०३०

त्रिंशः सर्गः ३०

श्रीवसिष्ठ उवाच ।

पृथिव्यप्तेजसां तत्र नभस्वन्नभसोरपि ।
यथोत्तरं दशगुणानतीत्यावरणान्क्षणात् ॥ १ ॥

तादृशास्तद्विचित्राश्च ब्रह्माण्डानन्तकोटयः ।
चिद्व्योम्नि रेणुवद्दृष्टा लीलयेत्यत्र वर्ण्यते ॥ १ ॥

नभस्वन्नभसोर्वाय्वाकाशयोः ॥ १ ॥

ददर्श परमाकाशं तत्प्रमाणविवर्जितम् ।
तथा ततं जगदिदं यथा तत्राण्डमात्रकम् ॥ २ ॥

तत् प्रागुक्तं प्रमाकाशं अविद्याशबलं चिदाकाशं यथा तत्राकाशे इदं
वर्णितब्रह्माण्डलक्षणं जगत्ततं विस्तृतं तथा अण्डमात्रकं सर्व
ब्रह्माण्डजातमपि ददर्शेत्यर्थः ॥ २ ॥

तादृशावरणान्सर्गान्ब्रह्माण्डेषु ददर्श सा ।
कोटिशः स्फुरितान्व्योम्नि त्रसरेणूनिवातपे ॥ ३ ॥

तदेव स्पष्टयति - तादृशेति । स्फुरितान् स्वप्राकाशाधिष्ठानचैतन्येन
भासितान् ॥ ३ ॥

महाकाशमहाम्भोधौ महाशून्यत्ववारिणि ।
महाचिद्द्रवभावोत्थान्बुद्बुदानर्बुदप्रभान् ॥ ४ ॥

महाशून्यत्वमविद्या सैव वारि यत्र । अर्बुदग्रहणमसङ्ख्यत्वपरम् ॥ ४ ॥

कांश्चिदापततोऽधस्तात्कांश्चिच्चोपरि गच्छतः ।
कांश्चित्तिर्यग्गतीनन्यान्स्थितांस्तब्धान्स्वसंविदा ॥ ५ ॥

इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः । सर्वगत्वात्प्रधानस्य
तिर्यगूर्ध्वमधस्थिताः ॥ इति पुराणोक्तिमनुरुध्याह - कांश्चिदिति ।
स्वसंविदा तत्तद्ब्रह्माण्डाभिमानिजीवसंविदनुसारेणेत्यर्थः ॥ ५ ॥

यत्र यत्रोदिता संविद्येषां येषां यथा यथा ।
तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा ॥ ६ ॥

इदानीन्तनक्रियावैचित्र्याद्रूपवचित्र्येणोत्पत्तिरपि [वैचित्र्याद्भूपवत्वित्र्येण
इति पाठः] प्राक्तनोपासनासंविदनुसारेणैवेत्याह - यत्रेति ॥ ६ ॥

नेहैव तत्र नामोर्ध्वं नाधो नच गमागमाः ।
अन्यदेव पदं किञ्चित्तस्माद्देहागमं हि तत् ॥ ७ ॥

इदं च तदनु भवितृदृष्ट्योक्तं परमार्थतस्तु तत्र चिदाकाशे इह
एतद्ब्रह्माण्डदेशेऽपि नैव किञ्चिदस्ति ऊर्ध्वमपि नामेत्यत्यन्तनिवारणार्थम् ।
तेषामण्डानाङ्गमनागमनान्यपि नच किन्त्वन्यदेव
किञ्चिदवाड्यानसगोचरं दिग्विभागादिसर्वद्वैतशून्यं पदं वस्त्वस्ति
तस्माद्ब्रह्माण्डजातं वर्णितं तद्देहागमं
देहप्राप्तिमज्ञदृशाभिप्रेत्य तत्तथोक्तमित्यर्थः ॥ ७ ॥

उत्पद्योत्पद्यते तत्र स्वयं संवित्स्वभावतः ।
स्वसङ्कल्पैः शमं याति बालसङ्कल्पजालवत् ॥ ८ ॥

यदि धर्म्येव नास्ति क्व तर्ह्युत्पत्त्यादिकल्पनेति चेत्तदधिष्ठानसंविद्येवेत्याह

  • उत्पद्येति । स्वभावोऽत्र स्वाविद्या ततस्तत्प्रभवैः स्वसङ्कल्पैरुत्पद्यत इव
    । शमं यातीवेत्यर्थः ॥ ८ ॥

प्। २०४)

श्रीराम उवाच ।

किमधः स्यात्किमूर्ध्वं स्यात्किं तिर्यक्तत्र भूअसुरे ।
इति ब्रूहि मम ब्रह्मन्निहैव यदि न स्थितम् ॥ ९ ॥

ननु यद्यधिष्ठाने दिग्विभागो नास्ति तर्ह्यध्यस्तेऽपि न स्यात् ।
अध्यस्तस्याधिष्ठानदिङ्मात्रनिष्ठत्वनियमादित्याशयेन रामः शङ्कते

  • किमध इति । इहाधिष्ठान एव यदि प्राङ्न स्थितं तर्हि तत्र कल्पनया
    भासुरे जगति किमधः स्यादित्यर्थः ॥ ९ ॥

श्रीवसिष्ठ उवाच ।

ससर्वावरणा एते महत्यन्तविवर्जिते ।
ब्रह्माण्डा भान्ति दुर्दृष्टेर्व्योम्नि केशोण्ड्रको यथा ॥ १० ॥

मायिके प्रपञ्चे नैतादृशनियमव्यभिचारो दोषायेत्याशयेन
प्रथम्मुत्तरमाह वसिष्ठः - ससर्वेति । दुर्दृष्टेस्तिमिरदूषितदृष्टेः ॥
१० ॥

अस्वातन्त्र्यात्प्रधावन्ति पदार्थाः सर्व एव यत् ।
ब्रह्माण्डे पार्थिवो भागस्तदधस्तूर्ध्वमन्यथा ॥ ११ ॥

सर्ववस्तूनामीश्वरेच्छापारतन्त्र्याद्वा नियमातिक्रमो न दोष इत्याशयेनाह
-अस्वातन्त्र्यादिति । यथा कदम्बकेसराणामाधारकर्णिकागोलकमपेक्ष्यैव
मूलदेशकल्पना तथा ब्रह्माण्डेषु सर्वभावनां
पृथिवीमपेक्ष्याधोदेशकल्पना । नच
वस्तवाधोदिगभावेवृन्तमुक्तस्यफलस्य गुरुत्वादधःपतने
विनिगमनाविरहः स्यादिति वाच्यम् । गुरुत्वं हि विषयाणां
स्वस्वेन्द्रियाकर्षणशक्तिरिव स्वशक्यसम्बद्धपृथिव्यादेः
स्वांशाकर्षणशक्तिरेव न गुणान्तरम् । अत एव हि
बहिर्दिग्विभागाभावाद्गुरुतमानामपि ब्रह्माण्डानां न पतनादिप्रसक्तिर्न
वा तदावरणजलादेस्तद्विश्लेषप्रसक्तिरिति नाधिष्ठानचिति
दिग्विभागापेक्षेत्याशयेन समाध्यन्तरमाह - ब्रह्माण्डे इति । पार्थिवो
महापृथ्वीरूपो ब्रह्माण्डभागस्तस्य सार्वभौतिकपदार्थस्याधः ।
अन्यथा तदन्यो नभोभाग ऊर्ध्वमिति कल्पनेत्यर्थः ॥ ११ ॥

पिपीलिकानां महतां व्योम्नि वर्तुललोष्टके ।
दशदिक्कमधः पादाः पृष्ठमूर्ध्वमुदाहृतम् ॥ १२ ॥

अयं प्रकारो भूगोलं सर्वतः खगोलेन ज्योतिश्चक्राधारेण
वेष्टितमित्यभ्युपगच्छतां ज्योतिःशास्त्रकृतामपि सम्मत इत्याशयेन
तदुदाहृतं दृष्टान्तमाह- पिपीलिकानामिति । लोष्टके मृत्पिण्डे ।
दशसु दिक्षु दशदिक्कं लग्नानां पादा अध एव पृष्ठं तु ऊर्ध्वमिति
महतां सूर्यादीनामुदाहृतं तत्सिद्धान्ते प्रसिद्धमित्यर्थः ॥ १२ ॥

वृक्षवल्मीकजालेन केषाञ्चिद्धृदि भूतलम् ।
ससुरानरदैत्येन वेष्टितं व्योम निर्मलम् ॥ १३ ॥

इत्थं शङ्कां समाधाय प्रस्तुतब्रह्माण्डानां वैचित्र्यं वर्णयितुं
प्रक्रमते - वृक्षेत्यादिना । केषाञ्चिद्ब्रह्माण्डानां हृदि
अन्तर्भूतलं वृक्षवल्मीकजालेन वेष्टितं न मनुष्यैः । व्योम तु
सुरैरनरैर्नरभिन्नैर्नरसदृशैः किम्पुरुषैर्दैत्यैश्च
सहितैस्तैस्तैर्लोकैर्वेष्टितमित्यर्थः ॥ १३ ॥

सम्भूतं सह भूतेन सग्रामपुरपर्वतम् ।
इदं कल्पनभूतेन पक्वाक्षोटमिवत्वचा ॥ १४ ॥

किञ्चित्तु ब्रह्माण्डजातं भूतेन इदं कल्पनभूतेन सद्यः कल्पनात्मकेन
चतुर्विधप्राणिवर्गेण सहैव सम्भूतमुत्पन्नम् । आक्षोटं
कन्दरालद्रुमफलम् ॥ १४ ॥

यथा विन्ध्यवनाभोगे प्रस्फुरन्ति करेणवः ।
तथा तस्मिन्पराभोगे ब्रह्माण्डत्रसरेणवः ॥ १५ ॥

विन्ध्याचलस्य वनलक्षणे आभोगे कल्पितसंस्थाने करेणवः करिण्यः । परस्य
परमात्मन आभोगे मायाशबलसंस्थाने । गजा इति वाच्ये करेणुग्रहणं
यमकार्थम् ॥ १५ ॥

तस्मिन्सर्वं ततः सर्वं तत्सर्वं सर्वतश्च यत् ।
तच्च सर्वमयो नित्यं तथा तदणुकं प्रति ॥ १६ ॥

ननु यथा ब्रह्माण्डाश्चिदाकाशं प्रत्यणवस्तथा चिदाकाशमपि
कञ्चित्पदार्थं प्रत्यणु किं न स्यात्तत्राह - तस्मिन्निति । स्थितौ तस्मिन्सर्वं
उत्पत्तौ ततः सर्वं प्रलये तत्सर्वम् । यद्यस्मादेवं तस्मात्सर्वतः सर्वदिक्षु
सर्वकालेषु सर्ववस्तुषु च तदेव । तच्च तद्यदिदंअमयोऽदोमयः सर्वमयः इति
श्रुतिप्रसिद्ध आत्मैव तथाभूतं च तत्कं प्रत्यणु स्यान्न कञ्चित्प्रतीत्यर्थः
॥ १६ ॥

शुद्धबोधमये तस्मिन्परमालोकवार्दिधौ ।
अजस्रमेत्य गच्छन्ति ब्रह्माण्डाख्यास्तरङ्गकाः ॥ १७ ॥

शुद्धबोधमये । स्वार्थे मयट् ॥ १७ ॥

अन्तःशून्याः स्थिताः केचित्सङ्कल्पक्षयरात्रयः ।
तरङ्गा इव तोयेऽब्धौ प्रोह्यन्ते शून्यतार्णवे ॥ १८ ॥

तत्र केचिद्ब्रह्माण्डा अव्याकृता एवान्तः सन्तीत्याह - अन्तरिति ।
पूर्वकल्पीयसर्वसङ्कल्पबीजलिङ्गोपाधिक्षये सति रात्रयस्तमोरूपाः सुषुप्त
इवेति यावत् । असद्वा इदमग्र आसीत् इति श्रुतावसच्छब्देनेव
शून्यताशब्देनाव्याकृतमुच्यते । तल्लक्षणे अर्णवे अम्बुधौ प्रकर्षेण
ऊह्यन्ते तर्क्यन्ते । कथमसतः सज्जायेत इति श्रुत्यौक्तयुक्त्या सन्तीति तर्क्यन्त
इत्यर्थः ॥ १८ ॥

केषाञ्चिदन्तःकल्पान्तः प्रवृत्तो घर्घरारवः ।
न श्रुतोऽन्यैर्न च ज्ञातः स्वभावेन रसाकुलैः ॥ १९ ॥

स्वभावेन स्वाभाविकेन मोहेन रसो विषयरागस्तदाकुलैरन्यैर्नच ज्ञातो नैव
ज्ञातः ॥ १९ ॥

अन्येषां प्रथमारम्भे शुद्धभूषु विजृम्भते ।
सर्गः संसिक्तबीजानां कोशेऽङ्कुरकला यथा ॥ २० ॥

अन्येषां ब्रह्माण्डानां प्रथमारम्भे प्राथमिककल्पयुगाद्यारम्भे
पूर्वोत्पन्नप्राणिभिरदूषितत्वाच्छुद्धासु भूषु भुवनेषु सर्गः प्रवर्तत
इत्यर्थः । कोशे बीजपुटे अङ्कुर एव शुभ्रत्वात्कला ॥ २० ॥

महाप्रलयसम्पत्तौ सूर्यार्चिर्विद्युतोऽद्रयः ।
प्रवृत्ता गलितुं केचित्तापे हिमकणा इव ॥ २१ ॥

केषुचिद्ब्रह्माण्डेषु महाप्रलयस्य सम्पत्तौ विभवे । विजृम्भणकाल इति
यावत् । सूर्यादयः प्रथमं भुवनं दग्ध्वा स्वयमपि गलितुं प्रवृत्ता
इत्यर्थः ॥ २१ ॥

आकल्पं निपतन्त्येव केचिदप्राप्तभूमयः ।
यावद्विशीर्य जायन्ते तथा संविन्मयाः किल ॥ २२ ॥

केचिद्ब्रह्माण्डा अप्राप्ता भूमिराधारो यैः । ननु पतनासम्भवः
प्रागुक्तस्तस्य का गतिस्तत्राह - तथेति । पतनसंविन्मयेषु पतनं न
विरुध्यत इत्यर्थः ॥ २२ ॥

प्। २०५)

स्तब्धा इव स्थिताः केचित्केशोण्ड्रकमिवाम्बरे ।
वायोः स्पन्दा इवाभान्ति तथा प्रोदितसंविदः ॥ २३ ॥

स्तब्धा निश्चला अन्ये तथा प्रोदितसंविदः । स्पन्दात्मसंविद्वासनाप्रभवा इति
यावत् ॥ २३ ॥

आचाराद्वेदशास्त्राणामाद्य एवान्यथोदिते ।
आरम्भोऽपि तथान्येषामनित्यः संस्थितः क्रमः ॥ २४ ॥

ननु धाता यथापूर्वमकल्पयत् इति श्रुत्या सर्गाणामैकरूप्यं प्रतिपादितं
तद्विरुद्धमिदं कथं वैचित्र्यमुच्यते तत्राह - आचारादिति । तया श्रुत्या
पूर्वकल्पे यादृशी धातुः सृष्टिस्तादृश्येव द्वितीयादिरिति प्रतिपाद्यते । तत्र
वेदशास्त्राणां सम्बन्धिनः
प्राग्भवीयकर्मज्ञानानुष्ठानलक्षणादाचाराद्धातृभावं प्राप्तस्य
आद्ये प्राथमिके एव सर्गे अन्यथा इतरधातृसर्गवैलक्षण्येनोदिते सति अन्येषां
तदुत्तरकल्पीयसर्गाणामारम्भोऽपि तथा पूर्ववदस्तु नाम तथापि
धात्रन्तरसर्गापेक्षया अस्य क्रमोऽनित्योऽनियत एव संस्थित इति
वैचित्र्यसिद्धिरित्यर्थः ॥ २४ ॥

केचिद्ब्रह्मादिपुरुषाः केचिद्विष्ण्वादिसर्गपाः ।
केचिच्चान्यप्रजानाथाः केचिन्निर्नाथजन्तवः ॥ २५ ॥

तपसा तोषयित्वा तु पितरं परमेश्वरम् । परस्परस्माज्जायन्ते
परस्परजयैषिणः ॥ इति पुराणेषु ब्रह्मविष्णुरुद्राणां कल्पभेदेन
परस्परस्मादुत्पत्त्यभिधानादुत्पादकप्राधान्ये तेषां गुणभेदात्सर्गस्य
सत्त्वादिगुणप्राधान्यप्रयुक्तवैचित्र्यमपि दुर्वारमित्याशयेनाह -
केचिदित्यादिना । केचिद्ब्रह्माण्डा ब्रह्मा चतुर्मुख एवादिपुरुषो येषां
तथाविधाः । विष्णुरेवादिः सर्गपः सर्गाधिनाथो येषां । अन्ये
रुद्रभैरवदुर्गाविनायकादयः प्रजानाथा येषाम् ।
तत्तन्माहात्म्यप्रतिपादकपुराणादिषु तेषामपि ब्रह्मादिनियन्तृताश्रवणात् ।
निर्नाथा नियन्तृशून्या मृगपक्ष्यादिजन्तवो येषु ॥ २५ ॥

केचिद्विचित्रसर्गेशाः केचित्तिर्यङ्मयान्तराः ।
केचिदेकार्णवापूर्णा इतरे जनिवर्जिताः ॥ २६ ॥

ब्रह्मादीनां समप्राधान्ये विचित्रसर्गेशाः । इत्थं च
प्राणिकर्मवासनावैचित्र्यात्स्रष्टॄणामिच्छाबोधादिवैचित्र्याच्च यथेच्छं
ब्रह्माण्डवैचित्र्यं सुकल्पमित्याशयेनाह - तिर्यङ्मयान्तरा इत्यादिना ॥
२६ ॥

केचिच्छिलाङ्गनिष्पिण्डाः केचित्कृमिमयान्तराः ।
केचिद्देवमया एव केचिन्नरमयान्तराः ॥ २७ ॥

निष्पिण्डा नितरां पिण्डिता निबिडा इति यावत् ॥ २७ ॥

केचिन्नित्यान्धकाराढ्यास्तथा शीलितजन्तवः ।
केचिन्नित्यप्रकाशाढ्यास्तथा शीलितजन्तवः ॥ २८ ॥

तथा शीलितादृष्टाः जन्तवः प्राणिनो येषु । पेचकादीनामन्धकारेऽपि
दर्शनदर्शनादिति भावः ॥ २८ ॥

केचिन्मशकसम्पूर्णा उदुम्बरफलश्रियः ।
नित्यं शून्यान्तराः केचिच्छून्यस्पन्दात्मजन्तवः ॥ २९ ॥

सर्गेण तादृशेनान्ये पूर्णा येऽन्तर्धियामिह ।
कल्पनामपि नायान्ति व्योमपूर्णाचलो यथा ॥ ३० ॥

तादृशेन सर्गेण पूर्णा ये सर्गा अन्तर्धियां योगिनां केऽपि
स्फुटव्यवहारकल्पनां सविकल्पकज्ञानविषयतां नायान्ति । अस्माद्धियाम् इति
पाठेऽप्यस्माकं धीरिव धीर्येषां योगिनामित्येवार्थः ॥ ३० ॥

तादृगम्बरमेतेषां महाकाशं ततं स्थितम् ।
आजीवितं प्रगच्छद्भिर्विस्ṁवाद्यैर्यन्न मीयते ॥ ३१ ॥

तादृगिति पदं देहलीदीपकन्यायेन पूर्वेणोत्तरेण च सम्बध्यते । तथाच
व्योमपूर्णाचलो यथा यादृशस्तादृगम्बरमाकाशः । अशून्यस्वभाव इति
यावत् । महाकाश महाप्रकाशं तु तादृक्तथा ततं विस्तृतं यथा
आजीवितं स्वजीवनकालमभिव्याप्य प्रगच्छद्भिर्धावद्भिरपि
विष्ण्वाद्यैर्यन्न मीयते । इयदिति न परिमीयत इत्यर्थः ॥ ३१ ॥

प्रत्येकस्याण्डगोलस्य स्थितः कटकरत्नवत् ।
भूताकृष्टिकरो भावः पार्थिवः स्वस्वभावतः ॥ ३२ ॥

नन्वस्तु ब्रह्माण्डानन्त्यं तद्वैचित्र्यं च तथापि बाह्यजलाद्यावरणानां
विधारकाभावात्कथं न विश्लेष इत्याशङ्क्य
प्रागस्मदुक्तामाकर्षणशक्तिमाश्रित्य समाधत्ते - प्रत्येकस्येति ।
भूतानामाकृष्टिराकर्षणं तत्करो भावः शक्तिविशेषः
कटकरत्नवत्परितो व्याप्तः स्थितः ॥ ३२ ॥

यः सर्वविभवोऽस्माकं धियां न विषयं ततः ।
तज्जगत्कथने शक्तिर्न [शक्तिर्मम नास्ति इति पाठः] ममास्ति
महामते ॥ ३३ ॥

जगद्विस्तारवर्णनं तदशक्तिख्यापनव्याजेनोपसंहरति - य इति । अस्माकं
धियां जगद्वर्णनविषये यः सर्वविभवः स दर्शित इति शेषः । ततः परं
यज्जगद्धियां न विषयं विषयः । विषयशब्दे क्लीबता छान्दसी । तत्कथने
मम शक्तिर्नास्तीत्यर्थः ॥ ३३ ॥

भीमान्धकारगहने सुमहृत्यरण्ये
नृत्यन्त्यदर्शितपरस्परमेव मत्ताः ।
यक्षा यथा प्रवितते परमाम्बरेऽन्त-
रेवं स्फुरन्ति सुबहूनि महाजगन्ति ॥ ३४ ॥

न मदीयवर्णनाशक्त्या इयन्त्येव जगन्तीति मन्तव्यं किन्तु
परैरलक्षितान्यप्यनन्तानि सन्ति मायायां सर्गशक्त्यानन्त्यादिति
सदृष्टान्तमाह - भीमेति । न दर्शितं परस्परं स्वरूपं यथा
स्यात्तथा यक्षा भूतगणा यथा नृत्यन्ति एवं सुबहूनि जगन्त्यविद्यावृते
ब्रह्मणि शुरन्तीत्यर्थः ॥ ३४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो०
विचित्रब्रह्माण्डकोटिवर्णनं नाम त्रिंशः सर्गः ॥ ३० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
विचित्रब्रह्माण्डकोटिवर्णनं नाम त्रिंशः सर्गः ॥ ३० ॥

प्। २०६)