सप्तदशः सर्गः १७
श्रीसरस्वत्युवाच ।
शवीभूतमिमं वत्से भर्तारं पुष्पपुञ्जके ।
आच्छाद्य स्थापयैनं त्वं पुनर्भर्तारमेष्यसि ॥ १ ॥
अन्वयव्यतिरेकाभ्यां नव्यप्राक्तनसर्गयोः ।
मनोमात्रविलासत्वात्तुल्यत्वमिह बोध्यते ॥ १ ॥
अशरीरिण्येवाश्वासनवरप्रदानाभ्यामनुकम्पमाना श्रीसरस्वत्युवाच -
शवीभूतमिति । पुष्पपुञ्जके पुष्पराशौ ॥ १ ॥
पुष्पाणि म्लानिमेष्यन्ति नो नचैष विनङ्क्ष्यति ।
भूयश्च तव भर्तृत्वमचिरेण करिष्यति ॥ २ ॥
नो इति निषेधार्थो निपातः पूर्वान्वयी ॥ २ ॥
एतदीयश्च जीवोऽसावाकाशविशदस्तव ।
न निर्गमिष्यति क्षिप्रमितोऽन्तःपुरमण्डपात् ॥ ३ ॥
प्राक्तनवरस्यासत्यताशङ्कां वारयति - एतदीय इति ॥ ३ ॥
षट्पदश्रेणिनयना समाकर्ण्येति बन्धुभिः ।
सा समाश्वासितागत्य पयोभिरिव पद्मिनी ॥ ४ ॥
यथा पयःशोषाच्छुष्यन्ती पद्मिनी पयोभिरागत्याश्वास्यते तद्वत् ॥ ४ ॥
पतिं संस्थाप्य तत्रैव पुष्पपूरप्रगोपितम् ।
किञ्चिदाश्वासिताऽतिष्ठद्दरिद्रेव निधानिनी ॥ ५ ॥
प्। १७१)
तस्मिन्नेव दिने सैषा तस्मिञ्छुद्धान्तमण्डपे ।
अर्धरात्रे परिजने सर्वस्मिन्निद्रया हृते ॥ ६ ॥
शुद्धान्तोऽवरोधः ॥ ६ ॥
ज्ञप्तिं भगवतीं देवीं शुद्धध्यानमहाधिया ।
दुःखादाह्वाययामास सोवाच समुपेत्य ताम् ॥ ७ ॥
शुद्धध्यानसहितमहाधिया आहूतेवागतेत्याह्वाययामासेत्युत्प्रेक्षा । अर्तिह्री
- इत्येतदपवादेन शाच्छासाह्वा - इत्यादिना युक् । सा सरस्वती ॥ ७ ॥
किं स्मृतास्मि त्वया वत्से धत्से किमिति शोकिताम् ।
संसारभ्रान्तयो भान्ति मृगतृष्णाम्बुवन्मुधा ॥ ८ ॥
तत्रादौ शोकापनयाय तद्धेतूनां मिथ्यात्वमाह - संसारेति ॥ ८ ॥
लीलोवाच ।
क्व ममावस्थितो भर्ता किं करोत्यथ कीदृशः ।
समीपं नय मां तस्य नैका शक्नोपि जीवितुम् ॥ ९ ॥
श्रीदेव्युवाच ।
चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।
द्वाभ्यां शून्यतरं विद्धि चिदाकाशं वरानने ॥ १० ॥
इहलोकवत्परलोककल्पनाया अपि चिन्मात्राधिष्ठानकत्वं दर्शयितुं
चिदाकाशं विविच्य दर्शयति - चित्तेति । वासनामयं चित्ताकाशं निरूढं
व्यावहारिकं तृतीयकं उभयसन्धावुभयशून्यं चिदाकाशं
सुलक्ष्यमिति भावः ॥ १० ॥
तच्चिदाकाशकोशात्म चिदाकाशैकभावनात् ।
अविद्यमानमप्याशु दृश्यतेऽथानुभूयते ॥ ११ ॥
चिदाकाशमेव स्वावरणाज्ञानाविविक्तं स्फुरदसज्जगदात्मना सद्यो
दृश्यते तेन च दुःखाद्यनुभूयत इत्याह - तदिति । तत्
पृथगविद्यमानमपि चिदाकाशस्यैकाग्रचिन्तनात् आशु इत एव दृश्यते अथ
तत्र गत्वा अनुभूयते चेत्यर्थः ॥ ११ ॥
देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् ।
निमिषेण चिदाकाशं तद्विद्धि वरवर्णिनि ॥ १२ ॥
तदर्थं चिदाकाशं परिचाययति - देशादिति ।
क्रमिकविषयद्वयाभाससन्धौ तदुभयशून्यचिदाकाशः सुलक्ष्य इत्यर्थः
॥ १२ ॥
तस्मिन्निरस्तनिःशेषसङ्कल्पा स्थितिमेषि चेत् ।
सर्वात्मकं पदं तत्त्वं त्वं तदाप्नोष्यसंशयम् ॥ १३ ॥
अतस्तव तत्प्राप्तिरेव तद्भावस्थितभर्तृसमीपे प्राप्तिस्तत्रैव
भर्तृपरलोककल्पनादित्याशयेनाह - तस्मिन्निति ॥ १३ ॥
अत्यन्ताभावसम्पत्त्या जगतश्चैतदाप्यते ।
नान्यथा मद्वरेणाशु त्वं तु प्राप्स्यसि सुन्दरि ॥ १४ ॥
कथं तर्हि तत्प्राप्तिस्तत्रोपायमाह - अत्यन्तेति । तत्त्वदर्शनेनाविद्याक्षये
द्वैतानुदय एवात्यन्ताभावसम्पत्तिः । तत्र नान्यः पन्था इति
श्रुतिर्मानमित्यभिप्रेत्याह - नान्यथेति । मम तर्हि कथं
ज्ञानप्राप्तिस्तत्राह - मद्वरेणेति ॥ १४ ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा सा ययौ देवी दिव्यमात्मीयमास्पदम् ।
लीला तु लीलयैवासीन्निर्विकल्पसमाधिभाक् ॥ १५ ॥
लीलया वरप्रभावाद्विनैवाभ्यासश्रमम् ॥ १५ ॥
तत्तत्याज निमेषेण सान्तःकरणपञ्जरम् ।
स्वदेहं खमिवोड्डीना मुक्तनीडा विहङ्गमी ॥ १६ ॥
लोहपञ्जरवद्दुर्भेद्यान्तःकरणसहितं स्थूलदेहम् । स्थिरीकृतचेतसा
अभिमानत्याग एवात्र विवक्षितो नतु मरणवद्बहिर्निर्गमनम् ॥ १६ ॥
ददर्श खस्था भर्तारं तस्मिन्नेवालयाम्बरे ।
संस्थितं पृथ्वीपालमास्थाने बहुराजनि ॥ १७ ॥
खमत्र चिदाकाशस्तत्स्था सती आलयाम्बरे
आविर्भूतस्ववासनाकर्मानुरूपदेहगेहादिसम्पत्त्या संस्थितम् ॥ १७ ॥
सिंहासने समारूढं जयजीवेति संस्तुतम् ।
प्रस्तुतं मण्डलानीककार्यमाहर्तुमादृतम् ॥ १८ ॥
प्रस्तुतमुपस्थितं कार्यमाहर्तुं सम्पादयितुम् ॥ १८ ॥
पताकामञ्जरीकीर्णराजधानीगृहस्थितम् ।
पूर्वद्वारस्थितासङ्ख्यमुनिविप्रर्षिमण्डलम् ॥ १९ ॥
पताकामण्डलैर्व्याप्ताया राजधान्याः प्रधानगृहे स्थितम् । इत आरभ्य
बहुपदबहुव्रीहयः सर्वे ॥ १९ ॥
दक्षिणद्वारगासङ्ख्यराजराजेशमण्डलम् ।
पश्चिमद्वारगासङ्ख्यललनालोकमण्डलम् ॥ २० ॥
ललनालोकाः स्त्रीजनाः ॥ २० ॥
उत्तरद्वारगासङ्ख्यरथहस्त्यश्वसङ्कुलम् ।
एकभृत्यविनिर्णीतदक्षिणापथविग्रह्म ॥ २१ ॥
एकभृत्यवचसा विनिर्णीतो दक्षिणापथे विग्रहो युद्धप्रसङ्गो येन ॥ २१ ॥
कर्णाटनाथरचितपूर्वदेशक्रियाक्रमम् ।
सुराष्ट्राधिपनिर्णीतसर्वम्लेच्छोत्तरापथम् ॥ २२ ॥
सर्वदेशराजानां तद्वश्यतां दर्शयति - कर्णाटेति । क्रियाक्रमो
व्यवहारमर्यादास्थापनम् । निर्णीताः निगृह्य वशीकृताः ॥ २२ ॥
मालदेशसमाक्रान्तसर्वपाश्चात्यतङ्गणम् ।
दक्षिणाब्धितटायातलङ्कादूतविनोदितम् ॥ २३ ॥
मालदानामीशेन राज्ञा सम्यगाक्रान्तास्तङ्गणा देशविशेषाः ॥ २३ ॥
पूर्वाब्धितटमाहेन्द्रसिद्धोक्तगगनापगम् ।
उत्तराब्धितटायातदूतवर्णितगुह्यकम् ॥ २४ ॥
महेन्द्रपर्वते भवो माहेन्द्रः सिद्धस्तपस्वी तेनोक्ता वर्णिता
सहस्रमुखविस्तारादिविचित्रा गगनापगा गङ्गा यस्मै ॥ २४ ॥
पश्चिमाब्धितटालोकवर्णितास्तमयक्रमम् ।
असङ्ख्यबद्धभूपालकलाकीर्णाखिलाजिरम् ॥ २५ ॥
अब्धितटमालोकितवानित्यब्धितटालोको दूतस्तेन वर्णितः । असङ्ख्यानां
श्रेणीबद्धानां भूपालानां कलाभिः कान्तिभिः ॥ २५ ॥
यज्ञवाटपठद्विप्रजिततूर्याग्रनिःस्वनम् ।
बन्दिकोलाहलोल्लासप्रतिश्रुद्वनकुञ्जरम् ॥ २६ ॥
तुर्याग्रं वाद्यश्रेष्ठम् । वन्दिकोलाहलोल्लासस्य प्रतिश्रुतः प्रतिध्वनिकरा
वनकुञ्जरा यस्य ॥ २६ ॥
प्। १७२)
गेयवाद्योतध्वानप्रध्वनद्गानान्तरम् ।
हयहस्तिरथाराजिरजोमेघघनाम्बरम् ॥ २७ ॥
गेयेभ्यो वाद्येभ्यश्चोद्यतैर्ध्वानैः प्रध्वनद्गगनमध्यं यस्य ।
हयादीनां आ सर्वतो राजयो यत्र ॥ २७ ॥
पुष्पकर्पूरधूपाढ्यं गन्धामोदितपर्वतम् ।
सर्वमण्डलसम्भाररचितानेकशासनम् ॥ २८ ॥
पर्वतशब्देन पर्वतसदृशाः प्रासादा उच्यन्ते । सर्वेभ्यो मण्डलेभ्य
आहृत्योपायनादि सम्भरन्ति पूरयन्ति गृहं ये
मृत्यास्तेभ्योरचितानेकशासनम् ॥ २८ ॥
यशःकर्पूरजलदसुशुभ्राम्बरपर्वतम् ।
रोदसीस्तम्भभूतैकस्वप्रतापजितार्ककम् ॥ २९ ॥
स्वयशःकर्पूरराश्युपमाना जलदलक्षणाः सुशुभ्रा अम्बरोद्भूतपर्वता
यस्य ॥ २९ ॥
आरम्भमन्थरोदारकार्यसंव्यग्रभूमिपम् ।
नानानगरनिर्माणसोद्योगस्थपतीश्वरम् ॥ ३० ॥
आरम्भमन्थरेषु गुरुतरारम्भेषूदारकार्येषु संव्यग्रा भूमिपाः
सामन्ता यस्य । स्थपतयः शिल्पिकुलपतयः ॥ ३० ॥
पपाताथ महारम्भा सा तां नरपतेः सभाम् ।
व्योमात्मिका व्योममयीं मिहिकेवाम्बराटवीम् ॥ ३१ ॥
पपात प्रविवेश । सा लीला । वासनामात्ररूपत्वादुभयोर्व्योमरूपता । मिहिका
नीहारपटली ॥ ३१ ॥
भ्रमन्तीं तत्र तामग्रे ददृशुस्ते न केचन ।
सङ्कल्पमात्ररचितां पुरुषाः कामिनीमिव ॥ ३२ ॥
सङ्कल्पमात्ररचितामित्युभयान्वयि ॥ ३२ ॥
तथा ते तां न ददृशुः सञ्चरन्तीं पुरोगताम् ।
अन्यसङ्कल्परचितामन्येन नगरीं यथा ॥ ३३ ॥
प्राक्तनानेव तान्सर्वान्स्वान्ददर्श सभागतान् ।
भूभृतेव सुसम्प्राप्तान्नगरान्नगरान्तरम् ॥ ३४ ॥
स्वान्स्वीयान् । भूमृता सहेति शेषः ॥ ३४ ॥
तद्देशांस्तत्समाचारांस्तथा तानेव बालकान् ।
ता एव बालवनितास्तांस्तानेव च मन्त्रिणः ॥ ३५ ॥
तैः स्वदेशीयैः सम आचारो येषां तन् ॥ ३५ ॥
तानेव भूमिपालांश्च तांस्तानेव च पण्डितान् ।
तानेव नर्मसचिवान्भृत्यांस्तानेव तादृशान् ॥ ३६ ॥
नभंसचिवान् रहस्यविचारसहायान् ॥ ३६ ॥
अथान्यानप्यपूर्वांश्च पण्डितान्सुहृदस्तथा ।
व्यवहारांस्तथान्यांश्च पौरानन्यांस्तथैव च ॥ ३७ ॥
वासनामये स्वाप्न इव न पूर्वसादृश्यनियम इत्याह - अथेति ॥ ३७ ॥
मध्याह्नकाले दिवसे घनदावाकुला दिशः ।
अन्तरिक्षं सचन्द्रार्कं साम्भोदपवनध्वनि ॥ ३८ ॥
घनैर्निबिडैर्दावैररण्यैः ॥ ३८ ॥
महीरुहनदीशैलपुरपत्तनमण्डितम् ।
नानानगरविन्यासजङ्गलग्रामसङ्कुलम् ॥ ३९ ॥
द्विरष्टवर्षं भूपालं प्राक्तन्या जरसोज्झितम् ।
प्राक्तनीं जनतां सर्वां समस्स्तान्ग्रामवासिनः ॥ ४० ॥
सा तानालोक्य ललना चिन्तापरवशाभवत् ।
तस्मिन्नगरवास्तव्याः किं ते सर्वे मृता [मृता अपि इति पाठः]
इति ॥ ४१ ॥
तस्मिन्वासनानगरे आलोक्य नगरवास्तव्याः प्राक्तननगरस्थाः ॥ ४१ ॥
पुनः प्रज्ञप्तिबोधेन प्राक्तनान्तःपुरं गता ।
क्षणेन च ददर्शात्र सार्धरात्रे तथैव तान् ॥ ४२ ॥
प्रज्ञप्तिः सरस्वती तत्प्रसादजेन बोधेन समाधिव्युत्थानेन । तथैव
पूर्ववदेव स्थितानिति शेषः ॥ ४२ ॥
अथ सोत्थापयामास निद्राक्रान्तं सखीजनम् ।
आह चातीव मे दुःखमास्थानं दीयतामिति ॥ ४३ ॥
आस्थानं सभायां सन्निधानम् ॥ ४३ ॥
भर्तुः सिंहासनस्यास्य पार्श्वे तिष्ठाम्यहं यदि ।
पश्यामि [पश्यन्ती इति पाठः] स्वभ्यसङ्घातं तत्प्रजीवामि
नान्यथा ॥ ४४ ॥
स राजपरिवारोऽथ तयेत्युक्ते [तयेत्युक्तो इति पाठः] यथाक्रमम् ।
आसीद्विनिद्रः संव्यग्रः [संविग्नः इति पाठः] सर्वः
सर्वस्वकर्मणि ॥ ४५ ॥
यथाक्रमं यथोचितं सर्वस्मिन्स्वस्वोचितकर्मणि ॥ ४५ ॥
पौरान्सभ्यान्समानेतुं [सर्वान्सभ्यान् इति पाठः]
ययुर्याष्टिकपङ्क्तयः ।
व्यवहारं कलयितुमुर्व्यामर्ककरा इव ॥ ४६ ॥
आस्थानभूमिं भृत्याश्च मार्जयामासुरादृताः ।
प्रावृटयोदमलिनं खं शरद्वासरा इव ॥ ४७ ॥
अङ्गणं प्रति दीपौघास्तस्थुः पीततमोम्भसः ।
आश्चर्यदर्शनायेव सम्प्राप्ता ऋक्षपङ्क्तयः ॥ ४८ ॥
ऋक्षपङ्क्तयो नक्षत्रसमूहाः ॥ ४८ ॥
जनताः पूरयामासुः पूरैरजिरभूमिकाः ।
अब्धीन्प्रलयसंशुष्कान्पुरासर्ग इवाम्भसा ॥ ४९ ॥
पूरैः पूरवत्प्रवृत्तैः सङ्घैः । पुरासर्गो जनसृष्टिप्राक्कालः ॥ ४९ ॥
आजग्मुर्मन्त्रिसामन्ताः स्वस्वं स्थानमनिन्दिताः ।
त्रैलोक्ये पुनरुत्पन्ने लोकपाला यथा दिशः ॥ ५० ॥
ववुराकीर्णकर्पूरसान्द्रावश्यायशीतलाः ।
उत्फुल्लकुसुमोद्वान्तमांसलामोदितानिलाः ॥ ५१ ॥
अवश्यायो हिमम् । धावल्यशैत्याभ्यां
तत्सादृश्योपपादनायाकीर्णकर्पूरेति । कुसुमोद्वान्तर्मकरन्दैर्मासलः
पुष्ट आमोदः सञ्जातो येषाम् । तारकादित्वादितच् ॥ ५१ ॥
पर्यन्तेषु प्रतीहारास्तस्थुर्धवलवाससः ।
ऋष्यमूकार्कतापार्तमेघमाला इवाद्रिषु ॥ ५२ ॥
पर्यन्तेष्वास्थानप्रान्तेषु । ऋष्यमूकः सुग्रीवालयस्तत्र
सुग्रीवानुग्रहायार्कस्य विशेषसन्निधानात्तत्तापार्ताः । अद्रिषु हिमवदादिषु ॥
५२ ॥
प्रभापीततमःपुञ्जाः पेतुः पुष्पोत्करा भुवि ।
चण्डमारुतविध्वस्तास्तारकानिकरा इव ॥ ५३ ॥
चण्डमारुतोऽत्र प्रलयमारुतः ॥ ५३ ॥
प्। १७३)
आस्थानं पूरयामासुर्महीपालानुयायिनः ।
उत्फुल्लकमलोत्कीर्णं हंसा इव सरोवरम् ॥ ५४ ॥
स्ॐहासनसमीपस्थे हैमचित्रासने नवे ।
उपाविशदसौ लीला लीलैव स्मरचेतसि ॥ ५५ ॥
स्मरस्य चेतसि लीला रतिरिव स्मरविकृते चेतसि लीला शृङ्गारचेष्टेव वा ॥ ५५ ॥
ददर्श तान्नृपान्सर्वान्पूर्वानेव यथास्थितान् ।
गुरूनार्यान्सखीन्सभ्यान्सुहृत्सम्बन्धिबान्धवान् ॥ ५६ ॥
आर्यान्मान्यान् ॥ ५६ ॥
सकलमेव हि पूर्ववदेव सा
समवलोक्य मुदं परमां ययौ ।
नृपतिराष्ट्रजनं खलु जीवना-
भ्युदितया च बभौ शशिवच्छ्रिया ॥ ५७ ॥
खलु जीवनं निश्चितं जीवनं तदभ्युदितया ॥ ५७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
सन्देहराष्ट्रवर्णनं नाम सप्तदशः सर्गः ॥ १७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सन्देहराष्ट्रवर्णनं नाम सप्तदशः सर्गः ॥ १७ ॥