०२७

सप्तविंशः सर्गः २७

श्रीवसिष्ठ उवाच ।

तस्मिन् गिरितटे ग्रामे तस्य मण्डपकोटरे ।
अन्तर्धिमाश्वाययतुस्तत्रस्थे [अन्तर्धिमापतुर्दृङ्गा ततस्ते
सिद्धयोषितौ इति पाठः] एव ते स्त्रियौ ॥ १ ॥

लीलात्र विस्मिता भूयो भर्तृदर्शनलालसा ।
ज्ञप्त्या प्रबोधिता स्मृत्वा स्वजन्मान्याह भूरिशः ॥ १ ॥

तस्य द्विजसद्मनो मण्डपकोटरे मण्डपाकाशे । तत्रस्थे ज्येष्ठशर्मादीनां
पुरोदेशस्थे एवान्तर्धिमन्तर्धानं आययतुः प्रापतुः ॥ १ ॥

अस्माकं वनदेवीभ्यां प्रसादः कृत इत्यथ ।
शान्तदुःखे गृहजने स्वव्यापारपरे [परस्थिते इति पाठः]
स्थिते ॥ २ ॥

स्वव्यापारः स्वगृहकृत्यं तत्परे ॥ २ ॥

मण्डपाकाशसंलीनां लीलामाह सरस्वती ।
व्योमरूपा व्योमरूपां स्मयात्तूष्णीमिव [तूष्णीं व्यवस्थिताम् इति
पाठः] स्थिताम् ॥ ३ ॥

संलीनां इतरजनदृष्ट्या अन्तर्हिताम् । तर्हि ते किं वस्तुतः सदेहे नेत्याह -
व्योमरूपेति । शून्यात्मकसङ्कल्पशरीरा । तादृशीमिति यावत् । स्मयाद्विस्मयात्
॥ ३ ॥

सङ्कल्पस्वप्नयोर्येषां यत्र सङ्कथनं मिथः ।
यथेहार्थक्रियां धत्ते तयोः सा सङ्कथा तथा ॥ ४ ॥

ननु अन्योन्यसाङ्कल्पिकस्यान्योन्यादृश्यत्वात्कथं तयोः संवादोपपत्तिरिति
रामस्य शङ्कां लिङ्गैरुपलक्ष्य स्वयमेव वसिष्ठः समाधत्ते -
सङ्कल्पेति । लोके येषां देवतानुग्रहादिना उषानिरुद्धयोरिव तुल्य एव
परस्परसंवादिसङ्कल्पः स्वप्नो वा जातस्तेषां तत्र मिथः सङ्कथन यथा
औत्तरकालिकीमर्थक्रियां धत्ते तयोर्ज्ञप्तिलीलयोः सङ्कथा संवादोऽपि
तथेत्यर्थः ॥ ४ ॥

पृथ्व्यादिनाडीप्राणादि-ऋतेऽप्यभ्युदिता तयोः ।
सा सङ्कथनसंवित्तिः स्वप्नसङ्कल्पयोरिव ॥ ५ ॥

अधिभूतं पृथ्व्यादि अध्यात्मं नाडीप्राणाद्युपलक्षितशरीरमपि ऋते विना
॥ ५ ॥

श्रीसरस्वत्युवाच ।

ज्ञेयं ज्ञातमशेषेण दृष्टादृष्टार्थसंविदः
[द्रष्टव्यसंविदः इति पाठः] ।
ईदृशीयं ब्रह्मसत्ता किमन्यद्वद पृच्छसि ॥ ६ ॥

इत्थमुक्ताशङ्कां समाधाय प्रस्तुतकथामनुसरति - श्रीसरस्वत्युवाचेति
॥ ६ ॥

लीलोवाच ।

मृतस्य भर्तुर्जीवोऽसौ यत्र राज्यं करोति मे ।
तत्राहं किं न तेर्दृष्टा दृष्टास्मीह सुतेन किम् ॥ ७ ॥

किङ्कारणं न दृष्टेत्यर्थः ॥ ७ ॥

श्रीसरस्वत्युवाच ।

अभ्यासेन विना वत्से तदा ते द्वैतनिश्चयः ।
नूनमस्तङ्गतो नाभून्निःशेषं वरवर्णिनि ॥ ८ ॥

अभ्यासेन विना अभ्यासाभावादित्यर्थः । द्वैतनिश्चयः
प्रपञ्चसत्यतानिश्चयः ॥ ८ ॥

अद्वैतं यो न यातोऽसौ कथमद्वैतकर्मभिः ।
युज्यते तापसंस्थस्य च्छायाङ्गानुभवः कुतः ॥ ९ ॥

न यातो भेदकाऽविद्योच्छेदेन न प्राप्तः । अद्वैतकर्मभिः
सत्यसङ्कल्पत्वाद्यर्थक्रियाभिः । छायाया अङ्गं गुणः शैत्यं
तदनुभवः । छायोपविष्टाङ्गस्य पुंसो योऽनुभवः स वा ॥ ९ ॥

लीलास्मीति विनाभ्यासं तव नास्तगतोऽभवत् ।
यदा भावस्तदा सत्यसङ्कल्पत्वमभून्न ते ॥ १० ॥

लीलादेह एवाहमस्मीति भावो दृढसंस्कारः ॥ १० ॥

अद्यासि सत्यसङ्कल्पा सम्पन्ना तेन मां सुतः ।
सम्पश्यत्वित्यभिमतं फलितं तव सुन्दरि ॥ ११ ॥

अद्य सत्यसङ्क्लपा सम्पन्नासि । सुतो मां पश्यत्वित्यभिमतमीप्सितम् ॥ ११ ॥

प्। १९५)

इदानीं तस्य भर्तुस्त्वं समीपं यदि गच्छसि ।
तत्तेन व्यवहारस्ते पूर्ववत्सम्प्रवर्तते ॥ १२ ॥

लीलोवाच ।

इहैव मन्दिराकाशे पतिर्विप्रो ममाभवत् ।
इहैव स मृतो भूत्वा सम्पन्नो वसुधाधिपः ॥ १३ ॥

एवं प्रत्यक्षमुपदर्शनेनोपदेशेन च प्रज्ञोक्तार्थे
निवृत्तासम्भवाशङ्का मण्डपाकाशान्तरेव भर्तृपरलोकद्वयस्य
ब्रह्माण्डसहस्राणां च सम्भवमनुवदन्ती लीला पुनः
स्वभर्तृमण्डलदर्शनं प्रार्थयते - इहेत्यादिना ॥ १३ ॥

इहैव तस्य संसारे तस्मिन्भूमण्डलान्तरे ।
राजधानीपुरे तस्मिन्पुरन्ध्र्यस्मि [पुरतोऽस्मिन्व्यवस्थिता इति
पाठः] व्यवस्थिता ॥ १४ ॥

पुरन्ध्री राजमहिषी । व्यवस्थिता वसुधाधिपस्येत्यनुषज्यते ॥ १४ ॥

इहैवान्तःपुरे तस्मिन्स मृतो मम भूपतिः ।
इहैवान्तःपुराकाशे तस्मिन्नेव पुरे नृपः ॥ १५ ॥

सम्पन्नो वसुधापीठे नानाजनपदेश्वरः ।
सर्वार्जवजवीभाव इहैवैवं व्यवस्थितः ॥ १६ ॥

सर्ववस्तूनां आर्जवमकापट्यं कूटस्थं पारमार्थिकं ब्रह्म
तस्मिन्कल्पितो जवीभावो मायिकचलनादिविकारः एवं उक्तदृष्टश्रुतलक्षण
इहैव मण्डपाकाशे व्यवस्थितः ॥ १६ ॥

अस्मिन्नेव गृहाकाशे सर्वा ब्रह्माण्डभूमयः ।
स्थिताः समुद्रके मन्ये यथान्तः सर्षपोत्कराः ॥ १७ ॥

समुद्रके सम्पुटके ॥ १७ ॥

सदाऽदूरमहं मन्ये तद्भ्र्तुर्मम मण्डलम् ।
क्वचित्पार्श्वे स्थितमिह यथा पश्यामि तत्कुरु ॥ १८ ॥

अदूरमतिसन्निहितम् ॥ १८ ॥

श्रीदेव्युवाच ।

भूतलारुन्धतिसुते भर्तारस्तव सम्प्रति ।
त्रयो नामाथवाभूवन्बहवः शतसम्मताः ॥ १९ ॥

न केवलं साम्प्रतिकमेवैतन्मण्डपाकाशे अस्ति किन्त्वतीतानागतं सर्वमपि
तत्र तेऽनेकजन्मसम्बन्धिष्वनेकभर्तृशब्दवाच्यशरीरेषु सर्वेषां
दर्शनायोगात्सन्निहितेषु त्रिषु कतममण्डलं प्रदर्श्यतामित्याशयेनाह ##-

नेदीयसां त्रयाणां तु द्विजस्ते भस्मतां गतः ।
राजा माल्यान्तरगतः संस्थितोऽन्तःपुरे शवः ॥ २० ॥

नेदीयसामन्तिकतमानां मध्ये । इष्ठनो विषये ईयसुन् छान्दसः ॥ २० ॥

संसारमण्डले ह्यस्मिंस्तृतीयो वसुधाधिपः ।
महासंसारजलधिं पतितो भ्रममागतः ॥ २१ ॥

पतितः प्रविष्टः ॥ २१ ॥

भोगकल्लोलकलनाविकलो मलचेतनः ।
जाड्यजर्जरचिद्वृत्तिः संसाराम्भोधिकच्छपः ॥ २२ ॥

भोगलक्षणानां कल्लोलानां कलनाभिर्विकलो विक्षिप्तः । तत एव मलयुक्ता
चेतना बुद्धिर्यस्य । अत एतदन्तः प्रतिफलिता चिद्वृत्तिरपि तज्जाड्येनैव जर्जरा
शिथिलप्राया यस्य ॥ २२ ॥

चित्राणि राजकार्याणि कुर्वन्नप्याकुलान्यपि ।
सुप्तः स्थितो जडतया न जागर्ति भवभ्रमे ॥ २३ ॥

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।
इत्यनर्थमहारज्ज्वा वलितो वशतां गतः ॥ २४ ॥

अवशतामस्वतन्त्रताम् ॥ २४ ॥

तत्कस्य वद भर्तुस्त्वां समीपं वरवर्णिनि ।
वात्या वनान्तरं गन्धलेखामिव वनान्नये ॥ २५ ॥

वातसमूहो वात्या । पाशादिभ्यो यः ॥ २५ ॥

अन्य एव हि संसारः सोऽन्यो ब्रह्माण्डमण्डपः ।
अन्या एव तता वत्से व्यवहारपरम्पराः ॥ २६ ॥

तता विस्तृताः ॥ २६ ॥

संसारमण्डलानीह तानि पार्श्वे स्थितान्यपि ।
दूरं योजनकोटीनां कोटयस्तेष्विहान्तरम् ॥ २७ ॥

इहास्मिन्मण्डपाकाशे । अधिष्ठानचिद्दृष्ट्या पार्श्वे अन्तः । सन्निधाविति
यावत् । अपि यद्यपि तथापि । इह सांसारिकदृष्टौ । दूरमन्तरं ।
व्यवधानमित्यर्थः ॥ २७ ॥

आकाशमात्रमेतेषामिदं पश्य वपुः [पुनः पुनः इति पाठः]
पुनः ।
मेरुमन्दरकोटीनां कोटयस्तेष्ववस्थिताः ॥ २८ ॥

परमार्थदृष्ट्या त्वाह - आकाशमात्रमिति । एतेषां
संसारमण्डलानां इदं पारमार्थिकं वपुः स्वरूपं
मण्डपान्तस्थचिदाकाशमात्रम् । तेष्वेतेषु ॥ २८ ॥

परमाणौ परमाणौ सर्ववर्गानिरर्गलम् ।
महाचितेः स्फुरन्त्यर्करुचीव त्रसरेणवः ॥ २९ ॥

अर्कस्य रुचिजालान्तरस्थमरीचौ ॥ २९ ॥

महारम्भगुरूण्येवमपि ब्रह्माण्डकानि हि ।
तुलया धानकामात्रमपि तानि भवन्ति नो ॥ ३० ॥

एवं दर्शितब्रह्माण्डवदेव तानि
महद्भिर्द्वीपसमुद्रभुवनाद्यारम्भैर्गुरूणि महान्त्यपि चिद्दृष्टितुलया
दृष्टानि [दृष्टाभिधानका इति पाठः] धानका वटबीजानि
तावन्मात्रमपि न भवन्तीत्यर्थः ॥ ३० ॥

नानारत्नामलोद्द्योतो वनवद्भाति खे यथा ।
पृथ्व्यादिभूतरहिता जगच्चिद्भाति चिन्तया ॥ ३१ ॥

वस्तुतः पृथ्व्यादिभेदरहितैव चिज्जगद्भाति । चिन्तया
आविद्यकदृढवासनया ॥ ३१ ॥

कचति ज्ञप्तिरेवेदं जगदित्यादि नात्मनि ।
नतु पृथ्व्यादि सम्पन्नं सर्गादावेव किञ्चन ॥ ३२ ॥

भ्रान्त्या जगद्भानेऽपि न वस्तुनि कदाचिदपि किञ्चित्सम्पन्नमित्याह - कचतीति
॥ ३२ ॥

यथा तरङ्गः सरसि भूत्वा भूत्वा पुनर्भवेत् ।
विचित्राकारकालाङ्गदेशाज्ञप्तावलं तथा ॥ ३३ ॥

विचित्राकाराः कालाः कालाङ्गानि दिनरात्र्यादीनि ब्रह्माण्डा भुवनादिदेशाश्च
ज्ञप्तौ महाचिति भूत्वा भूत्वा भवन्तीत्यर्थः ॥ ३३ ॥

लीलोवाच ।

एवमेतज्जगन्मातर्मया स्मृतमिहाधुना ।
ममेदं राजसं जन्म न तमो न च सात्त्विकम् ॥ ३४ ॥

इदं लीलाजन्म राजसं रजःकार्यं दुःखसन्तापबाहुल्यात् मध्ये तिष्थन्ति
राजसाः इति मर्त्यजन्मनां राजसत्वस्मृतेश्चेत्यर्थः ॥ ३४ ॥

प्। १९६)

ब्रह्मणस्त्ववतीर्णाया अष्टौ जन्मशतानि मे ।
नानायोनीन्वतीतानि पश्यामीवाधुना पुनः ॥ ३५ ॥

ब्रह्मणो हिरण्यगर्भादेतत्कल्पादावन्तःकरणोपाध्युत्पत्त्या प्रतिबिम्बतया
तत्रावतीर्णायाः । पश्यामीव स्फुटं स्मरामीति यावत् ॥ ३५ ॥

संसारमण्डले देवि कस्मिंश्चिदभवं पुरा ।
लोकान्तराब्जभ्रमरी विद्याधरवराङ्गना ॥ ३६ ॥

लोकान्तरं विद्याधरलोकस्तदेवाब्जम् ॥ ३६ ॥

दुर्वासनाकलुषिता ततोऽहं मानुषी स्थिता ।
संसारमण्डलेऽन्यस्मिन्पन्नगेश्वरकामिनी ॥ ३७ ॥

मानुषी भूत्वा स्थिता । ततः पन्नगेश्वरकामिनी अभवमित्यनुषङ्गः ॥ ३७ ॥

कदम्बकुन्दजम्बीरकरञ्जवनवासिनी ।
पत्राम्बरधरा श्यामा शवर्यहमथाभवम् ॥ ३८ ॥

वनवासनया मुग्धा सम्पन्नाहमथोद्धता ।
गुलुच्छनयना पत्रहस्ता वनविलासिनी ॥ ३९ ॥

वासनया इति पाठे स्पष्टम् । वासतया इति पाठे तु वने वासो यस्यास्तद्भावेन
मुग्धा मूढा । धर्ममर्यादानभिज्ञेति यावत् । अत एवोद्धता
दुष्कर्मसञ्चयात् । गुलुच्छशब्दस्तत्पुष्पगुच्छपरः । वनविलासिनी लता जाता
अर्थाद्गुलुच्छलतेति गम्यते ॥ ३९ ॥

पुण्याश्रमलता साहं मुनिसङ्गपवित्रिता ।
वनाग्निदग्धा तस्यैव कन्याभूवं महामुनेः ॥ ४० ॥

अस्त्रीत्वफलदातॄणां कर्मणां परिणामतः ।
राजाहमभवं श्रीमान्सुराष्ट्रेषु समा शतम् ॥ ४१ ॥

अस्त्रीत्वं पुंस्त्वं तत्प्रयुक्तस्य राज्यादिभोगफलस्य दातॄणां
प्राक्सञ्चितकर्मणाम् । समाः संवत्सरान् ॥ ४१ ॥

तालीनां तलकच्छेषु राजदुष्कृतदोषतः ।
नकुली नववर्षाणि कुष्ठनष्टाङ्गिकाभवम् ॥ ४२ ॥

कच्छा जलप्रायदेशाः । राजदुष्कृतदोषः परस्वापहारादिः ॥ ४२ ॥

वर्षाण्यष्टौ सुराष्ट्रेषु देवि गोत्वं कृतं मया ।
मोहाद्दुर्जनदुष्टाज्ञबालगोपाललीलया ॥ ४३ ॥

सुराष्ट्रा देशविशेषाः । गोत्वं कृतम् । गोजन्मानुभूतमिति यावत् । दुर्जना
दुष्टा अज्ञा बालाश्च ये गोपालास्तेषां ताडनानुधावनादिलीलया ॥ ४३ ॥

विहङ्ग्या वैरविन्यस्ता वागुरा विपिनावनौ ।
क्लेशेन महता च्छिन्ना अधमा वासना इव ॥ ४४ ॥

विहङ्ग्या विहङ्गीजन्मप्राप्तया मया निष्कारणवैरादेव व्याधैर्विन्यस्ता
वागुराः । अधमा वासनाः द्वैतवासनाः ॥ ४४ ॥

कर्णिकाक्रोडशयासु विश्रान्तमलिना सह ।
पद्मकुड्मलकोशेषु भुक्तकिञ्जल्कया रहः ॥ ४५ ॥

कर्णिकाक्रोडाः किञ्जल्कमध्यानि त एव शय्याः । कुड्मला मुकुलाः । अलिना
सहेत्यर्थादलिनीजन्मप्राप्तयेति गम्यते ॥ ४५ ॥

भ्रान्तमुत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया ।
वनस्थलीषु रम्यासु किराताहतमर्मया ॥ ४६ ॥

हरिष्या मृग्या मया । हारिनेत्रया रम्येक्षणया ॥ ४६ ॥

दृष्टं नष्टासु दिक्ष्वब्धिकल्लोलैरुह्यमानया ।
मत्स्याम्बुकच्छपाच्छोडे मोघमाननताडनम् ॥ ४७ ॥

अब्धिकल्लोलैरुह्यमानया मत्स्या मया सूर्यतिष्यागस्त्यमत्स्यानां य
उपधायाः इति यलोपः । दिक्षु नष्टासु दिग्भ्रमे सति भ्रान्त्या । कैवर्तसविधं
प्राप्तयेति यावत् । कैवर्तैर्यष्ट्यादिना कृतमाननप्रदेशे ताडनं दवोपनीते
अम्बुनि बृहत्तरङ्गजले कच्छपाच्छोडे कूर्मपृष्ठास्थनि च
निपतनान्मोघं व्यर्थं जातं दृष्टमित्यर्थः ॥ ४७ ॥

पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वरम् ।
पुलिन्द्या [पुलिन्दसुरतान्तेषु इति पाठस्तत्र पुलिन्द्येत्यर्थः]
सुरतान्तेषु नालिकेररसासवम् ॥ ४८ ॥

पीतं पुलिन्द्या मयेति शेषः ॥ ४८ ॥

सारसीसरसालिन्या [सरसी इति पाठः] सीत्कारमधुरस्वरम् ।
सारसः सुरतैः स्वैरं सामन्तश्चारुरञ्जितः ॥ ४९ ॥

सारस्यां पद्मिन्यां सरसा सप्रेमा अलिनी भ्रमरीव निश्चलं स्थितयेति यावत् ।
मया सीत्कारेण सुरतकूजितेन मधुरस्वरं यथा स्यात्तथा सामन्तः
अधीश्वरः । पतिरिति यावत् । सारसो रञ्जितः प्रीणितः ॥ ४९ ॥

तालीतमालकुञ्जेषु तरलानननेत्रया ।
क्षीबप्रेक्षणविक्षोभैः कृतं कान्तावलोकनम् ॥ ५० ॥

क्षीबप्रेक्षणं समदनिरीक्षणं तत्कृतैर्मन्मथविक्षोभैः
कान्तस्यावलोकनं मया कृतम् । अनेन तद्योग्यं जन्मान्तरमुक्तम् ॥ ५० ॥

कनकस्यन्दसन्दोहसुन्दरैरङ्गपञ्जरैः ।
स्वर्गेऽप्सरोम्बुजिन्याशु तोषिताः सुरषट्पदाः ॥ ५१ ॥

स्यन्दो द्रवः । अप्सरोलक्षणया अम्बुजिन्या सुरा एव षट्पदा
अधरमधुपानादिना तोषिताः ॥ ५१ ॥

मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले ।
कल्पद्रुमवने मेरौ यूना सह रतं कृतम् ॥ ५२ ॥

तस्मिन्नेव जन्मनि देवयूना ॥ ५२ ॥

कल्लोलाकुलकच्छासु लसद्गुच्छलतासु च ।
वेलावनगुहास्वब्धेश्चिरं कूर्मतया स्थितम् ॥ ५३ ॥

कूर्मतया कच्छपीत्वेन ॥ ५३ ॥

तरत्तारतङ्गासु दोलनं सरसालिनाम् ।
चलच्छदपटालीषु राजहंस्यं मया कृतम् ॥ ५४ ॥

चलत्तारतरङ्गासु सरसीषु मया स्वीयेषु चलेषु च्छदेषु पटानां पटवत्
शुभ्रपक्षाणां आलीषु पङ्क्तिषु पद्मभ्रान्त्योपविष्टानां सरसानामलिनां
भ्रमराणां दोलनमान्दोलनसाधनं राजहंस्यं राजहंसीत्वं कृतम् ।
अनुभूतमिति यावत् । नलिनीनालदोलासु इति पाठे स्पष्टम् ॥ ५४ ॥

शाल्मलीदललोलानामान्दोलनदरिद्रताम् ।
मशकस्य मयालोक्य दीनं मशकया स्थितम् ॥ ५५ ॥

दोलायमाने एकस्मिञ्शाल्मलीदले लोलानां बहूनां मशकानां मध्ये ततः
प्रच्युतस्य कस्यचिन्मशकस्य
तत्रोपवेष्टुमसामर्थ्यादान्दोलनदरिद्रतामालोक्य तत्संस्कारेणैव
मृतयाहंस्या मयापि मशकतया भूत्वा दीनं स्थितम् । यं यं वापि
स्मरन्भावम् इति स्मृतेरिति भावः ॥ ५५ ॥

प्। १९७)

तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचिम्बनैः ।
भ्रान्तं शैलस्रवन्तीषु जलवञ्जुललीलया ॥ ५६ ॥

शैलस्रवन्तीषु गिरिणदीषु जलवञ्जुला वेतसास्तल्लीलया । तज्जन्मनेति यावत् ॥ ५६ ॥

गन्धमादनमन्दारमन्दिरे मदनातुराः ।
पातिताः पादयोः पूर्वं विद्याधरकुमारकाः ॥ ५७ ॥

स्थावरान्ताधमयोनिजन्मान्युक्त्वोत्तमजन्मान्यप्याह - गन्धमादनेति ॥
५७ ॥

कीर्णकर्पूरपूरेषु तल्पेषु व्यसनातुरा ।
चिरं विलुलितास्मीन्दुबिम्बेष्विव शशिप्रभा ॥ ५८ ॥

तत्रापि दुःखबाहुल्यं दर्शयति - कीर्णेति । व्यसनं तद्वियोगदुःखं
तेनातुरा ॥ ५८ ॥

योनिष्वनेकविधदुःखशतान्वितासु
भ्रान्तं मयोन्नमनसन्नमनाकुलाङ्ग्या ।
संसारदीर्घसरितश्चलया लहर्या
दुर्वारवातहरिणीसरणक्रमेण ॥ ५९ ॥

उक्तं सङ्क्षिप्योपसंहरति - योनिष्विति । तुलाकोटेरिवोन्नमनमूर्ध्वगतिः
सन्नमनमधोगतिस्ताभ्यामाकुलाङ्ग्या व्याकुलचित्तया । वातहरिणी वातप्रमीः
। सा हि स्वभावाद्वायुप्रवाहानुसारिणी उच्चावचदेशान्सरतीति प्रसिद्धम् ॥ ५९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
जन्मान्तरवर्णनं नाम सप्तविंशः सर्गः ॥ २७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जन्मान्तरवर्णनं नाम सप्तविंशः सर्गः ॥ २७ ॥