०१५

पञ्चदशः सर्गः १५

ज्गदाकाशमेवेदं यथा हि व्योम्नि मौक्तिकम् ।
विमले भाति स्वात्मैव जग्च्चिद्गगनं यथा ॥ १ ॥

शश्वद्दृष्टान्तयुक्त्योधैरुक्तार्थमनुभावयन् ।
विस्तृतं मण्डपाख्यानमत्रोपक्रमते मुनिः ॥ १ ॥

जगच्चिदाकाशमेवेति प्रतिज्ञा । कथं तर्हि पृथग्भाति तत्राह - यथेति ।
यथा विमले व्योम्नि भ्रान्त्या मुक्तानां सङ्घो मौक्तिकं भाति तद्वत् ।
चिद्गगनं स्वात्मैव यथा जगत्तथा दृष्टान्तः श्रूयतामिति शेषः ॥ १ ॥

अनुत्कीर्णैव भातीव त्रिजगच्छालभञ्जिका ।
चित्स्तम्भेनैव सोत्कीर्णा नचोत्कर्तात्र विद्यते ॥ २ ॥

नचोत्कर्तेति ।
तदुत्कर्तृचेतनान्तराप्रसिद्धेर्निर्विकारासङ्गस्योत्कर्तनासम्भवाच्चेति
भावः ॥ २ ॥

समुद्रेऽन्तर्जलस्पन्दाः स्वभावादच्युता अपि ।
वीचिवेगा भवन्तीव परे दृश्यविदस्तथा ॥ ३ ॥

दृश्यविदो जगत्प्रत्ययाः ॥ ३ ॥

जालान्तर्गतसूर्याभा जालाकाररजांस्यपि ।
जगद्भानं प्रति स्थूलान्यणुं प्रति यथाचलाः ॥ ४ ॥

जगदतिमहत्त्वेन मूढैरवगतमपि विद्वद्दृष्ट्या वस्तुतो
जालसूर्यमरीच्यणुकादप्यतिफल्विवत्याह - जालेति । सूर्याभाया यो
जालच्छिद्रप्रयुक्तो दण्डमुसलाद्याकारस्तदन्तर्गतानि रजांसि ।
अपिशब्दादन्येषां स्थूलतमत्वं किं वाच्यमित्याशयः । अथवा
जगदवभासकसाक्षिचित्प्रकाशस्य
सूर्यालोकादिप्रकाशात्तदन्तर्गतपरमाण्वादिभ्योऽप्यतिसूक्ष्मत्वमित्याह -
जालेति ॥ ४ ॥

जगद्भानं न भातीदं ब्रह्मणो व्यतिरेकतः ।
जालसूर्यांशुजालं तु व्यतिरेकानुभूतिदम् ॥ ५ ॥

तदेवोपपादयितुं मरीचितदणुवैधर्म्यं चिति दर्शयति - जगदिति ॥ ५ ॥

अनुभूतान्यपीमानि जगन्ति व्योमरूपिणि ।
पृथ्व्यादीनि न सन्त्येव स्वप्नसङ्कल्पयोरिव ॥ ६ ॥

व्यतिरेकतो न भातीत्युक्तेरनुभवविरोधं परिहरति - अनुभूतान्यपीति ॥ ६ ॥

पिण्डग्रहो जगत्यस्मिन्विज्ञानाकाशरूपिणि ।
मरुनद्यां जलमिव न सम्भवति कुत्रचित् ॥ ७ ॥

अनेकदिनावस्थाभिन्नस्य कथं स्वप्नसङ्कल्पसाम्यं तत्राह - पिण्डेति ।
पिण्डग्रहो मूर्ततास्वीकारः ॥ ७ ॥

जगत्यपिण्डग्राहेऽस्मिन्सङ्कल्पनगरोपमे ।
मरौ सरिदिवाभाति दृश्यता भ्रान्तिरूपिणी ॥ ८ ॥

स्वप्नाद्दृश्येव जगतां तुलादेशेन केन च ।
तुलिता कलनोन्मुक्ता दृश्यश्रीर्व्योम जृम्भते ॥ ९ ॥

जगतां दृश्यश्रीर्दृशि साक्षिचैतन्य एवैकतः स्वप्नमारोप्य केन च
सारासारविवेचकबुद्धिलक्षणेन तुलामध्यकण्टकप्रदेशेन तुलिता
साम्येनावधारिता चेत्सैव जागरे स्वप्न इव कलनोन्मुक्ता सती व्योम शून्यं
ब्रह्मैव वा जृम्भते प्रथते ॥ ९ ॥

वर्जयित्वा ज्ञविज्ञानं जगच्छब्दार्थभाजनम् ।
जगद्ब्रह्मस्वशब्दानामर्थे नास्त्येव भिन्नता ॥ १० ॥

तथाचाविवेकिदृशैव ब्रह्मादिशब्दार्थाज्जगच्छब्दार्थभेदो न
तत्त्वज्ञदृशेत्याह - वर्जयित्वेति ॥ १० ॥

इदं त्वचेत्यचिन्मात्रं भानोर्भातं नभः प्रति ।
तथा सूक्ष्मं यथा मेघं प्रति सङ्कल्पवारिदः ॥ ११ ॥

कथं तर्हि तत्त्वज्ञदृशां जगत्प्रति तत्साक्षिदर्शनमित्युक्ते
शून्यात्मकनभः प्रति तदालोकस्य प्रकाशत्वदर्शनमिवेत्याह - इदमिति ।
साक्षिचैतन्यं प्रति जगद्दर्शनं तर्हि कथं तत्राप्याह - तथेति ॥ ११ ॥

यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति ।
तथा जगदिदं स्वच्छं साङ्कल्पिकजगत्प्रति ॥ १२ ॥

कथमत्यन्तमलिनस्य दृश्यस्य स्वच्छतमचिन्मात्रतेत्याशङ्क्य
प्रतीतिकालिकैव बाह्यमानसदृश्ययोर्मलिनता तिरोभावकाले तु
परस्परापेक्षया स्वच्छतमतैव परिशिष्यत इत्याह - यथेति ।
जगज्जाग्रत्प्रपञ्चः । साङ्कल्प्कग्रहऽनं स्वाप्नस्याप्युपलक्षणम् ॥ १२ ॥

तस्मादचेत्यचिद्रूपं जगद्व्योमैव केवलम् ।
शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ ॥ १३ ॥

उपसंहरति - तस्मादित्यादिना । शून्यौ शून्यार्थावर्थशून्यौ वा ॥ १३ ॥

तस्मान्न किञ्चिदुत्पन्नं जगदादीह दृश्यकम् ।
अनाख्यमनभिव्यक्तं यथास्थितमवस्थितम् ॥ १४ ॥

जगदेवं महाकाशे चिदाकाशमभित्तिमत् ।
तद्देशस्याणुमात्रस्य तुलायाश्चाप्रपूरकम् ॥ १५ ॥

एवमुक्तरीत्या महाकाशे मायाकाशे स्थितं जगदभित्तिमन्निरावरणं
चिदाकाशमेव । परिच्छिन्नजगदभेदे चितोऽपि तावन्मात्रतां वारयति -
तद्देशस्येति । तद्देशस्य चित्प्रदेशस्याणुमात्रस्याल्पतरस्यापि
अल्पान्तःकरणवृत्तितद्वासनापरिच्छिन्नाणुतमचिद्भागेऽपि
सर्वजगत्परिच्छेदभानेन तदन्तर्भाव्यस्य जगतस्तदप्रपूरकत्वे दूरनिरस्ता
ब्रह्मचैतन्यस्य तावन्मात्रतेति भावः ॥ १५ ॥

आकाशरूपमेवाच्छं पिण्डग्रहविवर्जितम् ।
व्योम्नि व्योममयं चित्रं सङ्कल्पपुरवत्स्थितम् ॥ १६ ॥

कथं व्योमवच्छून्यप्रायचित्तवृत्तितद्वासनान्तर्भूता
विपुरतमजगदवस्थितिस्तत्राह - आकाशेति । पिण्डग्रहो मूर्तिस्वीकारः ।
तत्रानुभवारोहाय दृष्टान्तमाह - सङ्कल्पेति ॥ १६ ॥

अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् ।
निःसन्देहो यथैषोऽर्थश्चित्ते विश्रान्तिमेष्यति ॥ १७ ॥

उक्तेऽर्थे रामस्य सन्देहव्यामोहानवधारणानि लिङ्गैरुपलक्ष्य
श्रीवसिष्ठस्तदपनोदाय तदुपपत्तिसहस्रकथानुरञ्जनान्वितं विस्तृतं
मण्डपोपाख्यानं श्रावयितुं प्रतिजानीते - अत्रेति ॥ १७ ॥

प्। १६८)

श्रीराम उवाच ।

सद्बोधवृद्धये ब्रह्मन्समासेन वदाशु मे ।
मण्डपाख्यानमखिलं येन बोधो विवर्धते ॥ १८ ॥

समासेनानुपयुक्तार्थे सङ्क्षेपेण ।
पूर्वतरप्रतिज्ञायामिवोक्तिविलम्बमाशङ्क्याह - आश्विति ॥ १८ ॥

श्रीवसिष्ठ उवाच ।

अभूदस्मिन्महीपीठे कुलपद्मो विकाशवान् ।
पद्मो नाम नृपः श्रीमान्बहुपुत्रो विवेकवान् ॥ १९ ॥

कुलस्य वंशस्य पद्म इव यशःसौरभ्यहेतुत्वात्पद्मः ॥ १९ ॥

मर्यादापालनाम्भोधिर्द्विषत्तिमिरभास्करः ।
कान्ताकुमुदिनीचन्द्रो दोषतृणहुताशनः ॥ २० ॥

वर्णाश्रममर्यादा वेला द्वीपमर्यादा च ॥ २० ॥

मेरुर्विबुधवृन्दानां यशश्चन्द्रो भवार्णवे ।
सरः सद्गुणहंसानां कमलामलभास्करः ॥ २१ ॥

विबुधा विद्वांसो देवाश्च तद्वृन्दानाम् । कमलाः
सम्पदस्तल्लक्षणकमलानां भास्करः ॥ २१ ॥

सङ्ग्रामवीरुत्पवनो मनोमातङ्गकेसरी ।
समस्तविद्यादयितः सर्वाश्चर्यगुणाकरः ॥ २२ ॥

सङ्ग्रामे वीरुत्प्रायाणां परेषां पवन इव प्रकम्पयिता अत एव
मानोर्जिततन्मनोलक्षणमातङ्गानां केसरी शतून्मानभङ्गेन नमयिता न
हन्तेत्याशयः । दयितः प्रियः ॥ २२ ॥

सुरारिसागरक्षोभविलसन्मन्दराचलः ।
विलासपुष्पौघमधुः सौभाग्यकुसुमायुधः ॥ २३ ॥

तस्येन्द्रशत्रुजेतृत्वमाह - सुरारीति । मधुर्वसन्तः ॥ २३ ॥

लीलालतालास्यमरुत्साहसोत्साहकेशवः ।
सौजन्यकैरवशशी दुर्लीलावल्लिकानलः ॥ २४ ॥

सर्वासाध्यधरण्युद्धारादिसाधनोद्योगः साहसम् ।
दुश्चेष्टाविषवल्लीनामनल इव दाहकः । कुत्सायां कन् ॥ २४ ॥

तस्यास्ति सुभगा भार्या लीला नाम विलासिनी ।
सर्वसौभाग्यवलिता कमलेवोदिताऽवनौ ॥ २५ ॥

वलिता वेष्टिता । कमला लक्ष्मीः ॥ २५ ॥

सर्वानुवृत्तिललिता लीला मधुरभाषिणी ।
सानन्दमन्दचलिता द्वितीयेन्दूदयस्मिता ॥ २६ ॥

सर्वास्वनुवृत्तिषु भर्तृसेवाप्रकारेषु सर्वेषां परिजनानां वा
अनुवृत्तिष्वनुकूलाचरणेषु ललिता ॥ २६ ॥

अलकालिमनोहारिवदनाम्भोजशालिनी ।
सिताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी ॥ २७ ॥

अलका एव अलयो भ्रमराः । सिताङ्गी निर्मलाङ्गी । कर्णिकेव कर्णिकया च गौरी ।
एवमग्रेऽप्युपमानसाधारणविशेषणानि योज्यानि ॥ २७ ॥

लतविलासकुन्दौघभासिनी रसशालिनी ।
प्रवालहस्ता पुष्पाभा मधुश्रीरिव देहिनी ॥ २८ ॥

रसः प्रेमा मकरन्दश्च ॥ २८ ॥

अवदाततनुः पुण्या स्पर्शनाह्लादकारिणी ।
गङ्गेव गां गता देहवती हंसविलासिनी ॥ २९ ॥

अवदाततनुः स्वच्छदेहा ॥ २९ ॥

तस्य भूतलपुष्पेषोः सकलाह्लाददायिनः ।
परिचर्यां चिरं कर्तुमन्या रतिरिवोदिता ॥ ३० ॥

उद्विग्ने प्रोद्विग्ना
मुदिते मुदिता समाकुलाकुलिते ।
प्रतिबिम्बसमा कान्ता
सङ्क्रुद्धे केवलं भीता ॥ ३१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
मण्डपोपाख्याने राजवर्णनं नाम पञ्चदशः सर्गः ॥ १५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राजवर्णनं
नाम पञ्चदशः सर्गः ॥ १५ ॥