षट्त्रिंशः सर्गः ३६
श्रीवसिष्ठ उवाच ।
अथ शृङ्गोपमानेषु स्थितेषु शरराशिषु ।
सर्वभीरुषु भग्नेषु विद्रुतेषु दिशो दश ॥ १ ॥
समायुधद्वन्द्वयुद्धं सहायाश्चात्र वर्णिताः ।
प्राच्यादिभिर्जनपदैः समं जनपदेश्वराः ॥ १ ॥
मातङ्गशवशैलेषु स्थितेषु शरराशिषु शृङ्गोपमानेषु सत्स्विति परेण
सहान्वयः ॥ १ ॥
मातङ्गशवशैलेषु विश्रान्ताम्बुदपङ्क्तिषु ।
यक्षरक्षःपिशाचेषु क्रीडत्सु रुधिरार्णवे ॥ २ ॥
महतां धर्मनिष्ठानां शीलौजःसत्त्वशालिनाम् ।
शुद्धानां कुलपद्मानां वीराणामनिवर्तिनाम् ॥ ३ ॥
शीलं सुचारित्र्यम् । सत्त्वं बलम् । कुलपद्मानां स्वकुलं
पद्मवत्स्वयशःसौरभैः सुरभीकुर्वाणानामित्यर्थः ॥ ३ ॥
द्वन्द्वयुद्धानि जातानि मेघानामिव गर्जताम् ।
मिथोनिगरणोत्कानि मिलन्त्यापगपूरवत् ॥ ४ ॥
मिथोऽन्योन्ययुद्धतो निगरणं ग्रसनं तत्रोत्कान्युत्कण्ठितानीवेति
द्वन्द्वयुद्धविशेषणम् । मिलन्ति वीरा इति शेषः ॥ ४ ॥
पञ्जरः पञ्जरेणेव गजौघेन गजोच्चयः ।
सवनः सवनेनाद्रिरद्रिणेवामिलद्बलात् ॥ ५ ॥
वनेन सह वर्तमानः सवनोऽद्रिस्तदृशेनाद्रिणेव ॥ ५ ॥
अश्वौघो मिलदश्वानां वृन्देनाराविरंहसा ।
तरङ्गौघेन घोषेण तरङ्गौघ इवार्णवे ॥ ६ ॥
नरानीकं नरानीकः समायुधमयोधयत् ।
वेण्वोघमिव वेण्वोघो मरुल्लोलो मरुद्वलम् ॥ ७ ॥
मरुता वलति चलतीति मरुद्वलस्तम् ॥ ७ ॥
रथौघश्च रथौघेन निष्पिपेषाखिलं वपुः ।
नगरं नगरेणेव दैवेनोड्डीनमासुरम् ॥ ८ ॥
वपुः परस्परसंस्थानम् ॥ ८ ॥
सरच्छरभरासाररचितापूर्ववारिदम् ।
युयुधे स्थगिताकाशा धनुर्धरपताकिनी ॥ ९ ॥
रचितः सम्पादितः अपूर्वोऽभिनवो वारिदो यस्मिन्कर्मणि यथा युयुधे ।
स्थगिताकाशा आच्छादिताकाशा ॥ ९ ॥
विषमायुधयुद्धेषु योद्धारः पेलवाशयाः ।
यदा युक्त्या पलायन्ते रणकल्पानले तदा ॥ १० ॥
पेलवाशया भीरुचित्ताः ॥ १० ॥
मिलिताश्चक्रिणश्चक्रैर्धनुर्धारैर्धनुर्धराः ।
खड्गिभिः खड्गयोद्धारो भुशुण्डीभिर्भुशुण्डयः ॥ ११ ॥
अत्र प्रकरणे तृतीयान्तायुधनामभिः सर्वत्र तद्धारिणो लक्ष्यन्ते ।
भुशुण्डीशब्देन भुशुण्डीधरा लक्षणयोच्यन्ते ॥ ११ ॥
मुसलैर्मुसलोदाराः कुन्तिनः कुन्तिधारिभिः ।
ऋष्ट्यायुधा ऋष्टिधरैः प्रासिभिः प्रासपाणयः ॥ १२ ॥
समुद्गरा मुद्गरिभिः सगदैर्विलसद्गदाः ।
शाक्तिकैः शक्तियोद्धारः शूलैः शूलविशारदाः ॥ १३ ॥
प्रासासनविदः प्रासैः परशूक्ताः परश्वधैः ।
लकुटोद्यैर्लकुटिनश्चोपलैरुपलायुधाः ॥ १४ ॥
प्रासानामसनं क्षेपणं तद्विदः । परशुभिरुक्ताः । विख्याता इति यावत् ।
लकुटा वेणुदण्डा उद्या उद्यता येषां ते लकुटोद्यास्तैः ॥ १४ ॥
पाशिभिः पाशधारिण्यः शङ्कुभिः शङ्कुधारिणः ।
क्षुरिकाभिस्तु क्षुरिका भिन्दिपालैश्च तद्गताः ॥ १५ ॥
पाशधारिण्यः सेनाः । शङ्कुक्षुरिके क्षुद्रायुधविशेषौ ।
तद्गतास्तत्सङ्गताः ॥ १५ ॥
वज्रमुष्टिधरा वज्रैरङ्कुशैरङ्कुशोद्धताः ।
हलैर्हलनिकाषज्ञास्त्रिशूलैश्च त्रिशूलिनः ॥ १६ ॥
वज्रैर्मुष्टिगतैः वज्रमुष्टिभिरिति यावत् । वज्रमुष्टिशब्देन मल्लानां
सलोहकीला मुष्टिबन्धा उच्यन्ते । निकाषो निघर्षः ॥ १६ ॥
शृङ्खलाजालिनि जालैः शृङ्खलैरलिकोमलैः ।
क्षुभिताकल्पविक्षुब्धसागरोर्मिघटा इव ॥ १७ ॥
शृङ्खलाजालमिति कङ्कटजातिभेदस्तद्वन्तः सादिनः शृङ्खलाजालिनः ।
कोमलशब्दः स्निग्धश्यामपरः । मिलिता इति सर्वत्रानुषङ्गः । दृष्टान्तोऽपि
प्राक्तनसर्वसाधारणः ॥ १७ ॥
क्षुब्धचक्रदलावर्तः शरसीकरमारुतः ।
प्रभ्रमद्धेतिमकरो व्योमैकार्णव आबभौ ॥ १८ ॥
क्षुब्धानि भ्रमन्ति दलानीव चक्राणि चक्रदलानि तान्यावर्ता यस्मिन् ॥ १८ ॥
उत्फुल्लायुधकल्लोलशिराकुलजलेचरः ।
रोदोरन्ध्रसमुद्रोऽसौ बभूवामरदुस्तरः ॥ १९ ॥
उत्फुल्ला आयुधलक्षणाः कल्लोलशिरास्तरङ्गनाड्यः । रोदस्योर्द्यावापृथिव्यो
रन्ध्रमन्तरालं स एव समुद्रः । अमरैर्जीवद्भिर्दुस्तरः ॥ १९ ॥
दिव्याष्टकजनानीकं पक्षद्वयतया तया ।
अर्धानार्धेन कुपितं भूपालाभ्यां तथा स्थितम् ॥ २० ॥
विद्या बुद्धिर्बलं शौर्यमस्त्राण्यश्वा रथो धनुरिति प्रसिद्धं
दिव्यमप्रतिहतमष्टकं यस्य तथाविधं योधनानीकं तया प्रागुक्तया
द्वन्द्वशो मिलितया पक्षद्वयतया सैन्यद्वयेऽप्यर्धेनार्थेन कुपितं स्थितम् ।
तत्कुतः । यतो भूपालाभ्यां सिन्धुराजविदूरथाभ्यां तथा तदनुकूलतया
स्थितमित्यर्थः । अथवा यक्षा रक्षांसि पिशाचा असुरा इत्येकतो देवा गन्धर्वाः
किन्नरा विद्याधरा इत्येकत इति दिव्याष्टकजनानीकं तया
भाविजयपराजयानुसारिण्या पक्षद्वयतया सैन्यस्यार्धेनार्धेन कुपितं
स्थितं यतो भूपालाभ्यामपि तथा तदनुरूपादृष्टशालितया स्थितमित्यर्थः
॥ २० ॥
मध्यदेशादिसङ्ख्याने प्राग्दिभ्योऽभ्यागतानिमान् ।
लीलानाथस्य पद्मस्य पक्षे जनपदाञ्छृणु ॥ २१ ॥
इदानीं पद्मसिन्धुराजयोः सहायभूतान् जनान्
प्राच्यादिदिग्भेदतत्तद्देशभेदैः क्रमेण वर्णयितुं वसिष्ठः प्रतिजानीते ##-
प्। २१७)
पूर्वस्यां कोसलाः काशिमागधा मिथिलोत्कलाः ।
मेखलाः कर्करा मुद्रास्तथा सङ्ग्रामशौण्डकाः ॥ २२ ॥
देशनामानि स्पष्टानि । मार्कण्डेयादिपुराणोक्तदेशनाम्नामत्रत्यानां च
क्वचिद्यद्यपि वैलक्षण्यं व्यत्यासश्च दृश्यते तथापि
ब्रह्माण्डान्तरत्वान्न दोषः । प्राच्यां देशाः २४ पर्वताः ७ ॥ २२ ॥
मुख्या हिमा रुद्रमुख्यास्ताम्रलिप्तास्तथैव च ।
प्राग्ज्योतिषा वाजिमुखा अम्बष्ठाः पुरुषादकाः ॥ २३ ॥
वर्णकोष्ठाः सविश्वोत्रा आममीनाशनास्तथा ।
व्याघ्रवक्राः किराताश्च सौवीरा एकपादकाः ॥ २४ ॥
माल्यवान्नाम शैलोऽत्र शिबिराञ्जन एव च ।
वृषलध्वजपद्माद्यास्तथोदयकरो गिरिः ॥ २५ ॥
अथ प्राग्दक्षिणायां तु इमे विन्ध्यादिवासिनः ।
चेदयो वत्सदाशार्णा अङ्गवङ्गोपवङ्गकाः ॥ २६ ॥
प्राची च दक्षिणा चानयोरन्तरालं दिक्प्राग्दक्षिणा । दिङ्नामान्यन्तराले इति
बहुव्रीहिः । अत्रापि देशाः २७ ॥ २६ ॥
कलिङ्गपुण्ड्रजठरा विदर्भा मेखलास्तथा ।
शबराननवर्णाश्च कर्णात्रिपुरपूरकाः ॥ २७ ॥
कण्टकस्थलनामानः पृथग्दीपककोमलाः ।
कर्णान्ध्राश्चौलिकाश्चैव तथा चार्मण्वता अपि ॥ २८ ॥
काकका हेमकुड्याश्च तथा श्मश्रुधरा अपि ।
बलिग्रीवमहाग्रीवाः किष्किन्धा नालिकेरिणः ॥ २९ ॥
अथ लीलापतेरस्य दक्षिणस्यामिमे नृपाः ।
विन्ध्योऽथ कुसुमापीडो महेन्द्रो दर्दुरस्तथा ॥ ३० ॥
दक्षिणस्यां पर्वताः ६ देशाः ६३ ॥ ३० ॥
मलयः सूर्यवांश्चैव गणा राज्यसमृद्धकाः ।
अवन्तीरिति विख्यातास्तथा शाम्बवतीति च ॥ ३१ ॥
दशपूरकथाचक्रारेषिकातुरकच्छपाः ।
वनवासोपगिरयस्ते भद्रगिरयस्तथा ॥ ३२ ॥
नागरा दण्डकाश्चैव गणराष्ट्रनृराष्ट्रकाः ।
साहा शैवार्ष्यमूकाश्च कर्कोटा वनबिम्बलाः ॥ ३३ ॥
पम्पानिवासिनश्चैव कैरकाः कर्कवीरकाः ।
स्वेरिका यासिकाश्चैव धर्मपत्तनपञ्जिकाः ॥ ३४ ॥
काशिकास्तृष्णखल्लूला यादास्ते ताम्रपर्णकाः ।
गोनर्दाः कनकाश्चैव दीनपत्तनमामकाः ॥ ३५ ॥
ताम्रीका [ताम्रीकदम्भराकीर्णा इति पाठः] दम्भराकीर्णाः
सहकारैणकास्तथा ।
वैतुण्डकास्तुम्बवनालाजिनद्वीपकर्णिकाः ॥ ३६ ॥
कर्णिकाभाश्च शिवयः कौङ्कणाश्चित्रकूटकाः ।
कर्णाटमण्टवटका महाकटकिकास्तथा ॥ ३७ ॥
आन्द्राश्च कोलगिरयश्चावन्तिकविचेरिकाः ।
चण्डायत्ता देवनकाः क्रौञ्चा वाहास्तथैव च ॥ ३८ ॥
शिलाक्षारोदभोनन्दमर्दना मलयाभिधाः ।
ते चित्रकूटशिखरा लङ्कारक्षोगणाः स्मृताः ॥ ३९ ॥
अथ प्रत्यग्दक्षिणस्यां महाराज्यसुराष्ट्रकाः ।
सिन्धुसौवीरशूद्राख्या आभीरा द्रविडास्तथा ॥ ४० ॥
प्रत्यग्दक्षिणस्यां पर्वताः ४ देशाः १९ ॥ ४० ॥
कीकटाः सिद्धखण्डाख्यास्तथा कालिरुहा अपि ।
अत्र हेमगिरिः शैलस्तथा रैवतको गिरिः ॥ ४१ ॥
जयकच्छो मयवरो यवनास्तत्र [पटनास्तत्र इति पाठः]
जन्तवः ।
बाह्लीका मार्गणावन्ता धूम्रास्तुम्बकनामकाः ॥ ४२ ॥
तथा लाजगणाश्चैव तथात्र गिरिवासिनः ।
ततोऽब्धितोकनियुता एते लीलापतेर्जनाः ॥ ४३ ॥
अथ तत्प्रतिपक्षस्थानिमाञ्जनपदाञ्शृणु ।
पश्चिमायां दिशि प्रौढा इमे तावन्महाद्रयः ॥ ४४ ॥
पश्चिमायां पर्वताः ९ देशाः १८ ॥ ४४ ॥
मणिमान्नाम शैलेन्द्रः कुरार्पणगिरिस्तथा ।
वनोऽर्कहो मेघभवश्चक्रवानस्तपर्वतः ॥ ४५ ॥
जनाः पञ्चजना नाम काशब्रह्मचयान्तकाः ।
तथैव भारक्षतथाः पारकाः शान्तिकास्तथा ॥ ४६ ॥
काशानां ब्रह्मणचयानां चान्तका इति पञ्चजनानां विशेषणम् ॥ ४६ ॥
शैब्यारमरकायाच्छा [करछायामहुला नियमास्तथा] गुहुत्वा
नियमास्तथा ।
हैहयाः सुह्मगायाश्च ताजिका हूणकास्तथा ॥ ४७ ॥
पार्श्वेकतकयोः कर्का गिरिपर्णावमास्तथा ।
सन्त्यक्तधर्ममर्यादास्ते वर्णा म्लेच्छजातयः ॥ ४८ ॥
दक्षिणोत्तरकतकदेशयोः पार्श्वे कर्काः ॥ ४८ ॥
ततोऽजनपदा भूमिर्योजनानां शतद्वयम् ।
ततो महेन्द्रशिखरी मुक्तामणिमयावनिः ॥ ४९ ॥
अजनपदेति च्छेदः ॥ ४९ ॥
युते महीधरशतैरथाश्वो नाम पर्वतः ।
ततो महार्णवो भीमः पारियात्रगिरिस्तटे ॥ ५० ॥
तटे अर्थान्महार्णवतटे ॥ ५० ॥
पश्चिमोत्तरदिग्भागे देशो गिरिमति स्थितः ।
तथा वेणुपतिश्चैव ततो नरपतिर्मही ॥ ५१ ॥
पश्चिमोत्तरस्यां देशाः १९ वेणुपतिर्नरपतिरिति देशः स्थितः । मही
नित्योत्सववान् ॥ ५१ ॥
तथा फल्गुणकाश्चैव माण्डव्यानेकनेत्रकाः ।
पुरुकुन्दाश्च पाराश्च भानुमण्डलभावनाः ॥ ५२ ॥
वन्मिला नलिना दीर्घा दीर्घकेशाङ्गबाहवः ।
रङ्गाश्च स्तनिकाश्चान्या गुरुहाश्चलुहास्तथा [च्लहास्तथा इति
पाठः] ॥ ५३ ॥
यतो दीर्घकेशाङ्गबाहवः अतो दीर्घाख्या इत्यर्थः ॥ ५३ ॥
प्। २१८)
ततः स्त्रीराष्ट्रमतुलं गोवृषापत्यभोजनम् ।
अथोत्तरस्यां हिमवान्क्रौञ्चोऽथ मधुमान्गिरिः ॥ ५४ ॥
उत्तरस्यां पर्वताः ६ पादेषु प्रत्यन्तपर्वतेषु देशाः ४४ ॥ ५४ ॥
कैलासो वसुमान्मेरुस्तत्पादेषु जना उभे ।
मद्रावारेवयौधेया मालवाः शूरसेनिकाः ॥ ५५ ॥
राजन्याश्च तथा ज्ञेया अर्जुनातनयस्तथा ।
त्रिगर्त एकपात्क्षुद्रामबलास्वस्तवासिनः ॥ ५६ ॥
अबलाः प्रखलाः शाकाः क्षेमधूर्तय एव च ।
दशदानागावसन्यदण्डाहन्यसनास्तथा ॥ ५७ ॥
धानदाः सरकाश्चैव वाटधानास्तथैव च ।
अन्तरद्वीपगान्धारास्तथावन्तिसुरास्तथा ॥ ५८ ॥
अथ तक्षशिला नाम ततो वीलवगोधनी ।
पुष्करावर्तदेशस्य यशोवतिमही ततः ॥ ५९ ॥
ततो नाभिमतिर्भूमिस्तिक्षा कालवरास्तथा ।
काहकं नगरं चैव सुरभूतिपुरं तथा ॥ ६० ॥
तथैव रतिकादर्शा अन्तरादर्श एव च ।
ततः पिङ्गलपाण्डव्यं यामुने यातुधानकाः ॥ ६१ ॥
मानवा नाङ्गना हेमतालाः स्वस्वमुखास्तथा ।
हिमवान्वसुमान्क्रौञ्चकैलासावित्यगास्तथा ॥ ६२ ॥
ततोऽजनपदा भूमिरशीतिशतयोजना ।
अथ प्रागुत्तरस्यां तु क्रमाज्जनपदाञ्छृणु ॥ ६३ ॥
प्रागुत्तरस्यां देशाः २४ पर्वतः १ ॥ ६३ ॥
कालुता ब्रह्मपुत्राश्च कुणिदाः खदिनास्तथा ।
मालवा रन्ध्रराज्याश्च वना राष्ट्रास्तथैव च ॥ ६४ ॥
केडवस्ताः सिंहपुत्रास्तथा वामनतां गताः ।
सावाकच्चापलवहाः कामिरा दरदास्तथा ॥ ६५ ॥
अभिसासदजार्वाकाः पलोलकुविकौतुकाः ।
किरातायामुपाताश्च दीनाः स्वर्णमही ततः ॥ ६६ ॥
देवस्थलोपवनभूस्तदनूदितश्री-
र्विश्वावसोस्तदनु मन्दिरमुत्तमं च ।
कैलासभूस्तदनु मञ्जुवनश्चशैलो
विद्याधरामरविमानसमानभूमिः ॥ ६७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
जनपदवर्णनं नाम षट्त्रिंशः सर्गः ॥ ३६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जनपदवर्णनं नाम षट्त्रिंशः सर्गः ॥ ३६ ॥