०१९

एकोनविंशः सर्गः १९

श्रीदेव्युवाच ।

वित्तवेषवयःकर्मविद्याविभवचेष्टितैः ।
वसिष्ठस्यैव सदृशो नतु वासिष्ठचेष्टितः ॥ १ ॥

राजदर्शनराज्येच्छादृढसङ्कल्पतो जनिः ।
पाद्मस्यास्यापि सर्गस्य प्राग्जन्मोक्त्यात्र वर्ण्यते ॥ १ ॥

वित्तं दैवं मानुषं च । वासिष्ठानि
चेष्टितानीक्ष्वाकुवंशपौरोहित्यरामोपदेशादीनि तद्रहितः ॥ १ ॥

वसिष्ठ इति नाम्नासौ तस्याभूदिन्दुसुन्दरी ।
नाम्ना त्वरुन्धती भार्या भूमिव्योमन्यरुन्धती ॥ २ ॥

प्रसिद्धारुन्धतीस्वर्व्योमनि इयं तु भूमिव्योमनीति विशेषः ॥ २ ॥

वित्तवेषवयःकर्मविद्याविभवचेष्टितैः ।
समैव साप्यरुन्धत्या नतु चेतनसत्तया ॥ ३ ॥

चेतनो जीवस्तत्सत्तया तत्स्वरूपस्थित्या । प्रसिद्धारुन्धतीवसिष्ठयोस्तत्त्वज्ञतया
जीवन्मुक्तत्वात्तयोस्तूत्तरजन्मभाविज्ञानत्वेन तदानीमज्ञतया
बद्धत्वादित्यर्थः ॥ ३ ॥

अकृत्रिमप्रेमरसा विलासालसगामिनी ।
सास्य संसारसर्वस्वमासीत्कुमुदहासिनी ॥ ४ ॥

स विप्रस्तस्य शैलस्य सानौ सरलशाद्वले ।
कदाचिदुपविष्टः सन्ददर्शादो महीपतिम् ॥ ५ ॥

सानौ प्रस्थदेशे । सरलाः समाः शाद्वला हरिततृणभूमयो यस्मिन् ॥ ५ ॥

समग्रपरिवारेण यान्तमाखेटकेच्छया ।
महता सैन्यघोषेण मेरोरिव बिभित्सया ॥ ६ ॥

आखेटकं मृगया । बिभित्सया विदारणसम्भावनया । आशङ्कायां
सन्वक्तव्यः इति सन् ॥ ६ ॥

चामरैः कीर्णचन्द्रांशुपताकाभिर्लतावनम् ।
कुर्वाणं खं सितच्छत्रमण्डलै रूप्यकुट्टिमम् ॥ ७ ॥

लतावनं चामरैः पताकाभिश्च कीर्णचन्द्रांशु कुर्वाणं तथा खं
सितच्छत्रमण्डलै रूप्यसौधं कुर्वाणम् । उभयत्र तत्सदृशमित्यर्थः ॥ ७

अश्वपादूस्वनत्क्ष्माजरेणुपूरावृताम्बरम् ।
हास्तिकोत्तम्भितकरवाताट्टालकगोपितम् ॥ ८ ॥

अश्वानां पादूभिः खुरत्राणलोहैः खनन्त्यां मृदुत्वात्खनने
अनुकूलीभवन्त्यां क्ष्मायां जातै रेणुभिः पूरिताकाशम् । आरोहति
हस्तीतिवत्कर्मणोऽप्यानुकूल्याचरणविवक्षया कर्तृत्वाच्छतृप्रत्ययः । तर्हि
किं राजाऽपि रजोभिः कीर्णो नेत्याह - हास्तिकेति । हस्तिनां समूहो हास्तिकम् ।
अचित्तहस्तिधेनोष्ठक् इति ठक् । तत्पृष्ठस्थैरुत्तम्भिता निरुद्धाः कराः
सूर्यरश्मयो वाताश्च यैस्तथाविधैरट्टालकैः
स्वर्णरजतमुक्तामण्डपैर्गोपितं रक्षितम् ॥ ८ ॥

प्। १७६)

महाकलकलावर्तद्रवद्दिग्भूतमण्डलम् ।
कचत्काञ्चनमाणिक्यहारकेयूरमण्डलम् ॥ ९ ॥

कलकलाः कोलाहलास्तैर्दिग्भ्रमादावर्तवत् द्रवन्ति दशदिशां
मृगादिभूतमण्डलानि यस्य तम् ॥ ९ ॥

तमालोक्य महीपालमिदं चिन्तितवानसौ ।
अहो नु रम्या नृपता सर्वसौभाग्यभासिता ॥ १० ॥

चिन्तितवान् चिन्तापूर्वकं सङ्कल्पितवान् ॥ १० ॥

पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः ।
कदा स्यां दशदिक्कुञ्जपूरकोऽहं महीपतिः ॥ ११ ॥

कदा मे वायवः कुन्दमकरन्दसुगन्धयः ।
पास्यन्त्यन्तःपुरस्त्रीणां सुरतश्रमसीकरान् ॥ १२ ॥

कर्पूरेण पुरन्ध्रीणां पूर्णेन यशसा दिशाम् ।
इन्दूदयावदातानि कदा कुर्यां मुखान्यहम् ॥ १३ ॥

सुचरित्राचरणशिक्षणैः पुरं धारयन्तीति पुरन्ध्रयस्तासां दिशां च
मुखानि कर्पूरमिश्रचन्दनेन यशसा च क्रमादिन्दूदयेनेवावदातानि
सप्रकाशानि कदा कुर्याम् ॥ १३ ॥

इत्थं ततःप्रभृत्येष विप्रः सङ्कल्पवानभूत् ।
स्वधर्मनिरतो नित्यं यावज्जीवमतन्द्रितः ॥ १४ ॥

एवमिच्छामुपवर्ण्येष्टविषये सङ्कल्पमाह - इत्थमिति ॥ १४ ॥

हिमाशनिरिवाम्भोजं जर्जरीकर्तुमादृता ।
जले जर्जरितेवाथ जरा द्विजमुपाययौ ॥ १५ ॥

हिमात्मिका अशनिर्वज्रमम्भोजमिव सरोजले जर्जरः सेतुशैथिल्यं तद्वत्तेव
चेत्यर्थः ॥ १५ ॥

आसन्नमरणस्याथ भार्या म्लानिमुपाययौ ।
तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः ॥ १६ ॥

पुष्पर्तौ वसन्ते ॥ १६ ॥

मामथाराधितवती सा ततस्त्वमिवाङ्गना ।
अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद्वरम् ॥ १७ ॥

देवि स्वमण्डपादेव जीवो भर्तुर्मृतस्य मे ।
मायासीदित्यतस्तस्याः स एवाङ्गीकृतो मया ॥ १८ ॥

स्वमण्डपाद्बहिरिति शेषः । मायासीदेवेत्यन्वयः । अतः प्रार्थनात्स
प्रार्थितोऽर्थोङ्गीकृतो दत्त इति यावत् ॥ १८ ॥

अथ कालवशाद्विप्रः स पञ्चत्वमुपाययौ ।
तस्मिन्नेव गृहाकाशे जीवाकाशतया स्थितः ॥ १९ ॥

पञ्चत्वं मरणम् । अन्तःकरणवासनावच्छिन्नं ब्रह्म
जीवाकाशस्तद्भावेन स्थितः ॥ १९ ॥

सम्पन्नः प्राक्तनानल्पसङ्कल्पवशतः स्वयम् ।
आकाशवपुरेवैष पतिः परमशक्तिमान् ॥ २० ॥

नृपः सम्पन्न इत्युत्तरत्रान्वयः । परमशक्तिमान्
दैवमानुषशक्तिविशिष्टः ॥ २० ॥

प्रभावजितभूपीठः प्रतापाक्रान्तविष्टपः ।
कृपापालितपातालस्त्रिलोकविजयी नृपः ॥ २१ ॥

ते एव शक्ती प्रभावप्रतापशब्दाभ्यां विभज्योक्तेः । विष्टपोऽत्र त्रिविष्टपं
भूपातालयोः पृथग्ग्रहणात् ॥ २१ ॥

कल्पाग्निररिवृक्षाणां स्त्रीणां मकरकेतनः ।
मेरुर्विषयवायूनां साध्वब्जानां दिवाकरः ॥ २२ ॥

दावाग्नौ पुनः प्ररोहसम्भावनापि स्यान्नतु कल्पाग्नौ । विषया एव
वायवश्चापलहेतुत्वात्तेषां मेरुरिवाप्रकम्प्यो विष्टम्भकश्च ॥ २२ ॥

आदर्शः सर्वशास्त्राणामर्थिनां कल्पपादपः ।
पादपीठं द्विजाग्र्याणां राकाधर्मामृतत्विषः ॥ २३ ॥

धर्मलक्षणस्यामृतत्विषश्चन्द्रस्य राका पौर्णिमा ॥ २३ ॥

स्वगृहाभ्यन्तराकाशे चित्ताकाशमयात्मनि ।
तस्मिन्द्विजे शवीभूते भूताकाशशरीरिणि ॥ २४ ॥

चित्तसंस्कारावच्छिन्नब्रह्माकाशप्रचुरात्मनि । अत एव आकाशशरीरिणि ।
शवीभूते मृते सति ॥ २४ ॥

सा तस्य ब्राह्मणी भार्या शोकेनात्यन्तकर्शिता ।
शुष्केव माषशिम्बीका हृदयेन द्विधाभवत् ॥ २५ ॥

भर्त्रा सह शवीभूता देहमुत्सृज्य दूरतः ।
आतिवाहिकदेहेन भर्तारं समुपाययौ ॥ २६ ॥

परलोकातिवहनयोग्येन मानसेन देहेन ॥ २६ ॥

नदीनिखातमिव तं भर्तारमनुसृत्य सा ।
आजगाम विशोकत्वं सा वासन्तीव मञ्जरी ॥ २७ ॥

निखातं निम्नदेशम् । सा प्रसिद्धा । वासन्ती वसन्तकालप्ररूढा ॥ २७ ॥

तत्रास्य विप्रस्य गृहाणि सन्ति
भूस्थावरादीनि धनानि सन्ति ।
अद्याष्टमं वासरमाप्तमृत्यो-
र्जीवो गिरिग्रामककन्दरस्थः ॥ २८ ॥

तत्र गिरिग्रामे । वासरं वर्तत इति शेषः । कन्दरशब्देन गृहमण्डपो
गौण्युओच्यते ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
ब्राह्मणमरणं नामैकोनविंशः सर्गः ॥ १९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
ब्राह्मणमरणं नामैकोनविंशः सर्गः ॥ १९ ॥