त्रयोविंशः सर्गः २३
श्रीवसिष्ठ उवाच ।
इति सङ्कथनं कृत्वा तस्यां निशि वराङ्गने ।
सुप्ते परिजने नूनमथान्तःपुरमण्डपे ॥ १ ॥
योगात्स्थूलतनुं त्यक्त्वा गिरिग्रामदिदृक्षया ।
गृहे व्योम्नि गतिः स्फारे वर्ण्यते ज्ञप्तिलीलयोः ॥ १ ॥
परिजने अनूनमपरिशेषं सुप्ते सत्यथ वराङ्गने ज्ञप्तिलीले
समाधिस्थानकं गत्वा तस्थतुरिति चतुर्थस्थेनान्वयः ॥ १ ॥
दृढाखिलार्गलद्वारगवाक्षे दक्षचेतसि ।
पुष्पप्रकरनिष्ठ्यूतमांसलामोदमन्थरे [पुष्पप्राकार इति
पाठः] ॥ २ ॥
दक्षचेतसीति प्राक्तनपरिजनविशेषणं गौणं [मण्डपविशेषणत्वे एव
गौणमित्यर्थः] वा । दृढाः अखिलाः सर्वाः । बहुविधा इति यावत् ।
अर्गलाः कपाटविष्कम्भा येषु तथाविधा द्वारगवाक्षा यस्मिन् ।
पुष्पप्रकरैर्निष्ठ्यूतैर्निरस्तैर्मांसलैः पुष्टैरामोदैर्मन्थरे । भरिते इति
यावत् ॥ २ ॥
अम्लानमालावसनशवपार्श्वासनस्थिते ।
सकलामलपूर्णेन्दुवदनद्योतितास्पदे ॥ ३ ॥
सकलं समग्रममलमकलङ्कं च यथा स्यात्तथा पूर्ण इन्दुरिव ये वदने
इति विग्रहो नतु सकलः कलासहितः पूर्णेन्दुरिवेति । व्यर्थविशेषणत्वापत्तेः ॥ ३ ॥
समाधिस्थानकं गत्वा तस्थतुर्निश्चलाङ्गिके ।
रत्नस्तम्भादिवोत्कीर्णे चित्रे भित्ताविवार्पिते ॥ ४ ॥
उत्कीर्णे पुत्रिके इति शेषः । चित्रे चित्रलिखितप्रतिमे ॥ ४ ॥
सर्वास्तत्यजतुश्चिन्ताः सङ्कोचं समुपागते ।
दिवसान्त इवाब्जिन्यौ प्रसृतामोदलेखिके ॥ ५ ॥
सङ्कोचं सर्वेन्द्रियप्रत्याहारलक्षणम् । परितः प्रसृता आमोदलेखाः
परिमलभागा ययोस्ते ॥ ५ ॥
बभूवतुर्भृशं शान्ते शुद्धे स्पन्दविवर्जिते ।
गिरौ शरदि निर्वात इव भ्रष्टाभ्रमालिके ॥ ६ ॥
निर्वाते शरदि गिरौ भ्रष्टे अवतीर्णे अभ्रमालिके यथा शुद्धे शुभे
शान्तशीतले स्पन्दविवर्जिते च तद्वत् ॥ ६ ॥
प्। १८६)
निर्विकल्पसमाधानाज्जहतुर्बाह्यसंविदम् ।
यथा कल्पलते कान्ते पूर्वमृत्वन्तरे रसम् ॥ ७ ॥
बाह्यां देहाद्यनात्मवस्तुतद्गोचरां संविदं प्रतिसन्धाअम् । यथा
ऋत्वन्तरे वसन्तादावुपस्थिते पूर्वं रसं त्यजतः ।
पुराणपत्रशोषादिदर्शनादित्यर्थः ॥ ७ ॥
अहं जगदिति भ्रान्तिदृश्यस्यादावनुद्भवः ।
यदा ताभ्यामवगतस्त्वत्यन्ताभावनात्मकः ॥ ८ ॥
आत्यन्तिकदृश्योपशमेन निर्विकल्पसमाधिप्रतिष्ठायां तत्त्वसाक्षात्कारेण
समूलत्रैकालिकदृश्यबाध एव परिनिष्ठितो हेतुरित्याह -
अहमित्यादिसार्धेन ॥ ८ ॥
तदा दृश्यपिशाचोऽयमलमस्तं गतो द्वयोः ।
असत्त्वादेव चास्माकं शशशृङ्गमिवानघ ॥ ९ ॥
समाधाविव सर्वदापि त्रैकालिकदृश्यबाधोऽस्माकमनुभवसिद्ध इति
वसिष्ठो रामं सम्बोध्याह - असत्त्वादित्यादिन सार्धेन । अस्माकं दृशा
जगद्भातं मृगतृष्णाम्बुवदभातं शशशृङ्गमिव । यतो
यदादावेव नास्ति तद्वर्तमानेऽपि तथेत्यन्वयः ॥ ९ ॥
आदावेव हि यन्नास्ति वर्तमानेऽपि तत्तथा ।
भातं वाऽभातमेवातो मृगतृष्णाम्बुवज्जगत् ॥ १० ॥
स्वभावकेवलं शान्तं स्त्रीद्वयं तद्वभूव ह ।
चन्द्रार्कापदार्थौघैर्दूरमुक्तमिवाम्बरम् ॥ ११ ॥
दृश्यास्तमये ते कथं बभूवतुस्तदाह - स्वभावेति । चन्द्रार्कादिभिः
सर्वपदार्थौघैर्दूरे मुक्तमम्बरं सर्गादौ वायूत्पत्तेः
प्राग्वाय्वन्तप्रलये च प्रसिद्धं तदिव ॥ ११ ॥
तेनैव ज्ञानदेहेन चचार ज्ञप्तिदेवता ।
मानुषी त्वितरेणाशु ध्यानज्ञानानुरूपिणा
[ज्ञानाज्ञानानुरूपिणी] ॥ १२ ॥
वक्ष्यमाणव्योमगमने तयोर्देहवैलक्षण्यमाह - तेनेति ॥ १२ ॥
गेहान्तरेव प्रादेशमात्रमारुह्य संविदा ।
बभूवतुश्चिदाकाशरूपिण्यौ व्योमगाकृती ॥ १३ ॥
तच्च दूरनभोगमनकल्पनं स्वगृहमण्डपाकाशप्रादेशमात्र एव
वृत्तं न बहिरित्याह - गेहान्तरिति । देहान्तः इति पाठे
हृदयात्कण्ठपर्यन्तं प्रादेशमात्रं नाडीमार्गमारुह्येत्यर्थः ।
संविदा उद्भुद्धपूर्वसङ्कल्पसंस्कारसंविदा ॥ १३ ॥
अथ ते ललने लीलालोले ललितलोचने ।
स्वभावाच्चेत्यसंवित्तेर्नभो दूरमितो गते ॥ १४ ॥
चेत्या विषयास्तत्संवित्तेः स्वभावो विषयानुरूपव्यवहारकल्पना
तद्वशादित्यर्थः ॥ १४ ॥
तत्रस्थे वाथ चिद्वृत्त्या पुप्लुवाते नभस्थलम् ।
कोटियोजनविस्तीर्णं दूराद्दूरतरान्तरम् ॥ १५ ॥
तत्रस्थे गेहस्थे । वाशब्दोऽवधारणे । चिद्वृत्त्या आकाशमावां प्लवावहे
इत्येवंरूपया चित्प्रधानमानसकल्पनावृत्त्या ॥ १५ ॥
दृश्यानुसन्धाननिजस्वभावा-
दाकाशदेहे अपि ते मिथोऽत्र ।
परस्पराकारविलोकनेन
बभूवतुः स्नेहपरे वयस्ये ॥ १६ ॥
वस्तुतश्चिदाकाशदेहे अपि
प्राक्सङ्कल्पितदृश्यानुसन्धानसहितचित्तात्मतापन्नान्निजस्वभावात् । वयस्ये
सख्यौ ॥ १६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
लीलाप्रज्ञादेव्योर्ज्ञानदेहाकाशगमनं नाम त्रयोविंशः सर्गः ॥ २३
॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
लीलाप्रज्ञादेव्योर्ज्ञानदेहाकाशगमनं नाम त्रयोविंशः सर्गः ॥ २३ ॥