चतुर्विंशः सर्गः २४
श्रीवसिष्ठ उवाच ।
दूराद्दूरमभिप्लुत्य शनैरुच्चैः पदं गते ।
हस्तं हस्ते समालम्ब्य यान्त्यौ ददृशतुर्नभः ॥ १ ॥
अनन्तविश्ववैचित्र्यविलासैः सम्भृतान्तरम् ।
नभोऽत्र वर्ण्यते पन्थाः प्रयान्त्योर्ज्ञप्तिलीलयोः ॥ १ ॥
उच्चैः पदमूर्ध्वस्थानम् ॥ १ ॥
एकार्णवमिवोच्छूनं गम्भीरं निर्मलान्तरम् ।
कोमलं कोमलमरुदासङ्गसुखभोगदम् ॥ २ ॥
उच्छूनं विवृद्धम् । गम्भीरमेकार्णवमिव । कोमलमिव कोमलं
स्निगधम् । कोमलमरुताम्मन्दमारुतानामासङ्गेन संश्लेषेऽन
सुखभोदम् ॥ २ ॥
आह्लादकमलं सौम्यं शून्यताम्भोनिमज्जनात् ।
अत्यन्तशुद्धं गम्भीरं प्रसन्नमपि सज्जनात् ॥ ३ ॥
शून्यतालक्षणे अम्भसि निमज्जनादवगाहनादलमत्यन्तमाह्लादकम् । अथवा
जगच्छून्यतालक्षणे ब्रह्माम्भसि प्रथमं
निमज्जनान्निर्गमनात्प्राणिभ्रमराणामाह्लादहेतुभूतं कमलम् । अत्र
गम्भीरमिति साक्षाद्विशेषणं पूर्व तु दृष्टान्तस्येति न पौनरुक्त्यम् ।
सज्जनादपि प्रसन्नं प्रसन्नतरम् ॥ ३ ॥
शृङ्गस्थनिर्मलाम्भोदपीनोदरसुधालये ।
विशश्रमतुराशासु पूर्णचन्द्रोदरामले ॥ ४ ॥
आशासु दिक्षु मेर्वादिशृङ्गस्थे निर्मलाम्भोदपीनोदरलक्षणे
पीनोदरान्तर्निविष्टे वा सुधालये सौधे ॥ ४ ॥
सिद्धगन्धर्वमन्दारमालामोदमनोहरे ।
चन्द्रमण्डलनिष्क्रान्ते रेमाते मधुरानिले ॥ ५ ॥
क्वचिच्चन्द्रमण्डलसन्निधौ चन्द्रमण्डलान्निष्क्रान्ते । शैत्यसौरभ्ययोः
पूर्वविशेषणाभ्यां लाभान्मधुरशब्दो मान्द्यसुखस्पर्शपरः ॥ ५ ॥
सस्नतुर्भूरिघर्मान्ते तडिद्रक्ताब्जसङ्कुले ।
सरसीव जलापूरमन्थरे मेघमण्डले ॥ ६ ॥
घर्मोऽर्कतापस्तस्यान्ते अवसानभूते । तडितैव रक्ताब्जानि सरःपक्षे । तडितो
रक्ताब्जानीव मेघमण्डलपक्षे ॥ ६ ॥
प्। १८७)
भूतलौघमहाशैलमृणालाङ्कुरकोटिषु ।
दिक्षु बभ्रमतुः स्वैरं भ्रमर्यौ सरसीष्विव ॥ ७ ॥
तत्तद्भूतलौघस्था महाशैला हिमवत्कैलासादयो
मृणालानामब्जकन्दानामङ्कुरकोटय इव यासु ॥ ७ ॥
धारागृहधिया धीरगङ्गानिर्झरघारिणि ।
भ्रेमतुर्वातविक्षुब्धमेघमण्डलमण्डपे ॥ ८ ॥
निर्झरशब्देन तच्छीकरा लक्ष्यन्ते ॥ ८ ॥
ततो मधुरगामिन्यौ विश्राम्यन्त्यौ स्वशक्तितः ।
शून्ये ददृशतुर्व्योम महारम्भातिमन्थरम् ॥ ९ ॥
महद्भिरारम्भैर्भुवनतज्जननिर्माणैरतिमन्थरं सङ्क्लिष्टम् ॥ ९ ॥
अदृष्टपूर्वमन्योन्यं सर्वसङ्कटकोटरम् ।
अपूर्यमाणमाशून्यं जगत्कोटिशतैरपि ॥ १० ॥
यद्यपि प्रज्ञप्त्या प्राग्दृष्टमेव तथाप्यन्योन्यं परस्परसाहित्येन
पूर्वमदृष्टम् । सर्वे सङ्कटकोटरा गर्भच्छिद्रादय्ॐऽशा यस्य ।
सर्वप्राणिभवदुःखानामाश्रयभूतं छिद्रमिति वार्थः ।
आशून्यत्वमपूर्यमाणत्वे हेतुः ॥ १० ॥
उपर्युपर्युपर्युच्चैरन्यैरन्यैर्वृतं पृथक् ।
विचित्राभरणाकारैर्भूतलैः सुविमानकैः ॥ ११ ॥
विचित्राभरणप्रख्यैर्भूतलैर्लक्षणया भुवनतलैः । शोभनानि विमानानि
येषु तैः ॥ ११ ॥
परितः पूरितव्योम्नां मेर्वादिकुलभूभृताम् ।
पद्मरागतटोद्द्योतैः कल्पज्वालोपमोदरम् ॥ १२ ॥
पद्मरागमणिमयानां तटानां पार्श्वानामुद्द्योतैः प्रकाशैः ॥ १२ ॥
मुक्ताशिखरभापूरैर्हिमवत्सानुसुन्दरम् ।
काञ्चनाद्रिस्थलार्चिर्भिः काञ्चनस्थलभासुरम् ॥ १३ ॥
तेषामेव भूभृतानं मुक्तामयशिखराणां भापूरैः
प्रभाप्रवाहैर्हिमवतः सानुः प्रस्थदेशस्तद्वद्भासुरम् ॥ १३ ॥
महामरकताभाभिः शाद्वलस्थलनीलिमम् ।
द्रष्टृदृश्यक्षयासक्तजातध्वान्तोत्थकालिमम् ॥ १४ ॥
तथा तेषामेव भूभृतां महामरकतानां महार्हहरिन्मणीनां
प्रभाभिर्घासहरितस्थलस्य नीलिमेव नीलिमा यस्य । तथा क्वचिद्रष्टॄणां
सचक्षु।आं रूपभेदानां क्षये आसक्तस्तत्परः सन् जात उत्पन्नो
ध्वान्तोत्थकालिमा यस्मिंस्तथाविधम् ॥ १४ ॥
पारिजातलतालोलविमानगणकेतनम् ।
अतो मञ्जरिकाकारमिव वैदूर्यभूतलम् ॥ १५ ॥
क्वचित्तु यतः पारिजातकल्पलतावनोपरि आलोलविमानगणानां केतनं
स्थानमतः समीपस्थदृष्ट्या तद्वनमञ्जरिकाकारमिव दूरस्थदृष्ट्या तु
वैदूर्यमयभूतलमिव स्थितमित्यर्थः ॥ १५ ॥
मनोवेगमहासिद्धजितवातगमागमम् ।
विमानगृहदेवस्त्रीगेयवाद्यसघुङ्घुमम् ॥ १६ ॥
मनोवेगैर्महासिद्धैर्वातगमागमो वायुसञ्चारवेगः स जितो यस्मिन् ।
घुङ्घुममिति ध्वन्यनुकरणम् ॥ १६ ॥
त्रैलोक्यवरभूतौघसञ्चाराविरलान्तरम् [सञ्चारविरलां इति
पाठः] ।
अन्योन्यादृष्टसञ्चारसुरासुरकुलाकुलम् ॥ १७ ॥
पर्यन्तस्थितकूष्माण्डरक्षःपैशाचमण्डलम् ।
वातस्कन्धमहावेगवहद्वैमानिकव्रजम् ॥ १८ ॥
वातस्कन्धा आवहप्रवहादयो वायुभेदाः ॥ १८ ॥
वहद्विमानसीत्कारमुष्टिग्राह्यघनध्वनि ।
ग्रहर्क्षघनसञ्चारात्प्रचलद्वातयन्त्रकम् ॥ १९ ॥
विमानसीत्कारो विमानवेगध्वनिस्तस्य मोषणं मुष्टिरभिभवस्तेन ग्राह्या
घनध्वनयो मेघशब्दा यस्मिन् । वातयन्त्रकं
वायुविष्टम्भमययन्त्ररूपं ज्योतिश्चक्रम् ॥ १९ ॥
निकटातपदग्धाल्पसिद्धसिद्धोज्झितास्पदम् ।
अर्काश्वमुखवातास्तदग्धमुग्धविमानकम् ॥ २० ॥
क्वचित्सूर्यसन्निहितदेशनिकटातपेन दग्धैः सन्तप्तैस्तपोयोगरसायनादिना
अल्पसिद्धैः सिद्धाख्यदेवयोनिविशेषैश्चोज्झितावस्थानम् । अर्केण
तदीयाश्वमुखवातैश्च यथायोगमस्ताः क्षिप्ता दग्धाश्चाल्पा विमाना
विमानका यस्मिन् ॥ २० ॥
लोकपालाप्सरोवृन्दसञ्चाराचारचञ्चलम् ।
देव्यन्तःपुरिकादग्धधूपधूमाम्बुदाम्बरम् ॥ २१ ॥
पद्भ्यां सञ्चारा इतरैरङ्गैस्तत्तदुचिताचरणान्याचारास्तैश्चञ्चलमिव
चञ्चलम् । धूपधूमैरम्बुदव्याप्ताम्बरमिव स्थितम् । विष्णुना सदृशो
वीर्य इति राम इव कल्पितभेदादुपमेयता ॥ २१ ॥
स्वस्वर्गाहूतदेवस्त्रीस्वाङ्गविभ्रष्टभूषणम् ।
सामान्यसिद्धसङ्घोग्रतेजःपुञ्जतमोबलम् ॥ २२ ॥
इन्द्रचन्द्रादिभिः स्वर्गशब्दितस्वस्वलोकायाहूतानामत
एवान्यानुपेक्ष्याहम्पूर्विकया धावन्तीनां देवस्त्रीणामप्सरसां
स्वाङ्गेभ्यो विभ्रष्टानि भूषणानि यस्मिंस्तथाविधं यतः अतस्ताः
समीहमानानां
सामान्यसिद्धानामिन्द्रादिवदणिमादिविशेषसिद्धिशून्यानां
स्वर्ग्यन्तराणां यः सङ्घस्तदीयोग्रतेजःपुञ्जस्य क्रोधासूयादिना
तिरोभावकं तमोबलं तमोगुणप्राबल्यमिव नीलं स्थितमित्यर्थः ॥ २२ ॥
बलवत्सिद्धसङ्घट्टगमागमविघट्टितैः ।
घनैः सांशुकपार्श्वस्थहिमवन्मेरुमन्दरम् ॥ २३ ॥
तथा बलवतां सिद्धानां देवयोनिविशेषाणां सङ्घट्टः
सम्मर्दस्तद्युक्तगमनाभ्यां
विघट्टितैश्चूर्णितैर्घनैर्मेघैस्तद्भयादिव
पार्श्वस्थहिमवदाद्यधित्यकाश्रयणात्सांशुकाः स्वस्त्रा इव सम्पन्ना
हिमवन्मेरुमन्दरा यस्मिन् ॥ २३ ॥
काकोलूकैर्गृध्रभासै राशिभूतैश्चलैर्वृतम् ।
नृत्यद्भिर्डाकिनीसङ्घैस्तरङ्गैरिव वारिधिम् ॥ २४ ॥
उलूकादयः पक्षिभेदाः ॥ २४ ॥
प्रवृत्तैर्योगिनीसङ्घैः श्वकाकोष्ट्रस्वराननैः ।
निरर्थं योजनशतं गत्वागच्छद्भिरावृतम् ॥ २५ ॥
योगिनीनामणिमादिसिद्द्धिमत्त्वात्स्वस्थान एवेप्सितलाभेऽपि व्यर्थं दूरं गत्वा
आगच्छद्भिरित्यर्थः ॥ २५ ॥
प्। १८८)
लोकपालपुरोध्वान्तधूमधूम्रेऽभ्रमन्दिरे [धूग्राभ्रमन्दिरं
इति पाठः] ।
सिद्धगन्धर्वमिथुनप्रारब्धसुरतोत्सवम् ॥ २६ ॥
दिगन्तविश्रान्तत्वात्तत्तद्दिगधिष्ठातृलोकपालानां पुरोग्रत इव स्थिते
ध्वान्तवद्दृष्टिप्रसरनिरोधिनि धूमधूम्रेऽभ्ररूपे मन्दिरे ॥ २६ ॥
स्वर्गगीतस्तवोन्मत्तमदनाक्रान्तमार्गगम् ।
अनारतवहद्धिष्ण्यचक्रलक्षितपक्षकम् ॥ २७ ॥
स्वर्गे गीयमानैर्दिव्यगीतैर्दिव्यस्तवैश्चोद्दीपकैरुन्मत्ता मदनाक्रान्ताश्च
नभोमार्गगा यस्मिन् । अनारतं वहति नक्षत्रधिष्ण्यभूते ज्योतिश्चक्रे
सूर्यादिगत्या लक्षितः शुक्लकृष्णपक्षादिकालविभागो यस्मिन् ॥ २७ ॥
वातस्कन्धनिखातान्तर्वहत्त्रिपथगाजलम् ।
आश्चर्यालोकनव्यग्रसञ्चरत्त्रिदशार्भकम् ॥ २८ ॥
वातस्कन्धभेदरूपे तस्मिन्नेव चक्रे कल्पितो निखातो
निम्नदेशस्तदन्तःप्रवहत्त्रिपथगाजलं यस्मिन् ॥ २८ ॥
सदेहसञ्चरद्वज्रचक्रशूलासिशक्तिमत् ।
क्वचिन्निर्भित्ति भवनं गायन्नारदतुम्बुरु ॥ २९ ॥
वज्रचक्रादिशब्दैस्तदधिष्ठात्र्यो देवता उच्यन्ते अतः सदेहत्वोपपत्तिः ॥ २९ ॥
मेघमार्गमहामेघमहारम्भाकुलं क्वचित् ।
चित्रन्यस्तसमाकारमूककल्पान्तवारिदम् ॥ ३० ॥
मेघमार्गप्रदेशे महामेघानां पुष्करावर्तकादीनां महता
प्रलयवृष्ट्यारम्भेणाकुलं क्वचित्तु चित्रन्यस्तवन्निर्व्यापारा मूका
निःशब्दाश्च कल्पान्तवारिदा यस्मिन् ॥ ३० ॥
उत्पतत्कज्जलाद्रीन्द्रसुन्दराम्भोधरं क्वचित् ।
क्वचित्कनकनिष्पन्दकान्ततापान्तवारिदम् ॥ ३१ ॥
कनकस्य निस्पन्दो द्रव इव कान्तस्तपो ग्रीष्मः स एव तापस्तदन्तः
प्रावृडादिः ॥ ३१ ॥
क्वचिद्दिग्दाहतापाढ्यमृष्यमूकाम्बुदांशुकम् ।
क्वचिन्निष्पवनाम्भोधिसंरम्भं शून्यताजलम् ॥ ३२ ॥
ऋष्यमूके गिरौ पूर्वरामायणावर्णितप्रकारेणेव वर्षन्तोऽम्बुदा
एवांशुकानि यस्य । विष्पवनो निश्चल इति यावत् ॥ ३२ ॥
क्वचिद्वातनदीप्रौढविमानतृणपल्लवम् ।
क्वचिच्चलदलिव्रातपृष्ठत्वक्कान्तिनिर्मलम् ॥ ३३ ॥
वातनद्यां वायुप्रवाहे प्रौढविमानान्येव
प्रवाह्यमानतृणपल्लवस्थाने यस्मिन् ॥ ३३ ॥
क्वचिन्मेरुनदीकल्पवातधूलिविधूसरम् ।
क्वचिद्विमानगीर्वाणप्रभाचित्रब्लाङ्गकम् ॥ ३४ ॥
मेरुनद्यो लक्षणया
वार्षिकगिरिणद्यस्तत्कल्पैस्तत्सवर्णैर्वातधूलिप्रवाहैर्विधृसरम् । चित्रेण
बलं शबलमङ्गकं यस्य ॥ ३४ ॥
क्वचिन्निरम्बरोन्नृत्तमातृमण्डलमालितम् [निरन्तरोन्नृत्त इति
पाठः] ।
क्वचिन्नित्यं नवक्षीबक्षुब्धयोगीश्वरीगणम् ॥ ३५ ॥
क्वचिच्छान्तसमाधिस्थविश्रान्तमुनिमालितम् ।
समं दूरास्तसंरम्भसाधुचित्तमनोहरम् ॥ ३६ ॥
दूरेऽस्ताः संरम्भाः क्रोधादयो येन साधुचित्तेन ॥ ३६ ॥
गायत्किन्नरगन्धर्वसुरस्त्रीमण्डलं क्वचित् ।
क्वचित्स्तब्धपुराकीर्णं वहत्पुरवरं क्वचित् ॥ ३७ ॥
स्तब्धैर्निश्चलैः पुरैराकीर्णम् । वहन्ति भ्रमन्ति त्रिपुरादिपुरवराणि यस्मिन् ॥
३७ ॥
क्वचिद्रुद्रपुरापूर्णं क्वचिद्ब्रह्ममहापुरम् ।
क्वचिन्मायाकृतपुरं क्वचिदागामिपत्तनम् ॥ ३८ ॥
क्वचिद्भ्रमच्चन्द्रसरः क्वचित्स्तब्धमयंसरः ।
क्वचित्सरत्सिद्धगणं क्वचिदिन्दुकृतोदयम् ॥ ३९ ॥
भ्रमच्चन्द्र एवामृतपूर्णत्वाच्चन्द्रसदृशं वा मायासरो यस्मिन् ।
स्तब्धमयं देवशक्त्या घनीभूतं जलमयं सरो यस्मिन् ।
विभक्त्यलुक्छान्दसः ॥ ३९ ॥
क्वचित्सूर्योदयमयं क्वचिद्रात्रितमोमयम् ।
क्वचित्सन्ध्यांशुकपिलं क्वचिन्नीहारधूसरम् ॥ ४० ॥
क्वचिद्धिमाभ्रधवलं क्वचिद्वर्षत्पयोधरम् ।
क्वचित्स्थल इवाकाश एव विश्रान्तलोकपम् ॥ ४१ ॥
आकाश एव विश्रान्तलोकपमिति विश्रान्तिक्रियाया अधिकरणसापेक्षतया
नित्यत्वात्सम्बन्धिशब्दत्वाच्च न सापेक्षमसमर्थं
भवतीत्यसमर्थसमासता । तथाचोक्तम् - सम्बन्धिशब्दः सापेक्षो नित्यं
सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ इति ॥ ४१ ॥
ऊर्ध्वाधोगमनव्यग्रसुरासुरगणं क्वचित् ।
पूर्वापरोत्तरायाम्यदिक्सञ्चाराकुलं क्वचित् ॥ ४२ ॥
अपराशब्दः प्रतीचीपरः परिशेषात् । उत्तरा याम्येति सर्वनाम्नो
वृत्तावपुंवद्भावश्छान्दसः । दिशः सञ्चरन्तीति दिक्सञ्चारास्तैराकुलम् ॥
४२ ॥
अपि योजनलक्षाणि क्वचिद्दुष्प्रापभूधरम् ।
अविनाशितमःपूर्णं दृषद्गर्घोपमं क्वचित् ॥ ४३ ॥
क्वचिल्लोकालोकगिरेः परतः ॥ ४३ ॥
अविनाशिबृहत्तेजः क्वचिदर्कानलोपमम् ।
हिमानीजठराशीतं क्वचिच्चन्द्रादिसमसु ॥ ४४ ॥
हिमानी हिमसंहतिस्तज्जठरवदाशीतम् ॥ ४४ ॥
क्वचिद्वहत्पुरोवृत्तकल्पवृक्षलतावनम् ।
क्वचिद्दैत्यहतोत्तुङ्गप्रपतद्देवपत्तनम् ॥ ४५ ॥
क्वचिद्दैत्यभयादुत्पाट्य वहद्भिर्देवानुचरैः पुरोवृत्तं पुरस्कृतं
कल्पवृक्षलतावनं यस्मिन् ॥ ४५ ॥
वैमानिकनिपातेन वह्निलेखाङ्कितं क्वचित् ।
क्वचित्केतुशतोत्पातमिथःसङ्घट्टपट्टितम् ॥ ४६ ॥
क्वचिद्वैमानिकानां स्वर्गिणां निपातेन दीर्घीभूततत्तेजसा
पतदुल्कावह्निरेखयेवाङ्कितं चिह्नितम् । पट्टितं पट्टवन्निविडितम् ॥ ४६ ॥
क्वचिच्छुभग्रहगणप्रगृहीताग्र्यमण्डलम् ।
क्वचिद्रात्रितमोव्याप्तं क्वचिद्दिवसभास्वरम् ॥ ४७ ॥
अग्र्यं श्रेष्ठं ऊर्ध्वभागमण्डलं यस्य ॥ ४७ ॥
क्वचिदुद्गर्जदम्भोदं क्वचिन्मूकामलाम्बुदम् ।
वातावकीर्णशुक्लाभ्रखण्डपुष्पोत्तरं क्वचित् ॥ ४८ ॥
अभ्रखण्डा एव पुष्पोत्तराः पुष्पास्तरा यस्य ॥ ४८ ॥
प्। १८९)
क्वचिदत्यन्तनिःशून्यमवदातमनन्तरम् ।
आनन्दमृदुशान्ताच्छं ज्ञस्येव हृदयं ततम् ॥ ४९ ॥
नितरां दृश्यपदार्थशून्यम् । अवदातं स्वच्छम् ।
अनन्तरमज्ञानमेघान्तरायरहितम् । अच्छं नीरजस्कम् ॥ ४९ ॥
शुक्रवाहनभेकौघैः क्वचिद्गलकृतारवम् ।
शून्यतावारिवलितं क्षेत्रमाकाशवासिनाम् ॥ ५० ॥
शुक्रोपलक्षितसर्वनभश्चरवाहनान्येव भेकौघास्तैः । शून्यतावारिणा
वलितं पूर्णम् । क्षेत्रं केदारम् ॥ ५० ॥
मयूरहेमचूडादिपक्षिभिः क्वचिदावृतम् ।
विद्याधरीणां देवीनां वाहनैर्विहितास्पदैः ॥ ५१ ॥
क्वचिदभ्रान्तरोन्नृत्यद्गुहमायूरमण्डलम् ।
क्वचिदग्निशुकैः श्यामं शाद्वलानामिव स्थलम् ॥ ५२ ॥
गुहः स्कन्दः । अग्नेर्वाहनैः शुकैः । यद्यपि मेषवाहनत्वमग्नेः
प्रसिद्धं तथाप्यत्रोक्तेः शुकवाहनत्वमपि बोध्यम् ॥ ५२ ॥
क्वचित्प्रेतेशमहिषमहिम्ना वामनाम्बुदम् ।
क्वचिदश्वैस्तृणग्रामशङ्काग्रस्तासिताम्बुदम्
[ग्रस्तामिताम्बुदं इति पाठः] ॥ ५३ ॥
प्रेतेशो यमस्तन्महिषस्य महिम्ना बृहत्कायत्वेन । तृणग्रामशङ्का
तृणराशिभ्रमः ॥ ५३ ॥
क्वचिद्देवपुरव्याप्तं क्वचिद्दैत्यपुरान्वितम् ।
अन्योन्याप्राप्यनगरं नगरन्ध्रकरानिलम् ॥ ५४ ॥
अन्योन्यैरप्राप्ये प्राप्तुमशक्ये नगरे यस्मिन् । तत्र हेतुः - अन्तराले
नगानां पर्वतानामपि रन्ध्रकरणसमर्थो बलवत्तरोऽनिलो यस्मिन्निति ॥ ५४ ॥
क्वचित्कुलाचलाकारनृत्यद्भैरवभासुरम् ।
क्वचित्सपक्षशैलेन्द्रसमनृत्यद्विनायकम् ॥ ५५ ॥
क्वचिद्धर्घरवातौघपक्षप्रोड्डीनपर्वतम् ।
क्वचिद्गन्धर्वनगरसुरस्त्रीवृन्दबन्धुरम् ॥ ५६ ॥
घर्घरवातौघं यथा स्यात्तथा पक्षैः प्रोड्डीनाः पर्वता यस्मिन् ॥ ५६ ॥
क्वचिद्वहद्गिरिध्वस्तवृक्षलक्षोच्छ्रिताम्बुदम् ।
क्वचिन्मायाकृताकाशनलिनीजलशीतलम् ॥ ५७ ॥
वहद्भिरुड्डीय गच्छद्भिर्गिरिभिर्ध्वस्ताश्चूर्णिता
वृक्षलक्षैश्छत्रवदुच्छ्रिताश्चाम्बुदा यस्मिन् । अम्बुधिम् इति
पाठेऽप्यम्बूनि धीयन्ते येष्विति व्युत्पत्त्याट्राम्बुदा एवोच्यन्ते ॥ ५७ ॥
क्वचिदिन्दुकराकृष्टिशीतलाह्लादमारुतम् ।
क्वचित्तप्तानिलादग्धद्रुमपर्वतवारिदम् ॥ ५८ ॥
क्वचिदत्यन्तसंशान्तवातादेकान्तनिर्ध्वनि ।
क्वचित्पर्वततुल्याभ्रशिखाकूटशतोदयम् ॥ ५९ ॥
एकान्तं नितान्तं निर्ध्वनि ॥ ५९ ॥
क्वचित्प्रावृड्भवोन्मत्तघनाभ्ररवघर्घरम् ।
क्वचित्सुरासुरगणप्रवृत्तरणदुर्गमम् ॥ ६० ॥
क्वचिद्व्योमाब्जिनीहंसीस्वनाहूताब्जवाहनम् ।
क्वचिन्मन्दाकिनीतीरनलिनीलुण्ठकानिलम् ॥ ६१ ॥
अब्जवाहनपदे छन्दसो जलोपः । नलिनीनां लुण्ठकः सौरभ्यापहारी ॥ ६१ ॥
स्वशरीरेण गङ्गादिसरितां सन्निधानतः ।
प्रोड्डीनमत्स्यमकरकुलीराम्बुजकूर्मकम् ॥ ६२ ॥
स्वशरीरेण देवताशरीरेण । प्रोड्डीनेत्यादेरुत्प्रेक्षितोक्तिः ॥ ६२ ॥
पातालगार्कजनितभूच्छायाकाकचोपनैः ।
क्वचित्क्वचिन्मण्डलेषु ग्रस्तचन्द्रार्कमण्डलम् ॥ ६३ ॥
ज्यौतिषिकप्रक्रियामाश्रित्याह - पातालेति । भूगोलं परितो भ्रमत्यादित्ये
भूच्छायामपि परितो भ्रमन्ती पातालगेऽर्के ऊर्ध्व प्रसरति सैव
श्यामत्वात्काकस्तस्य चोपनैः । चुप मन्दगतौ । आक्रमणैरिति यावत् । सेयं
चन्द्रग्रासे उपपत्तिः । अर्कग्रासे तु नेयमुपपत्तिरिति श्लेषादर्थान्तरमुच्यते ।
पातालशब्देन लक्षणया चन्द्रस्य व्यवहितः पश्चाद्भागस्तद्गतेऽर्के सति
चन्द्रमण्डले जनिता या भुवश्छाय प्रतिबिम्बस्तेन श्यामत्वापादनात्काकवत्
सम्पन्नश्चन्द्रस्तेन चोपनैरिति ॥ ६३ ॥
क्वचित्सर्गानिलाधूतमायाकुसुमकाननम् ।
पतत्पुष्पहिमासारत्रसद्वैमानिकाङ्गनम् ॥ ६४ ॥
वैमानिकैरेव स्वाङ्गनाविस्मयार्थनिर्मितमायासर्गानिलैराधूतं
मायाकुसुमकाननं यस्मिन्नित्यर्थः ॥ ६४ ॥
उदुम्बरोदरमशकक्रमभ्रम-
ज्जगत्त्रयान्तरगतभूतसञ्चयम् ।
विलङ्घ्य तद्वरललने खमुच्चकै-
र्महीतलं पुनरपि गन्तुमुद्यते ॥ ६५ ॥
इत्थं नभसि वर्णिते नभश्चरवैभवे रागो मा भूदिति तांस्तुच्छीकुर्वन्नाह
- उदुम्बरेति । मशकक्रमो मशकमर्यादा तद्वदिति यावत् ॥ ६५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे
लीलाप्रज्ञादेव्योर्गमनवर्णनं नाम चतुर्विंशः सर्गः ॥ २४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
लीलाप्रज्ञादेव्योर्गमनवर्णनं नाम चतुर्विंशः सर्गः ॥ २४ ॥