अष्टत्रिंशः सर्गः ३८
श्रीवसिष्ठ उवाच ।
एवमत्याकुले युद्धे सास्फोटभयसङ्कुले ।
आदित्ये तमसा वृद्धे चटत्कठिनकङ्कटे ॥ १ ॥
दिनान्ते सेनयोर्युद्धात्परावृत्तौ रणक्षितिः ।
पिशाचभीमबीभत्सा विस्तरेणात्र वर्ण्यते ॥ १ ॥
जितकाशिभिः सास्फोटैः पराजितानां भयेन च सङ्कुले । चटति
रुधिरोद्गममावृणोति तथाविधे कठिनकङ्कटे अम्बु तद्रुधिरक्लेदजलं
वहति प्रक्षरति सतीति परेणान्वयः ॥ १ ॥
वहत्यम्बूत्पतन्तीषु पतन्तीष्वश्मवृष्टिषु ।
नदीषु क्षेपणाच्छासु वरकेष्वब्जपङ्क्तिषु ॥ २ ॥
क्षेपणपाषाणकरकैरच्छासु शुभ्रास्वश्मवृष्टिष्वेकत्रोत्पतन्तीष्वन्यत्र
पतन्तीषु । नदीष्वब्जपङ्क्तिषु वरकेषु संवरकेषु सङ्कुचन्तीषु सतीषु ।
लिङ्गव्यत्ययश्छान्दसः ॥ २ ॥
मिथः फलाग्रकाटोत्थवह्विसीकरिणीषु च ।
आयान्तीषु प्रयान्तीषु दूरं शरनदीषु च ॥ ३ ॥
शरफलाग्रयोर्मिथः काटेन सङ्घट्टनेनोत्थैर्वह्निकणैः सीकरिणीषु
शरनदीषु ॥ ३ ॥
वहल्लूनशिरःपद्मचक्रावर्तैस्तरङ्गितैः ।
खार्णवे पूरिते हेतिवृन्दमन्दाकिनीगणैः ॥ ४ ॥
वहन्ति प्रवहन्ति लूनशिरांस्येव पद्मानि येषु तथाविधाश्चक्राण्येवावर्ता
येषु तथाविधैर्हेतिवृन्दमन्दाकिनीगणैः खार्णवे आकाशलक्षणे समुद्रे
पूरिते सति ॥ ४ ॥
समीरणरणत्क्वाणशस्त्रपूर्णघनैर्घनैः ।
सन्देहान्तेषु सिद्धेषु कपिकच्छव्यथाप्रदैः ॥ ५ ॥
समीरणवद्रणत्क्वाणैः शस्त्रैः पूर्णत्वादेव घनैर्निबिडैर्घनैर्मेघैरत
एव वर्षर्त्वारम्भशङ्कया कपीनां कच्छप्रदेशे
शोणतोपचयात्कामव्यथाप्रदैः । मेघान्तरितेषु सिद्धेषु सन्दिह्यते इति
सन्देहः अन्तः प्रलयो यैस्तथाविधेषु सत्सु ॥ ५ ॥
अष्टभागदशाशेषप्रतापमधुराकृति ।
शस्त्रघातौजसा वीर इवाहस्तनुतां ययौ ॥ ६ ॥
शस्त्राघातप्रयुक्तेनौजसा शोणकान्त्या वीरः शूर इव ॥ ६ ॥
श्रान्ताश्वेभाः प्रभग्नाश्च हेतिसङ्घातदीप्तयः ।
दिवसेन समं सेना ययुर्मन्दप्रतापताम् ॥ ७ ॥
अथसेनाधिनाथाभ्यां विचार्य सहमन्त्रिभिः ।
दूताः परस्परं वृत्ता युद्धं संह्रियतामिति ॥ ८ ॥
वृत्ताः प्रवर्तिताः ॥ ८ ॥
तत्र श्रमवशान्मन्दयन्त्रशस्त्रपराक्रमैः ।
रणसंहरणं काले सर्वैरेवोररीकृतम् ॥ ९ ॥
मन्दैर्मन्दीकृतैर्यन्त्रशस्त्रपराक्रमैः । बहुव्रीहिर्वा ।
संहरणमुपसंहारः ॥ ९ ॥
ततो महारथोत्तुङ्गकेतुप्रान्तकृतास्पदम् ।
बलयोरारुहोहैक एको योधो ध्रुवो यथा ॥ १० ॥
महतो रथस्योत्तुङ्गे केतुप्रान्ते कृतास्पदं कृताधारं
दीर्घवंशस्तम्भद्वयमिति शेषः । नन्वेक एक इति द्विर्वचनं
चेद्वीप्साविवक्षायाम् । एकं बहुव्रीहिवदिति बहुव्रीहिवद्भावे एकैक इति स्यात्
तदविवक्षायां तु सरूपैकशेषः स्यादिति चेन्नात्र वीप्सा ।
व्याप्यानेकविवक्षाभावात् । नाप्येकशेषः । सह विवक्षाभावात् ।
सङ्ख्यावाच्येकशब्दस्य द्विवचनानर्हत्वादेकवचनेन सेनयोः
पुरुषभेदप्रत्यायनायोगाच्च । तस्मात्परस्परानपेक्षयोरेव
पुरुषयोस्तन्त्रेणारोहणक्रियासम्बन्धविवक्षणान्न कश्चिद्दोष इति ॥ १० ॥
स्ॐऽशुकं भ्रामयामास सर्वदिङ्मण्डले सितम् ।
श्यामेव दीर्घशुद्धांशुं युद्धं संह्रियतामिति ॥ ११ ॥
श्यामा रात्रिरंशुभिर्दीर्घशुद्धांशुं चन्द्रमिव ॥ ११ ॥
ततो दुन्दुभयो नेदुः प्रतिध्वनितदिङ्मुखाः ।
महाप्रलयसंशान्तौ पुष्करावर्तका इव ॥ १२ ॥
शरादिहेतिसरितो विस्तीर्णे गगने स्थिते ।
प्रवृत्तः सुखमागन्तुं सरसः सरितो यथा ॥ १३ ॥
सुखमप्रतिबन्धमागन्तुं पतितुम् । सरसो मानसादेः सरितः सरय्वादयो
यथा ॥ १३ ॥
प्। २२२)
योधदोर्द्रुमसञ्चारस्तनुतामाययौ शनैः ।
भूकम्पान्ते वनस्पन्द इवाभ्रान्त इवार्णवः ॥ १४ ॥
अभ्रान्ते शरदि ॥ १४ ॥
विनिर्गन्तुं प्रववृते रणादथ बलद्वय ।
वारिपूरश्चतुर्दिक्षु प्रलयैकार्णवादिव ॥ १४ ॥
वारिपूर इति । अर्थात्प्रलयान्ते इति गम्यते ॥ १५ ॥
उत्क्षिप्तमन्दरक्षीरसमुद्रवदनाकुलम् ।
सैन्यं प्रशाम्यदावर्तं शनैः साम्यमुपाययौ ॥ १६ ॥
उत्क्षिप्तो बहिर्निष्कासितो मन्दरो यस्मात्तथाविधक्षीरसमुद्रवत् ।
साम्यमव्याकुलताम् ॥ १६ ॥
क्रमेणासीन्मुहूर्तेन विकटोदरभीषणम् ।
अगस्त्यपीतार्णववच्छून्यमेव रणाङ्गणम् ॥ १७ ॥
जननिर्गमनक्रमेण । विकटा पूतनेश्वरी तस्या उदरमिव भीषणम् ॥ १७ ॥
शवसन्ततिसम्पूर्णं वहद्रक्तनदाकुलम् ।
परिकूजनझङ्कारपूर्णझिल्लिवनोपमम् [झिल्ली इति पाठः] ॥ १८ ॥
झिल्लयो वनपतङ्गभेदाः ॥ १८ ॥
बहद्रक्तसरित्स्रोतस्तरङ्गारवघर्घरम् ।
साक्रन्दार्धमृताहूतसप्राणव्यग्रमानवम् ॥ १९ ॥
मृतार्धमृतदेहौघसृतासृक्प्लुतनिर्झरम् ।
सजीवनरपृष्ठस्थशवस्पन्दनभ्रान्तिदम् ॥ २० ॥
शवानां स्पन्दनेन जीवनभ्रान्तिदम् ॥ २० ॥
करीन्द्रशवराश्यग्रविश्रान्ताम्बुदखण्डकम् ।
विशीर्णरथसङ्घातं वातच्छिन्नमहावनम् ॥ २१ ॥
शवराशीनामग्रेषु शिखरेषु विश्रान्ता अम्बुदखण्डा यत्रेत्यतिशयोक्तिः ।
वातच्छिन्नमहावनमिवेति शेषः ॥ २१ ॥
वहद्रक्तनदीरंहःप्रोह्यमानहयद्विपम् ।
शरशक्त्यृष्टिमुसलगदाप्रासासिसङ्कुलम् ॥ २२ ॥
पर्याणावनसन्नाहकवचावृतभूतलम् ।
केतुचामरपट्टौघगुप्तं शवशरीरकम् ॥ २३ ॥
पर्याणैः पल्याणैरवनैरङ्गरक्षकैश्चर्मादिभिः सन्नाहैः
कवचैश्चावृतं भूतलं यत्र गुप्तमाच्छन्नं शवशरीरकं यत्र ॥ २३ ॥
फणास्फुटकतूणीरकुञ्जकूजत्समीरणम् ।
शवराशिपलालौघतल्पसुप्तपिशाचकम् ॥ २४ ॥
फणावदुच्छ्रिताग्रेष्वास्फुटकेषु छिद्रीकृतेषु तूणीरेषु कीचककुञ्जेष्विव
कूजन्समीरणो वायुर्यत्र ॥ २४ ॥
मौलिहाराङ्गदद्योतशक्रचापवनावृतम् ।
श्वशृगालकराकृष्टसान्द्रान्त्रादीर्घरज्जुअकम् ॥ २५ ॥
मौलिना ह्र्यन्त इति मौलिहाराश्चूडामणयः अङ्गदानि च तेषां द्योतैः
शक्रचापानां वनेन समूहेनेवावृतं व्याप्तम् ॥ २५ ॥
रक्तक्षेत्रक्वणत्किञ्चिच्छेषजीवनृदन्तुरम् ।
रक्तकर्दमनिर्मग्नसजीवनरदर्दुरम् ॥ २६ ॥
रक्तपूर्णे क्षेत्रे क्वणन्तो घर्घरस्वरेण कूजन्तो नृदन्तुरा उद्घाटितदन्ताः
पुरुषा यत्र । सजीवनरा एव दर्दुरा भेका यत्र ॥ २६ ॥
वराङ्गकवचप्रख्यनिर्गताक्षिशतोच्चयम् ।
वहद्भुजोरुकाष्ठौघघोररक्तसरिच्छतम् ॥ २७ ॥
वराङ्गकवचं चित्रकञ्चुकम् ॥ २७ ॥
साक्रन्दबन्धुवलितं मृतार्धमृतमानवम् ।
शरायुधरथाश्वेभपर्याणासंवरान्तरम् ॥ २८ ॥
पर्याणान्तैरासंवरमाच्छन्नमन्तरं मध्यं यस्य ॥ २८ ॥
नृत्यत्कबन्धदोर्दण्डमण्डलानमिताम्बरम् ।
मदमेदोवसागन्धपीडार्द्रघ्राणकोटरम् ॥ २९ ॥
आनमितमुच्छ्रयादधरीकृतमिति यावत् ॥ २९ ॥
उत्ताल्वर्धमृतेभाश्ववार्यमाणाल्पजीवितम् [मार्थमाण इति
पाठः] ।
वहद्रक्तनदीवीचिप्रहारहतदुन्दुभि ॥ ३० ॥
उत्तालुभिरूर्ध्वीकृततालुभिः ॥ ३० ॥
उह्यमानमृतेभाश्वमकरासृक्सरिच्छतम् ।
म्रियमाणनरानीकफूत्कृतासृक्प्रणालिकम् ॥ ३१ ॥
फुत्कृता फुत्कारेण निरस्यमाना मुखप्रदेशप्रसृता असृक्प्रणालिका
यत्र ॥ ३१ ॥
स्वल्पजीवशरापूर्णमुखदृक्कान्तितस्वनम् ।
पिण्डभार्यावसागन्धवातान्तोत्पीठलोहितम् ॥ ३२ ॥
स्वल्पजीवैः शरापूर्णमुखदृक्कैश्च नरैरन्तिता निबद्धा आक्रन्दस्वना
यत्र । अति अदि बन्धने । वामकुक्षिस्थो मांसग्रन्थिविशेषः पिण्डभार्येत्युच्यते
। तस्या वसायाश्च गन्धेनोपलक्षितं वातान्तेन वायुसंस्पर्शेन उत्पीठमिव
घनीभूतं लोहितं यत्र ॥ ३२ ॥
उन्नासार्धमृतेभेन्द्रकराक्रान्तकबन्धकम् ।
निरधिष्ठितहस्त्यश्वपातितोच्चकबन्धकम् ॥ ३३ ॥
सादिमरणान्निरधिष्ठितैरनियन्त्रितैः ॥ ३३ ॥
रुदत्क्रन्दत्परिभ्रष्टश्वक्षुब्धासृगुद्धति ।
मृतभर्तृगले शस्त्रत्यक्तप्राणकुलाङ्गनम् ॥ ३४ ॥
रुदद्भिः क्रन्दद्भिः परिभ्रष्टैः पतद्भिः शवैश्च क्षुब्धा
असृगुद्धतिर्लोहितोच्छलनं यत्र । मृतस्य भर्तुर्गले आलिङ्ग्येति शेषः ।
दैवोपनीतेन शस्त्राघातेन त्यक्तप्राणा कुलाङ्गना यत्र । बुद्धिपूर्वकं
शस्त्रघातेन भर्तृसहगमनं तु न शास्त्रार्थः ॥ ३४ ॥
सेनोत्क्रान्तततक्।इप्रबहुपान्थपरीक्षणम् ।
शवहारकराकृष्टसप्राणानुचराकुलम् ॥ ३५ ॥
संस्कार्यशवानयनाय स्वाम्याज्ञप्तायाः शिबिरनिविष्टसेनायाः
सकाशादुत्क्रान्तैर्निर्गतैः प्रत्येकं रणभूप्रवेशभीरुत्वात्ततैः सन्ततैः
क्षिप्रैः शीघ्रप्रवृत्तैर्बहुभिः पान्थैः कृतंस्वस्वजनशवपरीक्षणं
यत्र । शवान् हरन्तीति शवहारास्तेषां स्वाभिलषितशवान्वेषणत्वरया
कराकुष्टसप्राणनरैरनुचरैर्भृत्यैराकुलम् ॥ ३५ ॥
केशशैवालवक्राब्जचक्रावर्तनदीशतम् ।
तरत्तुङ्गतरङ्गाढ्यवहद्रक्तमहानदम् ॥ ३६ ॥
केशाः शैवालानि वक्राण्यब्जानि चक्राण्यावर्ता येषु तथाविधं
रक्तनदीशतं यत्र ॥ ३६ ॥
अङ्गलग्नायुधोद्धारव्यग्रार्धमृतमानवम् ।
विदेशमृतसाक्रन्दहुताङ्गगजवाजिनम् ॥ ३७ ॥
विदेशे मृतानां शोकात्साक्रन्दं हुता दत्तास्तदङ्गभूषणादयो गजा
वाजिनश्च यत्र । क्लीबे सुब्लुक् छान्दसः ॥ ३७ ॥
प्। २२३)
प्राणान्तस्मृतपुत्रेष्टमातृदेवपराभिधम् ।
हाहाहीहीतिकथितमर्मच्छेदनवेदनम् ॥ ३८ ॥
परोऽन्यः परमेश्वरो वा । तेषां अभिधा नामानि ॥ ३८ ॥
म्रियमाणमथौजिष्ठद्विष्टप्रारब्धसञ्चयम् ।
दन्तियुद्धासमर्थाग्रमृतदेहेष्टदैवतम् ॥ ३९ ॥
पराक्रममकृत्वैव
म्रियमाणैर्मथैर्देवोन्मथितैरोजिष्ठैर्बलवत्तरैर्द्विष्टो निन्दितः
स्वप्रारब्धकर्मसञ्चयो यत्र । दन्तियुद्धेष्वसमर्थैर्दन्त्यग्रे
मृतप्रायदेहैर्विमर्दभयादिष्टानि प्रार्थितानि दैवतानि यत्र ॥ ३९ ॥
म्रियमाणमहावज्ञाशूराश्रितपलायनम् ।
अशङ्कितासृगावर्तभीमास्पदगमोत्सुकम् ॥ ४० ॥
म्रियमाणेषु महत्या पादाघाताद्यवज्ञया अपराधेन अशूरैराश्रितं
पलायनं यत्र । अत एवाशङ्किता निःशङ्का असृगावर्तभयानकस्थानेष्वपि
गमनोत्सुका गमनोन्मुखा यत्र ॥ ४० ॥
मर्मच्छेदशराघातव्यथाविदितदुष्कृति ।
कबन्धबन्धप्रारब्धवेतालवदनाक्रमम् ॥ ४१ ॥
मर्मच्छेदिन्या शराघातव्यथया विदितानुमिता जन्मान्तरस्वदुष्कृतिर्यत्र ।
पलायमानकबन्धानां बन्धनेन रुधिरपानाय प्रारब्धा
वेतालवदनाक्रमा यत्र ॥ ४१ ॥
उह्यमानध्वजच्छत्रचारुचामरपङ्कजम् ।
किरत्सन्ध्यारुणं दिक्षु तेजस्कं रक्तपङ्कजम् ॥ ४२ ॥
रक्तह्रदेषूह्यमानानि ध्वजच्छत्रचामराणि पङ्कजानि सिताम्भोजानि यत्र ।
रक्तह्रदेषु सन्ध्यारागप्रतिफलनादरुणं तजस्कं तेजःसमूहलक्षणं
रक्तपङ्कजं कोकनदं दिक्षु किरत् विक्षिपत् ॥ ४२ ॥
रथचक्रधरावर्तं रक्तार्णवमिवाष्टमम् ।
पताकाफेनपुञ्जाढ्यं चारुचामरबुद्बुदम् ॥ ४३ ॥
रथास्तच्चक्राणि च क्रमाद्धराः पर्वता आवर्ताश्च यत्र तथाविधाम् ।
प्रसिद्धार्णवसप्तकाधिक्यादष्टमं रक्तार्णवमिव स्थितम् ॥ ४३ ॥
विपर्यस्तरथं भूमिपङ्कमग्नपुरोपमम् ।
उत्पातवातनिर्धूतद्रुमं वनमिवाततम् ॥ ४४ ॥
कल्पदग्धजगत्प्रख्यं मुनिपीतार्णवोपमम् ।
अतिवृष्टिहतं देशमिव प्रोज्झितमानवम् ॥ ४५ ॥
हतो देश इति प्रथमान्तपाठश्छान्दसः ॥ ४५ ॥
कलापकुन्तवलितं भुशुण्डीमण्डलाकुलम् ।
मत्तनागशताकारशवतोमरमुद्गरम् ॥ ४६ ॥
कलापैर्भूषणैः शरैश्च वलितं व्याप्तम् । नागा गजास्तदाकाराः शवाः
नागा सर्पास्तदाकारास्तोमरमुद्गराश्च यत्र ॥ ४६ ॥
शिलाशिखरसञ्जाततालजालमिवाततम् ।
तरद्रक्तनदीतीरजातकुन्तोन्नतद्रुमम् ॥ ४७ ॥
पूर्वार्धोक्तार्थे उत्तरार्धोक्तोऽर्थो हेतुः ॥ ४७ ॥
नागांसस्यूतहेत्योघवृक्षांशुकुसुमाकुलम् ।
कङ्ककृष्टान्त्ररसनावृन्दजालकिताम्बरम् ॥ ४८ ॥
नागानां गजानामङ्गेषु स्यूताः प्रोता हेत्योघा एव वृक्षास्तेषामंशवः
किरणास्तल्लक्षणैः कुसुमैराकुलम् । जालकितं सञ्जातजालकमिव कृतम् ॥ ४८ ॥
असृक्सरित्तीरजातकुन्तोन्नतवनद्रुमम् ।
असृक्सरोवरोर्ध्वस्थपताकानलिनीगणम् ॥ ४९ ॥
रक्तकर्दमनिर्मग्ननराहूतसुहृज्जनम् ।
करीन्द्रकुणपापातनिर्यद्भग्नजनेक्षितम् [तिर्थग्भग्न इति
पाठः] ॥ ५० ॥
करीन्द्राणां कुणपेभ्यः शवेभ्य
आपातनिर्यद्भिरीषन्निर्गतैर्भग्नकट्यादिजनैरीक्षितम् ॥ ५० ॥
हेतिलूनलतैर्वृक्षैः सन्दिग्धार्धकबन्धकम् ।
असृङ्नदीवहद्धस्तिकटकर्पटनौगणम् ॥ ५१ ॥
असृङ्नदीषु वहन्तः प्लवमाना हस्तिनां कटा गण्डाः कर्पटानि
पल्याणवस्त्राणि च नौगाणा औकासमूहा यत्र ॥ ५१ ॥
रक्तस्रोतःस्फुरच्छुक्लवस्त्रण्डिण्डीरपिण्डकम् ।
सञ्चारनियतक्षिप्रभृत्यविच्छिन्नमानवम् ॥ ५२ ॥
डिण्डीरः फेनः । सञ्चाराय नियतैराज्ञप्तैः क्षिप्रैः
शीघ्रकारिभिर्भृत्यैर्विच्छिन्ना विवेचिताः ॥ ५२ ॥
इतश्चेतश्च निपतत्कबन्धरवदानवम् [नवदानवं इति पाठः]
।
ऊर्ध्वस्थूलाक्षचक्रौघच्छिन्नसैन्यद्रवज्जनम् ॥ ५३ ॥
ऊर्ध्वीभूतैः स्थूलाक्षैर्बृहच्छिद्रैश्चक्रौघैः ॥ ५३ ॥
रक्तनिःस्वनभाङ्कारफेत्कारार्धमृतारवम् ।
शिलामुखललद्रक्तधाराधूतरजःखगम् ॥ ५४ ॥
रक्तनिःस्वनसहिता भाङ्कारफेत्काररूपा अर्धमृतप्राण्यारवा यत्र ।
शिलामुखेषु ललन्त्याः स्रवन्त्या रक्तधारायाः पानाय निरालम्बेन
पक्षविधूननेनोद्धूतरजसः कङ्कादिखगा यत्र ॥ ५४ ॥
सुतालोत्तालवेतालतालताण्डवसङ्कटम् ।
पर्यस्तरथदार्वन्तरर्धान्तरितसद्भटम् ॥ ५५ ॥
सद्भटा जीवद्भटाः ॥ ५५ ॥
अन्तस्थसज्जीवभटस्पन्दिस्पन्दनभीतिदम् ।
रक्तकर्दमपूर्णास्यकिञ्चिज्जीवकृपाच्छवम् ॥ ५६ ॥
किञ्चिज्जीवत्वात्कृपां अन्ततः प्राप्नुवन्तः शवा यत्र ॥ ५६ ॥
किञ्चिज्जिवनरोद्ग्रीवदुःखदृष्टश्ववायसम् ।
एकामिषोत्कक्रव्यादयुद्धकोलाहलाकुलम् ।
एकामिषार्थयुद्धेहामृतक्रव्यादसङ्कुलम् ॥ ५७ ॥
युद्धेहाभिर्युद्धचेष्टाभिः ॥ ५७ ॥
विवृत्तासङ्ख्याश्वद्विरदपुरुषाधीश्वररथ-
प्रकृत्तोष्ट्रग्रीवाप्रसृतरुधिरोद्गारसुसरित् ।
रणोद्यानं मृत्योस्तदभवदशुष्कायुधलतं
सशैलं कल्पान्ते जगदिव विपर्यस्तमखिलम् ॥ ५८ ॥
विशेषेण वृत्तानां मृतानां परिवर्तितानां चासङ्ख्यानामश्वादीनां
प्रकृत्ताभ्यश्छिन्नाभ्य उष्ट्रग्रीवाभ्यश्च प्रसृता रुधिरोद्गारैः
शोभनाः सरितो यत्र । अशुष्का रक्तसेकपल्लविता आयुधलता यत्र तथाविधं
रणभूमिलक्षणं मृत्योरुद्यानमुपवनमासीत् ॥ ५८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो०
आहववर्णनं नामाष्टत्रिंशः सर्गः ॥ ३८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे आहववर्णनं
नामाष्टत्रिंशः सर्गः ॥ ३८ ॥