०३४

चतुस्त्रिंशः सर्गः ३४

श्रीवसिष्ठ उवाच ।

अथ राज्ञां युयुत्सूनां भटानां मन्त्रिणामपि ।
नभसः प्रेक्षकाणां च तत्रेमाः प्रोदगुर्गिरः ॥ १ ॥

वर्ण्यतेऽत्र विशेषेण विचित्रार्थनिबन्धनैः ।
रणप्रेक्षकवक्रेण युद्धस्यैव चमत्कृतिः ॥ १ ॥

नभसः सकाशात्प्रेक्षकाणां देवगन्धर्वादीनाम् । प्रोदगुः
प्रादुर्बभूवुः ॥ १ ॥

चलत्पद्मं सर इव वहद्विहगमेव च ।
नभः शूरशिरःकीर्णं भाति तारकिताकृति ॥ २ ॥

वहद्विहगमिति नभःसरसोः साधारणं विशेषणम् ।
तारकितस्याकृतिरिवाकृतिर्यस्येति विशेषणभेदाद्भेदकल्पनयोपमानता ॥ २ ॥

पश्य रक्तपृषत्पूरसिन्दूरारुणमारुतैः ।
सान्ध्या इव विभान्त्येते मध्याह्नेऽम्बुदभानवः ॥ ३ ॥

रक्तपृषतां रुधिरसीकराणां पूरैर्निकरैः
सिन्दूरेणेवारुणैर्मारुतैर्हेतुभिः । सान्ध्याः सन्ध्यासम्बन्धिनः । अम्बुदा
भानवः सूर्यकराश्च ॥ ३ ॥

प्। २१२)

किमिदं भगवन्व्योम पलालभरितं स्थितम् ।
नेदं पलालं वीराणामेते शरभराम्बुदाः ॥ ४ ॥

दूराच्छरोत्करेषु पलालभ्रान्त्या कश्चित्स्वमान्यं पृच्छति - किमिदमिति ।
स प्रत्याह - नेदमिति ॥ ४ ॥

यावन्तो भुवि सिच्यन्ते रुधिरै रणरेणवः ।
तावन्त्यब्दसहस्राणि भटानामास्पदं दिवि ॥ ५ ॥

मा भैष्ट नैते निस्त्रिंशा नीलत्पलदलत्विषः ।
अमी वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥ ६ ॥

लक्ष्म्याः स्वर्गलक्ष्म्या जयलक्ष्म्या वा ॥ ६ ॥

वीरालिङ्गनलोलानां नितम्बे सुरयोषिताम् ।
मेखलाः शिथिलीकर्तुं प्रवृत्तः कुसुमायुधः ॥ ७ ॥

नभश्चरोक्तिर्वीरेति ॥ ७ ॥

लसद्भुजलतालोला रक्तपल्लवपाणयः ।
मञ्जरीमत्तनयना मध्वामोदसुगन्धयः ॥ ८ ॥

वीरस्य वीरान्तरं प्रत्युक्तिर्लसद्गुजेति द्वाभ्याम् ॥ ८ ॥

गायन्त्यो मधुरालापैर्नन्दनोद्यानदेवताः ।
तवागमनमाशङ्क्य प्रवृत्तः परिनर्तितुम् ॥ ९ ॥

प्रत्यनीकं भिनत्त्यन्तः कुठारैः कठिनैरियम् ।
सेना ग्राम्येव वनिता दयितं दृष्टिचेष्टितैः ॥ १० ॥

दृष्टिचेष्टितैर्दृग्विलासैः ॥ १० ॥

हा पितुर्मम भल्लेन शिरो ज्वलितकुण्डलम् ।
सूर्यस्य निकटं नीतं कालेनेवाष्टमो ग्रहः ॥ ११ ॥

कालेन सूर्योपरागकालेनेव । अष्टमो ग्रहो राहुः ॥ ११ ॥

आपादशृङ्खलाप्रोतभ्रमत्स्थूलोपलद्वयम् ।
भ्रामयंश्चित्रदण्डाख्यं चक्रमूर्ध्वभुजो जवात् ॥ १२ ॥

भीरोर्भीरुं प्रत्युक्तिरापादेति द्वाभ्याम् । आपादलम्बिन्यां
यन्त्रशृङ्खलायां प्रोतं चक्रं चक्रोपलयन्त्रम् ॥ १२ ॥

योधो यम इवाभाति याम्यादायाति दिक्तटात् ।
सर्वतः संहरन्सेनामेहि यामो यथागतम् ॥ १३ ॥

याम्याद्दक्षिणात् । संहरन्निति योधयमयोर्विशेषणम् ॥ १३ ॥

सद्यश्छिन्नशिरःश्वभ्रमज्जत्कङ्ककुलाकुलाः ।
कबन्धाः परिनृत्यन्ति तालोत्ताला रणाङ्गणे ॥ १४ ॥

श्वभ्रेषु कण्ठच्छिद्रेषु मज्जद्भिः कङ्ककुलैराकुलाः ।
तालैर्युद्धवादित्रतालैरुत्ताला उच्छलन्तः ॥ १४ ॥

गीर्वाणगणगोष्ठीषु प्रवृत्ताः सङ्कथा मिथः ।
कदा लोकान्तरं धीराः कथं यास्यन्ति के कुतः ॥ १५ ॥

चतुर्भिः किंवृत्तैः कालप्रकारपुरुषनिमित्तानि पृच्छ्यन्ते ॥ १५ ॥

निगिरत्यागताः सेनाः स्रवन्तीरिव सागरः ।
समत्स्यमकरव्यूहा अहो नु विषमो भटः ॥ १६ ॥

स्रवन्तीर्न्ददीः । समत्स्यमकरव्यूहा इति स्रवन्तीसेनयोर्विशेषणम् ॥ १६ ॥

कटेषु करिणां कीर्णा धारानाराचराजयः ।
पतिता इव सम्पूर्णाः शृङ्गसङ्घेषु वृष्टयः ॥ १७ ॥

गिरिशृङ्गसङ्घेषु पतिताः सम्पूर्णवृष्टय इव राजन्त इति शेषः ॥ १७ ॥

हा कुन्तेन शिरो नीतं ममेत्येवं विवक्षतः ।
शिरसाऽजीवमित्येवं खे खगेनेव वाशितम् ॥ १८ ॥

शिरश्छेदस्य दुःखताबुद्ध्या तथा विवक्षतश्छिन्नेनोड्डीनेन शिरसा
स्वर्गारोहणोत्सवदर्शनादजीवमहं नतु मृत इति हर्षेण खे यद्भाषितं
तत्खगेन पक्षिणा वाशितमिव जनैः श्रुतमिति शेषः । तिरश्चां कूजितं
वाशितम् ॥ १८ ॥

यन्त्रपाषाणवर्षेण यैषास्मान्परिषिञ्चति ।
सेनानुशृङ्खलाजालवलना क्रियतां बलात् ॥ १९ ॥

या सेना सिञ्चति एषा अनुशृङ्खलाजालेन वलिता वेष्टिता क्रियतामिति सैनिकोक्तिः
॥ १९ ॥

वलीपलितनिर्मुक्तं पूर्वभार्याप्सराः सती ।
अङ्गीकरोति भर्तारं परिज्ञाय रणे हतम् ॥ २० ॥

पूर्वभार्या प्रागेव मृता अप्सराः सती स्थिता युद्धे मृतं स्वभर्तारं
वलीपलितनिर्मुक्तं देवभूतं परिज्ञायाङ्गीकरोतीति देवोप्क्तिः ॥ २० ॥

आदिवं रचिताकाराः कुन्तकाननकान्तयः ।
वीराणां स्वर्गमारोढुमिव सोपानपङ्क्तयः ॥ २१ ॥

कुन्तायुधानां काननं समूहस्तेषां कान्तय आदिवं स्वर्गपर्यन्तं
रचितवत्प्रसृताः सोपानपङ्क्तय इत्युत्प्रेक्ष्यन्ते ॥ २१ ॥

कान्तकाञ्चनकान्ताङ्गे भटस्योरसि कामिनी ।
दृष्टा देवपुरन्ध्रीयं भर्तुरन्वेषणान्विता ॥ २२ ॥

या भटस्य कामिनी स्वतः काञ्चनैश्च कान्तान्यङ्गानि करचरणादीनि यस्य
तथाविधे भटस्योरसि मृता दृष्टा सेयं देवपुरन्ध्री भूत्वा
भर्तुरन्वेषणान्विता दृश्यत इति शेषः ॥ २२ ॥

हा हतं सैन्यमस्माकं भटरुद्धतमुष्टिभिः ।
महाप्रलयकल्लोलैः सुरशैलस्थलं यथा ॥ २३ ॥

हा हतमिति कातरस्योक्तिः ॥ २३ ॥

युध्यध्वमग्रतो मूढा नयतार्धमृतान्नरान् ।
निजान्पादप्रहारेण मैतान्दारयताधमाः ॥ २४ ॥

निजान्स्वीयान् ॥ २४ ॥

धम्मिल्लवलनाव्यग्रे घनोत्कण्ठेऽप्सरोगणे ।
भटो दिव्यशरीरेण पार्श्वप्राप्तो निरीक्ष्यताम् ॥ २५ ॥

धम्मिल्लवलना केशसङ्ग्रथनम् ॥ २५ ॥

फुल्लहेमारविन्दासु च्छायाशीतजलानिलैः ।
स्वर्गनद्यास्तटीष्वेनं दूरायातं विनोदय ॥ २६ ॥

स्वर्गनद्या गङ्गायाः विनोदय विश्रामयेत्यप्सरःसख्युक्तिः ॥ २६ ॥

विविधायुधसङ्घट्टखण्डितोग्रास्थिकोटयः ।
खे कवन्त्यः कण्ट्कारैः प्रसृतास्तारका इव ॥ २७ ॥

कोटिशब्दोऽसङ्ख्येयपरः । कणत्कारैः कवन्त्यो रणन्त्यः ॥ २७ ॥

व्योम्नि जीवनदीवाहे वहत्सायकवारिणि ।
चक्रावर्तिनि गच्छन्ति गिरयोऽप्यणुपङ्कताम् ॥ २८ ॥

चक्रैरावर्तिन्यावर्तवति । अणवो रेणवस्तल्लक्षणां पङ्कताम् ।
कल्पितपूरानुरूपः कल्पित एव पङ्कः ॥ २८ ॥

भ्रमद्भिर्ग्रहमार्गेषु शिरोभिर्वीरभूभृताम् ।
आयुधांशुलतानाललग्नासिदलकण्टकैः ॥ २९ ॥

ग्रहमार्गेषु भ्रमद्भिर्वीरभूभृतां शिरोभिर्नभः पद्मसरः
कृतमित्युत्तरेणान्वयः । तदुपपत्तये विशिनष्टि - आयुधांश्वित्यादिना ।
आयुधानामंशवः किरणा एव पद्मलतानालानि तेषु लग्ना असयः दलानि
विदलनसाधनशूलकुन्तादीनि च कण्टका येषाम् ॥ २९ ॥

प्। २१३)

केतुपट्टमृणालाङ्गदलैर्लब्धशिलीमुखैः ।
अवहद्वातचलत्पद्मं नभः पद्मसरः कृतम् ॥ ३० ॥

केतुपट्टाः पताकापटास्त एव मृणालस्यावयवभूतपर्णानि येषाम् ।
लब्धाः शिलीमुखाः श्लेषाद्बाणलक्षणभ्रमरा यैः ॥ ३० ॥

मृतमातङ्गसङ्घाते गिराविव पिपीलिकाः ।
भीरवः परिलीयन्ते [परिहीयन्ते इति पाठः] स्त्रियः पुंवक्षसीव च
॥ ३१ ॥

चकार उपमानद्वयसमुच्चयार्थः ॥ ३१ ॥

अपूर्वोत्तमसौन्दर्यकान्तसङ्गमशंसिनः ।
वान्ति विद्याधरस्त्रीणामलकोल्लासिनोऽनिलाः ॥ ३२ ॥

गृहादागच्छन्तीनामलकोल्लासितयानुकूलत्वेन
शकुनरूपत्वान्मनोरथसिद्धिशंसिन इति भावः ॥ ३२ ॥

छत्रेषूड्डियमानेषु स्थितेषु व्योम्नि चन्द्रता ।
इन्दुनेव यशोमूर्त्या कृता शुभ्रातपत्रता ॥ ३३ ॥

इवकारः पूर्वत्रापि सम्बध्यते । तेन च्छत्रेषु व्योम्नि स्थितेषु तैश्चन्द्रता
कृतेव । यशोमूर्त्या इन्दुना भुवि शुभ्रातपत्रता कृतेवेत्युप्रेक्षाद्वयं
लभ्यते ॥ ३३ ॥

भटो मरणमूर्च्छान्ते निमेषेणामरं वपुः ।
स्वकर्मशिल्पिरचितं प्राप्तः स्वप्नपुरं यथा ॥ ३४ ॥

शूलशक्त्यृष्टिचक्राणां वृष्टयो मुक्ततुष्टयः ।
व्योमाब्धौ मत्स्यमकरसङ्कुलावयवाः स्थिताः ॥ ३५ ॥

मुक्ततुष्टयः असन्तोषशीला इव व्यग्रा मत्स्यमकररूपाः [शेफा इति
पाठः] सङ्कुलावयवा इव स्थिताः ।
अब्धिस्थमत्स्यादीनामब्ध्यवयवत्वं काल्पनिकम् ॥ ३५ ॥

शरोत्कृत्तसितच्छत्रकलहंसैर्नभःस्थलम् ।
भाति सञ्चितपूर्णेन्दुबिम्बलक्षैरिवावृतम् ॥ ३६ ॥

क्रियते गगनोड्डीनैश्चामरैश्चारुघर्घरैः ।
वातावधूतसंरोधतरङ्गनिकरद्युतिः ॥ ३७ ॥

वातेनावधूतः संरोधः स्थैर्यं येषां तरङ्गाणाम् ॥ ३७ ॥

दृश्यन्ते हेतिदलिताश्छत्रचामरकेतवः ।
आकाशक्षेत्रविक्षिप्ता यशःशालिलता इव ॥ ३८ ॥

वहद्भिर्व्योम्नि सक्षेम पश्य नीता क्षयं शरैः ।
शक्तिवृष्टिरुपायान्ती सस्यश्रीः शलभैरिव ॥ ३९ ॥

सक्षेमेति श्रोतृसम्बोधनम् । उपायान्ती समुपसर्पन्ती आसन्नफला च ॥ ३९ ॥

एषा प्रसृतदोर्दण्डभटखड्गच्छटात्कृतिः ।
कठिनात्कङ्कटाज्जाता मृत्योरेवोग्रहुङ्कृतिः ॥ ४० ॥

छटात्कृतिरिति खड्गपातध्वन्यनुकरणम् । सैव
मृत्योर्हुङ्कृतिरित्युत्प्रेक्षा ॥ ४० ॥

हेतिकल्पानिलक्षुण्णा दन्तनिर्झरवारयः ।
जनताक्षयकालेऽस्मिन्भग्ना नागा नगा इव ॥ ४१ ॥

हेतयः खड्गाद्यायुधान्येव कल्पानिलास्तैः क्षुण्णाः । दन्ता एव
निर्झरवारीणि शुभ्रत्वबहिर्निःसृतत्वसाम्याद्येषां ते । नागा गजा नगा
गिरय इव ॥ ४१ ॥

सचक्रनाथसूताश्वं व्यूढं रक्तमहाह्रदे ।
हाहाभिभूतगतिकं [महाभिभूत इति पाठः] चेष्टते
रथपत्तनम् ॥ ४२ ॥

व्यूढं सन्नद्धम् । रक्तमहाह्रदे अभिभूता
चक्रविष्टम्भात्तिरोभूतागतिर्यस्य तथाभूतं सच्चेष्टते स्पन्दते । हाहेति खेदे
॥ ४२ ॥

करकङ्कटकुट्यङ्कखड्गसङ्घट्टटाङ्कृतैः ।
कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते ॥ ४३ ॥

वीरहस्त्यादिकराः कङ्कटानि च कुट्यङ्कास्तन्त्रीपदानि तेषु
खड्गसङ्घट्टकृतैष्टाकृतैर्वादनशब्दैः ॥ ४३ ॥

नरेभखरवाजिभ्यो ये च्युता रक्तनिर्झराः ।
पश्य तद्बिन्दुसिक्तेन वायुनारुणिता दिशः ॥ ४४ ॥

शस्त्रांशुजलदे व्योम्नि कालीचिकुरमेचके ।
शरकोरकभारस्रङ्मेघे विद्युदिवोदिता ॥ ४५ ॥

चिकुराः केशा इव मेचके श्यामे । शरा एव कोरकाः कलिकास्तेषां भारः
प्रचयस्तल्लक्षणा स्रक् । जलदे इति जातिशब्दः । मेघे मिह सेचने तत्प्रधाने इति
तद्विशेषणम् ॥ ४५ ॥

अनन्तरक्तसंसक्तसन्नावनितलायुधैः ।
भुवनं भात्यभिज्वालमग्निलोक इवाकुलम् ॥ ४६ ॥

अनन्तैः रक्तसंसक्तैः सन्नैर्विशीर्णैरवनितलैरायुधैश्च आकुलं भुवनं
अग्नेर्लोक इव भातीति शेषः । अग्निशोक इव इति पाठे अग्निप्रयुक्ते
नगरादिदाहशोके आकुलमिवेति व्याख्येयम् ॥ ४६ ॥

भुशुण्डीशक्तिशूलासिमुसलप्रासवृष्टयः ।
अन्योन्यच्छेदभेदाभ्यां करप्रकरतोऽपतन् ॥ ४७ ॥

अक्षोभैकप्रहरणाद्यातुधान्योऽन्यचेष्टितम् ।
संरम्भावेक्षणप्रज्ञं रणं स्वप्नमिव स्थितम् ॥ ४८ ॥

अक्षोभेषु सञ्चलितुमसमर्थेष्वनकेष्वेकेन शूरतमेन स्वलाघवातिशयेन
प्रहरणात् । यातुधानानां रक्षसां माया यातुधानी तया उन्यं उन्नेयं
उपमेयं शूरचेष्टितं यत्र । नयतेष्टिलोपश्छान्दसः । संरम्भेण
क्रोधेनावेक्ष्यते यया सा संरम्भावेक्षणि तथाविधा प्रज्ञा
योद्धृबुद्धिर्यत्र । स्वप्नपक्षे अक्षोभेषु
विनाशानुकूलच्छेदभेदादिसञ्चलनशून्येषु स्वाप्नपदार्थेष्वेकेन
जागरमात्रेण प्रहरणाद्बाधाद्यातुधानमायोपमेयमिथ्याचेष्टितम् ।
संरम्भेण आवेशेनावेक्षणी प्रज्ञा स्वयञ्ज्योतिरात्मप्रज्ञा यत्र ।
स्वप्नमिव स्थितं रणं पुरःस्थितं स्वप्नमिव पश्यामीति शेषः ॥ ४८ ॥

अनन्यशब्दाविरतहताहतिरणज्झणैः ।
गायतीव क्षतक्षोभमुदितो रणभैरवः ॥ ४९ ॥

अविरतं निरन्तरं या हताहतिरन्योन्यप्रहारस्तदुद्भवै
रणज्झणैर्ध्वनिविशेषैः ॥ ४९ ॥

अन्योन्यरणहेत्युग्रचूर्णपूर्णो रणार्णवः ।
वालुकामय एवाभूच्छिन्नच्छत्रतरङ्गकः ॥ ५० ॥

वालुकामयः सैकतप्रचुरः ॥ ५० ॥

सरभसरसवद्विसारितूर्य-
प्रतिरवपूरितलोकपाललोकः ।
रणगिरिरयमुग्रपक्षदक्ष- [रवमुग्र इति पाठः]
प्रतिसृतिवृत्त इवाम्बरे युगान्ते ॥ ५१ ॥

सरभसं रसवद्भिर्मधुरैर्विसारिभिः प्रसृमरैस्तूर्याणां वाद्यानां
प्रतिरवैः प्रतिध्वनिभिः पूरिता लोकपालानां दिक्पतीनां लोका येन ।
तूर्यरवैरुड्डयनोद्योगेन गर्जन्निवेति यावत् । अयं दृश्यमानो रणलक्षणो
रणसन्निहितो वा गिरिः पर्वतो युगान्ते अम्बरे नभसि उग्रयोर्युद्धकर्कशयोः
सैन्यद्वयलक्षणयोः पक्षयोर्दक्षया समर्थया प्रतिसृत्या
परस्परप्रतिकूलचलनेन वृत्त उड्डयने प्रवृत्त इवावभतीत्यर्थः ॥ ५१ ॥

प्। २१४)

हा हा धिक्प्रविकटकङ्कटाननोद्य-
त्प्रोड्डीनप्रकटतडिच्छटाप्रतप्ताः ।
क्रेङ्कारस्फुरितगुणेरिता रणन्तो
नाराचाः शिखरिशिलागणं वहन्ति ॥ ५२ ॥

समर्थानपि कठनकङ्कटेषु मोघान्स्वशराननुशोचन्तो वीरा आहुर्हाहेति ।
प्रविकटानतिकठिनान्कङ्कटान् अनोद्याभित्त्वैव तदभिघातप्रोड्डीनाभिः
प्रकटतडिच्छटासदृशीभिर्ज्वालाभिः प्रतप्तानाराचाः शराः शिखरिणः
सन्निहितपर्वतस्य शिलागणं छित्त्वा वहन्ति । हाहेति खेदे । अभिमतकार्ये
प्रेरितस्य तदकृत्वा अनभिमतमहाकार्यकारिणोऽपि धिक्कार्यतैवेति भावः ।
अरणीतः इति पाठे स्फुरितगुणं यद्धनुस्तल्लक्षणाया ईरितायाः
कर्षणोन्मथिताया अरणीतः अरण्याः सकाशात् नाराचाः शराग्नय इति
व्याख्येयम् ॥ ५२ ॥

छिन्नेच्छाच्छमिति न यावदङ्गभङ्गं
कुर्वन्तो ज्वलदनलोज्ज्वलाः पृषत्काः ।
तावद्राग्द्रुतमित एहि मित्र यामो
यामोऽयं प्रवहति वासरश्चतुर्थः ॥ ५३ ॥

अथ युद्धश्रान्तस्य तादृशं कञ्चित्प्रत्युक्तिः । हे छिन्नेच्छ
श्रमविच्छिन्ना युद्धेच्छा यस्य तथाविध हे मित्र अच्छं स्वच्छं निर्दोषं
इति वक्ष्यामाणं हितं शृण्विति शेषः । ज्वलदनलोज्ज्वलाः पृषत्का बाणा
अस्माकमङ्गानां हस्तपादादीनां भङ्गं विच्छेदं कुर्वन्तो यावन्न
भवन्ति तावदेव द्राक् शीघ्रमेव द्रुतं पलायितं यथा स्यात्तथा इति यामः
अपगच्छामः । यतोऽयं चतुर्थो यामः प्रहरः यामो यमसम्बन्धी वासरः ।
नियताशनदिनमिव जनक्षयाय प्रवहति । परिवर्तत इत्यर्थः ।
छिन्नेच्छाछृं इति पाठे तु छिन्नवर्मादौ छाछृं इति शब्देन
नाङ्गभङ्गं कुर्वन्त इति योज्यम् ॥ ५३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
रणप्रेक्षकजनोक्तिवर्णनं नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
रणप्रेक्षकजनोक्तिवर्णनं नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥