०३२

द्वात्रिंशः सर्गः ३२

श्रीवसिष्ठ उवाच ।

अथ वीरवरोत्कण्ठनृत्यदप्सरसि [वरात्कण्ठा इति पाठः]
स्थिता ।
लीलावलोकयामास व्योम्नि विद्यान्वितावनौ ॥ १ ॥

साङ्कल्पिकविमानस्थज्ञप्तिलीलावलोकितम् ।
सन्नद्धसेनाद्वितयं युयुत्स्वत्रोपवर्ण्यते ॥ १ ॥

विद्या सरस्वती तदन्विता लीला अवनौ सेनाद्वितयमवलोकयामासेति सम्बन्धः ॥ १

स्वराष्ट्रमण्डले भर्तृपालिते बलमालिते ।
कस्मिंश्चिद्विततारण्ये द्वितीयाकाशभीषणे ॥ २ ॥

बलेन चतुरङ्गसैन्येन मालिते वेष्टिते ।
सिंहवृश्चिकरक्षःपिशाचाधारत्वाद्द्वितीयाकाशभीषणे ॥ २ ॥

सेनाद्वितयमाक्षुब्धं सौम्याब्धिद्वितयोपमम् ।
महरम्भघनं मत्तं स्थितं राजद्वयान्वितम् ॥ ३ ॥

महद्भिरारम्भैः कार्योद्योगैः ॥ ३ ॥

युद्धसज्जं सुसन्नद्धमिद्धमग्निमिवाद्भुतम् ।
पूर्वप्रहारसम्पातप्रेक्षाक्षुब्धाक्षिलक्षितम् ॥ ४ ॥

उद्यतामलनिस्त्रिंशधारासारवहज्जनम् ।
कचत्परश्वधप्रासभिन्दिपालर्ष्टिमुद्गरम् ॥ ५ ॥

निस्त्रिंशानां खड्गानां धारा एवासारा जलधारास्तान्वहन्तो जना यत्र ।
परश्वधं परशुः । भिन्दिपालादय आयुधविशेषाः ॥ ५ ॥

प्। २०८)

गरुत्मत्पक्षविक्षुब्धवनसम्पातकम्पितम् ।
उद्यद्दिनकरालोकचञ्चत्कनककङ्कटम् ॥ ६ ॥

कङ्कटं वर्म ॥ ६ ॥

परस्परमुखालोककोपप्रोद्दामितायुधम् ।
अन्योन्यबद्धदृष्टित्वाच्चित्रं भित्ताविवार्पितम् ॥ ७ ॥

कोपात्प्रोद्दामितानि प्रोद्यतानि ॥ ७ ॥

लेखामर्यादया दीर्घबद्धया स्थापितस्थिति ।
अनिवार्यमहासैन्यझाङ्काराश्रुतसङ्कथम् ॥ ८ ॥

सर्पादिनिरोधाय मान्त्रिकोल्लिखितरेखासदृश्या
सेनाद्वयमध्यकृतरेखालक्षणया वा मर्यादया ।
झाङ्कारैर्ध्वनिभिरभिभूतत्वादश्रुताः सङ्कथा मिथोवार्ता यत्र ॥ ८ ॥

पूर्वप्रहारस्मयतश्चिरं संशान्तदुन्दुभि ।
निबद्धयोधसंस्थाननिखिलानीकमन्थरम् ॥ ९ ॥

राजाज्ञातः पूर्वं प्रहारो मा भूदिति स्मयोऽत्र शङ्का ततो
निमित्तान्निबद्धप्रायेण योधा एव संस्थानानि प्रधानावयवसन्निवेशा
यस्य तथाविधेन निखिलानीकेन मन्थरम् ॥ ९ ॥

धनुर्द्वितयमात्रात्मशून्यमध्यैकसेतुना ।
विभक्तं कल्पवातेन मत्तमेकार्णवं यथा ॥ १० ॥

धनुर्द्वितयप्रमाणं जनशून्यात्मकं यन्मध्यं तल्लक्षणेनैकसेतुना ॥
१० ॥

काये [कार्यसङ्कर इति पाठः]
सङ्कटसंरम्भचिन्तापरवशेश्वरम् ।
विरटड्भेककण्ठत्वग्भङ्गुरातुरहृद्गुहम् ॥ ११ ॥

ईश्वरौ राजानौ । भयाद्भेककण्ठत्वगिव भङ्गुरा कम्पमाना आतुराणां
भीरूणां हृद्गुहा यत्र ॥ ११ ॥

प्राणसर्वस्वसन्त्यागसोद्योगासङ्ख्यसैनिकम् ।
कर्णाकृष्टशरौघौघत्यागोन्मुखधनुर्धरम् ॥ १२ ॥

शरौघलक्षणस्यौघस्य प्रवाहस्य ॥ १२ ॥

प्रहारपातसम्प्रेक्षानिष्पन्दासङ्ख्यसैनिकम् ।
अन्योन्योत्कण्ठकाठिन्यभरभ्रुकुटिसङ्कटम् ॥ १३ ॥

युद्धोत्कण्ठया काठिन्यं निर्दयता । क्रोध इति यावत् ।
तद्भरप्रयुक्तभ्रुकुटिभिः सङ्कटं दुष्प्रेक्ष्यम् ॥ १३ ॥

परस्परसुसङ्घट्टकटुटङ्कारकङ्कटम् ।
वीरयोधमुखादग्धभीरुप्रेप्सितकोटरम् ॥ १४ ॥

सुसङ्घट्टोऽभिघातस्तेन कटुटङ्काराः कङ्कटा वारबाणा यत्र ।
वीरयोधमुखाग्निना आदग्धैरिव श्यामीकृतमुखैर्भीरुभिर्निलयनाय
प्रेप्सिता गिरिकोटरा यत्र ॥ १४ ॥

मिथःसंस्थानकालोकमात्रासन्दिग्धजीवितम् ।
समस्ताङ्गरुहासक्तप्रांशुवृद्धेभमानवम् ॥ १५ ॥

संस्थानकं युद्धं तदालोकनपर्यन्तं असन्दिग्धं जीवितं यस्य ।
सम्यगस्तैरुदञ्चितैरङ्गरुहैरासक्ता अत एवोर्ध्वं प्रांशवस्तिर्यक्च
वृद्धा उपचिता इभा मानवाश्च यत्र ॥ १५ ॥

पूर्वप्रहारसम्प्रेक्षाव्यग्रप्राणतया तया ।
संशान्तकल्लोलरवं निद्रामुद्रपुरोपमम् ॥ १६ ॥

प्राणशब्देन तद्वशं चित्तं लक्ष्यते ॥ १६ ॥

संशान्तशङ्खसङ्घाततूर्यनिर्ह्राददुन्दुभि ।
भूतलाकाशसंलीनसर्वपांसुपयोधरम् ॥ १७ ॥

पांसुपयोधरयोर्यथाक्रमं सम्बन्धः ॥ १७ ॥

पलायनपरैः पश्चात्त्यक्तमङ्गुलमण्डलम् [मङ्गलमण्डलं
इति पाठः] ।
विसारिमकरव्यूहमत्स्यसङ्ख्याब्धिभासुरम् ॥ १८ ॥

मङ्गुलाः सेनामण्डनभूताः शूराः । मकरव्यूहानां मत्स्यानां च
सङ्ख्यं युद्धं यस्मिंस्तथाविधाब्धिरिव भासुरम् ॥ १८ ॥

पताकामञ्जरीपुञ्जविजिताकाशतारकम् ।
हास्तिकोत्तम्भितकरकाननीकृतखान्तरम् ॥ १९ ॥

हास्तिकानां हस्त्यारोहाणामुत्तम्भितैरूर्घ्वीकृतैः करैः काननमिव
सम्पद्यमानं कृतं खान्तरं नभोवकाशो यस्मिन् ॥ १९ ॥

तरत्तरलभापूरसपक्षसकलायुधम् ।
धमद्धमितिशब्दैश्च श्वासोत्थैर्घ्मातखान्तरम् ॥ २० ॥

तरद्भिः प्लवद्भिस्तरलैर्भापूरैः सपक्षाणीव संवृत्तानि सकलायुधानि
यस्मिन् दुन्दुभ्यादीनां धमद्धमितिशब्दैः श्वासोत्थैः
शङ्खकाहलादिशब्दैश्च ध्मातं शब्दायमानं कृतम् ॥ २० ॥

चक्रव्यूहकराक्रान्तदुर्वृत्तसुरभासुरम् ।
गरुडव्यूहसंरम्भविद्रवन्नागसञ्चयम् ॥ २१ ॥

साम्प्रतं सेनयोः प्रदेशभेदेन व्यूहरचनाभेदं वर्णयन्विशिनष्टि -
चक्रेति । क्वचिच्चक्रव्यूहस्य करैर्निर्मातृभिः पुरुषैराक्रान्ता दुर्वृत्ता
दानवा यैस्तथाविधैः सुरैरिव भासुरम् ।
नागशब्दश्लेषभित्तिकाभेदारोपेण [श्लेषनिमित्तक इति पाठः]
सर्पात्मतया गजा उच्यन्ते ॥ २१ ॥

श्येनव्यूहविभिन्नाग्रसन्निवेशोत्तमध्वनि ।
अन्योन्यास्फोटनिःशेषप्रपतद्भूरिवृन्दकम् ॥ २२ ॥

क्वचित्तु श्येनव्यूहेन विभिन्नो विभक्तो यः प्रतिसैन्यसन्निवेशस्तेन हेतुना
उत्तमस्तारतमो ध्वनिर्यस्मिन् । क्वचित्तु अन्योन्यं प्रतिभुजास्फोटेन
संरम्भान्निःशेषं कृत्स्नशः प्रपतन्तो भूरिवृन्दकाः समूहा यस्मिन् ॥
२२ ॥

विविधव्यूहविन्यासवान्तवीरवरारवम् ।
करप्रतोलनोल्लासमत्तमुद्गरमण्डलम् ॥ २३ ॥

व्यूहविन्यासाद्वान्तानां पुरोनिर्गतानां वीराणां वर आरवो यस्मिन् । करेण
प्रतोलनमुद्यमनं तत्कृतेनोल्लासेन मत्तानीव भ्रमन्ति मुद्गरमण्डलानि
यस्मिन् ॥ २३ ॥

कृष्णायुधांशुजलदश्यामीकृतदिवाकरम् ।
अनिलाधूतपल्यूलसूत्कृताभशरध्वनि ॥ २४ ॥

कृष्णानां श्यामानामायुधानामंशुभिरिवोत्थितैर्जलदैः
श्यामीकृतस्तिरोहित इति यावत् । पल्यूलास्तृणविशेषास्तेषां सूत्कृतमिति
वायुसङ्घट्टनजन्यशब्दानुकरणम् ॥ २४ ॥

अनेककल्पकल्पाग्रसवृन्दमिव संस्थितम् ।
प्रलयानिलसङ्क्षुब्धमेकार्णवमिवोत्थितम् ॥ २५ ॥

कल्पाय प्रलयाय कल्पन्ते समर्था भवन्तीति कल्पकल्पाः
पुष्करावर्तकादिमेघाः । अनेकैस्तैरग्रे सवृन्दं सङ्घीभूतमिव ॥ २५ ॥

सद्यश्छिन्नं महामेरोः पक्षद्वयमिव स्फुरत् ।
क्षुब्धमारुतनिर्धूतमिव कज्जलपर्वतम् ॥ २६ ॥

कज्जलपर्वतोऽञ्जनाद्रिः । श्यामतमगजादिबाहुल्यात्तत्साम्योक्तिः ॥ २६ ॥

प्। २०९)

पातालकुहरात्क्षुब्धमन्धकारमिवोत्थितम् ।
लोकालोकमिवोन्मत्तनृत्यलोललसत्तटम् ।
महानरकसङ्घातं भित्त्वावनिमिवोत्थितम् ॥ २७ ॥

उन्मत्तनृत्येन लोला लसन्तश्च तटा वप्राणि यस्य ॥ २७ ॥

आलोलकुन्तमुसलासिपरश्वघांशु-
श्यामायमानदिवसातपवारिपूरैः ।
एकार्णवं भुवनकोशमिवाचिरेण
कर्तुं समुद्यतमगाधमनन्तपूरैः ॥ २८ ॥

कुन्ताद्यायुधानामंशवः किरणास्तल्लक्षणैः श्यामायमानो दिवसातपो
येभ्यस्तथाविधैर्वारिभिः पूर्यन्त इति वा वारिभिः पूरयन्ति जगदिति वा
वारिपूरा मेघास्तैर्भुवनकोशमनन्तैः पूरैः प्रवाहैरगाधमेकार्णवं
कर्तुं समुद्यतमिवेत्यर्थः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
आहवारम्भणं नाम द्वात्रिंशः सर्गः ॥ ३२ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे
आहवारम्भणं नाम द्वात्रिंशः सर्गः ॥ ३२ ॥