०३५

पञ्चत्रिंशः सर्गः ३५

श्रीवसिष्ठ उवाच ।

अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः ।
उत्ताण्डव इवोन्मत्तो बभूव स रणार्णवः ॥ १ ॥

समुद्रवनकल्पान्तनानारूपकविस्तरैः ।
सङ्ग्रामश्चतुरङ्गाणां विस्तरेणात्र वर्ण्यते ॥ १ ॥

तत्रादौ त्रयोदशश्लोकैरर्णवात्मना निरूपयिष्यन्नाह - अथेत्यादिना ॥ १ ॥

छत्रडिण्डीरविश्रान्तसितेषुशफरोत्करः ।
अश्वसैन्योल्लसल्लोलकल्लोलाकुलकोटरः ॥ २ ॥

डिण्डीरेषु फेनकूटेषु विश्रान्ताः सिता इषवः शफराः
क्षुद्रमत्स्यजातिभेदाः अश्वसादिसैन्यान्येवोच्छलनशीलत्वात्कल्लोलाः ॥ २ ॥

नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् ।
मत्तहस्तिघटापीठचलाचलकुलाचलः ॥ ३ ॥

विवृत्तिर्भ्रमणं तद्वान् । घटा समूहस्तल्लक्षणा
आपीठमामूलाच्चलाचलाश्चञ्चलाः कुलाचला मन्दरादयो यत्र । बलाबल इति
पाठे बलाबलपरीक्षार्थ युध्यन्तः कुलाचला इवेति क्लेशेन योज्यम् ॥ ३ ॥

कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः ।
धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः ॥ ४ ॥

आवर्तानां वृत्तिः परिभ्रमस्तेन भ्रान्तानि तच्छिन्नशिरस्तृणानि यत्र ।
खड्गप्रभाणां धूलिभिराच्छादनं पानत्वेन कल्प्यते ॥ ४ ॥

मकरव्यूहविस्तारभग्नाभग्नभटौघनौ ।
महागुडुगुडावर्तप्रतिश्रुद्धनकन्दरः ॥ ५ ॥

सेनापक्षे मकराकारस्य व्यूहस्य सेनासन्निवेशस्य । प्रतिश्रुतः
प्रतिध्वनन्त्यो घनानां मेघानां कन्दराश्छिद्राणि घनाः कन्दराः
पर्वतगुहा वा यत्र ॥ ५ ॥

मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः ।
हेतिवीचीवरालूनपताकावीचिमण्डलः ॥ ६ ॥

मीनाः प्रमीणा मृतजनास्तद्व्यूहेभ्यो विभिद्य निष्क्रान्ताः शरा एव क्षेत्रे
फलिताः बीजौघशिम्बीशिरस्काः सर्षपा इव यत्र । अर्णवपक्षे मीनानां
मत्स्यानां व्यूहेभ्यो निष्क्रान्ताः प्रसूताः काशबीजौघा इव शुभ्रा
अण्डसर्षपा यत्र । वीचीवरैः प्रबलवीचिभिः ॥ ६ ॥

शस्त्रवारिकृताम्भोदसदृशावर्तकुण्डलः ।
संरम्भघनसञ्चारसेनातिमितिमिङ्गिलः ॥ ७ ॥

अम्भोदसदृशा मेघवदस्थिरा आवर्ता एव कुण्डलानीव यस्य । संरम्भः
क्रोधस्तेन घनसञ्चारा सेनैव तिमयस्तिमिङ्गिलाश्च महामत्स्यजातिभेदा
यत्र ॥ ७ ॥

कृष्णायसपरिधानवलत्सेनाम्बुभीषणः ।
कबन्धावर्तलेखान्तर्बद्धसैन्यादिभूषणः ॥ ८ ॥

कृष्णायसमयः सारस्तन्मयानि परीधानानि कवचानि यस्य तथाविधेन
वलता परिवर्तमानेन सैन्याम्बुना । कबन्धं जलममूर्धकायश्च
तदावर्तरेखाया अन्तर्मध्ये बद्धानि निविष्टानि सैन्यादीनां भूषणानि यत्र ।
समुद्रपक्षे सैन्यान्यदन्ति भक्षयन्तीति सैन्यादीनि रक्षांसि तान्येव
भूषणानीव यस्य ॥ ८ ॥

प्। २१५)

शरसीकरनीहारसान्धकारककुब्गणः ।
निर्घोषाशोषिताशेषशब्दैकघनभुङ्घुमः ॥ ९ ॥

निर्घोषेण आशोषिता इवासंवेद्याः कृता अशेषशब्दा येन । अत
एवैकघनघुङ्घुमः ॥ ९ ॥

पतनोत्पतनव्यग्रशिरःशकलसीकरः ।
आवर्तचक्रव्यूहेषु प्रभ्रमद्भटकाष्ठकः ॥ १० ॥

कष्टटाङ्कारकोदण्डकुण्डलोन्मथनोद्भटः ।
अशङ्कमेव पातालादिवोद्यत्सैनिकोर्मिमान् ॥ ११ ॥

कोदण्डान्येव कुण्डलानि सर्पशरीराणि तेषामुन्मथने च्छेदने ॥ ११ ॥

गमागमपरानन्तपताकाच्छत्रफेनिलः ।
वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः ॥ १२ ॥

गजप्रतिमसम्पन्नमहारुधिरबुद्बुदः ।
सैन्यप्रवाहविचलद्धयहस्तिजलेचरः ॥ १३ ॥

हयहस्तिन एव जलेचरा यादांसि यत्र ॥ १३ ॥

ससङ्ग्रामोऽम्बरग्राम इवाश्चर्यकरो नृणाम् ।
अभूत्प्रलयभूकम्पकम्पिताचलचञ्चलः ॥ १४ ॥

अम्बरग्रामो गन्धर्वनगरम् । साम्प्रतं तमेव समरं कल्पान्तत्वेन
वर्णयति - अभूदित्यादिना ॥ १४ ॥

तरत्तरङ्गविहगः पतत्करिघटातटः ।
त्रस्तभीरुमृगानीकस्फूर्जद्घुरुघुरारवः ॥ १५ ॥

तरत्तरङ्गा इव विहगा यत्र ॥ १५ ॥

सरच्छरालीशलभशतभङ्गुरसैनिकः ।
तरत्तुरङ्गशरभः शरभारवनावनिः ॥ १६ ॥

तुरङ्गा एव शरभा यत्र । शराणां भाराः शरान् बिभ्रति ये ते वा
वनावनिर्वनभूमिर्यत्र ॥ १६ ॥

चलद्द्विरेफनिर्ह्रादो [जलद्विरेफ इति पाठः] रसत्तूर्यगुहागुरुः

चिरात्स सैन्यजलदो लुठद्भटमृगाधिपः ॥ १७ ॥

चिरादित्यस्योत्तरत्राभूदित्यनेनान्वयः
[विंशतितमश्लोकगतेनेत्यर्थः] । ससैन्या गजादयो जलदा इव यत्र ॥ १७

प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् ।
पतद्रथवराढ्याङ्गः प्रतपत्खड्गमण्डलः ॥ १८ ॥

पतन्ति रथवराढ्यानां महारथानामङ्गानि यत्र । खड्गा मृगविशेषा
निस्त्रिंशाश्च ॥ १८ ॥

प्रोत्पतत्पदपुष्पौघः पताकाच्छत्रवारिदः ।
वहद्रक्तनदीपूरपतत्साराववारणः ॥ १९ ॥

पदान्यङ्घ्र्यङ्का एव पुष्पौघाः ॥ १९ ॥

सोऽभूत्समरकल्पान्तो जगत्कवलनाकुलः ।
पर्यस्तसध्वजच्छत्रपताकारथपत्तनः ॥ २० ॥

पतद्विमलहेत्यौघभूरिभास्वरभास्करः ।
कठिनप्राणसन्तापतापिताखिलमानसः ॥ २१ ॥

कठिनेन प्राणसन्तापेन ॥ २१ ॥

कोदण्डपुष्करावर्तशरधारानिरन्तरः ।
वहत्खड्गशिलालेखाविद्युद्वलयिताम्बरः ॥ २२ ॥

कोदण्डा धनूंषि तल्लक्षणानां पुष्करावर्ताख्यप्रलयाम्बुदानां
खड्गानां शिलालेखाः शिलासंस्कृतधारा एव विद्युतः ॥ २२ ॥

उच्छिन्नरक्तजलधिपतितेभकुलाचलः ।
नभोविकीर्णनिपतद्युत्तारकणतारकः ॥ २३ ॥

नभसि विकीर्णाः प्रसृताः निपतद्भिश्च युवन्ति मिश्रीभवन्ति अत एव ताराः
स्थूला ये रुधिरकणास्त एव तारका इव यत्र ॥ २३ ॥

चक्रकुल्याम्बुदावर्तपूर्णव्योमशिराम्बुदः ।
अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरक्रमः ॥ २४ ॥

चक्रकुल्याभिश्चक्रपरम्परासरिद्भिरम्बुदप्रदेशे भ्रमणे
तदावर्तप्रायाभिः पूर्णा व्योमशिरा नभोनाड्योऽम्बुदाश्च यत्र ।
लोकान्तरक्रमः परलोकाक्रमणम् ॥ २४ ॥

हेतिवर्षाशनिच्छन्नभूतलामलभूधरः ।
गजराजगिरिव्रातपातपिष्टजनव्रजः ॥ २५ ॥

शरधाराघनानीकमेघच्छन्नमहीनभाः ।
महानीकार्णवक्षोभसङ्घट्टघटिताद्रवः ॥ २६ ॥

शरधाराभिर्घनैर्निबिडैरनीकमेघैः ॥ २६ ॥

व्याप्त उग्रानिलोद्धूतैर्जलव्यालैरिवाचलः ।
अन्योन्यदलनव्यग्रैः शस्त्रोत्पात इवोत्थितैः ॥ २७ ॥

जलव्यालैर्लडुण्डुभैः । अचलः अर्थात्समुद्रान्तर्गत इति लभ्यते । अन्योन्यदलने
व्यग्रैः शस्त्रैरिति शेषः । शस्त्रवर्षिणि संवर्तोत्पाते उत्थितैरिवेत्युत्प्रेक्षा ॥ २७

शूलासिचक्रशरशक्तिगदाभुशुण्डी-
प्रासादयो विदलनेन मिथो ध्वनन्तः ।
दीप्ता अधुर्दशदिशः शतशो भ्रमन्तः
कल्पान्तवातपरिवृत्तपदार्थलीलाम् ॥ २८ ॥

दीप्ताः शूलादयो मिथो विदलनेन ध्वनन्तो दिशो भ्रमन्तः सन्तः
कल्पान्तवातेन परिवृत्तानां भ्राम्यमाणानां शिलावृक्षशस्त्रादीनां
पदार्थानां लीलां विलासं अधुः । अधारयन्नित्यर्थः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
रणवर्णनं नाम पञ्चत्रिंशः सर्गः ॥ ३५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे रणवर्णनं
नाम पञ्चत्रिंशः सर्गः ॥ ३५ ॥

प्। २१६)