अष्टादशः सर्गः १८
श्रीवसिष्ठ उवाच ।
इत्थं विनोदयामीदं दुःखदं चित्तमित्यलम् ।
बोधयित्वेङ्गितैर्भूपानास्थानादुत्थिताथ सा ॥ १ ॥
समाधिदृष्टसर्गस्य पूर्वसर्गस्य चाधुना ।
दृश्यत्वात्तुल्यमिथ्यात्वे चिन्मात्रस्थितिरुच्यते ॥ १ ॥
इत्थमास्थानदर्शनादिना
विनोदयाम्याश्वासयामीतिङ्गितैरभिप्रायसूचकचेष्टाभिर्भूपान्बोध##-
प्रविश्यान्तःपुरं भर्तुः पार्श्वेऽन्तःपुरमण्डपे ।
विवेश पुष्पगुप्तस्य चिन्तयामास चेतसा ॥ २ ॥
पुष्पैर्गुप्तस्य च्छन्नस्य भर्तुः पार्श्वे उपविश्येति शेषः ॥ २ ॥
अहो विचित्रा मायेयमेतेऽस्मत्पुरमानवाः ।
बहिरन्तरवद्देशे तत्र चेह च संस्थिताः ॥ ३ ॥
तत्र समाधिदृष्टेऽन्तरवत्यवकाशवति देशे इहास्मत्पुरे च ॥ ३ ॥
तालीतमालर्हितालमालिता गिरयोऽप्यमी ।
यथा तत्र तथेहापि वत मायेयमातता ॥ ४ ॥
तथेहापि संस्थिता इत्यनुषज्यते ॥ ४ ॥
आदर्शेऽन्तर्बहिश्चैव यथा शैलोऽनुभूयते ।
बहिरन्तश्चिदादर्शे तथा सर्गोऽनुभूयते ॥ ५ ॥
मायात्वमेव दृष्टान्तेन सम्भावयति - आदर्श इति ॥ ५ ॥
तत्र भ्रान्तिमयः सर्गः कः स्यात्कः पारमार्थिकः ।
इति पृच्छामि वागीशामभ्यर्च्योक्तमसंशयम् ॥ ६ ॥
तर्हि दृष्टान्तवदेवान्यतरस्यैव मिथ्यात्वं न द्वयोरपीति
सम्भावनात्सन्देहं दर्शयति - तत्रेति । वागीशामभ्यर्च्य तदग्रे
स्वेनोक्तं संशयमसंशयं यथा स्यात्तथा पृच्छामि ॥ ६ ॥
इति निश्चित्य तां देवीं पूजयामास सा तदा ।
ददर्श च पुरः प्राप्तां कुमारीरूपधारिणीम् ॥ ७ ॥
भद्रासनगतां देवीमुपविश्य पुरोगता ।
परमार्थमहाशक्तिं लीलाऽपृच्छद्भुवि स्थिता ॥ ८ ॥
भुवि स्थिता लीला पुरोगता भूत्वोपविश्यापृच्छदित्यन्वयः ॥ ८ ॥
लीलोवाच ।
अनुकम्प्यस्य नो देवि भजन्त्युद्वेगमुत्तमाः ।
त्वयैवं किल सर्गादौ स्थापिता स्थितिरुत्तमा ॥ ९ ॥
अनुकम्प्यस्य दयोचितस्य विषये इति शेषः । स्थितिर्मर्यादा ॥ ९ ॥
तदिदं यत्पुरः प्रह्वा पृच्छामि परमेश्वरि ।
तद्ब्रूहि त्वत्कृतो नूनं सफलो मेऽस्त्वनुग्रहः ॥ १० ॥
तत्तस्मादिदं पृच्छामि तद्ब्रूहि ॥ १० ॥
अस्यादर्शो जगन्नाम्नः खादप्यधिकनिर्मलः ।
यस्य योजनकोटीनां कोटयोऽवयवो मनाक् ॥ ११ ॥
संशयबीजोद्घाटनायोपोद्घातेन समाध्यनुभूतमात्मस्वरूपं
प्रथममनुवदति - अस्येत्यादित्रिभिः । मनाक् अल्पः ॥ ११ ॥
निःसन्धितवचोज्योतिर्घनो मृदुसुशीतलः ।
अचेत्यचिदिति ख्यातो नाम्ना निर्भित्तिरग्रतः ॥ १२ ॥
निःसन्धितानि संसर्गागोचराणि । अखण्डार्थानीति यावत् । वचांसि
यस्मिंस्तथाविधः प्रज्ञानज्योतिर्घनः अमूर्तत्वान्मृदुरकठिनो
निःशेषतापोपशमाच्छीतलो निर्भित्तिर्निरावरणो निर्भेदो वा
सर्वव्यवहारेष्वग्रतः स्फुरन्निति शेषः ॥ १२ ॥
दिक्कालकलनाकाशप्रकाशनियतिक्रमाः ।
यत्रेमे प्रतिबिम्बन्ति परां परिणतिं गताः ॥ १३ ॥
यत्रात्मादर्शे दिक्कालौ तदन्तश्च सर्वकार्याणां कलना
उत्पत्तिरुत्पन्नानामाकाशेऽवकाशप्राप्तिस्तेजोनयनादिभिः प्रकाशः
प्रकाशितानां
चार्थक्रियास्वनेनेदमित्थमेवोपपादितमीदृशव्यवहारोपयुक्तमिति
नियतिक्रमाः परां देशकालविस्तीर्णा परिणतिं विकारवैचित्र्यं गताः प्राप्ताः
प्रतिबिम्बवदन्तः स्फुरन्ति ॥ १३ ॥
त्रिजगत्प्रतिबिम्बश्रीर्बहिरन्तश्च संस्थिता ।
तत्र वै कृत्रिमा का स्यात्कासौ वा स्यादकृत्रिमा ॥ १४ ॥
औपोद्घातिकप्रसञ्जितं प्रस्तुतं पृच्छति - त्रिजगदिति । तत्र तयोर्मध्ये ।
कृत्रिमा काल्पनिकी । मिथ्येति यावत् ॥ १४ ॥
श्रीदेव्युवाच ।
अकृत्रिमत्वं सर्गस्य कीदृशं वद सुन्दरि ।
कीदृशं कृत्रिमत्वं स्याद्यथावत्कथयेति मे ॥ १५ ॥
तत्त्वदृशा जगत्यकृत्रिमत्वं नास्त्येवेत्याशयेन संशयबीजं निरसिष्यन्ती
देवी पृच्छति - अकृत्रिमत्वमिति ॥ १५ ॥
प्। १७४)
लीलोवाच ।
यथाहमिह तिष्ठामि त्वं च देवि स्थिताम्बिके ।
असावकृत्रिमः सर्ग इति देवेशि वेद्म्यहम् ॥ १६ ॥
विपुलत्वेन प्रमितस्य तदपर्याप्तदेशकालपरिच्छेदो मिथ्यात्वव्याप्यो
गिरिप्रतिबिम्बादौ दृष्टः सच भर्तृप्रपञ्च एव दृश्यते नास्मिन्निति
वैधर्म्यदर्शिनी लीलोवाच - यथेत्यादि द्वाभ्याम् वेद्मि सम्भावयामि ॥ १६
॥
यत्राधुना स भर्ता मे स्थितः सर्गः स कृत्रिमः ।
अहं मन्ये यतः शून्यो देशकालाद्यपूरकः ॥ १७ ॥
शून्यो मिथ्याभूतो यतः स्वावस्थित्यपर्याप्तस्याल्पस्यापि
देशकालव्यवहारादेरपूरकः प्रतिबिम्बस्वप्नपर्वतादिस्तथा दृष्ट
इत्यर्थः ॥ १७ ॥
श्रीदेव्युवाच ।
कृत्रिमोऽकृत्रिमात्सर्गान्न कदाचन जायते ।
नहि कारणतः कार्यमुदेत्यसदृशं क्वच्ति ॥ १८ ॥
भर्तृसर्गो निर्हेतुकः सहेतुको वा । नाद्यः । अनुत्पत्तिप्रसङ्गात् । द्वितीये
कृत्रिमहेतुकोऽकृत्रिमहेतुको वा । तदाऽद्येपि एतत्सर्गहेतुकोऽन्यहेतुको वा ।
तत्रान्यस्याप्रसिद्धेराद्यकल्पपरिशेषे कृत्रिमहेतोरस्यापि सर्गस्य
कृत्रिमत्वप्रसङ्गः । भिन्नसत्तकयोर्हेतुफलभावादर्शनादिति न
सर्गयोर्वैधर्म्यमित्याशयेन देव्युत्तरमाह - कृत्रिम इति ॥ १८ ॥
लीलोवाच ।
दृश्यते कारणात्कार्यं सुविलक्षणमम्बिके ।
अम्ब्वादातुमशक्ता मृद्घटस्तज्जस्तदास्पदम् ॥ १९ ॥
उक्तनियमे लीला व्यभिचारं शङ्कमानाह - दृश्यत इति । पिण्डभूता
मृत् अम्बु जलमादातुमन्तर्धारयितुमशक्ता । तज्जो घटस्तु तस्याम्बुन
आस्पदं धारणसमर्थो दृश्यते । तथाच समशक्तितानियमवन्न
समसत्तानियमोऽपि सम्भवतीति भावः ॥ १९ ॥
श्रीदेव्युवाच ।
सम्पद्यते हि यत्कार्यं कारणैः सहकारिभिः ।
मुख्यकारणवैचित्र्यं किञ्चित्तत्रावलोक्यते ॥ २० ॥
उपादानवैचित्यात्सहकारिनिमित्तवैचित्र्याद्वा पिण्डघटयोर्वैचित्र्यमस्तु यत्खलु
तुल्योपादाननिमित्तकं यथा दीपाद्दीपान्तरं न तत्र वैचित्र्यं दृश्यते ।
प्रकृतसर्गयोरपि तथात्वमेवेत्याशयेन देवी समाधत्ते - सम्पद्यत इति ।
मुख्यमसाधारणं दण्डचक्रादि ॥ २० ॥
वद तद्भर्तृसर्गस्य किं पृथ्व्यादिषु कारणम् ।
तद्भूमण्डलतो भ्हुतिर्जाता तत्र वरानने ॥ २१ ॥
त्वद्भर्तृसर्गस्य तु नासाधारणकारणवैचित्र्यं
शक्यमुभयोर्मायाकामकर्मवासनामात्रमूलकत्वाविशेषादित्याशयेनाह
- वदेति । एतत्सर्गान्तर्गतपृथ्व्यादिषु मध्ये त्वद्भर्तृसर्गस्य किं
कारणं येन वैचित्र्यं स्यात् । भौतिकेष्वपि यथा एतद्भूमण्डलतो
भूतिरुत्पत्तिर्जाता तथा तद्भूमण्डलतस्तत्रेति न वैषम्यमित्यर्थः ॥ २१ ॥
गतं [स्मृतेस्तत् इति पाठः] चेदित उड्डीय कुतः स्यादिह भूतलम्
।
सहकारीणि कानीव कारणान्यत्र कारणे ॥ २२ ॥
अत्रत्यभूम्यादेरेव तत्रत्यभूम्याद्युत्पत्तिरस्त्विति चेत्तत्राह - गतमिति ।
अगतेन तत्र कार्यजननायोगादिति भावः ॥ २२ ॥
कारणानामभावेऽपि योदेति सहकारिता ।
तत्पूर्वकारणान्नान्यत्सर्वेणेत्यनुभूयते ॥ २३ ॥
तस्मादत्रत्यसहकारिकारणानामभावेऽपि या सामग्रीलक्षणा सहकारिता उदेति
कार्यान्यथानुपपत्त्या कल्प्यते सा
तत्पूर्वसर्गकारणात्कामकर्मवासनाविद्यात्मकादन्यदन्या न । छान्दसी
क्लीबता । तथाच न वैलक्षण्यसिद्धिरित्यर्थः ॥ २३ ॥
लीलोवाच ।
स्मृतिः सा देवि मद्भर्तुस्तथा स्फारत्वमागता ।
स्मृतिस्तत्कारणं वेद्मि सर्गोऽयमिति निश्चयः ॥ २४ ॥
सत्यैतत्सर्गानुभवजन्यसंस्कारजः प्रमुष्टसत्ताकस्मृतितुल्यः स्वप्न इव
मद्भर्तुः सर्गोऽस्त्विति विधान्तरेण वैधर्म्यं लीला शङ्कते - स्मृतिरिति ॥
२४ ॥
श्रीदेव्युवाच ।
स्मृतिराकाशरूपा च यथा तज्जस्तथैव ते ।
भर्तुः सर्गोऽनुभूतोऽपि स व्योमैव तथाबले ॥ २५ ॥
तर्हि तज्जस्तस्मात्पूर्वदृष्तसर्गात्संस्कारद्वारा जातस्ते भर्तुः सर्गो यथा
स्मृतिराकाशरूपा स्मृतिरिव पुरोवर्तिविषयशून्यत्वादाकाशरूपस्तथा
अनुभूतः संस्कारहेत्वनुभवविषयः पूर्वसर्गोऽपि व्योमैव । यतः सोऽपि तथा
तत्पूर्वसर्गसंस्कारज इत्यर्थः ॥ २५ ॥
लीलोवाच ।
स्मृत्याकाशमयः सर्गो यथा भर्तुर्ममोदितः ।
तथैवेममहं मन्ये स सर्गोऽत्र निदर्शनम् ॥ २६ ॥
उक्तमर्थं विमृश्याभ्युपगतवती लीला देव्याशयानुरूपमेवाह -
स्मृतीति ॥ २६ ॥
श्रीदेव्युवाच ।
एवमेतदसत्सर्गो भर्तुस्तैर्भाति भासुरः ।
तथैवायमिहाभाति पश्याम्येतदहं सुते ॥ २७ ॥
लीलोक्तिमनुमोदमाना देव्युवाच - एवमिति । सर्वथा असन्सर्गो यस्मिन्स
आत्मैव भर्तुस्तैस्तैः सर्गभावैर्भाति ॥ २७ ॥
लीलोवाच ।
यथा पत्युरमूर्तोऽस्मात्सर्गात्सर्गो भ्रमात्मकः ।
जातस्तथा कथय मे जगद्भ्रमनिवृत्तये ॥ २८ ॥
श्रीदेव्युवाच ।
प्राक्स्मृतेर्भ्रान्तिमात्रात्मा सर्गोऽयमुदितो यथा ।
स्वप्नभ्रमात्मको भाति तथेदं कथ्यते शृणु ॥ २९ ॥
अस्यापि सर्गस्य
पूर्वसर्गगोचरसंस्कारजन्यभ्रान्तित्वमेवेत्युक्तार्थस्योपपादनाय
मण्डपोपाख्यानारम्भं प्रतिजानीते - प्रागिति ॥ २९ ॥
प्। १७५)
अस्ति क्वचिच्चिदाकाशे क्वचित्संसारमण्डपः ।
आकाशकाचदलवत्संस्थानाच्छादिताकृतिः ॥ ३० ॥
तदुपयोगितया संसारं जीर्णमण्डपत्वेन वर्णयति - अस्तीत्यादिना ।
क्वचिदज्ञानावृतांशे तत्रापि क्वचित्स्रष्ट्रन्तःकरणभागे । कश्चित् इति पाठे
स्पष्टम् । आकाशरूपं यत्काचखण्डवन्नीलमूर्ध्वावयवसंस्थानं
तेनाच्छादिताकृतिः ॥ ३० ॥
मेरुस्तम्भस्थलोकेशपुरन्ध्रीशालभञ्जिकः ।
चतुर्दशापवरकस्त्रिगर्तो भानुदीपकः ॥ ३१ ॥
लोकपालतत्पुरन्ध्रीलक्षणाः प्रतिमा यस्मिन् । चतुर्दशभुवनरूपा अपवरका
अन्तर्गृहा यस्मिन् । त्रिभुवनान्तरालानि गर्ता यस्मिन् ॥ ३१ ॥
कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः ।
अनेकपुत्रजरठप्रजेशब्राह्मणास्पदम् ॥ ३२ ॥
भूतवम्रीणां वल्मीकप्रायनगरादिव्याप्ताः पर्वतमृत्खण्डा यस्मिन् ।
प्रजेशो ब्रह्मा स एव ब्राह्मणः ॥ ३२ ॥
जीवौघकोशकाराढ्यो व्योमोर्ध्वतलकालिमा ।
नभोनिवाससिद्धौघमशकाहितघुङ्गुमः ॥ ३३ ॥
कोशकाराः स्वबन्धनकोशनिर्मातृकृमिविशेषाः । घुङ्घुमेति
द्वन्यनुकरणम् ॥ ३३ ॥
पयोदगृहधूमोग्रजालावलितकोणकः ।
वातमार्गमहावंशस्थितवैमानकीटकः ॥ ३४ ॥
वातमार्गौघः स एव महावंशः । मधुविद्यायां द्यौरेव तिरश्चीनवम्श
इत्युक्तेः ॥ ३४ ॥
सुरासुरादिदुर्बाललीलाकलकलाकुलः ।
लोकान्तरपुरग्रामभाण्डोपस्करनिर्भरः ॥ ३५ ॥
लोकानां भ्वादीनां आन्तराः पुरग्रामा एव
मण्डपान्तर्गतभाण्डोपस्करातिशयाः ॥ ३५ ॥
सरःस्रोतोब्धिसरसीजलोक्षितमहीतलः ।
पातालभूतलस्वर्गभागभासुरकोटरः ॥ ३६ ॥
तत्र कस्मिंश्चिदेकस्मिन्कोणेष्वम्बरकोटरे ।
शैललोष्टतलेष्वेको गिरिग्रामकगर्तकः ॥ ३७ ॥
तत्र तस्मिन्मण्डपे । कोणलोष्टतलयोर्बहुत्वं पाशबहुत्ववदविवक्षितम् । अल्पो
ग्रामो ग्रामकः स एव गर्तकः ॥ ३७ ॥
तस्मिन्नदीशैलवनोपगूढे
साग्निः सदारः सुतवानरोगः ।
गोक्षीरवान् राजभयाद्विमुक्तः
सर्वातिथिर्धर्मपरो द्विजोऽभूत् ॥ ३८ ॥
गोमत्त्वेनैव क्षीरवत्त्वलाभे पश्वन्तरसपत्तेरपि द्योतनाय क्षीरवानित्युक्तिः ।
सर्वेऽपि वर्णाश्रमा अतिथयः पूज्याः पोष्याश्च यस्य ॥ ३८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो०
जगद्भ्रान्तिप्रतिपादनं नामाष्टादशः सर्गः ॥ १८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जगद्भ्रान्तिप्रतिपादनं नामाष्टादशः सर्गः ॥ १८ ॥