०२९

एकोनत्रिंशः सर्गः २९

श्रीवसिष्ठ उवाच ।

तत्र ते तेततुर्देव्यौ ग्रामेऽन्तःशीतलात्मनि ।
भोगमोक्षश्रियौ शान्ते पुंसीव विदितात्मनि ॥ १ ॥

लीलायाः प्राक्चरित्राणां प्रत्यभिज्ञात्र वर्ण्यते ।
तथा प्रतिप्रयाणं च व्योम्नि लोकौघमण्डिते ॥ १ ॥

शान्ते शान्त्यादिसाधनसम्पन्ने ॥ १ ॥

कालेनैतावता लीला तेनाभ्यासेन साभवत् ।
शुद्धज्ञानैकदेहत्वात्त्रिकालामलदर्शिनी ॥ २ ॥

अथ सस्मार सर्वास्ताः प्राक्तनीः संसृतेर्गतीः ।
सा स्वयं स्वरसेनैव प्राग्जन्ममरणादिकाः ॥ ३ ॥

स्वरसेन अप्रयत्नेनैवेति यावत् ॥ ३ ॥

लीलोवाच ।

देवि देशमिमं दृष्ट्वा त्वत्प्रसादात्स्मराम्यहम् ।
इह तत्प्राक्तनं सर्वं चेष्टितं चेष्टितान्तरम् ॥ ४ ॥

चेष्टितान्तरं तत्प्राक्तनजन्मपरम्पराचेष्टितमपि ॥ ४ ॥

इहाभूवमहं जीर्णा शिरालाङ्गी कृशा सिता ।
ब्राह्मणी शुष्कदर्भाग्रभेदरूक्षकरोदरा ॥ ५ ॥

जीर्णा वृद्धा । शुष्कदर्भाणामग्रैस्तीक्ष्णभागैर्भेदैर्विदरणै रूक्षं
करोदरं यस्याः सा ॥ ५ ॥

भर्तुः कुलकरी भार्या दोहमन्थानशालिनी ।
माता सकलपुत्राणामतिथीनां प्रियङ्करी ॥ ६ ॥

मन्थानो दधिमन्थदण्डः ॥ ६ ॥

देवद्विजसतां भक्ता सिक्ताङ्गी घृतगोरसैः ।
भर्जनी चरुकुम्भादिभाण्डोपस्करशोधिनी ॥ ७ ॥

भर्जनी भर्जनपिठरी चरुश्चरुश्रपणस्थाली । भाण्डानामुपस्करान्तराणां
च मार्जनादिना शोधनशीला ॥ ७ ॥

प्। २०१)

नित्यमन्नलवाक्तैककाचकम्बुप्रकोष्ठका ।
जामातृदुहितृभ्रातृपितृमातृप्रपूजनी ॥ ८ ॥

एकं काचकम्बु काचवलयं । बहूनां धारणे कर्मत्वरयाभिघाते
भङ्गापत्तेः ॥ ८ ॥

आदेहं सद्मभृत्यैव प्रक्षीणदिनयाइनी ।
वाचं चिरं चिरमिति वादिन्यनिशमाकुला ॥ ९ ॥

देहपदेन तत्पातो लक्ष्यते । सद्मभृतिर्गृहपोषणम् ।
पुत्रस्नुषाभृत्यवर्गान्प्रति कर्मत्वरार्थं चिरं त्वया स्नातं चिरं त्वया
विलम्बितं किं चिरायसे इत्यादिवदनशीला । आकुला व्यग्रा ॥ ९ ॥

काहं क इव संसार इति स्वप्नेऽप्यसङ्कथा ।
जाया श्रोत्रियमूढस्य तादृशस्यैव दुर्धियः ॥ १० ॥

तादृशस्य ममेवात्यन्तगृहकर्मासक्तस्येति यावत् । दुर्धियः
अविशुद्धबुद्धः ॥ १० ॥

एकनिष्ठा समिच्छाकगोमयेन्धनसञ्चये ।
म्लानकम्बलसंवीतशिरालकृशगात्रिका ॥ ११ ॥

समिदादिसञ्चयविषये एकनिष्ठा एकाग्रचित्ता । सावधानेति यावत् ॥ ११ ॥

तर्णकीकर्णजाहस्थकृत्मिनिष्कासतत्परा ।
गृहशाकायनासेकसत्वराहूतकर्परा ॥ १२ ॥

तर्णकी वत्सा तस्याः कर्णजाहे कर्णमूले स्थितानां कृमीणां निष्कासनं
निष्कासस्तत्र तत्परा । तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ इति जाहच्
। गृहे कृतं शाकायनं शाककेदारस्तस्यासेकायाहूतानि
सेकसाधनकर्पराणि यया । कर्परपदेन तत्पाणयो भृत्या लक्षणयोच्यन्ते ॥
१२ ॥

नीलनीरतरङ्गान्ततृणतर्पिततर्णिका ।
प्रतिक्षणं गृहद्वारकृतलेपनवर्णका ॥ १३ ॥

नीलैर्नीरतरङ्गाणामन्तोऽवधिः कूलं तत्रत्यतृणैः
स्नेहात्स्वयमाहृतैस्तर्पितास्तर्णिकाः बालवत्सा यया । गृहद्वारे
कृतालेपनं तत्र वर्णका रङ्गवल्लीरचनाश्च यया ॥ १३ ॥

नीत्यर्थं गृहभृत्यानामादीनकृतवाच्यता ।
मर्यादानियमादब्धेर्वेलेवानिशमच्युता ॥ १४ ॥

नीतिर्विनयाचारादिशिक्षणं तदर्थम् । आदीनभीषद्दैन्ययुक्तं यथा स्यात्तथा
कृताः प्रकाशिता वाच्यता जनवचनीयता ईदृशानां गृहे कथमेवंशीला
अविनीता भृत्यास्तिष्ठन्तीत्येवं वक्ष्यन्ति जना-इत्येवमादिरूपा यया ।
स्वचरित्रेणापि तन्मर्यादाशिक्षकत्वमाह - मर्यादेति ॥ १४ ॥

जीर्णपर्णसवर्णैककर्णदोलाधिरूढया ।
काष्ठताड्यजराभीतजीववृत्त्येव चिह्निता ॥ १५ ॥

एवं चिरं स्थितायाः स्वस्या जराप्रकर्षेण वामकर्णबाधिर्ये शिरःप्रकम्पे
कुब्जात्वे यष्ट्यवलम्बनाधीने च सञ्चारे या जीवनदशा तां वर्णयति -
जीर्णेति । जीर्णपर्णसमानवर्णस्य देहस्यैको दक्षिणो यः कर्णः स एव
शिरःकम्पेन कम्पमानत्वाद्दोला तदधिरूढयेव
तदधीनश्रवणव्यवहारया अत एवावलम्बनकाष्ठस्योन्नयने
तत्ताडनार्हयेव जरायाः सकाशाद्भीतयेव चरमजीवनवृत्त्या
चिह्नितेवात्रासमित्यर्थः ॥ १५ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा सञ्चरन्ती सा शिखरिग्रामकोटरे ।
सञ्चरन्त्याः सरस्वत्या दर्शयामास सस्मयम् ॥ १६ ॥

सञ्चरन्ती भ्रमन्ती । स्मयोऽत्र विस्मयः ॥ १६ ॥

इयं मे पाटलाखण्डमण्डिता पुष्पवाटिका ।
इयं मे पुष्पितोद्यानमण्डपाशोकवाटिका [शोकपेटिका इति
पाठः] ॥ १७ ॥

पाटलैर्गुल्मैरखण्डमखण्डितं मण्डिता ॥ १७ ॥

इयं पुष्करिणीतीरद्रुमाऽग्रन्थिततर्णका ।
इयं सा कर्णिकानाम्नी तर्णिका मुक्तपर्णिका ॥ १८ ॥

आग्रन्थिता ईषद्ग्रन्थिनिबद्धास्वर्णका यस्याः मुक्तपर्णिका
मद्वियोगदुःखादित्यार्थिकं लभ्यते ॥ १८ ॥

इयं सा मेऽलसाकीर्णा वराकी जलहारिका ।
अद्याष्टमं दिनं वाष्पक्लिन्नाक्षी परिरोदिति ॥ १९ ॥

अलसा दुःखात्स्वकार्याक्षमेति यावत् । कीर्णा रजोभिरिति शेषः ॥ १९ ॥

इह देवि मया भुक्तमिहोपितमिह स्थितम् ।
इह सुप्तमिहापीतमिह दत्तमिहाहृतम् ॥ २० ॥

आहृतमानीतं फलधान्यादि ॥ २० ॥

एष मे ज्येष्ठशर्माख्यः पुत्रो रोदिति मन्दिरे ।
एषा मे जङ्गले धेनुर्दोग्ध्री चरति शाद्बलम् ॥ २१ ॥

गृहे वसन्तदाहाय रूक्षक्षारविधूसरम् ।
स्वदेहमिव पञ्चाक्षं पश्येमं प्रघणं मम ॥ २२ ॥

वसन्तारम्भे होलिकादाहाय कृतमिति शेषः । क्षारेण भस्मना विधूसरम् ।
स्वदेहमिव मम प्रियमिति शेषः । पञ्चाक्षा गवाक्षा यस्मिन् देहपक्षे
अक्षाणि ज्ञानेन्द्रियाणि । प्रपणं बहिर्द्वारप्रकोष्ठम् ॥ २२ ॥

तुम्बीलताभिरुग्राभिः पुष्टाभिरिव वेष्टितम् ।
महानसस्थानमिदं मम देहमिवापरम् ॥ २३ ॥

तुम्बीलताभिरलादुवल्लीभिः उग्राभिः कटुभिः पुष्टाभिः स्वेनारोप्य
पोषिताभिरिव वेष्टितं योग्यतया छदिप्रदेशे इति गम्यते । महानसस्थानं
पाकस्थानम् ॥ २३ ॥

एते रोदनताम्राक्स्।आ बन्धवो भुव बन्धनम् ।
अङ्गदार्पितरुद्राक्षा आहरन्त्यनलेन्धनम् ॥ २४ ॥

बन्धनं प्रत्यक्षबन्धनभूता बन्धवः ॥ २४ ॥

अनारतं शिलाकच्छे गुच्छाच्छोटनकारिभिः ।
तरङ्गैः स्थगिताकारं स्पृष्टतीरलतादलैः ॥ २५ ॥

शिलाप्रचुरे कच्छे आच्छोटनमास्फालनम् ।
उत्पलसीकरैरित्यन्तविशेषितैस्तरङ्गेः साधनैः स्थगिताकारं
तिरस्कृतस्वरूपं यथा स्यात्तथा तुषारीकृताः मध्याह्नदिवाकरकरोत्करा
यैस्तथाविधैस्तटद्रुमैर्व्याप्तया ग्रामकुल्यया वेष्टितोऽयं गृहमण्डप
आलक्ष्यते इत्युत्तरैरन्वयः ॥ २५ ॥

सीकराकीर्णपर्यन्तशाद्बलस्थलसल्लतैः ।
शिलाफलहकास्फालफेनिलोत्पलसीकरैः ॥ २६ ॥

सीकरव्याप्ताग्राः शाद्वलस्थलस्थाः सङ्कता येषाम् । फलहकानि फलकानि
तेष्वास्फालनमास्फालस्तेन फेनिला उत्पलवासितसीकरा येषाम् ॥ २६ ॥

प्। २०२)

तुषारीकृतमध्याह्नदिवाकरकरोत्करैः ।
फुल्लपुष्पोत्करासारप्रनादोत्कतटद्रुमैः ॥ २७ ॥

फुल्लपुष्पोत्करानासरन्ति आगच्छन्तीति फुल्लपुष्पोत्करासारा
भ्रमरास्तत्प्रणादैरुत्कैरुत्कण्ठितैरिव स्थितैस्तटद्रुमैः ॥ २७ ॥

विद्रुमैरिव सङ्क्रान्तफुल्लकिंशुककान्तिभिः ।
व्याप्तया पुष्पराशीनां समुल्लासनकारिभिः ॥ २८ ॥

प्रतिबिम्बेन सङ्क्रान्तानामन्तर्निविष्टानां फुल्लकिंशुकानां पलाशानां
कान्तिभिर्विद्रुमैः प्रवालैरिव पुष्पराशीनां समुल्लासनं मण्डनं
तत्कारिभिर्द्रुमैर्व्याप्तया ॥ २८ ॥

उह्यमानफलापूरसुव्यग्रग्रामबालया ।
महाकलकलावर्तमत्तया ग्रामकुल्यया ॥ २९ ॥

प्रवाहैरुह्यमाने आम्रादिफलानामापूरे तृष्णाभयाभ्यां सुव्यग्रा
ग्रामबाला यस्याम् । महाकलकलैर्बहुकोलाहलैरावर्तैर्मत्तयेव ॥ २९ ॥

वेष्टितस्तरलास्फालजलधौततलोपलः ।
घनपत्रतरुच्छन्नच्छायासततशीतलः ॥ ३० ॥

अयमालक्ष्यते फूल्ललतावलनसुन्दरः ।
दलद्गुलुच्छकाच्छन्नगवाक्षो गृहमण्डपः ॥ ३१ ॥

वलनं वेष्टनं तेन सुन्दरः । गलद्भिर्विशीर्यमाणैर्गुलुच्छकैः
फलपुष्पगुच्छैश्छन्नगवाक्षः ॥ ३१ ॥

अत्र मे संस्थितो भर्ता जीवाकाशतयाऽकृतिः ।
चतुःसमुद्रपर्यन्तमेखलाया भुवः पतिः ॥ ३२ ॥

जीवाकाशतया हेतुना अकृतिरक्रियोऽपि भुवः पतिर्भूत्वा संस्थितः ॥ ३२ ॥

आ स्मृतं पूर्वमेतेन किलासीदभिवाञ्छितम् ।
शीघ्रं स्यामेव राजेति तीव्रसंवेगधर्मिणा ॥ ३३ ॥

आ इति निपातो नत्वाङ् । स्मरणे ङित्वाभावात् । तीव्रसंवेगो दृढाध्यवसायः
॥ ३३ ॥

दिनैरष्टभिरेवासौ तेन राज्यं समृद्धिमत् ।
चिरकालप्रत्ययदं प्राप्तवान्परमेश्वरि ॥ ३४ ॥

अत्रासौ भर्तृजीवो मे स्थितो व्योम्नि गृहे नृपः ।
अदृश्यः खे यथा वायुरामोदो वानिले यथा ॥ ३५ ॥

इहैवाङ्गुष्ठमात्रान्ते तद्व्योम्न्येव पदं स्थितम् ।
मद्भर्तृराज्यं समवगतं योजनकोटिभाक् ॥ ३६ ॥

स्थितं पदं परमार्थवस्तुयोजनकोटिभाक् समधिगतं भ्रान्त्येत्यर्थः ॥ ३६

आवां खमेव खस्थं च भर्तृराज्यं ममेश्वरि ।
पूर्णं सहस्रैः शैलानां महामायेयमातता ॥ ३७ ॥

खमत्र चिदाकाशम् ॥ ३७ ॥

तद्देवि भर्तृनगरं पुनर्गन्तुं ममेप्सितम् ।
तदेहि तत्र गच्छावः किं दूरं व्यवसायिनाम् ॥ ३८ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा प्रणता देवीं सा प्रविश्याशु मण्डपम् ।
विहङ्गीव तया साकं पुप्लुवे सिनिभं [सितिभं इति पाठः] नमः
॥ ३९ ॥

नभो मण्डपान्तःकल्पितं महाकाशं पुप्लुवे उदडीयत ॥ ३९ ॥

भिन्नाञ्जनचयप्रख्यं सौम्यैकार्णवसुन्दरम् ।
नारायणाङ्गसदृशं भृङ्गपृष्टामलच्छवि ॥ ४० ॥

सौम्येनाक्षुब्धेन । निश्चलेनेति यावत् । एकार्णवेन सन्निभं तुल्यम् ॥ ४० ॥

मेघमार्गमतिक्रम्य वातस्कन्धावनिं तथा ।
सौरमार्गमथाक्रम्य चन्द्रमार्गमतीत्य च ॥ ४१ ॥

अवनिशब्दः प्रदेशपरः ॥ ४१ ॥

ध्रुवमार्गोत्तरं गत्वा साध्यानां मार्गमेत्य च ।
सिद्धानां समतीत्योर्वीमुल्लङ्घ्य स्वर्गमण्डलम् ॥ ४२ ॥

मार्गशब्दो लोकपरो ध्रुवस्य मार्गाभावात् । एवमुर्वीपदमपि ॥ ४२ ॥

ब्रह्मलोकोत्तरं गत्वा तुषितानां च मण्डलम् ।
गोलोकं शिवलोकं च पितृलोकमतीत्य च ॥ ४३ ॥

तुषितानां नित्यसन्तुष्टानां मण्डलं वैकुण्ठम् । जगतः पितरौ शिवौ
लोक्येते यत्रेति पितृभ्यां वालोक्यत इति पितृलोकोऽत्र शिवलोक एव ।
कव्यवाडादिपितृदेवाधिष्ठितलोकस्य दूरमध एवावस्थानादत्राप्रसक्तेः ॥
४३ ॥

विदेहानां सदेहानां लोकानुत्तीर्य [लोकमुत्तिर्य इति पाठः]
दूरगम् ।
दूराद्दूरमथो गत्वा किञ्चिद्बुद्धा बभूव सा ॥ ४४ ॥

पुराणेषु सदेहाश्च विदेहाश्च भवन्त्यात्मेच्छया पुनः इति
शिवसारूप्यमुक्तिं प्राप्तानां द्वेधावस्थानोक्तेस्तेषां लोकम् ।
अपरिच्छिन्नस्वरूपविस्मरणात्किञ्चिद्बुद्धा ॥ ४४ ॥

पश्चादालोकयामास समतीतं नभस्थलम् ।
यावन्न किञ्चिच्चन्द्रार्कताराद्यालक्ष्यते ह्यधः ॥ ४५ ॥

यावत्कालं यावद्दूरं च न किञ्चिदालक्ष्यते तमश्च स्थितं
तावत्पश्चादालोकयामासेति पूर्वेणान्वयः ॥ ४५ ॥

तमस्तिमितगम्भीरमाशाकुहरपूरकम् ।
एकार्णवोदरप्रख्यं शिलोदरघनं स्थितम् ॥ ४६ ॥

आशा दशदिशस्तत्कुहराणां छिद्राणां पूरकम् ॥ ४६ ॥

लीलोवाच ।

तद्देवि भास्करादीनां क्वाधस्तेजो गतं वद ।
शिलाजठरनिष्पन्दं मुष्टिग्राह्यं तमः कुतः ॥ ४७ ॥

तत्तत्र । घनत्वान्मुष्टिग्राहमिव मुष्टिग्राह्यम् । कुतः प्राप्तमिति शेषः ॥ ४७ ॥

श्रीदेव्युवाच ।

एतावतीमिमां व्योम्नः पदवीमागतासि भोः ।
अर्कादीन्यपि तेजांसि यतो दृश्यन्त एव नो ॥ ४८ ॥

यथा महान्धकूपाधः खद्योतो नावलोक्यते ।
पृष्ठगेन तथेहातो नाधः सूर्योऽवलोक्यते ॥ ४९ ॥

खं द्योतयति खे द्योतत इति वा खद्योतो ज्योतिरिङ्गणः पृष्ठगेन
दूरोर्ध्वदेशस्थितेन नावलोक्यते तथेत्यर्थः ॥ ४९ ॥

लीलोवाच ।

अहो नु पदवीं दूरमावामेतामुपागते ।
सूर्योऽप्यधोणुकणवन्न मनागपि लक्ष्यते ॥ ५० ॥

पदवीं पन्थानम् । अणोस्त्र्यणुकस्य कणः परमाणुस्तद्वत् ॥ ५० ॥

प्। २०३)

इत उत्तरमन्या स्यात्पदवी का नु कीदृशी ।
कथं च मातरेतव्या कथ्यतामिति देवि मे ॥ ५१ ॥

एतव्या गन्तव्या ॥ ५१ ॥

श्रीदेव्युवाच ।

इत उत्तरमग्रे ते ब्रह्माण्डपुटकर्परम् ।
यस्य चन्द्रादयो नाम धूलिलेशाः समुत्थिताः ॥ ५२ ॥

पुटस्य सम्पुटस्य कर्परमूर्ध्वखर्परम् । धूलिलेशा इव ॥ ५२ ॥

श्रीवसिष्ठ उवाच ।

इति प्रकथयन्त्यौ ते प्राप्ते ब्रह्माण्डकर्परम् ।
भ्रमर्याविव शैलस्य कुड्यं निबिडमण्डपम् ॥ ५३ ॥

निबिडमण्डपं निश्छिद्रगर्भमिति यावत् ॥ ५३ ॥

अक्लेशेनैव ते तस्मान्निर्गते गगनादिव ।
निश्चयस्थं हि यद्वस्तु तद्वज्रगुरु नेतरत् ॥ ५४ ॥

निश्चयः सत्यताध्यवसायस्तत्स्थम् । कल्पितकुड्यादिवस्तु ।
इतरन्मिथ्यात्वबुद्धिभाधितम् ॥ ५४ ॥

निरावरणविज्ञाना सा ददर्श ततस्ततम् ।
जलाद्यावरणं पारे ब्रह्माण्डस्यातिभासुरम् ॥ ५५ ॥

ब्रह्माण्डाद्दशगुणतस्तोयं तत्र व्यवस्थितम् ।
आस्थितं वेष्टयित्वा तु त्वगिवाक्षोटपृष्ठगा ॥ ५६ ॥

आक्षोटबीजकर्परपृष्ठगा ॥ ५६ ॥

तस्माद्दशगुणो वह्निस्तमाद्दशगुणोऽनिलः ।
ततो दशगुणं व्योम ततः परममम्बरम् ॥ ५७ ॥

परमं शुद्धम् । अम्बरं चिदाकाशः । अविद्याया
नष्टत्वेनाव्याकृताकाशपरिशेषात् ॥ ५७ ॥

तस्मिन्परमके व्योम्नि मध्याद्यन्तविकल्पनाः ।
न काश्चन समुद्यन्ति वन्ध्यापुत्रकथा इव ॥ ५८ ॥

तस्यापरिच्छिन्नतामाह - तस्मिन्निति ॥ ५८ ॥

केवलं विततं शान्तं तदनादि गतभ्रमम् ।
आद्यन्तमध्यरहितं महत्यात्मनि तिष्ठति ॥ ५९ ॥

महत्यात्मनि तिष्ठति । स्वे महिम्नि प्रतिष्ठितः इति श्रुतेरित्यर्थः ॥ ५९ ॥

आकल्पमुत्तमबलेन शिला पतेच्चे-
त्तस्मिन्बलात्पतगराडपि चोत्पतेच्चेत् ।
तद्योजनं न लभते विमलेऽम्बरेऽन्त-
र्माकल्पमेकजवगोऽप्यथ मारुतोऽपि ॥ ६० ॥

तस्मिन्विमलेऽम्बरे । ऊर्ध्वदेशादाकल्पं शिला उत्तमवलेनातिजवेन
पतेच्चेदधोदेशाद्गरुडराडप्याकल्पमुत्पतेच्चेत् अथ तयोरन्तः अन्तराले
मानं मा तत्कल्पं तत्समर्थं यथा स्यात्तथा उभयत एकजवगोऽपि
मारुतस्तयोर्योजनं मेलनं न लभते किं पुनः परितोऽन्तमिति
सर्वतोऽप्यपरिच्छिन्नं तदित्यर्थः ॥ ६० ॥

इत्यार्षे श्रीवासिस्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
परमाकाशवर्णनं नामैकोनत्रिंशः सर्गः ॥ २९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
परमाकाशवर्णनं नामैकोनत्रिंशः सर्गः ॥ २९ ॥