०१६

षोडशः सर्गः १६

श्रीवसिष्ठ उवाच ।

भूतलाप्सरसा सार्धमनन्यदयितापतिः ।
अकृत्रिमप्रेमरसं स रेमे कान्तया तया ॥ १ ॥

अतृप्तिः कामभोगेभ्यो भूयो दुःखावसानता ।
देवैरप्यन्यथाकर्तुमशक्येत्यत्र कीर्त्यते ॥ १ ॥

अनन्यदयितापतिरिति प्रेमरसस्याकृत्रिमत्वे हेतुः ॥ १ ॥

उद्यानवनगुल्मेषु तमालगहनेषु च ।
पुष्पमण्डपरम्येषु लतावलयसद्मसु ॥ २ ॥

उद्यानवनगुल्मेष्वित्यादीनां रेमे इत्यत्रैवान्वयः ॥ २ ॥

पुष्पान्तःपुरशय्यासु पुष्पसम्भारवीथिषु ।
वसन्तोद्यानदोलासु क्रीडापुष्करिणीषु च ॥ ३ ॥

चन्दनद्रुमशैलेषु सन्तानकतलेषु च ।
कदम्बनीपगेहेषु पारिभद्रोदरेषु च ॥ ४ ॥

सन्तानकाः कल्पवृक्षविशेषाः स्वप्रभावादिन्द्रप्रसादाद्वा प्राप्तास्तेषां
तलेषु ॥ ४ ॥

विकसत्कुन्दमन्दारमकरन्दसुगन्धिषु ।
वसन्तवनजालेषु कूजत्कोकिलपक्षिषु ॥ ५ ॥

नानारण्यतृणानां च स्थलेषु मृदुदीप्तिषु ।
निर्झरेषु तरत्तारसीकरासारवर्षिषु ॥ ६ ॥

तरतां प्लवमानानां तारसीकराणामासारो धारासम्पातः ॥ ६ ॥

शैलानां मणिमाणिक्यशिलानां फलकेषु च ।
देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च ॥ ७ ॥

देवर्षिमुनिगेहेषु सहयात्रारूपं रमणम् ॥ ७ ॥

प्। १६९)

कुमुद्वतीषु फुल्लासु स्मेरासु नलिनीषु च ।
वनस्थलीषु कृष्णासु फुल्लासु फलिनीषु च ॥ ८ ॥

कुमुद्वतीषु निशि नलिनीषु दिवा ॥ ८ ॥

सुरतैः सुरतारुण्यैः सुन्दरः सुन्दरेहितैः ।
ईहितैः पेशलान्योन्यघनप्रेमरसाधिकैः ॥ ९ ॥

सुरसदृशैस्तारुण्यैः । सुन्दराणां विषयाणामीहितैरीप्सितैः ।
ईहितैर्विलासचेष्टितैः ॥ ९ ॥

प्रहेलिकाभिराख्यानैस्तथा चाक्षरमुष्टिभिः ।
अष्टापदैर्बहुद्यूतैस्तथा गूढचतुर्थकैः ॥ १० ॥

प्रहेलिकाः लौकिकपरिहासकथाः । आख्यानानि पौराणिकानि । अक्षरमुष्ट्यादयो
द्यूतविशेषाः ॥ १० ॥

नाटिकाख्यायिकाभिश्च श्लोकैर्विन्दुमतिक्रमैः ।
देशकालविभागैश्च नगरग्रामचेष्टितैः ॥ ११ ॥

नाट्यदृश्यार्थाः प्रबन्धा नाटिकाः ।
श्रवणमात्रास्वाद्यकाव्यनिबन्धकथा आख्यायिकाः । विन्दूनां विदुषां
मतिभिः क्रम्यन्ते अवगम्यन्त इति विन्दुमतिक्रमैर्गूढाशयश्लोकैः ।
नगरग्रामचेष्टितैरनुकृतैरिति यावत् ॥ ११ ॥

स्रग्दाममालावलितैर्नानाभरणयोजनैः ।
लीलाविलोलचलनैर्विचित्ररसभोजनैः ॥ १२ ॥

वलितैर्वेष्टनैः ॥ १२ ॥

आर्द्रकुङ्कुमकर्पूरताम्बूलीदलचर्वणैः ।
फुल्लपुष्पलतागुञ्जादेहगोपनखव्रणैः ॥ १३ ॥

फुल्लैः पुष्पैर्लताभिर्गुञ्जाभिर्वा देहस्य गोपनं पिधानं येषु
तथाविधैर्नखव्रणैर्नक्षक्षतैः ॥ १३ ॥

समालम्भनलीलाभिर्मालाप्रहरणक्रमैः ।
गृहे कुसुमदोलाभिरन्योन्यं दोलनक्रमैः ॥ १४ ॥

अनुधावनेन स्पर्शः समालम्भनं तत्प्रधानलीलाभिः ॥ १४ ॥

नौयानयुग्महस्त्यश्वदान्तोष्ट्रादिगमागमैः ।
जलकेलिविलासेन परस्परसमुक्षणैः ॥ १५ ॥

नौभिर्यानं जलेषु । युग्मभूतहस्त्यश्वानां दान्तानां दमनेन
शिक्षितानामुष्ट्रादीनां च गमागमैश्च्ङ्क्रमणपरिवर्तनैः ॥ १५ ॥

नृत्यगीतकलालास्यतालताण्डवमण्डनैः ।
सङ्गीतकैः सङ्कथनिर्वीणामुरजवादनैः ॥ १६ ॥

गीतिकथालापाः सङ्कथनानि ॥ १६ ॥

उद्यानेषु सरित्तीरवृक्षेषु वरवीथिषु ।
अन्तःपुरेषु हर्म्येषु फुल्लदोलावदोलनैः ॥ १७ ॥

सा तथा सुखसंवृद्धा तस्य प्रणयिनी प्रिया ।
एकदा चिन्तयामास सुभ्रूः सङ्कल्पशालिनी ॥ १८ ॥

प्राणेभ्योऽपि प्रियो भर्ता ममैष जगतीपतिः ।
यौवनोल्लासवान्श्रीमान्कथं स्यादजरामरः ॥ १९ ॥

भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु ।
कथं स्वैरं चिरं कान्ता रमे युगशतान्यहम् ॥ २० ॥

तथा यते यत्नमतस्तपोजपयमेहितैः ।
रजनीशमुखो राजा यथा स्यादजरामरः ॥ २१ ॥

यमेहितैर्नियमानुष्ठानैः ॥ २१ ॥

ज्ञानवृद्धांस्तपोवृद्धान्विद्यावृद्धानहं द्विजान् ।
पृच्छामि तावन्मरणं कथं न स्यान्नृणामिति ॥ २२ ॥

इत्यानीयाथ सम्पूज्य द्विजान्पप्रच्छ सा नता ।
अमरत्वं कथं विप्रा भवेदिति पुनःपुनः ॥ २३ ॥

इति चिन्तयामासेति पूर्वतनेनान्वयः । अमरत्वं भर्तुः स्वस्य चेति शेषः ॥ २३ ॥

विप्रा ऊचुः ।

तपोजपयमैर्देवि समस्ताः सिद्धसिद्धयः ।
सम्प्राप्यन्तेऽमरत्वं तु न कदाचन लभ्यते ॥ २४ ॥

इत्याकर्ण्य द्विजमुखाच्चिन्तयामास सा पुनः ।
इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः ॥ २५ ॥

स्वप्रज्ञयैव इदं वक्ष्यमाणं चिन्तयामास ॥ २५ ॥

मरणं भर्तुरग्रे मे यदि दैवाद्भविष्यति ।
तत्सर्वदुःखनिर्मुक्ता संस्थास्ये सुखमात्मनि ॥ २६ ॥

आत्मनि सर्वदुःखनिर्मुक्ता । परलोके एतज्जन्मस्मरणाभावेन
भर्तृवियोगदुःखाप्रसक्तेरिति भावः ॥ २६ ॥

अथ वर्षसहस्रेण भर्तादौ चेन्मरिष्यति ।
तत्करिष्ये तथा येन जीवो गेहान्न यास्यति ॥ २७ ॥

तद्भ्रमद्भर्तृजीवेऽस्मिन्निजे शुद्धान्तमण्डपे ।
भर्त्रा विलोकिता नित्यं निवत्स्यामि यथासुखम् ॥ २८ ॥

शुद्धान्तस्यान्तःपुरस्य मण्डपे ॥ २८ ॥

अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् ।
जपोपवासनियमैरातोषं पूजयाम्यहम् ॥ २९ ॥

ज्ञप्तिं चिद्रूपम् ॥ २९ ॥

इति निश्चित्य सा नाथमनुक्त्वैव वराङ्गना ।
यथाशास्त्रं चचारोग्रं तथा नियममास्थिता ॥ ३० ॥

नाथमनुक्त्वेति । ननु या स्त्री भर्त्राऽननुज्ञाता उपवासव्रतं चरेत् । आयुष्यं
हरते भर्तुर्मृता नरकमृच्छति ॥ इति निन्दितमिदं कथं यथाशास्त्रमिति
चेत् । प्रत्यक्षं वा परोक्षं वा सदा भर्तृहितं चरेत् ।
व्रतोपवासनियमैरुपचारैश्च लौकिकैः ॥ इति शास्त्रनिन्दाया
भर्तृहितातिरिक्तस्वकाम्योपवासादिविषयत्वाददोषः ॥ ३० ॥

त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा ।
देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा ॥ ३१ ॥

स्नानदानतपोध्याननित्योद्युक्तशरीरिका ।
सर्वास्तिक्यसदाचारकारिणी क्लेशहारिणी ॥ ३२ ॥

सर्वस्मिन् शास्त्रार्थे अस्त्यवश्यं फलमिति बुद्धिः सर्वास्तिक्यम् ॥ ३२ ॥

यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् ।
तोषयामास भर्तारमपरिज्ञातसंस्थितिः ॥ ३३ ॥

त्रिरात्रशतमेवं सा बाला नियमशालिनी ।
अनारतं तपोनिष्ठामतिष्ठत्कष्टचेष्टया ॥ ३४ ॥

अतिष्ठत् अनुष्ठितवती ॥ ३४ ॥

प्। १७०)

त्रिरात्राणां शते चाथ पूजिता प्रतिमानिता ।
तुष्टा भगवती गौरी वागीशा समुवाच ताम् ॥ ३५ ॥

बाह्योपचारैः पूजिता भावोपचारैः प्रतिमानिता ॥ ३५ ॥

श्रीसरस्वत्युवाच ।

निरन्तरेण तपसा भर्तृभक्त्यतिशालिना ।
परितुष्टास्मि ते वत्से गृहाण वरमीप्सितम् ॥ ३६ ॥

श्रीराज्ञ्युवाच ।

जय जन्मजराज्वालादाहदोषशशिप्रभे ।
जय हार्दान्धकारौघनिवारणरविप्रभे ॥ ३७ ॥

भाविभर्तृजीवनब्रह्मविद्याप्राप्तिं भाग्यानुरूपामेव स्तुतिं
दैवाद्राज्ञ्युवाच - जयेति ॥ ३७ ॥

अम्ब मातर्जगन्मातस्त्रायस्व कृपणामिमाम् ।
इदं वरद्वयं देहि यदहं प्रार्थये शुभे ॥ ३८ ॥

इमां मामिति शेषः ॥ ३८ ॥

एकं तावद्विदेहस्य भर्तुर्जीवो ममाम्बिके ।
अस्मादेव हि मा यासीन्निजान्तःपुरमण्डपात् ॥ ३९ ॥

द्वितीयं त्वां महादेवि प्रार्थयेऽहं यदा यदा ।
दर्शनाय वरार्थाय तदा मे देहि दर्शनम् ॥ ४० ॥

यदा यदा वरार्थाय दर्शनाय प्रार्थये तदा दर्शनं देहीत्यन्वयः ॥ ४० ॥

इत्याकर्ण्य जगन्माता तवास्त्वेवमिति स्वयम् ।
उक्त्वान्तर्धानमगमत्प्रोत्थायोर्मिरिवार्णवे ॥ ४१ ॥

अथ सा राजमहिषी परितुष्टेष्टदेवता ।
श्रुतगीतेव हरिणी बभूवानन्दधारिणी ॥ ४२ ॥

पक्षमासर्तुकटके दिनारे वर्षदण्डके ।
क्षणनाभौ स्पन्दमये कालचक्रे वहत्यथ ॥ ४३ ॥

पक्षा नेमिकटका मासा मध्यकटका ऋतवो नाभिकटका यस्य । त्रिनाभि
चक्रमजरम् इति श्रुतेः । त्रतयानुस्यूतानि दिनान्यरास्तिर्यगनुप्रोतशङ्कवः
केसरप्राया यस्य । वर्षः संवत्सरोऽक्षदण्डको यस्य ।
क्षणस्त्रिंशत्कलात्मको नाभिर्मध्यच्छिद्रं यस्य तथाविधे
सूर्यादिस्पन्दमये ॥ ४३ ॥

अन्तर्धिमाजगामास्याः पत्युस्तच्चेतनं तनौ ।
सन्दृश्यमानमेवाशु शुष्कपत्ररसो यथा ॥ ४४ ॥

रणखण्डितदेहस्येत्युत्तराल्लभ्यते [देहस्य इति षष्ठ्येकवचनान्तं
पदमेतत् ४५ तमश्लोकगतरणखण्डितदेहे इति सप्तम्येकवचननिर्देशकमिति
भाति] । पत्युस्तत्प्राणनादिलिङ्गैः प्रत्यक्षप्रायं चेतनं तनौ लिङ्गदेहे
अन्तर्धि तिरोभावमाययौ ॥ ४४ ॥

रणखण्डितदेहेऽस्मिन्मृतेऽन्तःपुरमण्डपे ।
निर्जला नलिनीवासौ परां म्लानिमुपाययौ ॥ ४५ ॥

नलिनी पद्मिनी ॥ ४५ ॥

विषोष्णश्वसनध्वस्तसकलाधरपल्लवा ।
प्राप सा मरणावस्थां सशल्येव मृगी यथा ॥ ४६ ॥

विषवदुष्णेन निःश्वसनेन ध्वस्तो विवर्णीकृतः । सशल्येवेत्युत्प्रेक्षा ।
मृगी यथेत्युपमेति न यथाशब्दपौनरुक्त्यम् । सशल्येति मृग्या अपि
विशेषणम् ॥ ४६ ॥

प्राप सा तमसान्धत्वं तस्मिन्मरणमागते ।
दीपज्वालालवे क्षीणे सद्मश्रीरिव भूषिता ॥ ४७ ॥

सद्मश्रीर्गृहशोभा । भूषिता प्राग्दीपेनालङ्कृता ॥ ४७ ॥

कार्श्यमाप क्षणेनासौ बाला विरसतां गता ।
यथा स्रोतस्विनी स्रोतःक्षये क्षारविधूसरा ॥ ४८ ॥

स्रोतसः प्रवाहस्य क्षये शोषे क्षारेणोषेण विधूसरा ॥ ४८ ॥

क्षिप्रमाक्रन्दिनी क्षिप्रं मौनमूका वियोगिनी ।
बभूव चक्रवाक्रीव मानिनी मरणोन्मुखी ॥ ४९ ॥

मानिनी प्राग्भर्तृमन्मानवती तत्क्षयान्मरणोन्मुखी ॥ ४९ ॥

अथ तामतिमात्रविह्वलां
सकृपाकाशभवा सरस्वती ।
शफरीं हृदशोषविह्वलां
प्रथमा वृष्टिरिवान्वकम्पतः ॥ ५० ॥

सकृपा प्राग्बहुजन्मस्वाराधितत्वात्तत्त्वज्ञानदानपर्यवसितकृपावती ।
आकाशभवा अशरीरिणीति यावत् । अन्वकम्पतेत्यनुकम्पाफलमाश्वासनं
लक्ष्यते ॥ ५० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
मण्डपोपाख्याने राज्ञीपरिदेवनं नाम षोडशः सर्गः ॥ १६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
राज्ञीपरिदेवनं नाम षोडशः सर्गः ॥ १६ ॥