पञ्चविंशः सर्गः २५
श्रीवसिष्ठ उवाच ।
नभःस्थलाद्गिरिग्रामं गच्छन्त्यौ कञ्चिदेव ते ।
ज्ञप्तिचित्तस्थितं भूमितलं ददृशतुः स्त्रियौ ॥ १ ॥
सप्ताब्धिद्वीपसंवीतं ब्रह्माण्डावरणैर्युतम् ।
अपूर्वं भुवनं ताभ्यां दृष्टमत्रोपवर्ण्यते ॥ १ ॥
कञ्चित् अपूर्वं ज्ञप्तिचित्तस्थितं ज्ञप्त्या लीलायै प्रदर्शयितुमभि प्रेतमिति
यावत् ॥ १ ॥
प्। १९०)
ब्रह्माण्डनरहृत्पद्मं दिगष्टकदलं बृहत् ।
गिरिकेसरसम्बाधं स्वामोदभरसुन्दरम् ॥ २ ॥
तदेव भूमितलं ब्रह्माण्डपुरुषस्य हृत्पद्मतया वर्णयति -
ब्रह्माण्डेत्यादिना ॥ २ ॥
सरित्केसरिकानालमध्येऽवश्यायबिन्दुकम् ।
शर्वरिभ्रमरीभ्रान्तं भूतौघमशकाकुलम् ॥ ३ ॥
गिरिकेसरेभ्यः प्रवृत्तत्वात्सरितः केसरिकाः केसरावान्तरशाखाः ।
अवश्याया हिमकणा एव मकरन्दबिन्दवो यस्मिन् ॥ ३ ॥
अन्तर्गुणगणाकीर्णं सुरन्ध्रैः सुषिरैर्वृतम् ।
उह्यमानपयःपूरैर्दिवसालोककान्तिमत् ॥ ४ ॥
अन्तर्नालान्तर्गुणास्तन्तवो भोग्यवस्तुगुणाश्च । शोभननालरन्ध्रायमाणैः
पातालादिसुषिरैः । उद्यमानपयःपूरैरिति सुषिराणां विशेषणम् ।
दिवसस्यालोकः प्रकाशस्तेन कान्तिमत् ॥ ४ ॥
रसार्द्रं खे भ्रमद्धंसं रात्रिसङ्कोचभाजनम् ।
पातालपङ्कनिर्मग्ननागनाथमृणालकम् [नागराज इति
पाठः] ॥ ५ ॥
रसैर्मकरन्दैः शृङ्गारादिभिश्च । हंसः सूर्यः प्रसिद्धहंसाश्च ॥ ५ ॥
कदाचिदास्पदाम्भोधिकम्पकम्पितदिगदलम् ।
अधोनालगतानन्तदैत्यदानवकण्टकम् ॥ ६ ॥
तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत् इति श्रुतेः । पुराणेषु
वराहेणोद्धृत्य जलोपरि स्थापितत्वप्रसिद्धेश्च भूमेरास्पदभूतो यो
महाम्भोध्स्तत्कम्पे भूकम्पात्कम्पितदिग्दलम् ॥ ६ ॥
असुरस्त्रैणवल्लर्या सम्भोगसुकुमारया ।
प्राप्य भूभृन्महाबीजहृदयं भूतबीजया ॥ ७ ॥
अधस्ताद्भूतबीजया स्वसन्ततिभूतप्राणिबीजभूतया । असुराणां स्त्रीणां
समूहः स्त्रैणं तल्लक्षणया मृणालकलिकादिवल्लर्या प्राप्यं प्राप्तुं
शक्यं भूभृतां मेर्वादीनां महाबीजस्थानीयानां हृदयं
हृदयवज्जीवननिमित्तं नालमूलं यस्य ॥ ७ ॥
जम्बुद्वीप इति ख्यातां विपुलां तत्र कर्णिकाम् ।
सरित्केसरिकानालां नगरग्रामकेसराम् ॥ ८ ॥
तत्र भूपद्मे कर्णिकां ददृशतुरित्यनुषज्यते ॥ ८ ॥
कुलशैलेश्वरोत्तुङ्गबीजसप्तकसुन्दरीम् ।
मध्यस्थोच्चमहामेरुबीजाक्रान्तनभस्थलीम् ॥ ९ ॥
सरःप्रालेयकणिकां वनजङ्गलधूलिकाम् ।
स्थलेष्वामण्डलान्तस्थजनजालालिमण्डलाम् [स्थलेषु मण्डलां इति
पाठः] ॥ १० ॥
सरांस्येव प्रालेयकणिका हिमबिन्दवो यस्याम् । धूलिकाः परागाः ।
कर्णिकापर्यन्तस्थलेषु आसमन्तात् मण्डलान्तस्थानि जनजालान्यलिमण्डलानि
यस्याः ॥ १० ॥
तां योजनशताकारैः प्रतिराकं प्रबोधिभिः ।
सागरैर्भ्रमरैर्व्याप्तां दिक्चतुष्टयशालिभिः ॥ ११ ॥
दिग्दलाष्टकविश्रान्तससुराम्भोधिषट्पदाम् ।
भ्रातृभिर्नवभिर्भूपैर्नवधा परिकल्पिताम् ॥ १२ ॥
सुरैर्दिक्पालैरष्टभिः सहिता अम्भोधयः षट्पदा यस्याम् । पूर्वमेकस्यैव
समुद्रस्य दिक्चतुष्टयोपाधिभिश्चतुःसमुद्रभ्रमरकल्पना इह तु
अष्टदिक्पालोपाधिभिर्दलेष्वष्टसमुद्रभ्रमरकल्पनेति भेदः ।
नवभिर्भद्राश्वकेतुमालादिभिः ॥ १२ ॥
लक्षयोजनविस्तीर्णामाकीर्णां च रजोलवैः ।
नानाजनपदव्यूहस्थिरावश्यायसीकराम् ॥ १३ ॥
द्वीपात्तु द्विगुणं मानं लवणार्णवलेखया ।
दधत्या वलितां बाह्ये प्रकोष्ठमिव कम्बुना ॥ १४ ॥
द्वीपाद्द्विगुणमित्यादिपौराणिकप्रक्रियाविरुद्धोक्तेर्ब्रह्माण्डान्तरविषयत्वान्म्
आयिकत्वे तात्पर्याच्चदोषत्वं बोध्यम् । प्रकोष्ठं करमूलम् । कम्बुना
शङ्खवलयेन ॥ १४ ॥
ततोऽपि द्विगुणं देहं दधत्या वलयाकृतिम् ।
जगद्भूतलताव्याप्तां शाकाख्यद्वीपलेखया ॥ १५ ॥
वलयाकृतिं देहं संस्थानं दधत्या शाकाख्यद्वीपलेखया जगद्भूतया
पद्मलतयेव व्याप्ताम् ॥ १५ ॥
ततोऽपि द्विगुऽनाकारं धारयन्त्या च वेष्टिताम् ।
प्रत्यग्रक्षीरपूर्णाब्धिलेखया स्वादुशीतया ॥ १६ ॥
ततोऽपि द्विगुणाकारं धारयन्त्योपवेष्टिताम् ।
नानाजनालङ्कृतया कुशाख्यद्वीपलेखया ॥ १७ ॥
ततोऽपि द्विगुणाकारं धारयन्त्या च वेष्टिताम् ।
दध्यब्धिलेखया नित्यसन्तर्पितसुरौघया ॥ १८ ॥
ततः क्रौञ्चाभिधद्वीपलेखयैवम्प्रमाणया ।
वेष्टितां खातरचया नवां नृपपुरीमिव ॥ १९ ॥
एवम्प्रमाणया पूर्ववद्द्विगुणप्रमाणया खातस्य रचनं खातरचा
परिखा तया । भिदादित्वकल्पनादङ् ॥ १९ ॥
ततोऽपि च घृताम्भोधिलेखयिवम्प्रमाणया ।
ततोऽपि शाल्मलीद्वीपलेखया मलपूर्णया ॥ २० ॥
मलपूर्णया सुराम्भोधिवेष्टत्वात्पापपूर्णया ॥ २० ॥
ततः सुरामहाम्भोधिलेखया पुष्पशुभ्रया ।
शेषस्य देहलतया हरिमूर्तिमिवावृताम् ॥ २१ ॥
ततो गोमेदकद्वीपलेखयैवम्प्रमाणया ।
इक्ष्वब्धिलेखयाप्येवं हिमवत्सानुशुद्धया ॥ २२ ॥
इक्ष्वब्धिरिक्षुरसाब्धिः । गोमेदका मणिविशेषास्तत्प्रधानो द्वीपः
परिशेषात्प्लक्षद्वीपः ॥ २२ ॥
ततोऽपि पुष्करद्वीपलेखया द्विगुणस्थया ।
अन्ते स्वादूदकाम्भोधिलेखयैवम्प्रमाणया ॥ २३ ॥
ततो दशगुणेनाथ पातालतलगामिना ।
निखातवलयेनोच्चैः श्वभ्रसम्भाररूपिणा ॥ २४ ॥
निखातो निम्नदेशस्तद्बलयेन । श्वभ्रं गर्तस्तस्य सम्भारः
समूहस्तद्रूपिणा । पुराणेषु पूर्वद्विगुणविस्तारया काञ्चनभूम्येत्युक्तं
तद्विरोधपरिहारः प्रागुक्तरीत्या बोध्यः । तथाचोक्तं श्रीधराचार्यैः -
क्वचित्क्वचित्पुराणादौ विरोधो यदि लक्ष्यते । कल्पमेदादिभिस्तत्र व्यवस्था
सद्भिरिष्यते ॥ इति ॥ २४ ॥
प्। १९१)
पातालगामिमार्गेण वलितां भयदात्मना ।
एतस्मात्खलु सर्वस्मात्ततो दशगुणोच्चया ॥ २५ ॥
आव्योमसुचतुर्दिक्षु श्वभ्रसम्भारभीषया ।
अर्धोन्म्लानतमोरूपलग्ननीलोत्पलस्रजा ॥ २६ ॥
आव्योमसूर्ध्वं व्योममर्यादासु सन्निहितेनोक्तश्वभ्रसम्भारेण भीषया
भीषणया । अर्धे परपार्श्वे उन्म्लाना ऊर्ध्वभागे
सूर्यप्रकाशसम्भेदादवतमसभावापत्त्या म्लानप्राया
तमोरूपवलयाकारेण लग्ना नीलोत्पलस्रग्यस्यास्तया ॥ २६ ॥
नानामाणिक्यशिखरकह्लारकुमुदाब्जया ।
लोकालोकाचलोत्तालविपुलोद्दाममालया ॥ २७ ॥
नानाविधमाणिक्यशिखरसरोरूढकह्लारकुमुदान्येवाब्जानि यस्यास्तया
लोकालोकाचललक्षणया औन्नत्येनोत्तालया परिणाहेन विपुलया
गुणैश्चोद्दामया मालया वलितामिवेत्युत्तरेणान्वयः ॥ २७ ॥
वलितां त्रिजगल्लक्ष्मीधम्मिल्लवलनामिव ।
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥ २८ ॥
धम्मिल्लाः संयताः कचाः ॥ २८ ॥
अज्ञातभूतसञ्चारनाम्नारण्येन मालिताम् ।
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥ २९ ॥
सर्वपुराणानुरोधात्पाठक्रमादार्थक्रमस्य बलीयस्त्वाच्च अथ
योजनकोटीनामित्यन्ते वक्ष्यमाणा ब्रह्माण्डकुड्यव्याप्तिरत्रैव बोध्या ।
तद्बहिर्जलाद्यावरणान्याह - एतस्मादेवेत्यादिना ॥ २९ ॥
नभसेव चतुर्दिक्कं व्याप्तामतुलवारिणा [ममलवारिणा इति
पाठः] ।
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥ ३० ॥
मेर्वादिद्रावणोत्केन ज्वालाजालेन मालिताम् ।
एतस्मादथ सर्वस्मात्ततो दशगुणात्मना ॥ ३१ ॥
मेर्वादेर्द्रावणं द्रवीकरणम् । प्रलय इति यावत् । तत्रोत्केनोत्कण्ठितेनेव
मलितं ब्रह्माण्डमिति विशेष्यमत्राग्रेऽप्यध्याहार्यम् ॥ ३१ ॥
मेर्वाद्यचलसङ्घातं नयता तृणपांसुवत् ।
वहताद्रीन्द्रविस्फोटकारिणा जवहारिणा ॥ ३२ ॥
नयतेत्यादिसामर्थ्योक्तिः । भूतान्तराणां जवहारिणां ॥ ३२ ॥
निःशून्यत्वादशब्देन मरुता परितो वृतम् ।
एतस्मादथ सर्वस्मात्ततो दशगुणात्मना ॥ ३३ ॥
नितरां मूर्तप्रतिघातशून्यत्वादशब्देन ॥ ३३ ॥
परितो वलितं व्योम्ना निःशून्येनैकरूपिणा ।
अथ योजनकोटीनां शतेन घनरूपिणा ।
व्याप्तं ब्रह्माण्डकुड्येन हैमेनापि द्विपर्वणा ॥ ३४ ॥
इति जलधिमहाद्रिलोकपाल-
त्रिदशपुराम्बरभूतलैः परीतम् ।
जगदुदरमवेक्ष्य मानुषी द्राग्भुवि निजमन्दिरकोटरं ददर्श ॥ ३५ ॥
मानुषी लीला । निजमन्दिरकोटरं स्वमन्दिराधारं गिरिग्रामावकाशम् ॥ ३५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
भूलोकवर्णनं नाम पञ्चविंशः सर्गः ॥ २५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
भूलोकवर्णनं नाम पञ्चविंशः सर्गः ॥ २५ ॥