०३७

सप्तत्रिंशः सर्गः ३७

श्रीवसिष्ठ उवाच ।

रणे रभसनिर्लूननरवारणदारुणे ।
अहम्पूर्वमहम्पूर्वमिति वृन्दानुपातिनि ॥ १ ॥

कीर्त्यन्ते मध्यदेशीया जना जनपदाख्यया ।
तथा जानपदानां च द्वन्द्वयुद्धजयाजयाः ॥ १ ॥

वृन्दशो वृन्देषु वा अनुपातिनि अनुसृत्य पतनशीले ॥ १ ॥

एते चान्ये च बहवस्तत्र भस्मत्वमागताः ।
प्रविशन्तः प्रयत्नेन शलभा इव पावके ॥ २ ॥

अत्रान्ये मध्यदेशीया जना नोदाहृता मया ।
तानिमाञ्छृणु वक्ष्यामि पक्षाṁल्लीलामहीभृतः ॥ ३ ॥

मध्यदेशजनपदाः २९ ॥ ३ ॥

तद्देहिकाः शूरसेना गुडा अश्वघनायकाः ।
उत्तमज्योतिभद्राणि मदमध्यमिकादयः ॥ ४ ॥

सालूकाकोद्यमालास्या [सालूसाकेद्य इति पाठः] दौर्ज्ञेयाः
पिप्पलायनाः ।
माण्डव्याः पाण्डुनगराः सौग्रीवाद्या गुरुग्रहाः ॥ ५ ॥

पारियात्राः कुराष्ट्राश्च यामुनोदुम्बरा अपि ।
राज्याह्वा उज्जिहानाश्च कालकोटिकमाथुराः ॥ ६ ॥

पाञ्चाला धर्मारण्याश्च तथैवोत्तरदक्षिणाः ।
पाञ्चालकाः कुरुक्षेत्रास्तथा सारस्वता जनाः ॥ ७ ॥

अवन्तीस्यन्दनश्रेणीकुन्तिपाञ्चनदेरितैः ।
स्पन्दमाना विद्रवन्ती निपपात महाभृगौ ॥ ८ ॥

एते चान्ये च रणे भस्मत्वमागता इति यदुक्तं तत्प्रकारमेव
जनपदनामभिर्विभज्यासर्गसमाप्तेराचष्टे - अवन्तीत्यादिना । अवन्ती उज्जयिनी
मालवेषु प्रसिद्धा तत्रत्यानां स्यन्दनश्रेणी रथपङ्क्तिः कुन्तिदेशस्थानां
पाञ्चनदानां च ईरितैह् प्रेरणैः । युद्धरभसैरिति यावत् । ईरितैः क्षिप्तैः
शस्त्रैरिति वा । स्पन्दमाना भयात्कम्पमाना द्रवन्ती पलायमाना महति
भृगौ गिरिप्रपाते निपपात । एवमुत्तरत्रापि प्रथमान्तदेशवाचिवाच्यानां
तृतीयान्तदेशवाचिवाच्यैः पराजयो बोध्यः ॥ ८ ॥

कोशब्रह्मावसानाश्च च्छिन्ना [छिन्नाः शस्त्र इति पाठः]
वस्त्रवतीजनैः ।
भूमौ निपतिताः सन्तो मिलिता मत्तवारणैः ॥ ९ ॥

मिलिताः सङ्गताः । विमर्दिता इति यावत् ॥ ९ ॥

शूरा दाशपुराः शस्त्रनिकृत्तोदरकन्धराः ।
बाणक्षितिभिराक्रम्य योजिता योजने ह्रदे ॥ १० ॥

बाणक्षितिभिर्बाणभूमिष्ठैः । तद्देश्यैरिति यावत् । आक्रम्य पराजित्यानुधाव्य
योजने पलायिता दैवात्प्राप्ते ह्रदे योजिता निमज्जिताः ॥ १० ॥

प्। २१९)

दीर्णोदरविनिर्यातस्वान्त्रतन्त्रीनियन्त्रिताः ।
शान्तिकाः शान्तसञ्चाराः पिशाच्चैश्चर्विता निशि ॥ ११ ॥

नियन्त्रिता निरुद्धा अत एव शान्तसञ्चाराः ॥ ११ ॥

उद्रवैर्भद्रगिरिभिः सङ्ग्रामाध्वरदीक्षितैः ।
क्षोणिगर्तेषु निक्षिप्ता मरगाः कमठा इव ॥ १२ ॥

उत् उत्कृष्टो द्रवो वेगो रवो ध्वनिर्वा येषां तैः । क्षोणिगर्तेषु पल्वलादिषु ॥ १२

प्रद्रुता विद्रवद्रक्ता विद्रावितमहारयः ।
दण्डिकास्थानिलोद्धूता हैहयैर्हरिणा इव ॥ १३ ॥

दण्डिका नगरी तत्स्थाः । अनिलोद्धूता इति हरिणविशेषणम् । सन्धिरार्षः ।
हैहयैर्विद्राविता इत्यर्थाद्गम्यते । हरिणा वातप्रम्यः ॥ १३ ॥

दन्तिदन्तविनिर्भिन्ना ददा दलितारयः ।
नीता रक्तमहानद्या द्रुमाणां पल्लवा इव ॥ १४ ॥

नाराचैश्चर्विताश्चीना जीर्णा जर्जरजीविताः ।
जहुर्जलनिधौ देहान्भारभूतानिव स्थितान् ॥ १५ ॥

कर्णाटसुभटोड्डीनकुन्ताकलितकन्धराः ।
भग्ना नलदशूराश्च तारकानिकरा इव ॥ १६ ॥

उड्डीनकुन्तैराकलिता आच्छिन्नाः कन्धराः कण्ठा येषाम् । भग्ना विशीर्णाः
॥ १६ ॥

करीन्द्रमकरव्यूहरंहःसंहतहेतयः ।
केशाकेशिकृतारम्भा विनेदुर्दाशकाः शकाः ॥ १७ ॥

दाशकाः शकाश्च युध्यमाना दैवात्करीन्द्रैर्मकरव्यूहेनेव रंहसा
संहतहेतयो विनाशितायुधाः केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं
केशाकेशि तदर्थं कृतारम्भाः सन्तो विनेदुः ॥ १७ ॥

दशार्णाः पाशनिर्मुक्तशृङ्खला जालभीरवः ।
निलीना रक्तजम्बाले वैतसास्तिमयो यथा ॥ १८ ॥

पाशदेशीयैर्निर्मुक्तेभ्यः शृङ्खलाजालेभ्यो भीरवः । जम्बाले पङ्के ।
वैतसा वेतसमूलाश्रयास्तिमयो मत्स्यभेदाः ॥ १८ ॥

गुर्जरानीकनाशेन गुर्जरीकेशलुञ्चनम् ।
विहितं तङ्गणोत्तुङ्गनासिशङ्कुशतै रणे ॥ १९ ॥

तङ्गणानां उत् ऊर्ध्व तुङ्गनमुच्छलनं येषां तथाविधैरसिभिः
शङ्कुशतैश्च विहितं कारितम् ॥ १९ ॥

सिषिचुः शस्त्रकर्णौघाद्बिन्दुभ्यो निगडा गुहान् ।
शरधारावनानीव वीरहेतिप्रभाम्बुदाः ॥ २० ॥

शस्त्रकर्णानां कर्णवदूर्ध्वीकृतशस्त्रत्वात्तथा
प्रसिद्धानामोघात्सङ्घान्निर्गता वीरहेतिप्रभाविद्युद्भिरम्बुदायमाना
निगडा जानपदा गुहान् जानपदान्प्रति शरधाराः सिषुचुरक्षरन् । यथा
वीरहेतिसदृशप्रभा अम्बुदाः स्वबिन्दुभ्यो हेतुभ्यो वनानि सिञ्चन्ति तद्वत् ॥ २०

भुशुण्डीमण्डलोद्द्योतश्यामार्कोत्पातभीरुषु ।
आभीरेष्वरयः पेतुर्गोगणा हरितेष्विव ॥ २१ ॥

भुशुण्डीमण्डलानामुद्द्योतैः श्यामो नीलीकृतौ योऽर्कः सूर्यः
भुशुण्डीमण्डललक्षणो वा उद्द्योतेन श्यामोऽर्कस्तल्लक्षणेनोत्पातेन ।
उक्तञ्च - यदि चन्द्र इवादित्यः सच्छिद्रो रश्मिमण्डलः ।
कृष्णरक्तान्तपर्यन्तस्तज्जनक्षयलक्षणम् ॥ इति ॥ २१ ॥

कान्तकाञ्चनकान्तासीत्ताम्रसङ्ग्रामवाहिनी ।
भुता गौडभटेनाङ्ग नखकेशनिकर्षणैः ॥ २२ ॥

ताम्रा यवनभेदास्तेषां सङ्ग्रामोद्युक्ता वाहिनी सैव नायिका गौडभटेन
नायकेन भुक्ता उपभुक्ता । अङ्गेति रामसम्बोधनम् ॥ २२ ॥

रणे नगनयासङ्ख्यकवच्चक्रनिकृन्तनैः ।
तङ्गणाः कणशः कीर्णाः कङ्कगृध्रेषुभासकैः ॥ २३ ॥

नगान्वृक्षशैलानपि नयन्त्यपाकुर्वन्ति तथाविधैरनन्तैह्
कवद्भिर्ध्वनद्भिश्चक्रैर्निकृन्तनैश्छेदनैः । भासकैर्जानपदैः ॥ २३ ॥

लगुडालोडनोड्डीनं गौडं गुडुगुडारवम् ।
श्रुत्वा गान्धारगावोऽग्रे दुद्रुवुर्द्रविडा इव ॥ २४ ॥

लगुडानामालोडनेन भ्रमणेनोपलक्षितमुड्डीनमुद्गतं
गौडभटसम्बन्धि गुडुगुडारवमव्यक्तभाषणध्वनिम् । गान्धारा गाव
इवेत्युपमितसमासः । टजभावश्छान्दसः ॥ २४ ॥

आकाशगार्णवप्रख्यो वहच्छककदम्बकः ।
अकरोत्पारसीकानां घननैशतमोभ्रमम् ॥ २५ ॥

वहतां नदीवत्पर्वतेभ्योऽवतरतां शकानां कदम्बकः स्तोमः । प्रायः
शका नीलाम्बरा इति गम्यते । पारसीकास्तु धवलाम्बरा इति ॥ २५ ॥

मन्दराहननोड्डीनस्वच्छक्षीरार्णवोदरे ।
वनानीवायुधान्यासञ्छत्रुप्रालेयसानुनि ॥ २६ ॥

अत एवाह - मन्दरेति । तत्र युध्यतामायुधानि क्षीरार्णवोदरे मन्दरस्य
वनानीव प्रेक्षकाणां तु प्रालेयाचलसानुनि तद्वनानीवेति बोध्यम् ॥ २६ ॥

यदम्बुदैरिवोड्डीनं शस्त्रवृन्दैर्नभोङ्गणे ।
तद्दृष्टं वीचिवलनैर्लोलैः प्लुतमिवार्णवे ॥ २७ ॥

उड्डीनमिति भावे क्तः । ल्वादिभ्य इति नत्वम् । वलनैः
संवलनैर्वीच्यन्तरसंवलितवीचिभिरिति यावत् ।
भूमिष्ठदृष्ट्याम्बुदोड्डीनमिव दृष्टमपि नभश्चरैर्वीचिप्लवनमिव
दृष्टमिति भावः ॥ २७ ॥

शतचन्द्रं सितच्छत्रैः शरैः शलभनिर्भरम् ।
शक्तिभिः किल नीरन्ध्रं दृष्टमाकाशकाननम् ॥ २८ ॥

शलभैः पतङ्गैर्निर्भरं भृशं व्याप्तम् । नीरन्ध्रं निरवकाशम् ॥ २८

वीरासवसमाक्रन्दकारिणः केकयैः कृताः ।
कङ्कैः कङ्ककुलाक्रान्तव्योमोद्धूलितमस्तकाः ॥ २९ ॥

कृताः शत्रव इति देहलीदीपन्यायेनोभयत्र शेषः ॥ २९ ॥

किरातसैन्यकन्यानां कामं कलकलारवैः ।
अङ्गैरनङ्गतां नीत्वा भैरवैरिव गर्जितम् [गर्जितैः इति
पाठः] ॥ ३० ॥

किरातसैन्यान्येव कन्यास्तासाम् । अङ्गैर्जानपदैः । अनङ्गतां विदेहतां
मन्मथोद्रेकं च ॥ ३० ॥

काशैस्तद्देहकाः क्रान्ता अदृश्यैर्मायया खगैः ।
निर्धूतपक्षैः क्षुभितैः पवनैरिव पांसवः ॥ ३१ ॥

काशैः सामुद्रैर्नरभेदैः । मायया खगैः पक्षिभूतैः ॥ ३१ ॥

उन्मत्ताः सुविनिर्धूतास्त्यक्तहेतिरणाम्बराः ।
नार्मदा नर्मनिर्मातृ ननृतुर्जहसुर्जगुः ॥ ३२ ॥

उन्मत्ता युद्धोन्मत्ताः । नर्म लीला तन्निर्मातृ इति क्रियाविशेषणम् ॥ ३२ ॥

प्। २२०)

प्रक्कणत्किङ्किणीजालं शक्तिवर्षमुपागतम् ।
साल्वबाणानिलोद्भूतमगमत्पृषदाकृति ॥ ३३ ॥

पृषदाकृतिं बिन्द्वाकारम् । विशीर्णतामिति यावत् ॥ ३३ ॥

शैब्यास्तु खण्डिताः कौन्तैर्भ्रमत्कुन्तैर्विघट्टिताः ।
शवीभूता दिवं नीता दृष्टा विद्याधरा इव ॥ ३४ ॥

कौन्तैः कुन्तिदेशजैः ॥ ३४ ॥

धराधरणधर्मिण्या धीरया हीनसेनया ।
लुण्ठिताः पाण्दुनगराश्चलनोल्लासमात्रतः ॥ ३५ ॥

धराया युद्धभूमेर्धरणमाक्रमणं तद्धर्मिण्या अहीना
जानपदास्तेषां सेनया ॥ ३५ ॥

तं देहकाः पाञ्चनदैर्दलिता मत्तकाशिभिः ।
कुन्तदन्तद्रुमोद्दामा नगा इव मतङ्गजैः ॥ ३६ ॥

कुन्तैर्गजदन्तैर्द्रुमैश्च प्रहरणैरुद्दामा युद्धदक्षाः । नगा वृक्षाः ॥
३६ ॥

ब्रह्मावत्सनका नीपैश्चक्रैः कृत्ता गता महीम् ।
सहयाः क्रकचोत्कृत्ता वृक्षाः कुसुमिता इव ॥ ३७ ॥

ब्रह्मावत्सनका जानपदा नीपैर्जानपदैः ॥ ३७ ॥

श्वेतकाकाननं लूनं कुठारैर्जठरेरितैः ।
एतद्ददाह पार्श्वस्थो भद्रेशः शरवह्निना ॥ ३८ ॥

श्वेतकाकानां जानपदानामाननं मुखं शिर इति यावत् । जठरैर्जानपदैः
। एतज्जठरबलम् ॥ ३८ ॥

काष्ठयोधे निरालानं मग्ना जीर्णा मतङ्गजाः ।
लयमाजग्मुरायुद्धमिद्धेग्नाविन्धनं यथा ॥ ३९ ॥

काष्ठयोधलक्षणपङ्केषु निरालनं विनैव बन्धनस्तम्भं मग्नाः सन्तो
जीर्णा मतङ्गदेशजा एव श्लेषाद्गजाः ॥ ३९ ॥

मित्रगर्तास्त्रिगर्तात्ता भ्रमित्वोर्ध्वं तृणोपमम् ।
विविशुर्व्यस्तमूर्धानः पातालान्तं पलायितुम् ॥ ४० ॥

त्रिगर्तैरात्ता गृहीताः ॥ ४० ॥

मन्दानिलचलाम्भोधिभासुरे मागधे बले ।
निर्मग्ना वनिला मन्दाः पङ्के जीर्णगजा इव ॥ ४१ ॥

वनिला जानपदाः ॥ ४१ ॥

चेदयश्चेतनां जह्नुस्तङ्गणानां रणाङ्गणे ।
पुष्पाणां पथि शीर्णानां सौकुमार्यमिवातपाः ॥ ४२ ॥

चेतनां विवेकबुद्धिं जीवं वा ॥ ४२ ॥

कौसलाः पौरवारावमसहन्तोऽन्तका इव ।
तैरुन्मुक्तगदाप्रासशरशक्त्यतिवृष्टयः ॥ ४३ ॥

कौसलाः कोसलदेशजा अन्तका इव निघ्नन्त इति शेषः । तैः पौरवैरुन्मुक्ता
गदादिवृष्टयो येषु तथाविधा बभूवुरित्यपकृष्यते ॥ ४३ ॥

बभूवुर्भल्लकृत्ताङ्गाऽविस्मया विद्रुमद्रुमाः ।
इवाद्रौ विद्रवन्त्यार्द्रसान्द्रासृक्सूर्यमूर्तयः ॥ ४४ ॥

तेषु ये भल्लकृताङ्गा अप्यविस्मयाः परपराक्रमे आश्चर्यबुद्धिरहिताः अत
एवार्द्रसान्द्रासृग्भिर्बालसूर्यसदृशमूर्तयः सन्तः अद्रौ पर्वते
विद्रुमद्रुमाः प्रवालवृक्षा एव विद्रवन्ति परिधावन्तीव बभूवुः ॥ ४४ ॥

नाराचौघमहाहेतिमारुताधूतमूर्तयः ।
बभ्रमुर्भ्रमरानीकभासुरा जलदा इव ॥ ४५ ॥

शरधाराधरा मेघाः शरोर्णापूर्णमेषकाः ।
शरपत्रावृता वृक्षा भ्रेमुस्तद्गर्जनागजाः ॥ ४६ ॥

तेषां कोसलानां गर्जनोपलक्षिता गजाः शराणां धारोर्णा यत्र ।
सदृशकाण्डगरुच्छल्यभागाकीर्णत्वात्क्रमान्मेघमेषवृक्षात्मना
उत्प्रेक्ष्यन्ते ॥ ४६ ॥

वनराज्यजराजीर्णाः कन्दाकस्थलजन्तवः [कण्टकस्थल इति
पाठः] ।
अत्रुटन्परमाकृष्टाः पेलवा इव तन्तवः ॥ ४७ ॥

कन्दाकस्थलोद्भवा जन्तवो मनुष्यहस्त्यादयो वनराज्या
जानपदास्तल्लक्षणया जरया जीर्णा निर्बलीकृताः सन्तः परमाकृष्टाः
पेलवास्तन्तव इवात्रुटन् छिन्नाः ॥ ४७ ॥

रथेषु ध्वस्तचक्रेषु निखातेऽमुत्र मूर्धसु ।
निपेतुर्जनसङ्घाता मेघा इव वनाद्रिषु ॥ ४८ ॥

निखातगर्ते निरोधाद्रथेषु ध्वस्तचक्रेषु सत्सु अमुत्र अमीषु रथमूर्धसु
प्रहरिष्यन्तः शत्रुजनसङ्घाता निपेतुः ॥ ४८ ॥

शालतालवनं प्राप्य जनतावलनं वनम् ।
भुजावकर्तनं चासीदुत्तालं स्थाणुकाननम् ॥ ४९ ॥

शालवनं तालवनं च युद्धे परस्परं जनतयोर्जनसमूहयोर्वलनं
मेलनं अत एव वनं महावनत्वेन सम्पन्नं युद्धस्थानं प्राप्य तत्र
भुजावकर्तनं चकाराच्छिरोवकर्तनं च प्राप्य
यथाक्रममुत्तालमूर्ध्वीभूततालवृक्षप्रायं स्थाणुकाननं चासीत् ।
शालानां परितः शाखाच्छेदने तालप्रायता तालानां तु शिरःकर्तने
स्थाणुतैव परिशिष्यत इति युक्तमेव सम्पन्नमिति भावः ॥ ४९ ॥

ननर्दुर्नन्दनोद्यानसुन्दर्यो मत्तयौवनाः ।
वनोपवनदेशेषु मेरोर्वीरवराश्रिताः ॥ ५० ॥

तावत्तारारवं रेजे सैन्यकाननमुत्तमम् ।
यावन्न परपक्षेण प्राप्तं कल्पानलार्चिषा ॥ ५१ ॥

तारः आरवो यस्मिन् । सैन्यमेव काननम् ॥ ५१ ॥

छिन्नाः पिशाचसंयुक्ता भूतापहृतहेतयः ।
पातयित्वा ययुः कर्णान्दशार्णास्तर्णका इव ॥ ५२ ॥

पिशाचैः पिशाचप्रधानैः कामरूपादिजानपदैः सह युद्धाय संयुक्ता
दशार्णा भूतैरपहृतायुधाः सन्तस्तर्णका इव पलायमानाः पथि
कर्णान्पातयित्वा ययुः । तर्णकपक्षे कर्णपदेन कर्णवदुद्भूतद्वित्रिपत्राणि
गुल्मान्युच्यन्ते ॥ ५२ ॥

जहुर्भग्नेश्वराः कान्तिं तां जिगीषवनौजसा ।
कासयः [काशयः इति पाठः] कमलानीव शुष्कस्रोतस्विनौजसा ॥
५३ ॥

भग्नेश्वरा हतस्वामिकाः । तां जिगीषवनानां जानपदानाम् । शुष्काः
स्रोतस्विनः सरःपूरकनिर्झरा येन तथाविधेन ग्रीष्मौजसा ॥ ५३ ॥

तुषाका मेसलैः [मेखलैः इति पाठः] कीर्णाः
शरशक्त्यसिमुद्गरैः ।
विद्रुता नरकैः क्षिप्ताः कटकच्छलना अपि ॥ ५४ ॥

नरकैर्जानपदैः । क्षिप्ता निरस्ताः कटकच्छलना अपि विद्रुताः पलायिताः ॥ ५४ ॥

प्। २२१)

कौन्तक्षेत्राः प्रस्थवासैः स्थित्वा योधिभिरावृताः ।
गुणा इव खलाक्रान्ता गता व्यक्तमशक्तताम् ॥ ५५ ॥

स्वस्थान एव स्थित्वा योधिभिर्युद्धशीलैर्धीरैरित्यर्थः । आवृताः परिक्षिप्ताः
॥ ५५ ॥

द्विपयो बाहुधानानां क्षणेनादाय मस्तकम् ।
भल्लैः पलाय्याशु गता विलूनकमला इव ॥ ५६ ॥

विलूनानि कमलानि यैस्ते विलूनकमलाः पुरुषा इव ॥ ५६ ॥

मिथः सारस्वता नीत्वा आदिनान्तं कृताजयः ।
पण्डिता इव वादेषु नोद्विग्ना न पराजिताः ॥ ५७ ॥

सारस्वताः सरस्वतीतीरोद्भवा मिथः कृताजयः कृतयुद्धः सन्त
आदिनान्तं दिनावसानावधिं नीत्वा नोद्विग्नाः ॥ ५७ ॥

खर्वगाः खदिताः क्षुद्रा यातुधानैः परावृताः ।
तेजः परममाजग्मुः शान्ताग्नय इवेन्धनैः ॥ ५८ ॥

खदिता विद्राविता अपि यातुधानैर्लङ्कास्थैः सहायैः परावृताः
परावर्तिताः ॥ ५८ ॥

कियदाख्यायत एत-
ज्जिह्वानिचयैः किलालमाकुलितः ।
वासुकिरपि वर्णयितुं
न समर्थो रणवरं राम ॥ ५९ ॥

प्रकृतं रणवर्णनमुपसंहरति - क्रियदिति ।
जिह्वानिचयैर्द्विसहस्रजिह्वाभिरलमत्यर्थं वर्णयितुमाकुलितो व्यग्रो वासुकिः
शेषोऽपि ॥ ५९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मो० लीलो०
जनपदवर्णनं नाम सप्तत्रिंशः सर्गः ॥ ३७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जनपदवर्णनं नाम सप्तत्रिंशः सर्गः ॥ ३७ ॥