०२८

अष्टाविंशः सर्गः २८

श्रीराम उवाच ।

वज्राङ्गसाराद्ब्रह्माण्डकुड्यान्निबिडमण्डलात् ।
कोटियोजनसम्पुष्टात्कथं ते निर्गतेऽबले ॥ १ ॥

दृष्टप्रपञ्चमिथ्यात्वाच्चिदाकाशस्य सत्यता ।
पर्वतो विस्तरेणात्र गिरिग्रामश्च वर्ण्यते ॥ १ ॥

वज्राङ्गमिव साराद्दृढात् । पूर्वोक्तरीत्यानेककोटियोजनं सम्यक् पुष्टं
अन्तर्घनं यस्य तथाभूतात् । मिथ्याभूतकुड्यादेरपि स्वप्ने
गतिनिरोधकत्वदर्शनान्निर्गमनानुपपत्तिरिति शङ्कितुराशयः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

क्व ब्रह्माण्डं क्व तद्भित्तिः क्वात्रासौ वज्रसारता ।
किलावश्यं स्थिते देव्यावन्तःपुरवराम्बरे ॥ २ ॥

अबाधितावस्थमस्तु निरोधकं न बाधितं स्वप्नेऽपि तददर्शनादित्याशयेन
वसिष्ठः परिहरति - क्व ब्रह्माण्डमित्यादिना । अवश्यं वस्तुतः ।
देव्याविति राजवाचकदेवशब्दनिष्पन्नदेवीशब्दस्यान्यस्य चैकशेषः ॥ २ ॥

तस्मिन्नेव गिरिग्रामे तस्मिन्नेवालयाम्बरे ।
ब्राह्मणः स वसिष्ठाख्य आस्वादयति राजताम् ॥ ३ ॥

आस्वादयत्यनुभवति विदूरथः सन् ॥ ३ ॥

तमेव मण्डपाकाशकोणकं शून्यमात्रकम् ।
चतुःसमुद्रपर्यन्तं भूतलं सोऽनुभूतवान् ॥ ४ ॥

अनुभूतवान् पद्मभूपालः सन् ॥ ४ ॥

आकाशात्मनि भूपीठं तस्मिंस्तद्राजपत्तनम् ।
राजसद्मानुभवति स च सा चाप्यरुन्धती ॥ ५ ॥

पत्तनं नगरं तस्मिन् राजसद्म । सा चानुभवतीति वर्तमानसामीप्ये
वर्तमानवन्निर्देशः । विदूरथवासनाजन्यवक्ष्यमाणलीलान्तरात्मतां
प्राप्ता वा सा अरुन्धती अनुभवतीति मुख्यवर्तमानोपपत्तिः ॥ ५ ॥

लीलाभिधाना स जाता तया च ज्ञप्तिरर्चिता ।
ज्ञप्त्या सह समुल्लङ्घ्य खमाश्चर्यमनोहरम् ॥ ६ ॥

प्रादेशमात्रे [प्रदेशमात्रे इति पाठः] नभसि सा तत्रैव
गृहोदरे ।
ब्रह्माण्डान्तरमासाद्य गिरिग्रामकमन्दिरे ॥ ७ ॥

ब्रह्माण्डात्परिनिर्गत्य स्वगृहे स्थितिमाययौ ।
स्वप्नात्स्वप्नान्तरं प्राप्य यथा तल्पगतः पुमान् ॥ ८ ॥

प्रतिभामात्रमेवैतत्सर्वमाकाशमात्रकम् ।
न ब्रह्माण्डं न संसारो न कुड्यादि न दूरता ॥ ९ ॥

प्रतिभा भ्रान्तिस्तन्मात्रम् ॥ ९ ॥

स्वचित्तमेव कचति तयोस्तादृङ्मनोहरम् ।
वासनामात्रसोल्लेखं क्व ब्रह्माण्डं क्व संसृतिः ॥ १० ॥

वासनामात्रेण सोल्लेखं तत्तत्पदार्थव्यवहारोल्लेखसहितम् । तयोः
स्वचित्तमेव तथा कचति प्रथते ॥ १० ॥

निरावरणमेवेदं ज्ञप्त्याकाशमनन्तकम् ।
किञ्चित्स्वचित्तेनोन्नीतं स्पन्दयुक्त्येव मारुतः ॥ ११ ॥

ज्ञप्त्याकाशं चिदाकाशमेव ताभ्यां स्वचित्ते न
किञ्चिद्ब्रह्माण्डरूपमुन्नीतं कल्पितम् । यथा आकाशमेव स्पन्दयोगेन
मारुत इति कल्प्यते तद्वत् ॥ ११ ॥

चिदाकाशमजं शान्तं सर्वत्रैव हि सर्वदा ।
चित्त्वाज्जगदिवाभाति स्वयमेवात्मनात्मनि ॥ १२ ॥

जगदिवाभाति । येन न बुद्धं तद्दृशेति शेषः ॥ १२ ॥

येन बुद्धं तु तस्यैतदाकाशादपि शून्यकम् ।
न बुद्धं येन तस्यैतद्वर्जसाराचलोपमम् ॥ १३ ॥

येन बुद्धं तस्य दृशा तु नास्त्येवेत्याह - येनेति । कथं तर्ह्यन्योऽपि
ब्रह्माण्डकुड्याद्बहिर्न निःसरति तत्राह - न बुद्धमिति ॥ १३ ॥

गृह एव यथा स्वप्ने नगरं भाति भासुरम् ।
तथैतदसदेवान्तश्चिद्धातौ भाति भास्वरम् ॥ १४ ॥

प्। १९८)

यथ मरौ जलं बुद्धं कटकत्वं च हेमनि ।
असत्सदिव भातीदं तथा दृश्यत्वमात्मनि ॥ १५ ॥

दृश्यत्वं दृश्यप्रपञ्चरूपत्वम् ॥ १५ ॥

एवमाकथयन्त्यौ ते ललने ललिताकृती ।
गृहान्निर्ययतुर्बाह्यं चारुचङ्क्रमणक्रमैः ॥ १६ ॥

बाह्यं देशम् । चङ्क्रमणं गतिः ॥ १६ ॥

आदृश्ये ग्रामलोकेन प्रेक्षमाणे पुरोगिरिम् ।
चुम्बिताकाशकुहरं संस्पृष्टादित्यमण्डलम् ॥ १७ ॥

आकाशस्य कुहरम्मध्यच्छिद्रम् । राहोः शिर इतिवद्भेदकल्पना ।
संस्पृष्टादित्यमण्डलमित्यतिशयोक्तिः ॥ १७ ॥

नानावर्णाखिलोत्फुल्लविचित्रवननिर्मलम् ।
नानानिर्झरनिर्ह्रादकूजद्वनविहङ्गमम् ॥ १८ ॥

विचित्रमञ्जरीपुञ्जपिञ्जराम्बुदमण्डलम् ।
स्वभ्रमच्छगुलुच्छाग्रविश्रान्तखगसारसम् ॥ १९ ॥

मञ्जरीपुञ्जपिञ्जराणि अत एव विचित्राण्यम्बुदमण्डलानि यस्येति
वृक्षौन्नत्योक्तिः । अत एव स्वभ्रं शोभनाभ्रयुक्तम् । गुलुच्छा
लताविशेषाः ॥ १९ ॥

सारवञ्जुलविस्तारगुप्ताखिलसरित्तटम् ।
असमाप्तशिलाश्वभ्रलतावर्तनमारुतम् ॥ २० ॥

सारैर्बलवद्भिर्वञ्जुलानामतिमुक्तकानामम्बुवेतसानां वा
मूलविस्तारैर्गुप्तानि पतनाद्रक्षितानि सरित्तटानि यत्र । न सम्यगाप्ताः प्राप्ता
वृक्षावलम्बनं याः शिलाश्वभ्रोत्पन्नलतास्तासामावर्तनः परिवर्तनो
मारुतो यस्मिन् ॥ २० ॥

पुष्पाग्रपिहिताकाशकोशकुड्यकवारिदम् ।
पतद्दीर्घसरित्स्रोतःस्फुरन्मुक्ताकलापकम् ॥ २१ ॥

पुष्पाण्यग्रे येषं तैः शिखरद्रुमैः पिहिता आकाशकोशस्य कुड्यकाः
कुड्यप्रतिकृतिभूता वारिदा यस्य । सरित्स्रोतांस्येव स्फुरन्मुक्तामाला यस्य ॥
२१ ॥

चलद्वृक्षवनव्यूहवातवेल्लिसरित्तटम् ।
नानावनाकुलोपान्तच्छायासततशीतलम् ॥ २२ ॥

चलद्वृक्षा वनव्यूहा येषु अत एव वातेन वेल्लिनो वेष्टनशीलाः सरित्तटा
यस्मिन् ॥ २२ ॥

अथ ते ललने तत्र तदा ददृशतुः स्वयम् ।
तं गिरिग्रामकं व्योम्नः स्वर्गखण्डमिव च्युतम् ॥ २३ ॥

गिरिमभिवर्ण्य गिरिग्रामं वर्णयितुमाह - अथेति ॥ २३ ॥

रटत्प्रणालीपटलं पूर्णपुष्करिणीगणम् ।
द्विजैः कुचकुचैः कूजत्स्वलीलाश्वभ्रकच्छकम् ॥ २४ ॥

रटदिति विशेषणाद्घटीयन्त्रादिप्रणाल्यो ग्राह्याः । कुचकुचैरिति
शब्दानुकरणेन ताद्रूप्यारोपोक्तिः । तथाविधर्द्विजैः पक्षिभिः कूजन्तः
स्वस्य ग्रामस्य लीलार्थाः श्वभ्रकच्छा यस्मिन् ॥ २४ ॥

गच्छद्गोवृन्दहुङ्कारकरालाखिलकुञ्जकम् ।
कुञ्जगुल्मकखण्डाढ्यं सच्छायघनशाद्वलम् ॥ २५ ॥

तत्र गोसम्पत्तिमाह - गच्छदिति । गवां यवसच्छायादिसमृद्धिमाह

  • कुञ्जेति ॥ २५ ॥

दुष्प्रवेशार्ककिरणं दृशन्नीहारधूसरम् ।
उदग्रमञ्जरीपुञ्जजटालं विशिखान्तरम् ॥ २६ ॥

दृषद्भिः शिलाभिर्नीहारैश्च धूसरं भस्मोद्धूलितमिव ।
उन्नम्राग्रैर्मञ्जरीपुञ्जैर्जटा इव लम्बीनि शिखान्तराणि कतिपयशिखा यस्य ॥
२६ ॥

शिलाकुहरवाःस्फालप्रोच्चलन्मुक्तनिर्झरैः [रवाःस्फार इति
पाठः] ।
स्मारिताचलनिर्धूतक्षीरोदकजलश्रियम् ॥ २७ ॥

शिलाच्छिद्रेषु वारां आस्फालात् प्रोच्चलन्तो मुक्तासदृशबिन्दवो येषां
तथाविधैर्निर्झरैः स्मारिता मन्थाचलनिर्धूतक्षीरोदकजलश्रीर्यत्र ॥ २७ ॥

फलमाल्यमहाभारभासुरैरजिरद्रुमैः ।
आनीय पुष्पसम्भारं तिष्ठद्भिरिव सङ्कुलम् ॥ २८ ॥

अजिरमङ्गणम् ॥ २८ ॥

तरत्तरङ्गझाङ्कारकारिमारुतकम्पितैः ।
कीर्णपु।पसमावृष्टं द्रुमैरपि रसाकुलैः ॥ २९ ॥

रसो मकरन्दः प्रेमातिशयश्च तेनाकुलितैर्द्रुमैरपि अर्थिषु सम्यगावृष्टं
किं पुनर्नरैरित्यर्थः ॥ २९ ॥

अशङ्कितशिलाकूटस्रवदब्बिन्दुटङ्कृतैः ।
किञ्चित्कृतरवं गुप्तैरशङ्कैः शङ्कितैः खगैः ॥ ३० ॥

अशङ्कैः शङ्काऽयोग्यैरपि अशङ्कितं यथा स्यात्तथा शिलाकूटात्स्रवतां
निपततामब्बिन्दूनां
टकृतैर्हेतुभिर्गुटिकाधनुर्ध्वानसाम्याच्छङ्कितैरत एव गुप्तैर्निलीनैः
खगैः ॥ ३० ॥

उत्फाललहरीश्रान्तसीकरास्वादनाकुअलैह् ।
नद्यामुडुपरावर्तवृत्तिभिर्विहगैर्वृतम् ॥ ३१ ॥

श्रान्तत्वं सीकरास्वादने हेतुः । उडूनां नक्षत्राणां परावर्तः
परिवर्तनमिव वृत्तिः परिवृत्तिर्येषां तैर्विहङ्गैर्हसैः ॥ ३१ ॥

उत्तालतालविश्रान्तकाकालोकनशङ्कितैः ।
बालैः प्रगोपितामिक्षाखण्डं जीर्णस्वभुक्तकैः ॥ ३२ ॥

काकग्रहणं मार्जारादीनामप्युपलक्षणम् ।
जीर्णप्रातस्तनस्वभुक्तकैरस्माभिर्भक्षणीयमिति बुद्ध्या प्रगोपिताः
संवृतदेशे रक्षिता आमिक्षाखण्डा यत्र । घनीकृतं पय आमिक्षा ॥ ३२ ॥

पुष्पशेखरसम्भारवसनग्रामबालकम् ।
खर्जूरनिम्बजम्बीरगहनोपान्तशीतलम् ॥ ३३ ॥

पुष्पाण्येव शेखरसम्भारः शिरोभूषणादिर्वसनानि च येषां तथाविधा
ग्रामबालका यत्र ॥ ३३ ॥

क्षौमाग्रहस्ताम्बरया मञ्जरीपूर्णकर्णया ।
क्षुत्क्षीणयाक्रान्तरथ्यं ग्रामकीटककान्तया ॥ ३४ ॥

तत्र भिल्लादिदरिद्रवधूर्वर्णयति - क्षौमेति । क्षुमाऽतसी तस्या अवयवाः
क्षौमाण्यग्राणि शाखास्तान्येव हस्तप्राप्याण्यम्बराणि यस्याः । ग्रामे
कीटका इवोपेक्ष्या दरिद्रनीचालसास्तेषां कान्तया वधूजनेन ॥ ३४ ॥

सरित्तरङ्गसङ्घट्टसंरावाश्रुतसङ्कथम् ।
कर्मजाड्यघनत्रासवाञ्छितैकान्तसंस्थितम् ॥ ३५ ॥

संरावैस्तारध्वनिभिरभिभवादश्रुताः सङ्कथाः संलापा यत्र ।
कर्मकरणे जाड्यादकौशलाद्धनस्त्रासो येषां मुग्धालसानां
तैर्वाञ्छिता एकान्तसंस्थिर्यत्र ॥ ३५ ॥

दधिलिप्तास्यहस्तांसैः स्निघपुष्पलताधरैः ।
नग्नैर्गोमयपङ्काङ्कैर्बालैराकुलचत्वरम् ॥ ३६ ॥

प्। १९९)

तीरशाद्वलवल्लीनां दोलान्दोलनकारिभिः ।
तरङ्गैर्वाह्यमानस्य लेखिकाङ्कितसैकतम् ॥ ३७ ॥

तीरशाद्वलेत्यादिपूर्वोक्तबालानां विशेषणं चेद्दोलास्वान्दोलनकारिभिः
तरङ्गविशेषणत्वे तु दोलावदान्दोलनकारिभिः वाह्यमानस्य जलस्य लेखिका
रेखास्ताभिरङ्कितसैकतम् ॥ ३७ ॥

दधिक्षीरघनामोदमत्तमन्थरमक्षिकम् ।
कामभुक्तार्थतोद्बाष्पजर्जराबलबालकम् ॥ ३८ ॥

कामभुक्तार्थतायै यथाभिलाषभक्षणाय रोदनादुद्गतबाष्पैर्जर्जरा
अबलाः कृशा अस्वतन्त्रा वा बालका यत्र ॥ ३८ ॥

गोमयासिक्तवलयकरनारी कृतक्रुधम् ।
धम्मिल्लवलनाव्यग्रत्रस्तस्त्रीविहसज्जनम् ॥ ३९ ॥

गोमयासिक्तवलयकरत्वादितरनारीषु कृतक्रोधं यथा स्यात्तथा
मुक्तधम्मिल्लवलनासु व्यग्रास्त्रास्ताश्च स्त्रियो दृष्ट्वा विहसन्तो जना यत्र ॥
३९ ॥

दान्तपुष्पच्छदोत्सन्नपतत्ककुदवायसम् ।
गृहरथ्यागणद्वारकीर्णक्रूरकुरण्टकम् ॥ ४० ॥

दान्तैर्जितक्रोधैर्मुनिभिः पुष्पैश्छदैः पत्रैर्वा उत्सन्ना उत्सारिता नतु
काष्ठलोष्टादिना कदाचिदभिघातो मा भूदिति । बलिकर्माक्षतादिभक्षणाय
पतन्तः ककुदानां गिरिशिखराणां वायसा यत्र । सकण्टकत्वात्क्रूराः
कुरण्टकाः प्रसिद्धा गुल्मभेदा यत्र ॥ ४० ॥

गृहपार्श्वस्थितश्वभ्रकुञ्जैः कुसुमितप्रभैः ।
प्रत्यहं प्रातरागुल्पमाकीर्णकुसुमाजिरम् ॥ ४१ ॥

चरच्चमरसारङ्गजालजङ्गलखण्डकम् [खण्डकैः इति
पाठः] ।
गुञ्जानिकुञ्जसञ्जातशष्पसुप्तमृगार्भकम् ॥ ४२ ॥

चरन्तः शष्पादिभक्षयन्तश्चमरा मृगाः सारङ्गा मृगा पक्षिणश्च ।
निकुञ्जे लतागृहे सञ्जातेषु शष्पेषु बालतृणेषु । ग्रामशब्दस्य ससीमके
सस्थण्डिलकेऽपि वृत्तेर्महाभाष्यादौ
प्रसिद्धत्वात्तदन्तर्जङ्गलकुञ्जादिवर्णनेऽपि न विरोधः ॥ ४२ ॥

एकान्तसुप्तवत्सैककर्णस्पन्दास्तमक्षिकम् ।
गोपोच्छिष्टीकृतदधिस्वसृक्किस्पन्दिमक्षिकम् ॥ ४३ ॥

गोपानामुच्छिष्टिकृतदधिषु सृक्किषु वक्रपार्श्वेषु ॥ ४३ ॥

समस्तसद्मसङ्क्षीणमक्षिकाक्षिप्तमाक्षिकम् ।
फुल्लाशोकद्रुमोद्यानकृतलाक्षिकमन्दिरम् ॥ ४४ ॥

समस्तेषु सद्मसु सङ्क्षीणमधुमक्षिकं यथा स्यात्तथा आक्षिप्तं सञ्चितं
माक्षिकं मधु यस्मिन् । लाक्षिकानि लाक्षारञ्जितकाष्ठमयानि क्रीडामन्दिराणि
यस्मिन् ॥ ४४ ॥

सीकरासारमरुता नित्यार्द्रविकचद्रुमम् ।
कदम्बमुकुलप्रोतसमस्तच्छादनतृणम् ॥ ४५ ॥

नित्यार्द्रत्वादेव विकचाः प्रोत्फुल्लाः । समस्तेति विशेषणमतिशयोक्त्यर्थम् ॥ ४५

प्रतिकृत्तलताफुल्लकेतकोत्करपाण्डुरम् ।
वहत्प्राणालपटलीरणद्गुरुगुरारवम् ॥ ४६ ॥

प्रतिकूलत्वादेव कृत्ताभिश्छिन्नाभिर्लताभिरप्रतिबन्धात्फुल्लैः ॥ ४६ ॥

वातायनगुहानिर्यत्सौधविश्रान्तवारिदम् ।
पूर्णपुष्करिणीपङ्किपूर्णराजपृथूत्तरम् ॥ ४७ ॥

पुष्करिणीपङ्क्तिषु पूर्णराजाः पूर्णचन्द्रा इव यानि फुल्लपद्मानि तैः
पृथूत्तरं बहूत्कृष्टतरम् । पृथुभिः प्रांशुभिरुत्तीर्यत इति
पृथूत्तरमिति वा ॥ ४७ ॥

नीरन्ध्रविटपिच्छायाशीतलामलशाद्वलम् ।
सर्वशष्पाग्रवार्बिन्दुप्रतिबिम्बिततारकम् ॥ ४८ ॥

अनारतपतत्फुल्लहिमवर्षसितालयम् ।
विचित्रमञ्जरीपुष्पपत्रसत्फलपादपम् ॥ ४९ ॥

फुल्लैः पुष्परिहिमवर्षैश्च सिताः शुभ्राः ॥ ४९ ॥

गृहकक्षान्तरालीनमेघसुप्तचिरण्टिकम् ।
सौधस्थमेघविद्युद्भिरनादेयप्रदीपकम् ॥ ५० ॥

सुप्ताश्चिरण्टिकाः सुवासिन्यो यत्र । अनादेयाः अन्यतः कार्यसिद्धेरनुपादेयाः ॥
५० ॥

कन्दरानिलभाङ्कारघनघुङ्घुममण्डपम् ।
चरच्चकोरहारीतहरिणीहारिमन्दिरम् ॥ ५१ ॥

घनाः प्रतिध्वनिभिर्निबिडिता घुङ्घुमा येषु तथाविधा मण्डपा यत्र ।
घना इव घुङ्घुमाः गर्जन्तो वा चकोरहारीतौ पक्षिभेदौ । हारीणि सुन्दराणि ॥
५१ ॥

उन्निद्रकन्दलोद्वान्तमांसलामोदमन्थरैः ।
मरुद्भिर्मन्दमायातुमारब्धैर्लोलपल्लवम् ॥ ५२ ॥

कन्दलैः कन्दलीपुष्पैः । उद्वान्तैरिव निःसृतैरामोदैर्मन्थरैर्भरितैः ॥ ५२ ॥

लावकालापलीलायामालीनललनागणम् ।
कोककोकिलकाकोलकोलाहलसमाकुलम् ॥ ५३ ॥

लावकाग्रहणं शुकसारिकादीनामप्युपलक्षणम् । काकोला द्रोणकाकाः ॥ ५३ ॥

शालतालतमालाब्जनीलतत्फलमालिनम् ।
वल्लीवलयविन्यासविलासवलितद्रुमम् ॥ ५४ ॥

आलोलपल्लवलतावलितायनाना-
मुत्फुल्लकन्दलशिलीन्ध्रसुगन्धितानाम् ।
तालीतमालदलताण्डवमण्डपाना-
मारामफुल्लकुसुमद्रुमशीतलानाम् ॥ ५५ ॥

आलोलपल्लवलतानां वलयो वेष्टनान्यावलयः पङ्क्तयो वा तासां तायनानां
सन्तानाधिकरणानाम् । लताभिर्वलितानि रुद्धान्ययनानि परितो मार्गा येषामिति
वा । सर्वाणि सर्गान्त्यश्लोकस्थस्य गिरिमन्दिराणामित्यस्य विशेषणानि ॥ ५५ ॥

साराववारिचलनाकुलगोकुलाना-
मानीलसस्यकुसुमस्थलशोभितानाम् ।
तीरद्रुमप्रकरगुप्तसरिद्रयाणां
नीरन्ध्रपुष्पितलताग्रवितानकानाम् ॥ ५६ ॥

सारावाणि सहम्भारवाणि वारिचलनेषु जलोत्तरणेष्वाकुलानि गोकुलानि येषाम् ।
गुप्त आच्छन्नः सरिद्रयो नदीप्रवाहो येषु ॥ ५६ ॥

प्। २००)

उद्यानकुन्दमकरन्दसुगन्धितानां
गन्धान्धषट्पदकुलान्तरिताम्बुजानाम् ।
सौन्दर्यतर्जितपुरन्दरमन्दिराणां
राजीवराजिरजसारुणिताम्बराणाम् ॥ ५७ ॥

गन्धान्धैः षट्पदकुलैरन्तरितानि तिरोहितान्यम्बुजानि येषु । रजसा
वायून्नीतेनेत्याशयः ॥ ५७ ॥

रंहोवहद्गिरिनदीरवघर्घराणां
कुन्दावदातजलदद्युतिभासुराणाम् ।
सौधस्थितोल्लसितफुल्ललतालयानां
लीलावलोलकलकण्ठविहङ्गमानाम् ॥ ५८ ॥

रंहसा वेगेन वहन्तीनाम् । कुन्दवदवदातैः
शुभैर्जलदद्युतिभिर्भासुराणाम् । कलकण्ठा मधुरकण्ठाः ।
कण्ठशब्देन तद्ध्वनिर्लक्ष्यते ॥ ५८ ॥

उल्लासिकौसुमदलास्तरणस्थयूना-[दलातरणस्थ इति पाठः]
मापादमावलितमाल्यविलासिनीनाम् ।
सर्वत्र सुन्दरनवाङ्कुरदन्तुराणां
शोभोल्लसद्वरलताकुलमार्गणानाम् ॥ ५९ ॥

आपादमावलितानि माल्यानि याभिस्तथाविधा विलासिन्यः स्त्रियो येषु ।
वरलताभिराकुला व्याप्ता मार्गणाः शरस्तम्बा याचका वा येषु ॥ ५९ ॥

सञ्जातकोमललतोत्पलसङ्कुलानां
तिष्ठत्पयोदपटसंवलितालयानाम् ।
नीहारहारहरितस्थलविश्रुतानां
सौधस्थमेघतडिदाकुलिताङ्गनानाम् ॥ ६० ॥

नीहारशब्देन तज्जलबिन्दुपङ्क्तयो लक्ष्यन्ते । ता एव हारा मुक्तावह्न्यो येषु
तथाविधैर्हरितस्थलैर्विश्रुतानाम् ॥ ६० ॥

नीलोत्पलोल्लसितसौरभसुन्दराणां
हुङ्कारहारिहरितोन्मुखगोकुलानाम् ।
विश्रब्धमुग्धमृगसारगृहाजिराणा-
मुन्नृत्यबर्हिघनसीकरनिर्झराणाम् ॥ ६१ ॥

हुङ्कारैर्हारीणि मनोहराणि हरितोन्मुखानि हरिततृणोन्मुखानि गोकुलानि येषु
। विस्रब्धा विश्वस्ता मुग्धा मृगाः सरन्त्यस्मिन्नित्यधिकरणे
बाहुलकाद्धञ् । निर्झराणां घनसीकरत्वं वृष्टिभ्रान्त्या
बर्हिणानामुन्नृत्ये हेतुः ॥ ६१ ॥

सौगन्ध्यमत्तपवनाहतविक्लवानां
वप्रौषधिज्वलनविस्मृतदीपकानाम् ।
कोलाहलाकुलकुलायकुलाकुलानां
कुल्याकुलाकलकलाश्रुतसङ्कथानाम् ॥ ६२ ॥

सौगन्ध्येन मत्तवद्भ्रान्तेन पवनेनाहता निरस्ताः । विक्लवशब्दो
वैक्लव्यपरः । वप्रेष्वौषध्यो ज्योतिर्लता एव ज्वलनाः । कोलाहलोऽत्र पक्षिरवः ।
कुलायो नीडम् । कुल्याशब्देन गिरिनिर्झरा
ग्राह्यास्तत्कुलानामासमन्तात्कलकलैर्ध्वनिभिरश्रुतास्तिरस्कृता इति यावत् ।
सङ्कथाः संवादा येषु ॥ ६२ ॥

मुक्ताफलप्रकरसुन्दरबिन्दुपात-
शीताखिलद्रुमलतातृणपल्लवानाम् ।
लक्ष्मीमनस्तमितपुष्पविकासभाजां
शक्नोति कः कलयितुं गिरिमन्दिराणाम् ॥ ६३ ॥

लक्ष्मीं शोभां कलयितुं सङ्ख्यातुम् । गिरिमन्दिराणां गिरिग्रामस्येति यावत् ॥
६३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पतीप्रकरणे लीलोपाख्याने
गिरिग्रामवर्णनं नामाष्टविंशः सर्गः ॥ २८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
गिरिग्रामवर्णनं नामाष्टाविंशः सर्गः ॥ २८ ॥