द्वाविंशः सर्गः २२
श्रीदेव्युवाच ।
यथा स्वप्नपरिज्ञानात्स्वप्नदेहो न वास्तवः ।
अनुभूतोऽप्ययं तद्वद्वासनातानवादसन् ॥ १ ॥
अवस्थातुर्यलक्ष्मात्र जीवन्मुक्तस्थितिस्तथा ।
वासनातानवोपायस्तदभ्यासश्च कीर्त्यते ॥ १ ॥
प्रागुक्तां ज्ञानदार्ढ्यात्स्थूलदेहभावनिवृत्तिमातिवाहिकभावप्राप्तिं च
दृष्टान्तैर्बोधयितुं देव्युपक्रमते - यथेति । अयं स्थूलदेहः ॥ १ ॥
यथा स्वप्नपरिज्ञानात्स्वप्नदेहः प्रशाम्यति ।
वासनातानवात्तद्वज्जाग्रद्देहोऽपि शाम्यति ॥ २ ॥
स्वप्नसङ्कल्प्लदेहान्ते देहोऽयं चेत्यते यथा ।
तथा जाग्रद्भावनान्ते उदेत्येवातिवाहिकः ॥ ३ ॥
जाग्रद्भावना स्थूलदेहाहम्भावना तस्या अन्ते । मूलोच्छेदादुच्छेदे
सतीत्यर्थः ॥ ३ ॥
स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता ।
जाग्रत्यवासनाबीजे तथोदेति विमुक्तता ॥ ४ ॥
निर्वासनाबीजे अनुद्भूत वासनाबीजे नतृच्छिन्नवासनाबीज इत्यर्थः । पुनः
स्वप्नानापत्तेः । अवासनाबीजे बाधितसर्ववासनाबीजे । विमुक्तता जीवन्मुक्तिः ॥ ४ ॥
येयं तु जीवन्मुक्तानां वासना सा न वासना ।
शुद्धसत्त्वाभिधानं तत्सत्तासामान्यमुच्यते ॥ ५ ॥
ननु जीवन्मुक्तानामपि वासनास्त्येव अन्यथा व्यवहारानुपपत्तेस्तत्राह -
येयमिति । न वासना किन्तु शुद्धसर्ववासनाबाधावधेरधिष्ठानसत्त्वस्यैव
शुद्धवासनेत्यभिधानं यथा दग्धपट इति भस्मन एवाभिधानम् ।
तत्पूर्वतनं सर्ववासनानुगतसत्तासामान्यमेव तथोच्यत इत्यर्थः ॥ ५ ॥
प्। १८४)
या सुप्तवासना निद्रा सा सुषुप्तिरिति स्मृता ।
यत्सुप्तवासनं जाग्रद्धनोऽसौ मोह उच्यते ॥ ६ ॥
मूर्च्छासुषुप्त्योरवान्तरभेदं दर्शयति - येति । वासनानां
सुप्तिरमुद्भवोऽभिभवश्च । तथाचानु
तद्भूवासनानिद्रासुषुप्तिरभिभूतवासनं जाग्रन्मोहो मूर्च्छेत्यर्थः ।
जाग्रति घनतरोद्भूतवासनानां सहसोत्पन्नदुःखातिशयेन
प्रसह्याभिभवाद्घनत्वमपरित्यज्यैव मोहभावापत्तिस्तदेति सूचनाय घन
इति मोहविशेषणम् ॥ ६ ॥
प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते ।
जाग्रत्यपि भवत्येव विदिते [विहिते परमे इति पाठः] परमे पदे ॥ ७
॥
निद्रेत्यविवक्षितं यतो जाग्रत्यपि ज्ञानात्समूलवासनाक्षये तुर्यं
भवत्येवेत्यर्थः ॥ ७ ॥
प्रक्षीणवासना येह जीवतां जीवनस्थितिः ।
अमुक्तैरपरिज्ञाता सा जीवन्मुक्ततोच्यते ॥ ८ ॥
तदेव जीवतो जीवन्मुक्तिरित्याह - प्रक्षीणेति ॥ ८ ॥
शुद्धसत्वानुपतितं चेतः प्रतनुवासनम् ।
आतिवाहिकतामेति हिमं तापादिवाम्बुताम् ॥ ९ ॥
प्राग्व्याख्याते शुद्धसत्त्वे सनुपतितं समाधिपाटवाच्चिरप्रतिष्ठितम् ॥ ९ ॥
आतिवाहिकतां यातं बुद्धं चित्तान्तरैर्मनः ।
सर्गजन्मान्तरगतैः सिद्धैर्मिलति नेतरत् ॥ १० ॥
बुद्धं व्युत्थानव्यवहारकालेऽप्यात्मप्रबोधवन्मनः
सर्गान्तरगतैर्जन्मान्तरगतैश्च चित्तान्तरैः सिद्धैश्च
देवयोग्यादिशरीरैरेकिभावेन मिलति ॥ १० ॥
यदा तेऽयमहम्भावः स्वभ्यासाच्छान्तिमेष्यति [स्वाभ्यासात्
पाठः] ।
तदोदेष्यति ते स्फारा दृश्यान्ता [दृश्यान्ते बोधता इति पाठः]
बोधता स्वयम् ॥ ११ ॥
दृश्यप्रपञ्चस्यान्ता चरमावधिभूता बोधता स्वाभाविकचिद्रूपता ॥ ११ ॥
आतिवाहिकताज्ञानं स्थितिमेष्यति शाश्वतीम् ।
यदा तदा ह्यसङ्कल्पाṁल्लोकान्द्रक्ष्यसि पावनान् ॥ १२ ॥
असङ्कल्पान्सङ्कल्पादूषितानत एव पावनान् ॥ १२ ॥
वासनातानवे तस्मात्कुरु यत्नमनिन्दिते ।
तस्मिन्प्रौढिमुपायाते जीवन्मुक्ता भविष्यसि ॥ १३ ॥
यावन्न पूरितस्त्वेष शीतलो बोधचन्द्रमाः ।
तावद्देहमवस्थाप्य लोकान्तरमवेक्ष्यताम् ॥ १४ ॥
गिरिग्रामकदिदृक्षाप्रतिबद्धचेतसि बोधपूर्तिर्वासनातानवाभ्यासो वा न
सम्भवतीत्याशयेनाह - यावदिति ॥ १४ ॥
मांसदेहो मांसदेहेनैव संश्लेषमेष्यति ।
नतु चित्तशरीरेण व्यवहारेषु कर्मसु ॥ १५ ॥
ननु किमर्थं मद्देहावस्थापनं त्वद्देहसंश्लेषादस्यापि गमनशक्तिः
किं न स्यात्तत्राह - मांसदेह इति ॥ १५ ॥
यथानुभवमेवैतद्यथास्थितमुदाहृतम् ।
आबालसिद्धसंसिद्धं न नाम वरशापवत् ॥ १६ ॥
किं वरवच्छापवद्वा त्वद्वचनादेव संश्लेषमेष्यति नेत्याह - यथेति ।
मूढतमेषु बालानभिज्ञतमेषु सिद्धांश्च मर्यादीकृत्य
सर्वानुभवसिद्धोऽर्थो मयानूदितो नापूर्वार्थो बलात्सम्पादित इत्यर्थः ॥ १६ ॥
अवबोधघनाभ्यासाद्देहस्यास्यैव जायते ।
संसारवासनाकार्श्ये नूनं चित्तशरीरता ॥ १७ ॥
यदि लोकसिद्धवस्तुस्वभावो न विपर्यस्यति तर्हि वासनातानवेऽप्यस्य
देहस्यातिवाहिकभावो न सम्भावयितुं शक्य इत्याशङ्क्याह - अवबोधेति ।
चित्तशरीरता आतिवाहिकशरीरता ॥ १७ ॥
उदेष्यन्ती च सैवात्र केनचिन्नोपलक्ष्यते ।
केवलं तु जनैर्देहो म्रियमाणोऽवलोक्यते ॥ १८ ॥
ननु जीवानां परलोकगमनमप्यातिवाहिकदेहेन प्रसिद्धं स्थूलदेहस्य तु
मृतस्यात्रैवावस्थानं दृश्यते तत्कथमेकस्यातिवाहिकभावेन जीवनं
स्थूलभावेन मरणं चैकदेत्याशङ्क्याह - उदेष्यन्ती चेति । सा
आतिवाहिकता च मरणकाले अत्रास्मिन्नेव शरीरे उदेष्यन्ती केनचिन्म्रियमाणेन
जीवता वा नोपलक्ष्यते । तद्यथा पेशस्करी इत्यादिश्रुतेः ।
पारलौकिकदेहनिर्माणाय म्रियमाणस्य
स्वाज्ञानकल्पितदेहारभकभूतमात्रांशसंवलितस्यैव परलोके
गमनात्तासां मात्राणां तेनानुपलक्षितानामप्यातिवाहिकभावाविरोधात् ।
यस्त्वन्याज्ञानकल्पितभूतमात्रांशोऽज्ञानदेहः
सोऽन्यैर्जनैर्म्रियमाणोऽवलोक्यत इत्यर्थः ॥ १८ ॥
देहस्त्वयं न म्रियते न च जीवति किञ्च ते ।
के किल [कोकिलस्वप्न पाठः] स्वप्नसङ्कल्पभ्रान्तौ मरणजीविते ॥
१९ ॥
किञ्चावास्तवोऽयं देहो न म्रियते न च जीवति ते जीवनमरणे च किं न
किञ्चिद्वस्त्विति नात्र विरोधशङ्का युक्तेत्यर्थः ॥ १९ ॥
जीवितं मरणं चैव सङ्कल्पपुरुषे यथा ।
असत्यमेव भात्येवं तस्मिन्पुत्रि शरीरके ॥ २० ॥
लीलोवाच ।
तदेतदुपदिष्टं मे ज्ञानं देवि त्वयाऽमलम् ।
यस्मिञ्श्रुतिगते शान्तिमेति दृश्यविषूचिका ॥ २१ ॥
लीलाप्रश्नश्लोकौ स्पष्टौ ॥ २१ ॥
अत्रोपकुरु मे ब्रूहि कोऽभ्यासः कीदृशोऽथवा ।
स कथं पोषमायाति पुष्टे तस्मिंश्च किं भवेत् ॥ २२ ॥
श्रीदेव्युवाच ।
यद्येन [यदैव क्रियते पाठः] क्रियते किञ्चिद्येन येन यदा यदा ।
विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन ॥ २३ ॥
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥ २४ ॥
तत्रादावभ्यासस्वरूपमाह - तच्चिन्तनमिति । असन्दिग्धं
स्वबुद्ध्यारोहाय चिन्तनं अभिज्ञबुद्ध्यन्तरसंवादाय कथनं
परस्पराज्ञातांशप्रबोधायान्योन्यप्रबोधनमित्येतैरुपायैरसम्भावनानि
वृत्तिरेतदेकपरत्वेन च विपरीतभावनानिवृत्तिरिति फलानि ॥ २४ ॥
ये विरक्ता महात्मानो भोगभावनतानवम् ।
भावयन्त्यभवायान्तर्भव्या भुवि जयन्ति ते ॥ २५ ॥
दृढवैराग्यादीन्येव तल्लक्षणानीति विरक्तस्तुतिमुखेन दर्शयति - ये इति ।
भोगभावनानि विषयवासनास्तेषां तानवमपक्षयं भावयन्ति
यत्नेनोत्पादयन्ति ॥ २५ ॥
प्। १८५)
उदितौदार्यसौन्दर्यवैराग्यरसरञ्जिता [रसगर्भिणी इति पाठः] ।
आनन्दस्पन्दिनी येषां मतिस्तेऽभ्यासिनः परे ॥ २६ ॥
औदार्यं सर्वपरिग्रहत्यागस्तल्लक्षणसौन्दर्येण वैराग्यरसेन च रञ्जिता ।
परे उत्कृष्टाः ॥ २६ ॥
अत्यन्ताभावसम्पत्तौ ज्ञातृज्ञेयस्य वस्तुनः ।
युक्त्या शास्त्रैर्यतन्ते ये ते ब्रह्माभ्यासिनः स्थिताः ॥ २७ ॥
श्रवणादिपरत्वमपि तदभ्यासलक्षणमित्याह - अत्यन्तेति । युक्त्या
प्रमाणतत्त्वावधारणानुकूलया प्रमेयतत्त्वावधारणानुकूलया च ।
शास्त्रैरध्यात्मशास्त्रैः ॥ २७ ॥
सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा ।
इदं जगदहं चेति बोधाभ्यास [बोधाभ्यासं विदुः परे इति
पाठः] उदाहृतः ॥ २८ ॥
त्रैकालिकदृश्यबाधदर्शनावृत्तिरपि तदभ्यास इत्याह - सर्गादाविति ॥
२८ ॥
दृश्यासम्भवबोधेन रागद्वेषादितानवे ।
रतिर्बलोदिता यासौ ब्रह्माभ्यास उदाहृतः ॥ २९ ॥
बलं मननजन्यविद्यावासनादार्ढ्यं तदुदिता रतिरात्मरतिः ॥ २९ ॥
दृश्यासम्भवबोधेन विना द्वेषादितानवम् ।
तप इत्युच्यते तस्मान्न ज्ञानं तच्च दुःखतत् ॥ ३० ॥
दृश्यमिथ्यात्वदार्ढ्यकृतरागाद्युच्छेदे एव प्राग्ज्ञानोपयोगीति तदा
तदभ्यासलक्षणं नान्यादृशमित्याह - दृश्येति । तत्तपो
वृथाद्वेषादिनिरोधदुःखं तनोति विस्तारयतीति दुःखतत् ॥ ३० ॥
दृश्यासम्भवबोधो हि ज्ञानं ज्ञेयं च कथ्यते ।
तदभ्यासेन निर्वाणमित्यभ्यासो महोदयः ॥ ३१ ॥
तत्र हेतुमुक्त्वाभ्यासफलं दर्शयन्नुपसंहरति - दृश्येति द्वाभ्याम् ।
हि यस्माच्चरमसाक्षात्कारात्मकं ज्ञानं तज्ज्ञेयं ब्रह्म च
दृश्यस्यासम्भवो यस्माद्यस्मिन्वा तथाविधो बोध इति कथ्यते इत्यर्थः ॥ ३१ ॥
भवबहुलनिशानितान्तनिद्रा-
सततविवेकविबोधवारिसेकैः ।
प्रगलति हिमशीतलैरशेषा [रशेषं शरदि इति पाठः]
शरदि महामिहिकेव चेतसीति ॥ ३२ ॥
चेतसि चित्ते इत्येवमभ्यस्तैः सर्वतापोपशमहेतुत्वाद्धिमशीतलैः
सततविवेकविबोधवारिसेकैर्भवः संसारस्तल्लक्षणायां बहुलनिशायां
कृष्णपक्षरात्रौ प्रवृत्ता मोहलक्षणा नितान्तनिद्रा
अशेषसंस्कारात्मनाप्यपरिशिष्यमाणा प्रगलति विशीर्यते । महती मिहिका
नीहारपटली ॥ ३२ ॥
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
विज्ञानाभ्यासवर्णनं नाम द्वाविंशः सर्गः ॥ २२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
विज्ञानाभ्यासवर्णनं नाम द्वाविंशः सर्गः ॥ २२ ॥
चतुर्थो दिवसः ।