एकत्रिंशः सर्गः ३१
श्रीवसिष्ठ उवाच
एवमाकलयन्त्यौ ते निर्गत्य जगतो निजात् ।
अन्तःपुरं ददृशतुर्झटित्येव विनिर्गते ॥ १ ॥
पुनरन्तःपुरप्रेक्षा ब्रह्माण्डान्तरदर्शनम् ।
शूरादिलक्ष्मसन्नद्धसैन्यप्रेक्षात्र वर्ण्यते ॥ १ ॥
निजात्प्राग्भवीयाज्जगतो
निर्गत्यैवमुक्तप्रकारमनन्तकोटिब्रह्माण्डवैचित्र्यमाकलयन्त्यौ पश्यन्त्यौ
ते तेषु किञ्चिद्ब्रह्माण्डं झटित्येव प्रविश्यान्तःपुरं ददृशतुस्तत्र च न
चिरमूषतुः किन्तु झटित्येव विनिर्गते इति वक्ष्यमाणानुवादः ॥ १ ॥
स्थितपुष्पभरापूर्णमहाराजमहाशवम् ।
शवपार्श्वोपविष्टान्तश्चित्तलीलाशरीरकम् ॥ २ ॥
स्थितेत्यादिबहुव्रीहयोऽन्तःपुरविशेषणानि । अन्तःसमाध्यारूढं चित्तं
यस्मिंस्तथाविधं लीलाशरीरं यस्मिन् ॥ २ ॥
घनरात्रितयाल्पाल्पमहानिद्राजनाकुलम् ।
धूपचन्दनकर्पूरकुङ्कुमामोदमन्थरम् ॥ ३ ॥
घनशब्देन शोकप्रयुक्तदैर्घ्यं लक्ष्यते । अल्पाल्पया महानिद्रया सुषुप्त्या
युक्तैर्जनैराकुलम् ॥ ३ ॥
तमालोक्यापरं भर्तुः संसारं गन्तुमादृता ।
पपात लीला सङ्कल्पदेहेनात्रैव तन्नभः ॥ ४ ॥
अत्रैवान्तःपुर एव तन्नभः प्रागुक्तमण्डपाकाशम् ॥ ४ ॥
विवेश भर्तुः सङ्कल्पसंसारं किञ्चिदाततम् ।
संसारावरणं भित्त्वा भित्त्वा ब्रह्माण्डकर्परम् ॥ ५ ॥
प्राप सार्धं तया देव्या पुनरावरणान्वितम् ।
ब्रह्माण्डमण्डपं स्फारं तं प्रविश्य तथा जवात् ॥ ६ ॥
स्फारं विस्तीर्णम् ॥ ६ ॥
ददर्श भर्तुः सङ्कल्पजगज्जम्बालपल्वलम् ।
सिंहीव शैलकुहरं तमो जलदपङ्किलम् ॥ ७ ॥
जम्बालस्य पङ्कस्य पल्वलं वेशन्तमिव स्थितम् । तमोजलदाभ्यां पङ्किलं
सपङ्कमिव स्थितम् ॥ ७ ॥
देव्यो विविशतुस्तत्ते व्योम व्योमात्मिके जगत् ।
ब्रह्माण्डेऽन्तर्यथा पक्वं मृदुबिल्वं पिपीलिके ॥ ८ ॥
तत्र लोकान्तराण्यद्रीनन्तरिक्षमतीत्य ते ।
प्रापतुर्भूतलं शैलमण्डलाम्भोधिसङ्कुलम् ॥ ९ ॥
मेरुणालङ्कृतं जम्बूद्वीपं नवदलोदरम् ।
गवाथ भारते वर्षे लीलानाथस्य मण्डलम् ॥ १० ॥
नवदलानि नवखण्डाः । लीलानाथस्य मण्डलं राज्यं ददर्शेत्यन्वयः ॥ १०
॥
एतस्मिन्नन्तरे तस्मिन्मण्डले मण्डितावनौ ।
चक्रेऽवस्कन्दनं कश्चित्सामन्तोद्रिक्तभूमिपः ॥ ११ ॥
अवस्कन्दनं सेनया आक्रमणम् । सामन्तैर्मण्डलेश्वरैः स्वसहायैरुद्रिक्तो
विवृद्धो भूमिपः सिन्धुराजः ॥ ११ ॥
तेन सङ्ग्रामसंरम्भे प्रेक्षार्थं समुपागतैः ।
त्रैलोक्यभूतैस्तद्व्योम बभूवात्यन्तसङ्कटम् ॥ १२ ॥
तेन सह सङ्ग्रामसंरम्भे प्रसक्ते सतीति शेषः । त्रैलोक्यस्थैर्भूतैः
प्राणिभिः सङ्कटं निबिडितम् ॥ १२ ॥
अशङ्कितागते तत्ते देव्यौ ददृशतुर्नभः ।
नभश्चरगणाक्रान्तमम्बुदैरिव मालितम् ॥ १३ ॥
मिथ्यात्व निश्चयादन्तर्धानादिकुशलत्वाच्चाशङ्कितं भयशङ्कारहितं
यथा स्यात्तथा आगते । नभश्चरेत्यादीन्यारामप्रश्नान्नभसो विशेषणानि ॥
१३ ॥
सिद्धचारणगन्धर्वगणविद्याधरान्वितम् ।
शूरग्रहणसंरब्धस्वर्गलोकाप्सरोवृतम् ॥ १४ ॥
रक्तमांसोन्मुखोन्मत्तभूतरक्षःपिशाचकम् ।
पुष्पवृष्टिभिरापूर्णहस्तविद्याधराङ्गनम् ॥ १५ ॥
इत आरभ्य यथायोगं बहवो बहुव्रीहिसमासाः ॥ १५ ॥
वेतालयक्षकुश्माण्डैर्द्वन्द्वालोकनसादरैः ।
आयुधापातरक्षार्थं गृहीताद्रितटैर्वृतम् ॥ १६ ॥
वेतालादयो भूतजातिभेदाः । द्वन्द्वपदेन तत्कार्यं युद्धं लक्ष्यते ।
आयुधानां आसमन्तात्पातेभ्य आत्मनो रक्षार्थं
गृहीतान्याश्रितान्यद्रितटानि यैः ॥ १६ ॥
अस्त्रमार्गनभोभागविद्रवद्भूतमण्डलम् ।
आहोपुरुषिकाक्षुब्धप्रेक्षकामोदनोद्भटम् ॥ १७ ॥
अस्त्राणां मार्गभूतात् सन्निहितान्नभोभागात् । अहो अहं पुरुष इत्यभिमान
आहोपुरुषिका ॥ १७ ॥
आसन्नभीमसङ्ग्रामकिंवदन्तीपरस्परम् ।
लीलाहासविलासोत्कसुन्दरीधृतचामरम् ॥ १८ ॥
किंवदन्ती जनश्रुतिः । लीलासु हासविलासयोश्चोत्काभिरुत्कण्ठिताभिः ॥ १८ ॥
धर्माप्रेक्ष्यप्रयुक्ताग्र्यमुनिस्वस्त्ययनस्तवम् ।
सम्पन्नानेकलोकेशवनितावसरस्तवम् ॥ १९ ॥
धर्मातिशयेनान्यैरप्रेक्ष्याणां प्रेक्षितुमशक्यानां प्रयुक्तेन योगबलेन
चाग्र्याणां श्रेष्ठानां मुनीनां जगत्स्वस्त्ययनार्थं पठ्यमाना
देवतास्तवा यस्मिन् । सम्पन्ना अनेकेषां गन्धर्वादिलोकपालानां
वनिताविषयास्तदवसरोचिताः स्तवा यस्मिन् । अप्सरसः
स्वानुपेक्ष्याभिनवान्कान्तान्नोपगच्छेयुरिति [स्वनुपेक्ष्याभिनवान् इति
पाठः] लोकेशास्ताः स्तुवन्तीत्यर्थः ॥ १९ ॥
स्वर्गार्हशूरानयनव्यग्रेन्द्रभटभासुरम् ।
शूरार्थालङ्कृतोत्तुङ्गलोकपालाख्यवारणम् ॥ २० ॥
स्वर्गार्हाः स्वर्गालङ्करणत्वात्स्वर्गयोग्याह् । लोकपालाख्या वारणा
ऐरावतादयः ॥ २० ॥
आगच्छच्छूरसन्मानोन्मुखगन्धर्वचारणम् ।
शूरोन्मुखामरस्त्रैणकटाक्षेक्षितसद्भटम् ॥ २१ ॥
अमराणां स्त्रैणेन स्त्रीसमूहेन ॥ २१ ॥
वीरदोर्दण्डकाश्लेषलम्पटस्त्रीगणाकरम् ।
शुक्लेन शूरयशसा चन्द्रीकृतदिवाकरम् ॥ २२ ॥
यशःशैत्येनाभिभूतौष्ण्यत्वाच्चन्द्रीकृतः ॥ २२ ॥
प्। २०७)
श्रीराम उवाच ।
भगवञ्छूरशब्देन कीदृशः प्रोच्यते भटः ।
स्वर्गालङ्करणं कः स्यात्को वा डिम्भाहवो भवेत् ॥ २३ ॥
प्रसङ्गाच्छूरादिलक्षणं जिज्ञासू रामः पृच्छति - भगवन्निति ।
अनुक्तासूचितस्यापि डिम्भाहवस्यात्र लक्षणप्रशन्ः
शूरस्वर्गालङ्करणत्वव्यतिरेकात्मकत्वात्तत्प्रासङ्गिको बोध्यः ॥ २३ ॥
श्रीवसिष्ठ उवाच ।
शास्त्रोक्ताचारयुक्तस्य प्रभोरर्थेन यो रणे ।
मृतो वाथ जयी वा स्यात्स शूरः शूरलोकभाक् ॥ २४ ॥
रणे युधयत इति शेषः ॥ २४ ॥
अन्यथा प्राणिकृत्ताङ्गो रणे यो मृतिमाप्नुयात् ।
डिम्भाहवहतः प्रोक्तः स नरो नरकास्पदम् ॥ २५ ॥
अयथाशास्त्रसञ्चारवृत्तेरर्थेन युध्यते ।
यो नरस्तस्य सङ्ग्रामे मृतस्य निरयोऽक्षयः ॥ २६ ॥
पूर्वोक्तमेव स्पष्टीकुर्वन्नाह - अयथाशास्त्रेत्यादिना ॥ २६ ॥
यथासम्भवशास्त्रार्थलोकाचारानुवृत्तिमान् ।
युध्यते तादृशश्चैव भक्तः शूरः स उच्यते ॥ २७ ॥
गोरर्थे ब्राह्मणस्यार्थे मित्रस्यार्थे च सन्मते ।
शरणागतयत्नेन स मृतः स्वर्गभूषणम् ॥ २८ ॥
शरणागतस्य रक्षणार्थेन युद्धप्रयत्नेन ॥ २८ ॥
परिपाल्यस्वदेशैकपालने यः स्थितः सदा ।
राजा मृतास्तदर्थं ये ते वीरा वीरलोकिनः ॥ २९ ॥
परिपाल्यस्यावश्यम्परिपालनार्हस्य स्वदेशस्य एकपालने मुख्यवृत्त्या
रक्षणे । स्थित उद्युक्तः ॥ २९ ॥
प्रजोपद्रवनिष्ठस्य राज्ञोऽराज्ञोऽथ वा प्रभोः ।
अर्थेन ये मृता युद्धे ते वै निरयगामिनः ॥ ३० ॥
ये हि राज्ञामराज्ञां वाप्ययथाशास्त्रकारिणाम् ।
रणे म्रियन्ते छिन्नाङ्गास्ते वै निरयगामिनः ॥ ३१ ॥
अयथाशास्त्रकारिसमाश्रय एव नरकाय किम्पुनः प्रजोपद्रवकारिसमाश्रय
इत्याशयेन पुनराह - ये हीति । अयथाशास्त्रकारिणामर्थे इति शेषः ॥ ३१ ॥
धर्म्यं यथा तथा युद्धं यदि स्यात्तर्हि संस्थितिः ।
नाशयेयुरलं मत्तः परलोकभयोज्झिताः ॥ ३२ ॥
धार्मिकाश्रितस्याप्यधर्मेण युध्यतो हतस्य न स्वर्ग इत्याह - धर्म्यमिति
। धर्मादनपेतं धर्म्यम् । संस्थितिः स्वर्गे [स्वर्गस्थितिः इति पाठः]
स्थितिः । अधर्म्येणापि युद्धेन यदि हतस्य स्वर्गः स्यात्तर्हि परलोकस्य
निर्भयाः सन्तः अलमत्यर्थं अधर्मयुद्धेनापि मत्ताः
परान्नाशयेयुरित्यर्थः ॥ ३२ ॥
यत्र यत्र हतः शूरः स्वर्ग इत्यवशोक्तयः ।
धर्मे योद्धा भवेच्छूर इत्येवं शास्त्रनिश्चयः ॥ ३३ ॥
परप्राणान्निजप्राणैः पणिकृत्योद्यतायुधः । यत्र यत्र हतः शूरः
स्वर्गस्तत्र पदे पदे ॥ इत्यादिसामान्यप्रवादानां तर्हि का गतिस्तत्राह -
यत्रेति ॥ ३३ ॥
सदाचारवतामर्थे खड्गधारां सहन्ति ये ।
ते शूरा इति कथ्यन्ते शेषा डिम्भाहवाहताः ॥ ३४ ॥
तेषामर्थे रणे व्योम्नि तिष्ठन्त्युत्कण्ठिताशयाः ।
शूरीभूतमहासत्त्वदयितोक्तिसुराङ्गनाः ॥ ३५ ॥
शूरीभूतानां महासत्त्वानां महाबलानां दयिता
वयमित्युक्तिर्यस्मिन्कर्मणि तद्यथा स्यात्तथा तिष्ठन्ति । प्रतीक्षन्त इति यावत् ॥ ३५ ॥
विद्याधरीमधुरमन्थरगीतिगर्भं
मन्दारमाल्यवलनाकुलकामिनीकम् ।
विश्रान्तकान्तसुरसिद्धविमानपङ्क्ति
व्योमोत्सवोच्चरितशोभमिवोल्ललास ॥ ३६ ॥
मन्दारमाल्यानां बलना शूरोरसि प्रदानाय ग्रथनं स्वकबरीषु वेष्टनं
वा तत्राकुला व्यग्राः कामिन्यो यस्मिन् । उत्सवार्थमुच्चरिता ऊर्ध्वगता शोभा
यस्य तथाविधमिवेत्युत्प्रेक्षा ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
युद्धप्रेक्षिकास्थिताम्बरवर्णनं नामैकत्रिंशः सर्गः ॥ ३१ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे
युद्धप्रेक्षिकास्थिताम्बरवर्णनं नामैकत्रिंशः सर्गः ॥ ३१ ॥