०२१

एकविंशः सर्गः २१

श्रीदेव्युवाच ।

प्रतिभान्ति जगन्त्याशु मृतिमोहादनन्तरम् ।
जीवस्योन्मीलनादक्ष्णो रूपाणीवाखिलान्यलम् ॥ १ ॥

स्थूलं विचारतः सूक्ष्मं तदविद्याविचारतः ।
सापि चिन्मात्रमेवेति देव्या लीलात्र बोध्यते ॥ १ ॥

उक्तमेवार्थ विशेषं वक्तुं पुनः प्रपञ्चयन्त्याह - प्रतिभान्तीति ॥ १ ॥

दिक्कालकलनाकाशधर्मकर्ममयानि च ।
परिस्फुरन्त्यनन्तानि कल्पान्तस्थैर्यवन्ति च ॥ २ ॥

धर्ममयानि स्वर्गादीनि । कर्ममयानि गृहादीनि । कल्पान्तपर्यन्तं
स्थैर्यवन्ति पृथ्व्यादीनि ॥ २ ॥

नानुभूतं न यद्दृष्टं तन्मया कृतमित्यपि ।
तत्क्षणात्स्मृतितामेति स्वप्ने स्वमरणं यथा ॥ ३ ॥

मायिकस्मृत्यनुभवाभासयोः प्रसिद्धस्मृत्यनुभववैधर्म्यमाह ##-

भ्रान्तिरेवमनन्तेयं चिद्व्योमव्योम्नि भासुरा ।
अपकुड्या जगन्नाम्नी नगरी कल्पनात्मिका ॥ ४ ॥

चिद्व्योम्नो व्योम्नि मायाकाशे ॥ ४ ॥

इदं जगदयं सर्गः स्मृतिरेवेति जृम्भते ।
दूरकल्पक्षणाभ्यासविपर्यासैकरूपिणी ॥ ५ ॥

षड्विधविकारेष्वाद्यत्रयप्राधान्येन सर्गः । अन्त्यत्रयप्राधान्येन जगत् ।
स्मृतिरिति तद्धेतुर्वासनोच्यते । सा हि सन्निहिते साम्प्रतिकेऽपि दूरकल्पश्चेति
देशकालविप्रकर्षात्मना शाश्वते निष्क्रिये च
क्षणतदभ्यासात्मकघटिकामुहूर्तदिनपक्षाद्यात्मना च यो विपर्यासो
भ्रमस्तदेकरूपिणी ॥ ५ ॥

नानुभूतानुभूता च ज्ञप्तिरित्थं द्विरूपिणी ।
पूर्वकारणरिक्तैव चिद्रूपैव प्रवर्तते ॥ ६ ॥

उक्तमुपसंहरति - नानुभूतेति ॥ ६ ॥

नानुभूतेऽनुभूतत्वसंविदन्तरुदेत्यपि ।
स्वप्नभ्रमादावन्त्यस्मिन्पितरीव पितुः स्मृतिः ॥ ७ ॥

नन्वननुभूते अनुभूतत्वभ्रमः क्व दृष्टस्तत्राह - नानुभूत इति ॥ ७ ॥

कदाचित्स्मृतितां त्यक्त्वा प्रतिभामात्रमेव सत् ।
भाति प्रथमसर्गेषु रूपेण तदनुक्रमात् ॥ ८ ॥

नन्वनादौ संसारे सर्वमेवानुभूतमिति स्मृतिरैक्यं प्रमुष्टतत्ताकास्तु न
भ्रान्तिस्तत्राह - कदाचिदिति । प्रतिभाऽनुभवः । प्रजापतेः
प्रहमसर्गेष्वित्यर्थः । रूपेण स्मृतिरूपेण ॥ ८ ॥

दृश्यं त्रिभुवनादीदमनुभूतं स्मृतौ स्थितम् ।
केषाञ्चित्तन्वि केषाञ्चिन्नानुभूतं स्मृतौ स्थितम् ॥ ९ ॥

तथाच अनुभूतमेव प्रतिभासत इति न नियम इत्याह - दृश्यमिति ॥ ९ ॥

प्रतिभासत एवेदं केषाञ्चित्स्मरणं विना ।
चिदणूनां प्रजेशत्वं काकतालीयवद्यतः ॥ १० ॥

प्रजेशत्वं प्राङ्नानुभूतमेव । सह सिद्धं चतुष्टयमिति स्मृत्या तत्र
ज्ञानोदयावश्यम्भावे पुनर्जन्मायोगादिति भावः ॥ १० ॥

अत्यन्तविस्मृतं विश्वं मोक्ष इत्यभिधीयते ।
ईप्सितानीप्सिते तत्र न स्तःकाचन कस्यचित् ॥ ११ ॥

यतो वासनापुञ्जात्मकचित्तमयः
संसारस्ततस्तदुच्छेदादात्यन्तिकनिर्वासनात्मिका विस्मृतिरेव मोक्षः फलित
इत्याह - अत्यन्तेति । ईप्सितानीप्सिते प्रियाप्रिये । अशरीरं वाव सन्तं न प्रियाप्रिये
स्पृशतः इति श्रुतेः । कुतो न स्तस्तत्राह - काचनेति । या मोक्षे काचन
चित्परिशिष्यते सा कस्य विषयस्य भोक्तुर्वा यत्प्रयुक्ते प्रियाप्रिये स्यातामित्यर्थः
॥ तथाच श्रुतिः यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् इत्याद्या ।
केचन इति पाठे तु स्पष्टम् ॥ ११ ॥

अत्यन्ताभावसम्पत्तिं विनाहन्ताजगत्स्थितेः ।
अनुत्पादमयी ह्येषा नोदेत्येव विमुक्तता ॥ १२ ॥

अहन्ताजगतोः स्थितिः प्रतिष्ठा अविद्या तस्या अत्यन्ताभावसम्पतीर्बाधः ॥ १२ ॥

रज्ज्वां सर्पभ्रमः सर्पशब्दार्थासम्भवं स्थितम् ।
अनुत्पादमयं त्यक्त्वा शान्तोऽपि हि न शाम्यति ॥ १३ ॥

सर्पशब्दार्थयोरसम्भवमभावं रज्ज्वात्मना स्थितं त्यक्त्वा उपेक्ष्य ।
अबुद्ध्वेति यावत् ॥ १३ ॥

प्। १८०)

अर्धशान्तो न शान्तोऽसौ समेत्यर्थतया पुनः ।
उदेत्येकपिशाचान्ते पिशाचोऽन्यो ह्यधीमतः ॥ १४ ॥

ननु योगेन मनोवृत्तिप्रशमादेव स शाम्यतु किं ज्ञानेन तत्राह -
अर्धेति । तेन विक्षेपांशशान्त्या अर्धशान्तोऽप्यसौ न शान्तः यतो व्युत्थाने
पुनर्विक्षेपार्थतया उदेति । अधीर्मूढता तद्वतः ॥ १४ ॥

संसारश्चायमाभोगी परमेवेति निश्चयः ।
कारणाभावतो भाति यदिहाभातमेव तत् ॥ १५ ॥

तथाच ज्ञानेनैव निस्तार इत्याह - संसार इति । कारणाभावतः
अविद्याबाधाद्यद्यदि भाति तत्तर्हि आभातमेव न
पुनरावरणादिशङ्कास्तीत्यर्थः ॥ १५ ॥

लीलोवाच ।

ब्राह्मणब्राह्मणीरूपे सर्गे कारणसंस्मृतिः ।
कथमभ्युत्थिता सास्य स्मरणीयमिदं विना ॥ १६ ॥

यत्प्रागुक्तमस्य सर्गस्य ब्राह्मणब्रह्मणीसर्गाभ्यस्तवासनाकार्यत्वं
तत्रानुपपत्तिं लीला शङ्कते - ब्राह्मणेति । एतत्सर्गे कारणभूता
संस्मृतिरत्र सर्वत्र संस्कारः । स्मरणीयं स्मरणयोग्यं
प्रागनुभूतमिति यावत् । इदं एतत्कालदृश्यं विना । इदानीन्तनस्य
प्रागसत्त्वेन तदनुभवाभावान्न संस्कारलक्षणवासना तदानीं
सम्भवतीत्यर्थः ॥ १६ ॥

श्रीदेव्युवाच ।

पितामहस्मृतिस्तत्र कारणं तस्य न स्मृतिः ।
पूर्वं न सम्भवत्येव मुक्तत्वात्पूर्वजन्मनः [पद्मजन्मन इति
पाठः] ॥ १७ ॥

न संस्कार एव वासना । द्वितीयाया अपि वक्ष्यामाणत्वात् । यदि तु संस्कारमपि
तत्रावश्यकं मन्यसे तर्हि पितामहस्य सर्वज्ञतया
भाव्यर्थेऽप्यनुभवसम्भवात्तदीयसंस्कार एव तत्र कारणम् । तद्देहादिसर्गे
तु तस्यापि संस्कारो न हेतुः । नच पूर्वपितामहसंस्कारो हेतुः तस्य
पूर्वकल्पान्ते मुक्तत्वादित्यर्थः ॥ १७ ॥

पूर्वं न सम्भवत्येव स्मरणीयमिति स्वयम् ।
पद्मजादित्वमायाति चैतन्यस्य तथास्थितेः ॥ १८ ॥

स्मरणीयाभावप्रयुक्तोऽपि स्मृत्यसम्भवस्तत्रास्तीत्याह - पूर्वमिति ।
तस्मात्पूर्वपद्मजदेहादिवासनाच्चितमायोपहितचैतन्यस्य तथास्थितेस्तदेव
स्वयं इति एवंविधेन अपूर्वपद्मजात्मना विवर्तत इत्यर्थः ॥ १८ ॥

अभूवमहमित्यन्यः प्रजानाथः प्रजापतेः ।
काकतालीयवत्कश्चिद्भवति प्रतिभामयः ॥ १९ ॥

पूर्वपद्मजवासनाञ्चिताविद्यायास्तदीयतत्त्वज्ञानेन बाधालोचने त्वाह -
अभूवमिति ॥ १९ ॥

एवमभ्युदिते लोके न किञ्चिन्न कदाचन ।
क्वचिदभ्युदितं नाम केवलं चिन्नभः स्थितम् ॥ २० ॥

प्रतिभामयत्वादेव हि तस्य तत्सर्गस्य च बाध उपपन्न इत्याशयेनाह -
एवमिति ॥ २० ॥

द्विविधायाः स्मृतेरस्याः कारणं परमं पदम् ।
कार्यकारणभावोऽसावेक एव चिदम्बरे ॥ २१ ॥

द्विविधायाः पूर्वानुभवजन्यसंस्कारजाया
अनाद्यविद्याशक्तिरूपवासनान्तरजायाश्च हैरण्यगर्भ्या अन्यदीयायाश्च वा ।
परमं पदमत्र मायाशबलं ब्रह्म । शुद्धे तु न
कार्यकारणभावादिभेदगन्धोऽप्यस्तीत्याह - कार्येति ॥ २१ ॥

कार्यं च कारणं चैव कारणैः सहकारिभिः ।
कार्यकारणयोरैक्यात्तदभावान्न शाम्यति ॥ २२ ॥

अविमर्शात्मकमायाकृतः कार्यकारणविकल्पो विमर्शे बाध्यत इति
दर्शयितुं विमृशति - कार्यमिति । पटः कार्यं तन्तवः कारणमिति
तुरीवेमादिसहकारिभिः कारणैः स्यात्तत्रोपकारमकुर्वाणानां
सहकारित्वायोगादुपकाररूपमपि कार्यं तथाविधैरेव
वाच्यमित्यनवस्थापत्तेस्तस्योपकारस्याभावात्कार्यकारणभावभाधे
तत्कल्पनाधिष्ठानतन्ताद्यैक्यं न शाम्यति भेदकारणाभावादित्यर्थः ॥ २२

महाचिद्रूपमेव त्वं स्मरणं विद्धि वेदनम् ।
कार्यकारणता तेन स शब्दो न च वास्तवः ॥ २३ ॥

नन्वस्तु युक्त्यैवं अनुभवारूढं त्विदं कथं स्यादिति तदर्थं
प्रत्यग्दृष्टिं व्युत्पादयति - महाचिद्रूपमिति । स्मर्यते येन तत्स्मरणं
चित्संवलितं व्यष्टिसमष्ट्यन्तःकरणं तदेव वेदनं तद्धि
मायाशबलस्येश्वरस्य कार्यम् । तत्र मायोपाधेरन्तःकरणाकारोपाधेश्च
भेदे परामृश्यमाने तदुपहिताधिष्ठानसन्मात्रेऽपि
भेदकल्पनात्कार्यसत्ता कारणसताधीनजन्मेति भ्रान्त्या पूर्वावस्थं
सत्कारणं उत्तरावस्थं सत्कार्यमिति वेत्सि तन्न तथा विद्याः किन्तु
मायातत्कार्याकारावुपेक्ष्य तदुभयानुगतसन्मात्रात्मकमहाचिद्रूपमेव
स्मरणं विद्धि । तेन यथोक्तलक्षणेन प्रत्यग्दर्शनेन बाधिता
कार्यकारणता स कार्यकारणशब्द एव परिशेक्ष्यते सोऽप्यनया दृशा
दृष्टो न वास्तव इति । इयं प्रत्यग्दृष्टिः स्फुटतरमुपपादितास्माभिः
स्वाराज्यसिद्धौ - पिण्डावस्था घटत्वे मनसि कलयतो हेतुकार्यत्वधीः
स्यान्मृन्मात्रं यद्वदेकं स्फुटमभिमृशतो नैव हेतुर्न कार्यम् ।
तद्वन्मायिप्रपञ्चौ झटिति कलयतो ब्रह्म विश्वस्य हेतुः सन्मात्रं
त्वेकरूपं पटु परिमृशतो नैव मायी न विश्वम् ॥ इति वार्तिके चोक्तम् -
तस्मात्सम्भावनामात्रः संसारः प्रत्यगात्मनि । उक्तेऽर्थे
संशयश्चेत्स्यात्प्रत्यग्दृष्ट्या निरीक्ष्यताम् ॥ इति ॥ २३ ॥

एवं न किञ्चिदुत्पन्नं दृश्यं चिज्जगदाद्यपि ।
चिदाकाशे चिदाकाशं केवलं स्वात्मनि स्थितम् ॥ २४ ॥

इत्थञ्च निष्प्रपञ्चत्वं प्रतिष्ठितमित्युपसंहरति - एवमिति । चिदाकाश इति ।
स्वे महिम्नि प्रतिष्ठितः इति श्रुतेरिति भावः ॥ २४ ॥

लीलोवाच ।

अहो नु परमा दृष्टिर्दर्शिता देवि मे त्वया ।
रूपश्रीर्जगती प्रातः प्रभयेवेक्षणद्युतिः ॥ २५ ॥

तया दृष्ट्या प्रतिबुद्धा लीलोवाच - अहो इति । ईक्षणेन द्योत्यते प्रकाश्यत
इतीक्षणद्युतिः स्फुटेति यावत् ॥ २५ ॥

इदानीमहमेतस्यां यावत्परिणता दृशि ।
नाभ्यासेन विना तावद्भिन्धीदं देवि कौतुकम् ॥ २६ ॥

परिणतिर्व्युत्पत्तिदार्ढ्यम् । इदं वक्ष्यमाणं कौतुकमुत्कण्ठां
भिन्धिनाशय ॥ २६ ॥

प्। १८१)

यत्रासौ ब्राह्मणो गेहे ब्राह्मण्या सहितोऽभवत् ।
तं सर्गं तं गिरिग्रामं नय मां तं विलोकये ॥ २७ ॥

श्रीदेव्युवाच ।

अचेत्यचिद्रूपमयी परमां पावनीं दृशम् ।
अवलम्ब्येममाकारमवमुच्य भवामला ॥ २८ ॥

तदवलोकने पूर्ववत्समाधिनैतद्देहविस्मरणमावश्यकमित्याह -
अचेत्येति । चिद्रूपमयीं । प्राचुर्ये मयट् । कारणब्रह्मरूपतामिति यावत् ॥ २८ ॥

ततः प्राप्स्यस्यसन्देहं व्योमात्मानं नभःस्थितम् ।
भूमिष्ठनरसङ्कल्पो गगनान्तः पुरं यथा ॥ २९ ॥

चिन्नभःस्थितं मायाव्योमात्मानं तं सर्गम् ॥ २९ ॥

एवं स्थिते तं पश्यावः सह सर्गमनर्गलम् ।
अयं तद्दर्शनद्वारे देहो हि परमार्गलम् ॥ ३० ॥

सह पश्यावो द्रक्ष्यावः । अर्गलं विष्कम्भः । प्रतिरोधक इति यावत् ॥ ३० ॥

लीलोवाच ।

अमुना देवि देहेन जगदन्यदवाप्यते ।
न कस्मादत्र मे युक्तिं कथयानुग्रहाग्रहात् ॥ ३१ ॥

अनुग्रहप्रयुक्तादाग्रहादभिनिवेशात् ॥ ३१ ॥

श्रीदेव्युवाच ।

जगन्तीमान्यमूर्तानि मूर्तिमन्ति मुधाग्रहात् ।
भवद्भिरवबुद्धानि हेमानीवोर्मिकाधिया ॥ ३२ ॥

मायामात्रत्वादमूर्तानि । मुधाग्रहान्मिथ्याज्ञानात् । ऊर्मिकाङ्गुलिमुद्रिका ॥
३२ ॥

हेम्न्यूर्मिकारूपधरेऽप्यूर्मिकात्वं न विद्यते ।
यथा तथा जगद्रूपे जगन्नास्ति च ब्रह्मणि ॥ ३३ ॥

ऊर्मिकात्वमहेमरूपमित्यर्थः ॥ ३३ ॥

जगदाकाशमेवेदं ब्रह्मैवेह तु दृश्यते ।
दृश्यते काचिदप्यत्र धूलिरम्बुनिधाविव ॥ ३४ ॥

काचिन्माया । धूलिविरोधिन्यम्बुनिधौ प्रतिबिम्बधूलिरिव ॥ ३४ ॥

अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् ।
अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा ॥ ३५ ॥

उक्तेऽर्थे प्रमाणासम्भावनामूलोच्छेदाय दृढतराणि प्रमाणानि
दर्शयति - अयमिति । मुख्यं प्रमाणं वेदान्ताः
तत्तत्पर्यांर्थस्यानुभवारोपणाय गुरवः । स्वानुभवस्तु फलीभूतं
प्रमाणमित्यर्थः ॥ ३५ ॥

ब्रह्मैव पश्यति ब्रह्म नाब्रह्म ब्रह्म पश्यति ।
सर्गादिनाम्ना प्रथितः स्वभावोऽस्यैव चेदृशः ॥ ३६ ॥

स्वभाव आवृतसत्ता ॥ ३६ ॥

न ब्रह्मजगतामस्ति कार्यकारणतोदयः ।
कारणानामभावेन सर्वेषां सहकारिणाम् ॥ ३७ ॥

यावदभ्यासयोगेन न शान्ता भेदधीस्तव ।
नूनं तावदतद्रूपा न ब्रह्म परिपश्यसि ॥ ३८ ॥

अतद्रूपा अब्रह्मदेहाद्यात्मबुद्धित्वात्तद्रूपा । नूनमिति वितर्के ॥ ३८ ॥

तत्र रूढिमुपायाता य इमे त्वस्मदादयः ।
अभ्यासाद्ब्रह्मसम्पत्तेः पश्यामस्ते हि तत्परम् ॥ ३९ ॥

ये रूढिं दृढव्युत्पत्तिम् । त इमे पश्यामः ॥ ३९ ॥

सङ्कल्पनगरस्यैव ममाकाशमयं वपुः ।
ब्रह्मैव चान्तः पश्यामि देहेनानेन तत्पदम् ॥ ४० ॥

आकाशमयं शुद्धचित्ताकाशमयम् ॥ ४० ॥

विशुद्धाज्ञानदेहार्हास्तथैते पद्मजादयः ।
ब्रह्मात्मजगदादीनामंशे संस्थानमङ्गने ॥ ४१ ॥

ज्ञायतेऽनेनेति ज्ञानं चित्तं विशुद्धेन तेन अर्हाः सदा
ब्रह्मदर्शनयोग्याः । वस्तुतो ब्रह्मात्मकानां जगत्तद्व्यवहाराणामंशे
लेशे संस्थानमवस्थितिं पश्यन्तीति विपरिणमय्यानुषज्यते । पादोऽस्य विश्वा
भूतानि त्रिपादस्यामृतं दिवि इत्यादिश्रुतेरित्यर्थः ॥ ४१ ॥

तवाभ्यासं विना बाले नाकारो ब्रह्मतां गतः ।
स्थितः कलनरूपात्मा तेन तन्नानुपश्यसि ॥ ४२ ॥

कलनमन्तःकरणे चिदाभासस्तद्रूपात्मा । तद्ब्रह्म प्रागनुक्रान्तं
गिरिग्रामकं च ॥ ४२ ॥

यत्र स्वसङ्कल्पपुरं स्वदेहेन न लभ्यते ।
तत्रान्यसङ्कल्पपुरं देहोऽन्यो लभते कथम् ॥ ४३ ॥

अनेन देहेनानुपलम्भे साङ्कल्पिकत्वमेव हेतुरिति कैमुतिकन्यायेन द्रढयति

  • यत्रेति ॥ ४३ ॥

तस्मादेनं परित्यज्य देहं चिद्व्योमरूपिणी ।
यत्पश्यसि [तपश्यसि इति पाठः] तदेवाशु कुरु कार्यविदांवरे ॥
४४ ॥

पश्यसि द्रक्ष्यसि । वर्तमानसामीप्याद्वर्तमानवन्निर्देशः ॥ ४४ ॥

सङ्कल्पनगरं सत्यं यथासङ्कल्पितं प्रति ।
सन्देहं वा विदेहं वा नेतरं प्रति किञ्चन ॥ ४५ ॥

सदेहं देहसाध्यं विदेहं वा सङ्कल्पितं तन्नगरव्यवहारोपभोगं प्रति ।
सत्यमर्थक्रियासमर्थम् । इतरं व्यवहारं प्रति तु न किञ्चन तुच्छमिति यावत्
॥ ४५ ॥

आदिसर्गे जगद्भ्रान्तिर्यथेयं स्थितिमागता ।
तथा तदाप्रभृत्येवं नियतिः प्रौढिमागता ॥ ४६ ॥

धातृसाङ्कल्पिकस्यास्य जगतोऽस्मत्साङ्कल्पिकस्य च साङ्कल्पिकत्वाविशेषेऽपि
कुतोऽवान्तरवैलक्षण्यमिति
चेदनादिनियतिरूपेश्वरेच्छालक्षणमायाशक्तिवशादेवेत्याह - आदिसर्ग इति
॥ ४६ ॥

लीलोवाच ।

त्वयोक्तं देवि गच्छावो ब्राह्मणब्राह्मणी जगत् ।
सहेतीदमिदं वच्मि कथं गन्तव्यमम्ब हे ॥ ४७ ॥

इमं देहमिहास्थाप्य शुद्धसत्वानुपातिना ।
चेतसा तं परं यामि लोकं त्वं कथमेषि तत् ॥ ४८ ॥

त्वं कथमेषि स्वेन देहेनेति शेषः ॥ ४८ ॥

श्रीदेव्युवाच ।

सङ्कल्पव्योमवृक्षस्ते यथा सन्नपि स्वात्मकः ।
न कुड्यात्मा न कुड्येन रोध्यते नापि कुड्यहा ॥ ४९ ॥

साङ्कल्पिकसत्तया सन्नपि वास्तवसत्तया खात्मकः । न कुड्यात्मेव मूर्तः
कुड्यहा कुड्यभेदकः ॥ ४९ ॥

प्। १८२)

शुद्धैकसत्त्वनिर्माणं चिद्रूपस्यैव तत्किल ।
प्रतिभानमतस्तस्मात्परस्माद्भिद्यते मनाक् ॥ ५० ॥

यच्छुद्धस्यैव सत्त्वगुणस्य निर्माणं कार्यमस्मद्देहादि तच्चिद्रूपस्यैव
किल तथा प्रतिभानमतो हेतोस्तस्मात् परस्माद्ब्रह्मणो मनागल्पमेव भिद्यते ।
यथा दग्धपटे पटाकारो वस्तुतस्तद्भस्मैव तद्वदिति भावः ॥ ५० ॥

सोऽयमेतादृशो देहो नैनं [नैवं इति पाठः] सन्त्यज्य
याम्यहम् ।
अनेनैव तमाप्नोमि देशं गन्धमिवानिलः ॥ ५१ ॥

यथा जलं जलेनाग्निरग्निना वायुनानिलः ।
मिलत्येवमतो देहो देहैरन्यैर्मनोमयैः ॥ ५२ ॥

तर्ह्यस्मद्भर्तृसाङ्कल्पिकसर्गेणास्य कथं योगस्तत्राह - यथेति ।
मनोमयैर्देहैरन्यैश्च वस्तुभिरित्यर्थः ॥ ५२ ॥

नहि पार्थिवतासंविदेत्य पार्थिवसंविदा ।
एकत्वं कल्पनाशैलशैलयोः क्वाहतिर्मिथः ॥ ५३ ॥

तर्हि मद्देहोऽपि वस्तुतो मनोमात्रत्वेन त्वद्देहसाजात्यात्त्वद्देहेनैकीभावेन
संयोगेन वा मिलितः संस्तत्रैतु तत्राह - नहीति । पृथिव्या विकारः
पार्थिवस्तद्भावेन संवेद्यत इति
पार्थिवतासंवित्त्वद्देहस्तद्विरुद्धचिन्मात्रसंविदा मद्देहेनैकत्वं
संयोगं वा नहि एति । आहतिरभिघातः ॥ ५३ ॥

आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः ।
आधिभौतिकताबुद्ध्या गृहीतश्चिरभावनात् ॥ ५४ ॥

नन्वस्यापि मानसत्वे कथं पार्थिवत्वं तत्राह - आतिवाहिक इति ॥ ५४ ॥

यथा स्वप्ने यथा दीर्घकालध्याने यथा भ्रमे ।
यथाच सति सङ्कल्पे यथ गन्धर्वपत्तने ॥ ५५ ॥

वासनातानवं नूनं यदा ते स्थितिमेष्यति ।
तदातिवाहिको भावः पुनरेष्यति देहके ॥ ५६ ॥

कदा तर्ह्यस्य पार्थिवभावनिवृत्तिस्तत्राह - वासनेति ।
तनोर्भावस्तानवमल्पता एष्यति । समाध्यभ्यासेनेति भावः ॥ ५६ ॥

लीलोवाच ।

आतिवाहिकदेहत्वप्रत्यये घनतां गते ।
तामवाप्नोत्ययं देहो दशामाहो विनश्यति ॥ ५७ ॥

अन्येषां स्थूलदेहस्य नाशदर्शनाज्जीवन्मुक्तयोगिदेहस्यापि नाश एव
सम्भावितो नातिवाहिकभाव इति सम्भावयन्ती लीला पृच्छति - आतिवाहिकेति ।
घनतां दार्ढ्य गते । समाध्यभ्यासेनेति शेषः ॥ ५७ ॥

श्रीदेव्युवाच ।

यदस्ति नाम तत्रैव नाशानाशक्रमो भवेत् ।
वस्तुतो यच्च नास्त्येव नाशः स्यात्तस्य कीदृशः ॥ ५८ ॥

तत्त्वविद्देहो ज्ञानबाधितत्वाद्दग्धपटवन्नास्त्येव प्राग्वासनामात्राच्च
पटाभासवत्प्रतिभासमानोऽपि वासनातानवे ततोऽपि
सौक्ष्म्यादातिवाहिकभावमेवापद्यते । न नाशमित्याशयेन देव्युत्तरमाह

  • यदित्यादिना ॥ ५८ ॥

रज्ज्वां सर्पभ्रमे नष्टे सत्यबोधवशात्सुते [सुते इति लीलायाः
सम्बोधनम्] ।
सर्पो न नष्ट उन्नष्टो वेत्येवं कैव सा कथा ॥ ५९ ॥

उत् अपि ॥ ५९ ॥

यथा सत्यपरिज्ञानाद्रज्ज्वां सर्पो न दृश्यते ।
तथातिवाहिकज्ञानाद्दृश्यते नाधिभौतिकः ॥ ६० ॥

आतिवाहिकत्वनिमित्तं ब्रह्मज्ञानमातिवाहिकज्ञानम् ॥ ६० ॥

कल्पनापि निवर्तेत कल्पिता यदि केनचित् ।
सा शिला समपास्तैव या नेहास्ति कदाचन ॥ ६१ ॥

कल्पितः प्रपञ्चः प्रागभूत् ज्ञानेन तु समूलं स निवर्तित इति
व्यवहारकल्पनाप्यापातदृशैव । तत्त्वदृशा तु तस्या अपि सम्भावना
नास्तीत्याह - कल्पनेति । कल्पिता समर्थिता । तथाचोक्तं गौडपादैः -
प्रपञ्चो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न
विद्यते ॥ इति ॥ ६१ ॥

परं परे परापूर्णमिदं देहादिकं स्थितम् ।
इति सत्यं वयं भद्रे पश्यामो नाभिपश्यसि ॥ ६२ ॥

कथं तर्हि यूयं स्वदेहादि पश्यथ तत्राह - परमिति । परेण ब्रह्मणा
आपूर्णमिदं देहादिकोशपञ्चकं यदेकैकान्तःप्रवेशेन स्थितं तत्परं
ब्रह्मैव स्वे महिम्नि परे स्थितमिति वयं सत्यमबाधितं पश्यामः । त्वं
त्वप्ररूढबोधत्वान्नाभिपश्यसि ॥ ६२ ॥

आदिसर्गे भवेच्चित्त्वं कल्पनाकल्पितं यदा ।
तदा ततः प्रभृत्येकसत्त्वं दृश्यमवेक्षते ॥ ६३ ॥

नन्वदृश्या चित्कथं दृश्यसत्त्वात्मतामापन्ना तत्राह - आदीति ।
आदेर्लिङ्गात्मनः सर्गे तं गोचरयन्त्याश्चितश्चित्त्वं नाम धर्मो भवेत् ।
यदा तु पञ्चीकरणेन कल्पनया स्थूलं रूपं कल्पितं तदा
ततःप्रभृत्येकमनुगतं सत्त्वं दृश्यानुरोधात्स्वयमपि दृश्यभूतं
स्वयमवेक्षते भ्रान्त्येत्यर्थः ॥ ६३ ॥

लीलोवाच ।

एकस्मिन्नेव संशान्ते दिक्कालाद्यविभागिनि ।
विद्यमाने परे तत्त्वे कलनावसरः कुतः ॥ ६४ ॥

यत्प्रागुक्तं कलनाधीना सर्वकल्पनेति तत्र लीलानुपपत्तिं शङ्कते -
एकस्मिन्निति । पौर्वकालिकं दुग्धमौत्तरकालिकदध्याद्याकारेण परिणमते ।
दधिभावे च दुग्धमविद्यमानं भवति । कालसम्बन्धरहिते नित्यं
विद्यमाने ब्रह्मणि कलनाख्यप्रथमविकारस्यैव नावसर इत्यर्थः ॥ ६४ ॥

श्रीदेव्युवाच ।

कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ।
सत्यत्वं च यथा स्वप्नसङ्कल्पनगरादिषु ॥ ६५ ॥

सत्ये हि विकारेऽभ्युपगते त्वदुक्तदोषः स्यान्न मिथ्याभूत इति देवी परिहरति ##-

नास्त्येव सत्यनुभवे तथा नास्त्येव ब्रह्मणि ।
कल्पनाव्यतिरिक्तात्मतत्स्वभावादनामयात् ॥ ६६ ॥

यथा नास्त्यम्बरे पांसुः परे नास्ति तथा कला ।
अकलाकलनं शान्तमिदमेकमजं ततम् ॥ ६७ ॥

कलाकलनं विषयः ॥ ६७ ॥

प्। १८३)

यदिदं भासते किञ्चित्तत्तस्येव निरामयम् ।
कचनं काचकस्येव कान्तस्याऽतिमणेरिव ॥ ६८ ॥

कचनं आपातप्रतिभासः । अतिशयितो मणिरतिमणिस्तस्येव ॥ ६८ ॥

लीलोवाच ।

एतावन्तं चिरं कालमेते देवि वयं वद ।
भ्रामिताः केन नामापि द्वैताद्वैतविकल्पनैः ॥ ६९ ॥

उक्तभ्रान्तेर्हेतुं लीला पृच्छति - एतावन्तमिति ॥ ६९ ॥

श्रीदेव्युवाच ।

अविचारेण तरले भ्रान्तासि चिरमाकुला ।
अविचारः स्वभावोत्थः स विचाराद्विनश्यति ॥ ७० ॥

विचारबाध्यत्वादविचारशब्दितो मोह एव तद्धेतुरिति देव्याह - अविचारेणेति ॥
७० ॥

अविचारो विचारेण निमेषादेव नश्यति ।
एषा सत्तैव तेनान्तरविद्यैषा न विद्यते ॥ ७१ ॥

एषा अविचारलक्षणा अविद्या विचारबाधिता ब्रह्मसत्तैव सम्पद्यत इति शेषः ॥
७१ ॥

तस्मान्नैवाविचारोऽस्ति नाविद्यास्ति न बन्धनम् ।
न मोक्षोऽस्ति निराबाधं शुद्धबोधमिदं जगत् ॥ ७२ ॥

तद्बाधस्य त्रैकालिकत्वमाह - तस्मादिति । बन्धाभावान्मोक्षोऽपि नास्ति ॥ ७२

एतावन्तं यदाकालं त्वयैतन्न विचारितम् ।
तदा न सम्प्रबुद्धा त्वं भ्रान्तैवाभव [भ्रान्तेवार्णव आकुला इति
पाठः] आकुला ॥ ७३ ॥

अद्यप्रभृति बुद्धासि विमुक्तासि विवेकिनी ।
वासनातानवं बीजं पतितं तव चेतसि ॥ ७४ ॥

ज्ञानेन द्वैतवासनाबाधे तत्त्ववासनाशेषो वासनातानवं तदेव मुक्तिबीजम्
॥ ७४ ॥

आदावेव हि नोत्पन्नं दृश्यं संसारनामकम् ।
यदा तदा कथं तेन वास्यन्ते वासनापि का ॥ ७५ ॥

पुनर्द्वैतवासनाप्ररोहमाशङ्क्याह - आदावित्यादिना ॥ ७५ ॥

अत्यन्ताभावसम्पत्तौ द्रष्टृदृश्यदृशां मनः ।
एकध्याने परे रूढे निर्विकल्पसमाधिनि ॥ ७६ ॥

मनः रूढे अधिरूढे सति ॥ ७६ ॥

वासनाक्षयबीजेऽस्मिन्किञ्चिदङ्कुरिते हृदि ।
क्रमान्नोदयमेष्यन्ति रागद्वेषादिका दृशः ॥ ७७ ॥

संसारसम्भवश्चायं निर्मूलत्वमुपैष्यति ।
निर्विकल्पसमाधानं प्रतिष्ठामलमेष्यति ॥ ७८ ॥

विगतकलनकालिमाकलङ्का
गगनकलान्तरनिर्मलाम्बनेन ।
सकलकलनकार्यकारणान्तः
कतिपयकालवशाद्भविष्यसीति ॥ ७९ ॥

इति एवंविधया निर्विकल्पसमाधिप्रतिष्ठया कतिपयकालवशाद्गगनस्य
मायाकाशस्य तत्कलानां तत्कार्याणां चान्तरस्याधिष्ठानभूतस्य
निर्मलस्यात्मनः अम्बनेन अवलम्बनेन विगतो भ्रान्तिकलनलक्षणः कालिमा
यस्या अत एवाकलङ्का तत्संस्कारकलङ्कनिर्मुक्ता सती सकलप्राणिनां
कलनानां भ्रान्तीनां तत्कार्यवासनानां तत्कारणाविद्यायाश्च अन्तो
बाधावधिभूतो यो मोक्षाख्यः परमपुरुषार्थः स त्वमेव
भविष्यसीत्यर्थः ॥ ७९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
विश्रान्त्युपदेशो नामैकविंशः सर्गः ॥ २१ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे
विश्रान्त्युपदेशो नामैकविंशः सर्गः ॥ २१ ॥