विंशः सर्गः २०
श्रीदेव्युवाच ।
स ते भर्ताद्य सम्पन्नो द्विजो भूपत्वमागतः ।
या सावरुन्धती नाम ब्राह्मणी सा त्वमङ्गने ॥ १ ॥
श्रुते प्राग्जन्मचरितेऽप्यसम्भावनकातरा ।
लीलात्र बोध्यते देव्या दृष्टान्तैश्चोपपत्तिभिः ॥ १ ॥
स द्विजोऽद्य भूपत्वमागतः संस्ते भर्ता सम्पन्नः ॥ १ ॥
इहेमौ कुरुतो राज्यं तौ भवन्तौ सुदम्पती ।
चक्रवाकाविव नवौ भुवि जातौ शिवाविव ॥ २ ॥
शिवश्च शिवा च शिवौ ॥ २ ॥
प्। १७७)
एष ते कथितः सर्वः प्राक्तनः संसृतिक्रमः ।
भ्रान्तिमात्रकमाकाशमेवं जीवस्वरूपधृक् ॥ ३ ॥
उक्तां कथामुपसंहरन्ती सर्गद्वयवत्प्राक्तनोऽपि सर्गो भ्रम एवेत्याह -
एष इति । तत्र ब्रह्माकाशस्य जीवभावभ्रम एव मूलमित्याह - भ्रान्तीति ॥ ३
॥
भ्रमादस्माच्चिदाकाशे भ्रमोऽयं प्रतिबिम्बितः ।
असत्य एव वा सत्यो भवतोर्भवभङ्गदः ॥ ४ ॥
उत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमो हेतुरिति दर्शयति - भ्रमादिति ।
स्वदृष्ट्या असत्य एव अधिष्ठानदृष्ट्या सत्यो वा ॥ ४ ॥
तस्माद्भ्रान्तिमयः कः स्यात्को वा भ्रान्त्युज्झितो भवेत् ।
सर्गो निरर्गलानर्थबोधान्नान्यो विजृम्भते ॥ ५ ॥
एवं च मिथ्यानर्थबोधत्वेन सर्वसर्गाणां तुल्यतैवेत्याह - तस्मादिति ॥ ५
॥
श्रीवसिष्ठ उवाच ।
इत्याकर्ण्य चिरं चारु विस्मयोत्फुल्ललोचना ।
भूत्वोवाच वचो लीला लीलालसपदाक्षरम् ॥ ६ ॥
असम्भावनया चिरं विस्मयोत्फुल्ललोचना भूत्वा ॥ ६ ॥
लीलोवाच ।
देवि भोस्त्वद्वचो मिथ्या कथं सम्पन्नमीदृशम् ।
क्व विप्रजीवः स्वगृहे क्वेमे वयमिह स्थिताः ॥ ७ ॥
मिथ्या अनृतमथवा त्वद्वचस्त्वमिथ्या ईदृशं विरुद्धमिदं कथं
सम्पन्नमित्यर्थः । इहासिन्विपुले देशे ॥ ७ ॥
तादृग्लोकान्तरं सा भूस्ते शैलास्ता दिशो दश ।
कथं भान्ति गृहस्यान्तर्मद्भर्ता येष्ववस्थितः ॥ ८ ॥
समाधिदृष्टभर्तृसर्गोऽपि स्वगृहे असम्भावित इत्याह - तादृगिति ॥ ८ ॥
मत्त ऐरावतो बद्धः सर्षपस्येव कोटरे ।
मशकेन कृतं युद्धं सिंहौघैरणुकोटरे ॥ ९ ॥
असम्भावनापुष्टये देव्युक्तार्थे दृष्टान्तैरसमञ्जसतामुपपादयति -
मत्त इत्यादित्रिभिः ॥ ९ ॥
पद्माक्षे स्थापितो मेरुर्निर्गिर्णो भृङ्गसूनुना ।
स्वप्नाब्दगर्जितं श्रुत्वा चित्रं नृत्यन्ति बर्हिणः ॥ १० ॥
असमञ्जसमेवैतद्यथा सर्वेश्वरेश्वरि ।
तथा गृहान्तः पृथ्वी शैलाश्चेत्यसमञ्जसम् ॥ ११ ॥
यथावदेतद्देवेशि कथयामलया धिया ।
प्रसादानुगृहीते हि नोद्विजन्ते महौजसः ॥ १२ ॥
यथावत् यथैतदुपपद्यते तथेत्यर्थः ॥ १२ ॥
श्रीदेव्युवाच ।
नाहं मिथ्या वदामीदं यथावच्छृणु सुन्दरि ।
भेदनं नियतीनां हि क्रियते नास्मदादिभिः ॥ १३ ॥
असामञ्जस्योपपादनसम्भावितमनृतवदनं परिहरन्ती देव्याह -
नाहमिति द्वाभ्याम् । नियतीनां नानृतं वदेत् इत्यादिश्रौतनियमानाम् ॥ १३ ॥
विभिद्यमानामन्येन स्थापयाम्यहमेव याम् ।
मर्यादां तां मया भिन्नां कोऽपरः पालयिष्यति ॥ १४ ॥
सग्रामद्विजजीवात्मा तस्मिन्नेव स्वसद्मनि ।
व्योम्न्येवेदं महाराष्ट्रं व्योमात्मैव प्रपश्यति ॥ १५ ॥
राजवासनोपहितचिद्व्योमात्मैव ॥ १५ ॥
प्राक्तनी सा स्मृतिर्लुप्ता [स्मृतिर्नष्टा इति पाठः]
युवयोरुदितान्यथा ।
स्वप्ने जाग्रत्स्मृतिर्यद्वदेतन्मरणमङ्गने ॥ १६ ॥
तावेवावां चेत्कुतो न प्रत्यभिजानीवो मरणस्य वा किं रूपं तत्राह -
प्राक्तनीति ॥ १६ ॥
यथा स्वप्ने त्रिभुवनं सङ्कल्पे त्रिजगद्यथा ।
यथा कथार्यसङ्ग्रामो मरुभूमौ जलं यथा ॥ १७ ॥
तस्य ब्राह्मणगेहस्य सशैलवनपत्तना ।
इयमन्तः स्थिताः भूमिः सङ्कल्पादर्शयोरिव ॥ १८ ॥
अस्त्यैवेयमाभाति सत्येव घनसर्गता ।
तस्मात्सत्यावभासस्य चिद्व्योम्नः कोशकोटरे ॥ १९ ॥
असत्यस्यापि सत्यवद्भाने निमित्तमाह - तस्मादिति ।
पञ्चकोशान्तर्गतसत्यचिद्व्योम्नो निमितादित्यर्थः ॥ १९ ॥
असत्याद्यत्समुत्पन्नं स्मृत्या नाम तदप्यसत् ।
मृततृष्नातरङ्गिण्यां तरङ्गोऽपि न सद्यतः ॥ २० ॥
प्राक्सर्गस्यासत्यत्वेऽस्य सर्गस्य किं तत्राह - असत्यादिति ॥ २० ॥
इदं त्वदीयं सदनं तद्गेहाकाशकोशगम् ।
विद्धि मां त्वां च सर्वं च तच्चिद्व्योमैव केवलम् ॥ २१ ॥
स्वप्नसम्भ्रमसङ्कल्पस्वानुभूतिपरम्पराः ।
प्रमाणान्यत्र मुख्यानि सम्बोधाय प्रदीपवत् ॥ २२ ॥
सर्वप्रपञ्चमिथ्यात्वे चिन्मात्रपरिशेषे
चानुभवसिद्धदृष्टान्तमुखेनानुमानप्रमाणान्याह - स्वप्नेति ॥ २२ ॥
स्थितो ब्राह्मणगेहान्तर्द्विजजीवस्तदम्बरे ।
ससमुद्रवना पृथ्वी स्थिताब्ज इव षट्पदः ॥ २३ ॥
अनेन सर्गेण न केवलं गेहाकाश एव न पूर्यते किन्तु
तदेकदेशस्थजीवाकाशैकदेशोऽपि । अतो मिथ्यात्वमित्याह - स्थित इति
द्वाभ्याम् ॥ २३ ॥
तस्याः कस्मिंश्चिदेकस्मिन्पेलवे कोणकोटरे ।
इदं पत्तनदेहादि केशोण्ड्रक इवाम्बरे ॥ २४ ॥
निर्मले नभसि कुण्डलितकेशाकारभ्रमः केशोण्ड्रकः ॥ २४ ॥
तस्मिन्नस्मिन्पुरे तन्वि तदेव सदनं स्थितम् ।
तस्मात्किं त्रसरेण्वन्तर्जगद्वृन्दमिव स्थितम् ॥ २५ ॥
एवञ्च विप्रसदनस्य विपुरलसर्गान्तःप्ररोहेणाश्वतरीकुक्षेर्गर्भेणेव न
विनाशशङ्कापीत्याह - तस्मिन्निति । एवकारो भिन्नक्रमः ।
तस्मिन्सदनेऽस्मिन्सर्गे पुरे चान्तर्निरूढेऽपीति शेषः । तद्विप्रसदनं स्थितमेव
न विदीर्णमित्यर्थः । एवं च तस्माद्विप्रसदनादुदाहृतात्किमाश्चर्यं
यतस्त्रसरेण्वन्तरेऽपि जगद्वृन्दं स्थितम् । इवकारो
मिथ्यात्वेनासामञ्जस्यपरिहारद्योतनार्थः ॥ २५ ॥
परमाणौ परमाणौ सन्ति वत्से चिदात्मनि ।
अन्तरन्तर्जगन्तीति किन्त्वेतन्नाम शङ्क्यते ॥ २६ ॥
आकाशादिजगत्सर्गेण [सर्गे न इति पाठः] ण्ववच्छिन्नचिदात्मन्यपि
तत्सम्भवे निरालम्बैवासम्भवाशङ्केत्याह - परमाणाविति ॥ २६ ॥
प्। १७८)
लीलोवाच ।
अष्टमे दिवसे विप्रः स मृतः परमेश्वरि ।
गतो वर्षगणोऽस्माकं मातः कथमिदं भवेत् ॥ २७ ॥
श्रीदेव्युवाच ।
देशदैर्घ्यं यथा नास्ति कालदैर्घ्यं तथाङ्गने ।
नास्त्येवेति यथान्यायं कथ्यमानं मया शृणु ॥ २८ ॥
यथैतत्प्रतिभामात्रं जगत्सर्गावभासनम् ।
तथैतत्प्रतिभामात्रं क्षणकल्पावभासनम् ॥ २९ ॥
क्षणकल्पं जगत्सर्वं त्वत्तामत्तात्मजन्मनाम् ।
यथावत्प्रतिभासस्य् वक्ष्ये क्रममिमं शृणु ॥ ३० ॥
प्रतिभामात्रत्वं कुतस्तत्राह - क्षणेति । यतः क्षणकल्पादि सर्वं
जगत्त्वत्तामत्ताध्यासाधीनात्मजन्मभ्रमवतामेव प्रतिभासते इति शेषः ।
तत्प्रतिभासक्रमं वक्तुं प्रतिजानीते - यथावदिति ॥ ३० ॥
अनुभूय क्षणं जीवो मिथ्यामरणमूर्च्छनम् ।
विस्मृत्य प्राक्तनं भावमन्यं पश्यति सुव्रते ॥ ३१ ॥
तदेवोन्मेषमात्रेण व्योम्न्येव व्योमरूप्यपि ।
आधेयोऽयमिहाधारे स्थितोऽहमिति चेतति [चेतसि इति सर्वत्र पाठः] ॥
३२ ॥
व्योमेवाधारदेहादिशून्योऽपि चेतति [चेतसि इति सर्वत्र पाठः] स्मरति ।
संस्कार उद्भवतीति यावत् ॥ ३२ ॥
हस्तपादादिमान्देहो ममायमिति पश्यति ।
यदेव चेतति [चेतसि इति सर्वत्र पाठः] वपुस्तदेवेदं स पश्यति ॥
३३ ॥
एतस्याहं पितुः पुत्रो वर्षाण्येतानि सन्ति मे ।
इमे मे बान्धवा रम्या ममेदं रम्यमास्पदम् ॥ ३४ ॥
आस्पदं गृहम् ॥ ३४ ॥
जातोऽहमभवं बालो वृद्धिं यातोऽहमीदृशः ।
बान्धवाश्चास्य मे सर्वे तथैव विचरन्त्यमी ॥ ३५ ॥
चित्ताकाशघनैकत्वात्स्वेऽप्यन्येऽपि भवन्ति ते ।
एवं नामोदितेऽप्यस्य चित्ते संसारखण्डके ॥ ३६ ॥
ननु बान्धवानां देहसम्बन्धित्वेन कल्पनात्तदीयत्वेऽपि कथं स्वीयत्वं
तत्राह - चित्तेति । देहभावापन्नचित्तस्यात्माकाशस्य च
दृढतरैक्याध्यासात्ते वस्तुतोऽन्येऽपि स्वे स्वीया अपि भवन्तीत्यर्थः । एवं
नामैवं सति देहभावापन्ने ॥ ३६ ॥
न किञ्चिदप्यभ्युदितं स्थितं व्योमैव निर्मलम् ।
स्वप्ने द्रष्टरि यद्वच्चित्तद्वद्दृश्ये चिदेव सा ॥ ३७ ॥
सर्वगैकतया यस्मात्सा स्वप्ने दृष्टदर्शना ।
यथा स्वप्ने तथोदेति परलोकदृगादिभिः ॥ ३८ ॥
स्वप्ने सर्वत्र सर्वेषु द्रष्टृदृश्यभावेन कल्पितभेदेष्वदर्शनानुगता
चित्तदुभयबाधे एकतया दृष्टदर्शना भूयो दृष्टा यस्मात्तस्मान्न
किञ्चिदप्यभ्युदितमिति पूर्वत्रान्वयः ॥ ३८ ॥
परलोके यथोदेति तथैवेहाभ्युदेति सा ।
तत्स्वप्नपरलोकेहलोकानामसतां सताम् ॥ ३९ ॥
असतामेव भ्रान्त्या सताम् ॥ ३९ ॥
न मनागपि भेदोऽस्ति वीचीनामिव वारिणि ।
अतो जातमिदं विश्वमजातत्वादनाशि च ॥ ४० ॥
स्वरूपत्वात्तु नास्त्येव यच्च भाति चिदेव सा ।
यथैव [तथैव इति पाठः] चेत्यनिर्हीणा परमव्योमरूपिणी ॥ ४१ ॥
स्वं आत्मैव पारमार्थिकं रूपं यस्य तत्त्वाज्जगद्रूपेण नास्त्येव । किं तर्हि
प्रत्यक्षादिप्रमाणैर्भाति तत्राह - यच्चेति । अधिष्ठानचैतन्यमेव
सर्वप्रमाणैर्भाति तस्यैवाज्ञातत्वेन अबाध्यत्वेन च प्रमाणयोग्यत्वान्नतु
जडं तत्रावरणकृत्याभावेन प्रमाणप्रवृत्तिफलाभावादिति भावः ॥ ४१
॥
सचेत्यापि तथैवैषा परमव्योमरूपिणी ।
तस्माच्चेत्यमतो नान्यद्वीचित्वादीव वारितः ॥ ४२ ॥
सचेत्येति । आरोपितचेत्येनाधिष्ठानादूषणादिति भावः । अतोऽस्याश्चितः ॥ ४२ ॥
वीचित्वं च रसे नास्ति शशशृङ्गवदेव हि ।
सैव चेत्यमिवापन्ना स्वभावादच्युताप्यलम् [स्वभावादत्त्युताप्यलम्
इति पाठः] ॥ ४३ ॥
रसतन्मात्रमेव हि जलस्य तत्त्वं नच तत्र वीचित्वम् । रसनयानुपलम्भात् । यत्तु
चक्षुषा तथा ग्रहणं तद्भूतान्तरसंसर्गोपाधिकमिति भावः ॥ ४३ ॥
तस्मान्नास्त्येव दृश्योऽर्थः कुतोऽतो द्रष्टृदृश्यधीः ।
निमिषेणैव जीवस्य मृतिमोहादनन्तरम् ॥ ४४ ॥
त्रिजगद्दृश्यसर्गश्रीः प्रतिभामुपगच्छति ।
यथादेशं यथाकालं यथारम्भं यथाक्रमम् ॥ ४५ ॥
वासनानां प्रतिनियतदेशकालादिविषयत्वात्तत्प्रयुक्तप्रतिभापि तथैवेत्याह ##-
यथोत्पादं यथामातृ यथापितृ यथौरसम् ।
यथावयो यथासंविद्यथास्थानं यथेहितम् ॥ ४६ ॥
यथाबन्धु यथाभृत्यं यथेहास्तमयोदयम् ।
अजात एव जातोऽहमिति चेतति [चेतसि इति सर्वत्र पाठः] चिद्वपुः ॥ ४७ ॥
देशकालक्रियाद्रव्यमनोबुद्धीन्द्रियादि च ।
झटित्येव मृतेरन्ते वपुः पश्यति यौवने ॥ ४८ ॥
राक्षसयोनौ शम्भोर्वरात् मातृसमानवयःप्राप्त्या प्रथमं यौवने
प्राप्तेऽपि कल्पितबाल्यादिस्मृतिमयः क्रमः पश्चादुदेतीति परेण सम्बन्धः ॥
४८ ॥
एषा माता पिता ह्येष बालोऽभूवमहं त्विति ।
नानुभूतोऽनुभूतो वा यः स्यात्स्मृतिमयः क्रमः ॥ ४९ ॥
पश्चादुदेत्यसौ तस्य पुष्पस्येव फलोदयः ।
निमिषेणैव मे कल्पो गत इत्यनुभूयते ॥ ५० ॥
रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रे तथा ह्यभूत् ।
कान्ताविरहिणामेकं वासरं वत्सरायते ॥ ५१ ॥
प्रसिद्धं चेदं मार्कण्डेयादिपुराणेषु । लोके चेत्याह - रात्रिरिति ॥ ५१ ॥
मृतो जातोऽहमन्यो मे पितेति स्वप्नतास्विव ।
अभुक्तस्यैव भोगस्य भुक्तधीरुपजायते ॥ ५२ ॥
प्। १७९)
भुक्तेऽप्यभुक्तधीर्दृष्टमित्यलङ्कितवादिषु ।
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः ।
विप्रलम्भोऽपि लाभश्च मदस्वप्नादिसंविदि ॥ ५३ ॥
लकि लक्षणे । अलङ्कितं प्रमाणैरलक्षितं वदन्ति तच्छीलेष्वलङ्कितवादिषु
मुग्धजनेषु इति एतत्पूर्वोक्तं सर्वं दृष्टम् । अविद्यया न केवलमसद्भानं
किन्तु सद्विरुद्धभानमपि प्रसिद्धमित्याह - शून्यमिति । आकीर्णतां
जनसमाजव्याप्तताम् ॥ ५३ ॥
तैक्ष्ण्यं यथा मरिचबीजकणे स्थितं स्वं
स्तम्भेषु चारचितपुत्रकजालमन्तः ।
दृश्यं त्वनन्यदिदमेवमजेऽस्ति शान्तं
तस्यास्तिबन्धनविमोक्षदृशः कुतः काः ॥ ५४ ॥
मरिचबीजकणे तैक्ष्ण्यं स्तम्भेषु अरचितप्रतिमाजालं च यथा
स्थितमेवंयस्मिन्नजे इदं दृश्यमनन्यत्सत्तयैवास्ति । तस्यात्मनः
अस्तिबन्धनविमोक्षदृशः । अस्तीति तिङन्तप्रतिरूपकमव्ययम् ।
सत्यबन्धमोक्षदृष्टय इत्यर्थः । कुतो निमित्तात्काः किंरूपाः स्युः ।
सर्वथाप्यसम्भाविता इत्यर्थः ॥ ५४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
परमार्थवर्णनं नाम विंशः सर्गः ॥ २० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
परमार्थवर्णनं नाम विंशः सर्गः ॥ २० ॥