०३३

त्रयस्त्रिंशः सर्गः ३३

श्रीराम उवाच ।

भगवन्युद्धमेतन्मे समासेन मनाग्वद ।
श्रुतिराह्लाद्यते श्रोतुर्यस्मादेताभिरुक्तिभिः ॥ १ ॥

साङ्कल्पिकविमानस्थप्रज्ञालीलासमीक्षितः ।
अथ प्रवृत्तः सङ्ग्रामः सेनयोरत्र वर्ण्यते ॥ १ ॥

श्रुतिः श्रोत्रमाह्लाद्यते
तत्त्वोपदेशग्रहणप्रतिरोधिजामितादोषनिवारणेनेत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

अथ तत्रैव ते देव्यौ सङ्ग्रामं तमवेक्षितुम् ।
विमाने कल्पिते कान्ते रुद्धे रुरुहतुः स्थिरे ॥ २ ॥

सत्यसङ्कल्पेन कल्पिते कान्ते रमणीये नभसि रुद्धे निश्चलीकृते अत एव स्थिरे
विमाने आरुरुहतुः ॥ २ ॥

एतस्मिन्नन्तरे तत्र लीलेशः प्रतिपक्षतः ।
तमुत्सोढुमशक्तः सन्मुखव्यतिकरे रणे ॥ ३ ॥

तत्र तयोः सेनयोर्मुखव्यतिकरे परस्परमुखसङ्घट्टने प्रसक्ते सति
प्रतिपक्षतः शत्रुसैन्यात्प्रलयार्णवकल्लोल इवोत्पत्त्य निर्गत्य उद्भये निर्भये
कस्मिंश्चिद्भटे प्रहर्तुकामे सति लीलेशो विदूरथस्तमुत्सोढुं
क्षान्तुमशक्तः संस्तस्य भटस्योरसि मुद्गरं जहौ प्रहृतवानिति
परेणान्वयः ॥ ३ ॥

प्रलयार्णवकल्लोल इवोत्पत्त्योद्भये भटे ।
जहौ सानाविव शिलां भटस्योरसि मुद्गरम् ॥ ४ ॥

अथ प्रवृत्तः प्रसभं प्रलयार्णवरंहसा ।
सेनयोः शस्त्रसम्पातः किरन्ननलविद्युतः ॥ ५ ॥

अथ राजप्रवृत्त्यनन्तरम् । अनलपदेन तत्सदृशानि शस्त्राणि विद्युत्पदेन
तत्प्रभाश्च लक्ष्यन्ते ॥ ५ ॥

तरत्तरलधाराग्ररेखाङ्कितनभस्तलः ।
ध्वनत्कणकणाशब्दमध्यलक्षितटाङ्कृतिः ॥ ६ ॥

इतः प्रभृति सर्वाणि सर्गान्त्यश्लोकस्थरणसम्भ्रमविशेषणानि । तरतां
प्लवमानानां शस्त्राणां तरलधाराग्रै रेखाङ्कितमित्यौत्प्रेक्षिकम् ॥ ६ ॥

धीरहुङ्कारमिश्रिष्मघर्घरारवघस्मरः ।
प्रवृत्तशरधाराग्रभास्करार्चिर्वितानकः ॥ ७ ॥

हुङ्कारमिश्रत्वेन तरतमत्वादुष्मणो ग्रीष्मान्तस्य घनघर्घरारावाणां
घस्मरो भक्षकः । तिरस्कर्तेति यावत् । शरधाराप्रतिफलितभास्करार्चीष्येव
वितानं यस्य ॥ ७ ॥

नदत्कङ्कटटङ्कारप्रोड्डीनकणपावकः ।
परस्पराहतिच्छिन्नहेतिखण्डखगाम्बरः ॥ ८ ॥

शरखड्गादिप्रहरान्नदद्भ्यः कङ्कटेभ्यो वर्मभ्यष्टङ्कारेण
प्रोड्डीनाः कणपावकाः स्फुलिङ्गा यस्मिन् । हेतिखण्डाः खड्गशकलान्येव
प्रोड्डीयमानत्वात्खगा यस्मिंस्तथाविधमम्बरमाकाशं यत्र ॥ ८ ॥

वीरदोर्द्रुमसञ्चारवहद्वननभस्थलः ।
कोदण्डचक्रक्रेङ्कारद्रवद्वैमानिकाङ्गनः ॥ ९ ॥

दोर्द्रुमाणां सञ्चारैर्वहत्सञ्चरद्वनं यस्मिंस्तथाविधं नभस्थलं
यत्र ॥ ९ ॥

महाहलहलारावभृङ्गीकृतघनध्वनिः ।
निर्विकल्पसमाधिस्थ इवैकघनतावशात् ॥ १० ॥

भृङ्गपदेन ध्वनिर्लक्ष्यते ।
हलहलारावैरभिभवाद्भृङ्गध्वनिवदल्पीकृतो मेघध्वनिर्यत्र ।
तद्यथा सैन्धवघनोऽनन्तरो बाह्यः कृत्स्नो रसघन एवं वा अरेऽयमात्मा
विज्ञानघन एव इति श्रुतिदर्शित एकघनः परमात्मा तद्भाववशाद्यथा
निर्विकल्पसमाधिस्थो बाह्यशब्दादीन्नानुभवति तद्वदित्यर्थः । तथाचोक्तम् ##-
स्यान्निर्विकल्पस्ततः परः ॥ इति ॥ १० ॥

नाराचासारधाराग्रलूनशूरशिरस्करः ।
परस्परांससङ्घट्टरणत्कङ्कटसङ्कटः ॥ ११ ॥

हुङ्कारहतहेत्युग्रसङ्घट्टकटुटाङ्कृतः ।
तरद्धारातरङ्गाभ्रदन्तुराशेषदिङ्मुखः ॥ १२ ॥

खड्गधारातरङ्गैरभ्रैर्दन्तुराण्युन्नतदन्तानीव दिङ्मुखानि यत्र ॥ १२ ॥

हेतिसङ्घट्टविक्षोभमुष्टिग्राह्यझणज्झणः ।
चिरमास्फोटकास्फोटलुठच्चटचटारवः ॥ १३ ॥

खड्गप्रहारेण शत्रोर्विक्षोभे तच्छिरोग्रहणाय प्रवृत्तस्य हस्तस्य
तदलाभाज्झणज्झणशब्द एव मुष्टिग्राह्य इव सम्पन्नो यत्र ।
बाह्वास्फोटकानां शूराणामास्फोटैर्लुठन्त इव चटचटारवा यत्र ॥ १३ ॥

प्। २१०)

प्रवहत्खड्गसीत्कारज्वलत्कणसणध्वनिः ।
सरच्छरभराध्वान्तशरत्खखरारवः ॥ १४ ॥

त्वरया कोशात्प्रवहृतां निर्गच्छतां खड्गानां
लोहसङ्घर्षसीत्कारसहितो ज्वलत्कणानां सणसण इति ध्वनिर्यत्र । सरतां
शरभराणामध्वान्ते मार्गावधौ । लक्ष्यदेश इति यावत् । शरतां
विशरारूणां खरखरारवो यत्र ॥ १४ ॥

धगद्धगितिविच्छिन्नकण्ठोत्थप्राणलोहितः ।
छिन्नबाहुशिरःखड्गखण्डनिर्विवराम्बरः ॥ १५ ॥

धगद्धगिति शब्देन सह विच्छिन्नकण्ठादुत्थाः प्राणा लोहितानि च यत्र ॥ १५ ॥

कङ्कटोत्थस्फुरद्वह्निसटास्पृष्टशिरोरुहः ।
रणत्पतदसिव्रातमत्तपीनझणज्झणः ॥ १६ ॥

वह्नेः सटाभिर्जटासदृशज्वालाभिः स्पृष्टाः शिरोरुहाः केशा यत्र ।
असिव्रातानां मत्ता हर्षपरवशचित्ताः सम्पन्नाः पीना रणोत्साहोत्फुल्लदेहाः
शूरा येन तथाविधो झणज्झणरवो यत्र ॥ १६ ॥

कुन्तकुण्ठितमातङ्गतरङ्गोत्तुङ्गलोहितः ।
दन्तिदन्तविनिष्पेषतारचीत्कारकर्कशः ॥ १७ ॥

कुन्तैरायुधभेदैः कुण्ठितानां मातङ्गानां तरङ्गोत्तुङ्गो
लोहितप्रवाहो यत्र ॥ १७ ॥

महामुसलसम्पातपिष्टकष्टोद्धुरस्वरः ।
तरच्छूरशिरःपद्मप्रकराच्छादिताम्बरः ॥ १८ ॥

व्योमन्यस्तभुजाहीन्द्रः पूर्णधूलिमयाम्बुदः ।
छिन्नहेतिनरारब्धकेशाकेशिप्रतिक्रियः ॥ १९ ॥

केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं केशाकेशि तदेव
हेतिच्छेदनापराधप्रतीकारो यत्र ॥ १९ ॥

नखानखिनिकृत्ताक्षिकर्णनासोष्ठकन्धरः ।
छिन्नायुधमहामल्लहेलोल्लालनलब्धभूः ॥ २० ॥

छिन्नायुधैर्महामल्लानां हेलया तिरस्कारेण उल्लालनेन
उत्कृष्टबाहुयुद्धक्रीडया लब्धा भूर्ययस्थानं यत्र ॥ २० ॥

पतत्समदमातङ्गकम्पितोर्वीलुठद्रयः ।
रणद्रथरयोत्पन्नक्षरद्रक्तसरित्पथः ॥ २१ ॥

मातङ्गेन कम्पितानां अत एव धावितुमशक्त्या उर्व्या लुठतां रयो यत्र ॥ २१

रजोरचितनीहारः कचत्प्रवहदायुधः ।
एकीकृतघनक्षोभसैन्यसागरगर्जितः ॥ २२ ॥

मत्तहासविलासेन मृत्युना परिचर्वितः ।
गर्विताद्रीन्द्रनागेन्द्रखर्विताम्भोदगर्जितः ॥ २३ ॥

चर्वितो भक्षितः । चर्चितः इति पाठे हिंसितो भर्त्सितो वा । नागेन्द्रैर्गजश्रेष्ठैः
खर्वितानि औन्नत्येन गर्जितेन चाल्पीकृतान्यम्भोदास्तद्गर्जितानि च यत्र ॥ २३ ॥

वृक्षश्वभ्रतटीच्छन्नचक्रशक्त्यृष्टिमुद्गरः ।
शरोर्णातन्तुनीरन्ध्रघृष्टियोधाद्रिमेखलः ॥ २४ ॥

वृक्षश्वभ्राद्याश्रयेण प्रहरतां वधाय क्षिप्तास्तत्र
च्छन्नाश्चक्रादयो यत्र । शरलक्षणोर्णातन्तुभिर्नीरन्ध्रधृष्टयो
निरन्तरानुस्यूता नानावर्णा योधलक्षणा अद्रिमेखलाः पर्वतनितम्बा यत्र ॥
२४ ॥

मेघविश्रान्तविच्छिन्नपताकापटचामरः ।
यन्त्रपाषाणचक्रौघदूरविद्रुतखेचरः ॥ २५ ॥

मेघानां विश्रान्तैराक्रमणैर्मेघेषु वा विश्रान्तैर्विद्युदादिभिर्विच्छिन्नाः
क्षेपणाख्ययन्त्रनिर्मुक्तपाषाणैश्चक्रौघैश्च दूरं विद्रुताः खेचराः
पक्ष्यादयो यत्र ॥ २५ ॥

मरणव्यग्रकृत्ताङ्गयोधाक्रन्दातिघर्घरः ।
कुठाराघातसङ्घातविदलन्मस्तकव्रजः ॥ २६ ॥

दूरोड्डीनकचत्खड्गखण्डतारकिताम्बरः ।
शक्तिनिर्मुक्तशक्त्यौघविभिन्नेभावृतावनिः ॥ २७ ॥

खड्गखण्डैस्तारकितं सञ्जाततारकमिवाम्बरं यत्र । शक्त्या बलेन
निर्मुक्तैः शक्त्यायुधौघैः ॥ २७ ॥

सैन्यव्याकुलवेतालललनोन्मुक्तमुद्गरः [द्धूतमुद्गरः इति
पाठः] ।
गगनोत्तम्भितोत्तुङ्गशूरतोमरतोरणः ॥ २८ ॥

गगने उत्तम्भितान्युत्तुङ्गानि शूरतोमराण्येव तोरणस्रगिव यत्र ॥ २८ ॥

भुशुण्डीभग्नखड्गौघखण्डालीव्योमकुन्तलः ।
कुन्तवेणुवनन्यस्ततापाम्बरकचच्छविः ॥ २९ ॥

खड्गखण्डालिरेव व्योम्नः कुन्तलाः केशा यत्र । कुन्तसमूहलक्षणे
वेणुवने न्यस्तः क्षिप्तस्तापो दावाग्निरिवाम्बरे कचन्ती छविः कुन्तकान्तिर्यत्र ॥
२९ ॥

खड्गर्ष्टिवृष्टिसम्पुष्टराजपूजितसैनिकः ।
शूलोत्तम्भितसच्छूरग्रहणोद्यमिताप्सराः ॥ ३० ॥

सम्पुष्टैः सन्तोषितैस्तत्स्वामिराजैः ॥ ३० ॥

गदातुषारविगलत्स्फुरिताङ्गददिङ्मुखः ।
प्रासप्रसभसम्पिष्टकष्टचेष्टतयोत्कटः ॥ ३१ ॥

गदालक्षणैस्तुषारैर्हिमैर्विगलन्ति पद्मानीव स्फुरिताङ्गददिशां भटानां
मुखानि यत्र ॥ ३१ ॥

चक्रक्रकचसञ्चारच्छिन्नाश्वनरवारणः ।
परशुव्रातसम्पातपतत्समदवारणः ॥ ३२ ॥

लकुटोल्लोडनोड्डीनप्रोड्डामरचटद्भटः ।
यन्त्रपाषाणसम्पातपिष्टकेतुरथद्रुमः ॥ ३३ ॥

तटाकश्च तडागः स्यान्मञ्चको मञ्जकस्तथा । मण्डपो मण्टपश्च
स्याल्लकुटो लगुटोऽपि च ॥ इति द्विरूपोक्तेर्लकुटैर्बृहद्यष्टिभिरुल्लोडनं
गवामिव प्रकालनं तेनोड्डीना इवादर्शनं गताः प्रोड्डामरा
उत्पतनशीलाश्चटन्तो वृक्षकुड्यचर्मादिनात्मानमावृण्वानाश्च भटा
यत्र चटे आवरणे ॥ ३३ ॥

करवालविलूनाग्रच्छत्रपङ्कजपाण्डुरः ।
क्षेपणक्षोभसङ्क्षीणसैन्यक्षोभोऽप्यलक्षणः ॥ ३४ ॥

पङ्कजैरुत्तंसपद्मैः पाण्डुरः । न लक्षयतीत्यलक्षणः सैन्यक्षोभं न
गणयतीति यावत् ॥ ३४ ॥

कबन्धबन्धसन्नेतृपातसम्पिष्टपार्श्वगः ।
साङ्कुशाङ्क्तसङ्ख्यस्थवीरवारितवारणः ॥ ३५ ॥

उत्प्लुत्य रथिकान् जीवग्राहं जिघृक्षतामन्तरा शिरश्छेदे कबन्धानां
छिन्नशिरस्कदेहानां बन्धैराश्लेषबन्धनैः सन्नेतॄणां
जीवद्रथनायकानां पातेनोत्पथप्रवृत्तरथादिभिः सम्पिष्टाः पार्श्वगा
यत्र । साङ्कुशानां हस्तिपकानामङ्कुशाघातेनाङ्कितैरपि
सङ्ख्यस्थैर्युद्धे प्रहारिभिः शूरैर्वारिता निरस्ता वारणा यत्र ॥ ३५ ॥

प्। २११)

परशुव्रातसम्पातपतत्समदवारणः ।
पाशापाशिविशेषज्ञवीरातिपरिदेवनः ॥ ३६ ॥

वीराणामतिशयितं परितो देवनं प्राणद्यूतं यत्र ॥ ३६ ॥

क्षुरिकाकुक्षिनिर्भेदगलत्पद्मपतज्जनः ।
त्रिशूलवलनोन्मत्तशूरसङ्करनर्ततः ॥ ३७ ॥

पद्मं हृदयपद्मम् । शूरसङ्कराः शूरबहुला योधास्तेषां नर्ततो
गात्रविक्षेपात् ॥ ३७ ॥

धावद्धानुष्कसम्पूर्णकुलकूजितकाकलिः [कृतकूजित इति
पाठः] ।
भिन्दिपालसटाटोपहुङ्कारारभटीनटः ॥ ३८ ॥

धनुः प्रहरणं येषां ते धानुष्काः । काकलिर्मधुरास्फुटध्वनिः ।
सटाटोपः केसराडम्बरः आरभटीसाहङ्कारनादः ताभ्यां
नृसिंहवेषनटा इव भटा यत्र ॥ ३८ ॥

वज्रमुष्टिविनिष्पिष्टपिष्टसद्भटसङ्कटः ।
श्येनवद्व्योमपदवीप्रोत्पतत्पटुपट्टिशः ॥ ३९ ॥

वज्रमुष्टिर्मल्लानां प्रसिद्धा तद्विनिष्पिष्टैः पिष्टा येऽन्ये सद्भटास्तैः
सङ्कटः । प्रोत्पतत्पटुपट्टिश इत्यसमर्थसमासश्छान्दसः ॥ ३९ ॥

अङ्कुशाकृष्टशूरेशरथेभहयकेतनः ।
हलाहलिहतालूनहेलाकुलकुलाचलः ॥ ४० ॥

शूरादिद्वन्द्वगर्भो बहुव्रीहिः । केतनानि पताकाः । हलप्रहरणं युद्धं
हलाहलि तत्र हतालूनानां हेलावहेलनं तत्राकुलाः कुलाचलवदुन्नताः
शत्रुकुले अचला निष्कम्पा वा शूरा यत्र ॥ ४० ॥

सुतालोत्तालकुद्दालनिखातवनभूतलः ।
धनुर्द्विगुणमात्रास्तलूनलोकशिलावलिः ॥ ४१ ॥

सुतालवदुन्नतपुरुषैरुत्तालकुद्दालैरुद्यतखनित्रैः
करणैर्निखातान्युन्मूलितानि समीकृतानि च । धनुःशब्देनेषुप्रक्षेपदेशो
लक्ष्यते । तद्द्विगुणमात्रदेशे युद्धसञ्चारसौकर्याय अस्ता लूनाश्छिन्ना
लोका जनाः शिलावलयश्च यत्र ॥ ४१ ॥

क्रकचोभयपार्श्वेभच्छिन्नमत्तमतङ्गजः ।
सङ्ग्रामोलूखलक्षुण्णलोकतण्डुलमौसली ॥ ४२ ॥

अत्रोलूखलादिरूपकोपपादितं मौसलं श्लेषादवघाताभेदेन विवक्षितं
मुसलयुद्धं तदत्रास्तीति मौसली ॥ ४२ ॥

अस्त्राभाशृङ्खलाजालबद्धसेनाविहङ्गमः ।
लोलासिवीरनिस्त्रिंशनीतवादिगृहाङ्गणः ॥ ४३ ॥

युद्धे लोलासयो ये वीरास्तदीयनिस्त्रिंशैः खड्गविशेषैः । वादिरत्र
वकारादिनामा वैवस्वतः । अर्थात्स एव व्याधादिपतिरिति कल्प्यते । अन्यथा
बद्धसेनाविहङ्गमानां तदङ्गणे नीतत्वायोगात् ॥ ४३ ॥

गणशो नीयमानाग्र्यश्वापदारावनिर्भरः ।
नखाङ्गुष्ठखनत्पुङ्खप्रेङ्कारणरणारवैः ॥ ४४ ॥

नीयमाना अग्र्याः युद्धनिपतितभटश्रेष्ठा यैस्तथाविधानां
श्वापदानां व्याघ्रवृकादीनाम् । नखप्रधानैरङ्गुष्ठैः खनन्त
उद्ध्रियमाणाः । आरोहति हस्तीतिवत्कर्मव्यापारांशे कर्मणः
स्वातन्त्र्यविवक्षणाच्छतृप्रत्ययः । ये पुङ्खोपलक्षितशरास्तेषां
प्रेङ्खा वेगः ॥ ४४ ॥

मरिचैर्व्यञ्जनानीव रञ्जयन्सकलारवान् ।
सैन्यनिक्षिप्तकुम्भाग्निदग्धयोधेरितायुधः [सैनिकक्षिप्त इति
पाठः] ।
सैन्यनिक्षिप्तकुम्भाग्निदग्धयोधोज्झितायुधः [ग्निमृतयोधो
जितायुधः मृतयाधेरितायुधः इति पाठौ] ॥ ४५ ॥

रञ्जयन् मिश्रणेन रोचयन् । कुम्भाग्निः प्रसिद्धः ॥ ४५ ॥

सैन्यनिक्षिप्तकुम्भस्ततप्ताङ्गारहतेक्षणः ।
सैन्यनिक्षिप्तकुम्भस्थविषवारिदलज्जनः ॥ ४६ ॥

विषवारिभ्र्दलन्तो विशीर्णाः ॥ ४६ ॥

नाराचवर्षवरवारिदवीरपूर-
मत्ताभ्रसम्भ्रमसनृत्तकबन्धवर्ही ।
कल्पान्तकाल इव वेगविवर्तमान-
मातङ्गशैलवलितो रणसम्भ्रमोऽभूत् ॥ ४७ ॥

नाराचवर्षलक्षणं वरवारि ददति तथाविधानि वीरपूरलक्षणमत्ताभ्राणि
तेषां सम्भ्रमेणविलासेन प्रनृत्तः कबन्धलक्षणा बर्हिणो यत्र । वेगेन
विवर्तमानैर्भ्रमद्भिर्मातङ्गलक्षणैः शैलैर्वलितो वेष्टितः ॥ ४७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सेनयोः
प्रथमपातवर्णनं नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
प्रथमपातवर्णनं नाम त्रयस्त्रिंशत्तमः सर्गः ॥ ३३ ॥