०२६

षड्विंशः सर्गः २६

श्रीवसिष्ठ उवाच ।

इति ते वरवर्णिन्यौ ततो ब्रह्माण्डमण्डलात् ।
निर्गत्यान्यदनुप्राप्ते यत्र तद्ब्राह्मणास्पदम् ॥ १ ॥

स्वगृहे स्वजनान्दृष्ट्वा श्रुत्वैषां परिदेवितम् ।
अनुग्रहोऽत्र लीलाया जगत्तत्त्वं च वर्ण्यते ॥ १ ॥

वक्ष्यमाणकथासम्बन्धप्रतिपत्तये उक्तमनुवदति - इतीति ।
तस्मात्पद्मभूपालाधारब्रह्माण्डमण्डलादन्यद्ब्रह्माण्डमण्डलं इति
वर्णितप्रकारमनुप्राप्ते ॥ १ ॥

ततो ददृशतुः सद्म स्वमेवं सिद्धयोषितौ ।
अदृश्ये एव लोकस्य मण्डपं ब्राह्मणास्पदम् ॥ २ ॥

स्वं सद्म गृहम् ॥ २ ॥

चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम् ।
विध्वस्तप्रायवदनं शीर्णपर्णाम्बुजोपमम् ॥ ३ ॥

चिन्तया विधुरा विह्वला दास्यो यत्र ।
अश्रुधूल्यादिमलिनत्वात्परिहृतभूषणतिलकत्वाद्विध्वस्तप्रायाणि
जनवदनानि यस्मिन् ॥ ३ ॥

नष्टोत्सवपुरप्रायमगस्त्यात्तमिवार्णवम् ।
ग्रीष्मदग्धमिवोद्यानं विद्युद्दग्धमिव द्रुमम् ॥ ४ ॥

अगस्त्येन आत्तं पीतम् । ग्रीष्मेण दग्धं शुष्कम् ॥ ४ ॥

वातच्छिन्नमिवाम्भोदं हिमदग्धमिवाम्बुजम् ।
अल्पस्नेहदशं दीपमिवालोकनभेदनम् ॥ ५ ॥

स्नेहस्तैलादिर्दशा वर्तिः । आलोक्यते येन तदालोकनं चक्षुस्तस्य भेदनम् ।
दुर्दर्शमिति यावत् ॥ ५ ॥

आसन्नमृत्युकरुणाकुलवक्त्रकान्ति-
संशीर्णजीर्णतरुपर्णवनोपमानम् ।
वृष्टिव्यपायपरिधूसरदेशरूक्षं
जातं गृहेश्वरवियोगहतं गृहं तत् ॥ ६ ॥

करुणाशोकोद्दीपको भावविशेषो रसो वा तया आकुला । निरस्तेति यावत् ।
वक्रकान्तिर्यस्य । अत एवासन्नमृत्य्वव स्थितम् । संशीर्णानि जीर्णतरुपर्णानि
यस्मिंस्तथाविधं वनमुपमानं यस्य । वृष्टिव्यापायोऽनावृष्टिः ॥ ६ ॥

प्। १९२)

श्रीवसिष्ठ उवाच ।

अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी ।
सम्पन्ना सत्यसङ्कल्पा सत्यकामा च देववत् ॥ ७ ॥

सा लीला ॥ ७ ॥

चिन्तयामास मामेते देवीं चेमां स्वबन्धवः ।
पश्यन्तु तावत्सामान्यललनारूपधारणीम् ॥ ८ ॥

ततो गृहजनस्तत्र स ददर्शाङ्गनाद्वयम् ।
लक्ष्मीगौर्योर्युगमिव समुद्भासितमन्दिरम् ॥ ९ ॥

आपादविविधाम्लानमालावसनसुन्दरम् ।
वसन्तलक्ष्म्योर्युगलमिवामोदितकाननम् ॥ १० ॥

आपादेत्याद्यष्टश्लोक्याङ्गनाद्वयं वर्णयति ।
आपादग्रहणमामस्तकत्वस्याप्युपलक्षणम् । विविधानामम्लानानां
मालानां वलनैर्व्यापनैः ॥ १० ॥

सर्वौषधिवनग्रामं पूरयन्त्यौ रसायनैः ।
शीतलाह्लादसुखदं चन्द्रद्वयमिवोदितम् ॥ ११ ॥

ओषध्यः फलपाकान्ताः पूरयन्त्यौ पूरयत् ।
नपुंसकैकविशेष्योपक्रमाल्लिङ्गवचनव्यत्ययश्छान्दसः ।
रसायनैश्चन्द्रिकामृतैः ॥ ११ ॥

लम्बालकलतालोललोचनालिविलोकनैः ।
किरत्कुवलयोन्मिश्रमालतीकुसुमोत्करान् ॥ १२ ॥

अलकलतानां सन्निधावालोलत्वादलित्वेन परिणतैर्लोचनैरिति यावत् ।
कटाक्षाणां
नीलोन्मिश्रधवलच्छवित्वात्कुवलयोन्मिश्रमालतीकुसुमोच्चयत्वेनोत्प्रेक्षा ॥ १२ ॥

द्रुतहेमरसापूरसरित्सरणहारिणा ।
देहप्रभाप्रवाहेण [प्रभविन इति पाठः] कनकीकृतकाननम्
॥ १३ ॥

द्रवीकृतस्वर्णरसप्रवाहायाः सरितः सरणं वेग इव मनोहारिणा ॥ १३ ॥

सहजाया वपुर्लक्ष्म्या लीलादोलाविलासिनः ।
त एते च तरङ्गाढ्या निजलावण्यवारिधेः ॥ १४ ॥

वपुःकान्तिलक्षणाया लक्ष्म्या लीलार्थं कॢप्ता दोलाः प्रेङ्खोलिका इव
विलासिनो विलसनशीला ये निजलावण्यस्य स्वभावसुन्दरब्रह्मात्मकस्य
स्वसौन्दर्यलक्षणस्य वा वारिधेस्तरङ्गाढ्यास्तरङ्गश्रेष्ठाः
प्रसिद्धास्ते एते अङ्गने एवेत्युत्प्रेक्षया प्रत्यभिज्ञायमानमिति शेषः ॥ १४ ॥

विलोलबाहुलतिकायुगेनारुणपाणिना ।
किरन्नवनवं हैमं कल्पवृक्षलतावनम् ॥ १५ ॥

प्रत्येकं बाहुलतिकयोररुणपाण्योश्च विलोलत्वेन विशेषणात्प्रतिक्षणं
विन्यासभेदेन समुदाये कल्पितवनसंस्थानभेदान्नवान्नवं
कल्पवृक्षलतावनं किरद्विक्षिपत् । कल्पयदिति यावत् ॥ १५ ॥

पादैरमृदिताम्लानपुष्पकोमलपल्लवैः [पुष्पपल्लवकोमलैः इति
पाठः] ।
स्थलाब्जदलमालाभैरस्पृशद्भूतलं पुनः ॥ १६ ॥

अमृदितान्यम्लानानि च यानि पुष्पाणि कोमलपल्लवानि वा तद्रूपैः पादैः ।
पल्लवकोमलैः इति पाठे तु स्पष्टम् । अब्जसादृश्यस्य पुष्पत्वरूपकादेव
लाभादपौनरुक्त्याय दलमालाभैरित्युक्तम् ॥ १६ ॥

तालीतमालखण्डानां शुष्काणां शुचिशोचिषाम् ।
आलोकनामृतासेकैर्जनयद्बालपल्लवान् ॥ १७ ॥

शुचिशोचिषां पाण्डुरवर्णानाम् ॥ १७ ॥

नमोऽस्तु वनदेवीभ्यामित्युक्त्वा कुसुमाञ्जलिम् ।
तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः ॥ १८ ॥

ज्येष्ठशर्माख्यो ज्येष्ठपुत्रः ॥ १८ ॥

पपात पादयोर्गेहे तयोर्वै कुसुमाञ्जलिः ।
प्रालेयसीकरासारः पद्मिन्या इव पद्मयोः ॥ १९ ॥

प्रालेयसीकरासारो हिम्म्बुकणवर्षः । पद्मिन्याः पद्मवल्ल्याः ॥ १९ ॥

जयतमिति लोण्मध्यमपुरुषद्विवचनम् ॥ २० ॥

ज्येष्ठशर्मादय ऊचुः ।

जयतं वनदेव्यौ नो दुःखनाशार्थमागते ।
प्रायः परपरित्राणमेव कर्म निजं सताम् ॥ २० ॥

इति तद्वचनान्ते ते देव्यावूचतुरादरात् ।
आख्यात दुःखं येनायं लक्ष्यते दुःखितो जनः ॥ २१ ॥

ज्येष्ठशर्मादयस्ते ते देव्यौ प्रति यथाक्रमम् ।
निजं तद्दुःखमाचख्युर्दम्पतिव्यसनात्मकम् ॥ २२ ॥

दम्पत्योर्व्यसनं विपत्तिस्तदात्मकम् ॥ २२ ॥

ज्येष्ठशर्मादय ऊचुः ।

देव्यावभवतां स्निग्धाविह ब्राह्मणदम्पती ।
सर्वातिथी कुलकरौ स्तम्भाभूतौ द्विजस्थितेः ॥ २३ ॥

हे देव्यौ कुलं सन्ततिः द्विजानां स्थितेर्मर्यादायाः स्तम्भवदाधारभूतौ
॥ २३ ॥

तावद्य गृहमुत्सृज्य सपुत्रपशुबान्धवम् ।
स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम् ॥ २४ ॥

अद्येत्यचिरत्वलक्षणार्थम् । शून्यं शून्यमिव ॥ २४ ॥

पक्षिणो गृहमारुह्य विक्षिपन्तः प्रतिक्षणम् ।
देहं शून्ये मृतं भक्त्या शोचन्ति मधौरैः स्वरैः ॥ २५ ॥

पूर्णः पूर्णं जगत्पश्येत्कामुकः कामुकं जगत् । आर्तोप्यार्तिमयं विश्वं
लुब्धो लुब्धं स्वचित्तवत् ॥ इति न्यायेनाहुः - पक्षिण इत्यादिना । शून्ये
आकाशे स्वदेहं विक्षिपन्तः ॥ २५ ॥

गुहागुरुगुरारावप्रलापलपनाकुलः ।
सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः ॥ २६ ॥

गुहारूपाणि यानि गुरुगुरारावप्रलापानि लपनानि मुखानि तैरकुलो व्याप्तो
व्याकुलश्च ॥ २६ ॥

निर्जराक्रन्दकारिण्यो मुक्ताम्बरपयोधराः ।
तप्तनिःश्वासविध्वस्ताः परं कार्श्यमिता दिशः ॥ २७ ॥

मुक्ताम्बरास्त्यक्ताकाशास्त्यक्तवस्त्राश्च पयोधरा मेघाः स्तनाश्च यासाम् ।
दिवपक्षे वाष्पधूसरा वायवो निःश्वाससाम्यान्निःश्वासाः ।
कार्श्यमपुष्टिम् ॥ २७ ॥

क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः ।
उपवासरतो ग्रामो दीनो मृतिपरः स्थितः ॥ २८ ॥

भूपरिलुठनाभिहननादिना क्षतविक्षतसर्वाङ्गः । ग्रामशब्दो जनपरः
मृतिपरो मर्तुकामः ॥ २८ ॥

प्। १९३)

दिवसं प्रति वृक्षाणामवश्यायाश्रुबिन्दवः ।
गुच्छलोचनकोशेभ्यस्तापोष्णानि पतन्त्यधः ॥ २९ ॥

दिवसं प्रति लक्षणीकृत्य । लक्षणेत्थम्भूत इति कर्मप्रवचनीययुक्ते द्वितीया ।
ताप आतपः शोकाग्निश्च ॥ २९ ॥

प्रशान्तजनसञ्चारा रथ्या क्षारविधूसरा ।
विधवाविगतानन्दा संशून्यहृदया स्थिता ॥ ३० ॥

क्षार ऊषरस्तेन विधूसरा रथ्या विधवेव विगतानन्दा स्थिता ॥ ३० ॥

कोकिलालिप्रलापिन्यो वृष्टिबाष्पहृता लताः ।
उष्णोष्णश्वसना देहं घन्ति पल्लवपाणिभिः ॥ ३१ ॥

कोकिलैरलिभिश्च प्रलापिन्यः ॥ ३१ ॥

आत्मानं शतधा कर्तुं बृहच्छ्वभ्रशिलातले ।
निर्झराः प्रपतन्त्येते तापतप्तशरीरकाः ॥ ३२ ॥

शतधा कर्तुम् । चूर्णयितुमिति यावत् । श्वभ्रं गर्तस्तत्रत्ये शिलातले । शुभ्रे इति
पाठे स्फटिकशिलातले ॥ ३२ ॥

निःशङ्कया गतश्रीका मूका विलुलिताशयाः ।
अन्धेन तमसा पूर्णा गृहा गहनतां गताः ॥ ३३ ॥

मूकाः हर्षवार्ताविधुराः । विलुलिता आशया इवान्तरा भाण्डोपस्करादयो
[भाण्डोपस्कारादयः इति पाठः] येषु । यत एवंरूपा अतो
निःशङ्कया असंशयं गतश्रीकाः सन्तो गहनतामरण्यताम् ॥ ३३ ॥

उद्यानपुष्पखण्डेभ्यो रुदद्भ्यो भ्रमरारवैः ।
पूतिगन्धो विनिर्याति स्वामोदापरनामकः ॥ ३४ ॥

स्वामोदोऽपि शोकार्तैर्घ्राणपीडकत्वात्पूतिरिति निन्द्यते ॥ ३४ ॥

चैत्रद्रुमविलासिन्यो विरसाः प्रतिवासरम् ।
लताः कृशा विलीयन्ते सङ्कुचद्गुच्छलोचनाः ॥ ३५ ॥

चैत्रद्रुमान्विलासयन्ति तच्छीलाः । चैत्य इति पाठे स्पष्टम् । विलीयन्ते विशीर्यन्ते ॥
३५ ॥

प्रक्षेप्तुमम्बुधौ देहं प्रवृत्ता गन्तुमाकुलाः ।
कुल्याः कलकलालोलं दोलयन्त्यस्तनुं भुवि ॥ ३६ ॥

कुल्याग्रहणं सरिन्मात्रोपलक्षणम् ॥ ३६ ॥

अशङ्कमशकापातस्पन्दमप्यतिचापलम् ।
कलयन्त्यः स्थिता वाप्यो निस्पन्दानन्दमात्मनि ॥ ३७ ॥

प्राग्जनव्यवहारादतिचापलमपि कलयन्त्यो वाप्यः साम्प्रतमशङ्कः
असम्भावितो मशकापातप्रयुक्तस्पन्दोऽपि यत्र तद्यथा स्यात्तथा आत्मनि
स्वस्वरूपे समाधिनिष्ठा इव निस्पन्दानन्दं स्थिताः ॥ ३७ ॥

गायत्किन्नरगन्धर्वविद्याधरसुराङ्गनम् ।
नूनमद्य नभो जातमस्मत्ताताभ्यलङ्कृतम् ॥ ३८ ॥

तातग्रहणं मातुरप्युपलक्षणम् ॥ ३८ ॥

तद्देव्यौ क्रियतां तावदस्माकं शोकनाशनम् ।
महतां दर्शनं नाम न कदाचन निष्फलम् ॥ ३९ ॥

एवं शोकमुपवर्ण्य विवक्षितमर्थमाहुः - तदिति । तत्तस्माद्धेतोः ॥ ३९ ॥

इत्युक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना ।
पल्लवेनानता नम्रं मूलग्रन्थिमिवाब्जिनी ॥ ४० ॥

पल्लवेन स्वसन्तानमूलग्रन्थिमिव अर्थाज्जलापाये इति लभ्यते ॥ ४० ॥

तस्याः स्पर्शेन तेनासौ दुःखदौर्भाग्यसङ्कटम् ।
जहौ प्रावृड्घनासङ्गाद्ग्रीष्मतापमिवाचलः ॥ ४१ ॥

सर्वो गृहजनः सोऽथ तयोर्देव्योर्विलोकनात् ।
लक्ष्मीवान्दुःखनिर्मुक्तो बभूवामृतपो यथा ॥ ४२ ॥

श्रीराम उवाच ।

तयास्य लीलया मात्रा पुत्रस्य ज्येष्ठशर्मणः ।
कस्मान्न दर्शनं दत्तं मोहं तावन्निराकुरु ॥ ४३ ॥

लीलायाः सत्यसङ्कल्पत्वात्पूर्वतनमातृशरीरेणैव पुत्रस्याश्वासनाय
दर्शनं कुतो न दत्तमिति रामः शङ्कते - तयेति । मात्रा मातृशरीरेण ।
मोहमिति । मोहापगमे तत्कार्यसंशयः स्वयमेव गमिष्यतीत्याशयः ॥ ४३ ॥

श्रीवसिष्ठ उवाच ।

बुद्धः पृथ्व्यादिबोधेन येन पृथ्व्यादिसङ्घकः ।
तस्य पिण्डात्मतां धत्ते व्योमैवान्यस्य केवलम् ॥ ४४ ॥

लीलायाः पुत्रगेहागमनस्य प्रपञ्चमिथ्यात्वपरीक्षार्थत्वेन
पुत्रस्नेहप्रयुक्तत्वाभावात्पुत्रादिप्रपञ्चे मिथ्यात्वनिश्चये च
पुत्रस्नेहाभावात्तत्त्वज्ञानेन मूलबाधोत्तरं
वर्तमानशरीरातिरिक्तभौतिकशरीरधारणायोगाच्च न पूर्वशरीरधारणमिति
सोपपत्तिकमुत्तरयितुं वसिष्ठ उपक्रमते - बुद्ध इत्यादिना । येनाज्ञेन
मिथ्यापृत्व्ह्यादिसङ्घको देहः सत्यपृथ्व्यादिबोधेन बुद्धस्तस्य वस्तुतः
केवलमद्वितीयं चिद्व्योमैव भ्रान्त्या पिण्डात्मतां धत्ते । अन्यस्य
तत्त्वज्ञस्य तु तद्धेत्वज्ञानाभावात्केवलमद्वितीयं चिद्व्योमैवावतिष्ठत
इत्यर्थः ॥ ४४ ॥

असदेवाङ्ग सदिव भाति पृथ्व्यादिवेदनात् ।
यथा बालस्य वेतालो नाभाति तदवेदनात् ॥ ४५ ॥

बालस्य भ्रान्त्या ना पुरुषस्तदवेदनाद्वेतालो भाति ॥ ४५ ॥

यथा पृथ्व्यादिना भातमपृथ्व्यादि भवेत्क्षणात् ।
स्वप्ने स्वप्नपरिज्ञानात्तथा जाग्रत्यपि स्फुटम् ॥ ४६ ॥

स्वप्नपरिज्ञानात्स्वप्नत्वपरिज्ञानात् ॥ ४६ ॥

पृथ्व्यादि खतया बुद्धं खमित्येवानुभूयते ।
तथाहि क्षुब्धधातूनां कुड्येषु ख इवोद्यमः ॥ ४७ ॥

क्षुब्धपित्तादिधातूनाम् । विक्षिप्तानामिति यावत् । द्वाराभासस्फटिकादिकुड्येषु
॥ ४७ ॥

स्वप्ने नगरमुर्वीं [ऊर्वी इत्युभयत्र पाठः] वा शून्यं
खातं च बुध्यते ।
स्वप्नाङ्गना च कुरुते शून्याप्यर्थक्रियां नृणाम् ॥ ४८ ॥

नगरं शून्यमूर्वी [ऊर्वी इत्युभयत्र पाठः] समभुवं खातं
बुध्यते । पादसंवाहनाद्यर्थक्रियाम् ॥ ४८ ॥

खं पृथ्व्यादितया बुद्धं पृथ्व्यादि भवति क्षणात् ।
मूर्च्छायां परलोकोऽपि प्रत्यक्षमनुभूयते ॥ ४९ ॥

परमार्थवस्तु यथाबोधं विवर्तत इति सर्वानुभवसिद्धमित्याह -
स्वमित्यादिना । अनुभूयते कैश्चिदिति शेषः ॥ ४९ ॥

बालो व्योमैव वेतालं म्रियमाणोऽम्बरे वनम् ।
केशोण्ड्रकं खमन्यस्तु खमन्यो वेत्ति मौक्तिकम् ॥ ५० ॥

त्रस्तक्षीबार्धनिद्राश्च नौयानाश्च सदैव खे ।
वेतालवनवृक्षादि पश्यन्त्यनुभवन्ति च ॥ ५१ ॥

त्रस्ता भीताः क्षिबा मत्ताः अर्धनिद्रा अर्धजागरूकाः । अनुभवन्ति तत्प्रयुक्तं
पलायनादिकार्यमित्यर्थः ॥ ५१ ॥

प्। १९४)

यथाभावितमेतेषां पदार्थानामतो वपुः ।
अभ्यासजनितं भाति नास्त्येकं परमार्थतः ॥ ५२ ॥

एकं नियतम् ॥ ५२ ॥

लीलया तु यथावस्तु बुद्धा पृथ्व्यादिनास्तिता ।
आकाशमेव संवित्त्या भाति भ्रान्तितयोदितम् ॥ ५३ ॥

कथं बुद्धा तदाह - आकाशमेवेति । भ्रान्तितया मिथ्याप्रपञ्चतया ॥ ५३

ब्रह्मात्मैकचिदाकाशमात्रबोधवतो मुनेः ।
पुत्रमित्रकलत्राणि कथं कानि कदा कुतः ॥ ५४ ॥

चतुर्भिः किंवृत्तैः प्रकारप्रकारिकालनिमित्तन्याक्षिप्यन्ते ॥ ५४ ॥

दृश्यमादावनुत्पन्नं यच्च भात्यजमेव तत् ।
सम्यग्ज्ञानवतामेवं रागद्वेषदृशो कुतः ॥ ५५ ॥

हस्तः शिरसि यद्दत्तो लीलया ज्येष्ठशर्मणः ।
तत्प्रभावस्थितारम्भसम्बोधायाश्चितेः फलम् ॥ ५६ ॥

ननु पुत्रस्नेहाद्यभावे लीलया कुतः शिरसि हस्तो दत्तस्तत्राह - हस्त इति ।
हस्तः शिरसि दत्त इति यत्तन्न पुत्रस्नेहफलं किन्तु तस्य ज्येष्ठशर्मणः
प्रभावाय भाविशुभार्थं स्थितौ आरम्भसम्बोधौ
प्राक्तनसुकृतोपक्रमतत्फलप्रदेश्वरबोधौ यस्यां तथाविधायाः
सर्वाधिष्ठानचितेरेव विवर्तरूपं फलमित्यर्थः ॥ ५६ ॥

बोधो हि चेतति यथैव तथा शुभानि
सूक्ष्मस्तु खादपि तथातितरां विशुद्धः ।
सर्वत्र राघव स एव पदार्थजालं
स्वप्नेषु कल्पितपुरेष्वनुभूतमेतत् ॥ ५७ ॥

सर्गसारार्थमनुवदन्नुपसंहरति - बोध इति । यथैव प्राक् चेतति चिन्तयति ॥
५७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
सिद्धदर्शनहेतुकथनं नाम षड्विंशः सर्गः ॥ २६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सिद्धदर्शनहेतुकथनं नाम षड्विंशः सर्गः ॥ २६ ॥