हासादिसोल्लासा असृक्प्रधाना विरूपिका यत्र ॥ २३ ॥

प्रसृतान्त्रमहातन्त्रीप्रायसम्पन्नवादनम् ।
पिशाचवासनोत्क्रान्तपिशाचीभूतमानवम् ॥ २४ ॥

आन्त्रमहातन्त्रीभिः प्रायेण सम्पन्नानि वादनानि यत्र ॥ २४ ॥

रूपिकालोकनापूर्वत्रासार्धमृतसद्भटम् ।
क्वचिद्वेतालरक्षोभिरपरीपूर्णमद्रकम् ॥ २५ ॥

रूपिकाणामालोकनादपूर्वत्रास आकस्मिकं भयं तस्मात् । मद्रकं
कल्याणोत्सवः ॥ २५ ॥

स्वरूपिकास्कन्धपतच्छवत्रस्तनिशाचरम् ।
नभःसङ्घट्टितापूर्वभूतपेटकसङ्कटम् ॥ २६ ॥

नभसि सङ्घट्टितैरपूर्वैः प्रसिद्धविलक्षणैर्भूतपेटकैः सङ्कटं
निरन्तरम् ॥ २६ ॥

अतिप्रयत्नापहृतम्रियमाणनरामिषम् ।
स्वभक्स्यापेक्षपक्षेषु विक्षिप्तशवराशिवत् ॥ २७ ॥

स्वेषु स्वीयेषु भक्ष्यापेक्षेषु पक्षेषु ॥ २७ ॥

शिवामुखानलशिखाखण्डोत्थमितिरक्तगैः ।
समुड्डीननवाशोकपुष्पगुच्छमिवाभितः ॥ २८ ॥

शिवा
जम्बुकास्तन्मुखानलज्वालाभिरखण्डमनुच्छेदमुत्थमितिभिर्मूर्च्छान्तःप्
राप्तसञ्ज्ञैः रक्तगै रक्तव्याप्तैर्नरैश्च ॥ २८ ॥

कबन्धकन्धराबन्धव्य्ग्रवेतालबालकम् ।
यक्षरक्षःपिशाचादिकचदाकाशगोल्मुकम् ॥ २९ ॥

कबन्धकन्धरासु च्छिन्नशिरोबन्धनक्रीडासु व्यग्रा वेतालबालका यत्र ।
यक्षादीनां कचन्तो दीप्यमाना आकाशगा उल्मुका ज्वलदलातानि यत्र ॥ २९ ॥

आकाशभूधरनिकुञ्जगुहान्तराल-
पिण्डोपमण्डिततमोम्बुदपीठपूरम् ।
व्यालोलभूतरभसाकुलकल्पवात-
व्याधूतलोककरकाण्डकपेटकल्पम् ॥ ३० ॥

आकाशभूधरेषु तदीयनिकुञ्जानां गुहानां चान्तरालेषु च
पिण्डवन्निबिडतया उपमण्डितस्तमोलक्षणः अम्बुदपीठानां
पीठवत्प्रतिष्ठिताम्बुदानां पूरः समूहो यत्र । व्यालोलानां भूतानां
रभसेन वेगेन आकुलं कल्पवातैर्व्याधूता लोका जनास्तदीय
करकादिसम्भाराश्च यत्र तथाविधं यदण्डकपेटं ब्रह्माण्डोदरं
तत्कल्पं रणाङ्गणमासीदित्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली०
निशाचराकुलरात्रिरणाङ्गणवर्णनं नामैकोनचत्वारिंशः सर्गः ॥
३९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
निशाचराकुलरात्रिरणाङ्गणवर्णनं नामैकोनचत्वारिंशः सर्गः ॥ ३९ ॥