श्रीवसिष्ठ उवाच ।
इत्थं जगदहन्तादिदृश्यजातं न किञ्चन ।
अजातत्वाच्च नास्त्येव यच्चास्ति परमेव तत् ॥ १ ॥
प्राग्वर्णिते जीवभावे परिच्छेदादिसंशयान् ।
युक्त्या निरस्य ब्रह्मैक्यं शिष्टमत्रानुवर्ण्यते ॥ १ ॥
तत्रादौ समष्टिविराड्जीवपरिच्छेदनिरासाय वृत्तानुवादेन भूमिकां रचयति
- इत्थमित्यादिना ॥ १ ॥
परमाकाशमेवादौ जीवतां चेतति स्वयम् ।
निःस्पन्दाम्भोधिकुहरे सलिलं स्पन्दतामिव ॥ २ ॥
तदनुगुणां विराड् [विराड्विग्रहकल्पनां इति पाठः] देहकल्पनां
विवक्षुस्तदर्थं समष्टिजीवभावसिद्धिमाह - परमेति ॥ २ ॥
आकाशरूपमजहदेवं वेत्तीव हृद्यताम् ।
स्वप्नसङ्कल्पशलादाविव चिद्वृत्तिरान्तरी ॥ ३ ॥
आकाशरूपमजहदित्येतत्पूर्वान्वयि । आन्तरी सङ्कल्पात्मिका चिद्वृत्तिरेवं
वक्ष्यमाणविराडुपाधिविषयां हृद्यतां आत्मताभ्रान्त्या प्रेमास्पदतां
वेत्तीव ॥ ३ ॥
पृथ्व्यादिरहितो देहो यो विराडात्मको महान् ।
आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ॥ ४ ॥
सङ्कल्पजत्वोक्तेः फलं दर्शयति - पृथ्व्यादीति ॥ ४ ॥
अक्षयः स्वप्नशैलाभः स्थिरस्वप्नपुरोपमः ।
चित्रक्ट्स्थिरचित्तस्थचित्रसैन्यसमाकृतिः ॥ ५ ॥
क्षयो निवासस्तद्रहितः । स्थिरं चिरस्थायि स्वप्नपुरं यदि स्यात्तदा तदुपमः ।
चित्रकृतः स्थिरं निश्चलं यदि चित्रं स्यात्तदा
तद्वासनात्मकचित्रसैन्यसमाकृतिः ॥ ५ ॥
अनिखातमहास्तम्भपुत्रिकौघसमोपमः ।
ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे शालभञ्जिका ॥ ६ ॥
अनिखाता अनुत्कीर्णा ये महास्तम्भपुत्रिकौघास्तत्समाश्च येऽन्ये ते
सर्वेऽप्युपमा यस्य । ब्रह्माकाशलक्षणे सुस्तम्भे अनिखातात्मा
अनुत्कीर्णस्वरूपा शालभञ्जिकेति रूपकम् ॥ ६ ॥
आद्यः प्रजापतिः पूर्वं स्वयम्भूरिति विश्रुतः ।
प्राकनानां स्वकार्याणामभावादप्यकारणः ॥ ७ ॥
आधिभौतिकं रूपं मिथ्येत्युक्त्वा तस्याधिदैविकमपि तत्तथैवेत्याह -
आद्य इत्यादिना । तत्र हेतून्प्राग्वर्णितानेव स्मारयति -
प्राक्तनानामित्यादिसार्धेन । स्वकार्याणां स्वकर्मणाम् ॥ ७ ॥
महाप्रलयपर्यन्तेष्वाद्यकालपितामहाः [ष्वाद्या किल इति पाठः]
।
मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ॥ ८ ॥
सोऽकुड्य एव कुड्यात्मा दृश्यादृश्यः स्वयंस्थितः ।
न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च ॥ ९ ॥
अकुड्ये दर्पणादौ प्रतिबिम्बकुड्यात्मेव दृश्योऽप्यसत्त्वान्न दर्शनार्हः ।
असत्त्वमुपपादयितुमसङ्गनिर्विकारचिति द्रष्टा दृश्यं दर्शनं स्रष्टा
सृष्टिः सर्जनं भोक्ता भोग्यं भोग इति त्रिपुटीत्रयासम्भवमाह - न
चेति । सर्वमित्यनुक्तषट्कपरिग्रहः ॥ ९ ॥
प्रतिशब्दपदार्थानां सर्वेषामेष एव सः ।
तस्मादुदेति जीवाली दीपाली दीपकादिव ॥ १० ॥
एवं सर्वनिषेधेऽपि न प्रतिशब्दार्थानां शून्यता । यस्मादेष प्रत्यगात्मैव
प्रतिशब्दपदार्थानां स आत्मा स्थितः ॥ १० ॥
सङ्कल्प एव सङ्कल्पात्किलेति क्ष्मादिवर्जितः ।
आदिमादिव निःशून्यः स्वप्नात्स्वप्नान्तरं यथा ॥ ११ ॥
घनसङ्कल्पात्मकविराट्कार्यत्वाद्व्यष्टिदेहिनामपि सङ्कल्पमात्रमयत्वं न
सत्यपृथ्य्वादिघटितत्वमित्याह - सङ्कल्प इति । यथा आदिमात्
हिरण्यगर्भान्मिथ्यात्वान्नितरां शून्यो विराडुत्पन्नस्तद्वद्विराजो
व्यष्ट्यात्मापीत्यर्थः [दृश्यात्मापि इति पाठः] ॥ ११ ॥
अस्मादेकप्रतिस्पन्दाज्जीवाः सम्प्रसरन्ति ये ।
सहकारिकारणानामभावाच्च स एव ते ॥ १२ ॥
एकस्वभावत्वेनैव व्यष्टिसमष्योरेकत्वं प्रसाध्य तेन ब्रह्मैक्यपरिशेषः
सिद्ध इत्याह - अस्मादित्यादिना । ये व्यष्टिजीवाः
सहकारिकारणानामभावादेकोऽसहाय एव परिस्पन्दते
तथाविधादस्माद्विराजः प्रसरन्ति ते स एव नान्ये ।
तथाविधाद्वृक्षात्प्रसृतानां शाखादीनां ततो भेदादर्शनादिति भावः
॥ १२ ॥
सहकारिकारणानामभावे कार्यकारणम् ।
एकमेतदतो नान्यः परस्मात्सर्गविभ्रमः ॥ १३ ॥
ब्रह्मवाद्यो विराडात्मा विराडात्मेव सर्गता ।
जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्यसद्यतः ॥ १४ ॥
श्रीराम उवाच ।
किं स्यात्परिमितो जीवो राशिराहो अनन्तकः ।
आहोस्विदस्त्यनन्तात्मा जीवपिण्डोऽचलोपमः ॥ १५ ॥
व्यष्टिसमष्टितन्मूलानामेकत्वे व्यष्टिसमष्ट्योरवास्तवत्वं तन्मूलस्यैव
वस्तुतेति कुतः मूलसमष्ट्योरवास्तवत्वं व्यष्टिविभागस्यैव
प्रत्यक्षादिप्रमाणसिद्धस्य वास्तवत्वं किं न स्यात्सेनासमाजादौ
समष्ट्यपगमेऽपि व्यष्टिपरिशेषेण तस्याः सत्यत्वकॢप्तेरिति मन्यमानः
श्रीराम उवाच - किं स्यादिति । व्यष्टिमात्रसत्यत्वे व्यष्टिजीव
एवैकबुद्धिपरिमितत्वादेकदेशावस्थितेर्वा
परस्परसंश्लेषेणैकपिण्डात्मतापत्तेर्वा कल्पितसमष्ट्यात्मा सम्भाव्यत इति
भावः ॥ १५ ॥
धाराः पयोमुच इव शीकरा इव वारिधेः ।
कणास्तप्तायस इव कस्मान्निर्यान्ति जीवकाः ॥ १६ ॥
अवश्यं चैवमभ्युपेयमन्यथा वृष्टिवारिधि जलकणवद्विस्फुलिङ्गवद्वा
समष्टेरुद्भवे अनित्यत्वापत्त्या कृतहानाकृताभ्यागमः
स्यादित्याशयेनाह - धारा इति । कस्मादिति । यस्मान्निर्यान्ति तत्र
सम्भावयितुं शक्यमित्यर्थः ॥ १६ ॥
प्। १६३)
इति मे भगवन्ब्रूहि जीवजालविनिर्णयम् ।
ज्ञातमेतन्मया प्रायस्तदेव प्रकटीकुरु ॥ १७ ॥
विशेषजिज्ञासया वैपरीत्यापादनं न दुर्मेधस्तया
त्वदाशयानवबोधादित्याह - ज्ञातमिति ॥ १७ ॥
श्रीवसिष्ठ उवाच ।
एक एव न जीवोऽस्ति राशीनां सम्भवः कुतः ।
शशशृङ्गं समुड्डीय प्रयातीवे हि ते वचः ॥ १८ ॥
प्रयोजनवद्ब्रह्मात्मैकत्वसिद्धये एकाधिष्ठाना अनेककल्पना लघीयसीति
समष्टिजीवं परिकल्प्य तदुपहितव्यष्टिकल्पना मयोक्ता न
व्यष्टिसमष्ट्योरन्यतरसत्यत्वाय जीवोत्पत्त्यादिप्रतिपादनाय वा तत्र च न
त्वदाशङ्काप्रसर इत्याशयेन श्रीवसिष्ठ उवाच - एक इति । अप्यर्थे
एवकारः ॥ १८ ॥
न जीवोऽस्ति न जीवानां राशयः सन्ति राघव ।
न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन ॥ १९ ॥
जीवशब्दार्थकलनाः समस्तकलनान्विताः ।
नेह काश्चन सन्तीति निश्चयोऽस्तु तवाचलः ॥ २० ॥
कलनाः प्रतिभासाः ॥ २० ॥
शुद्धचिन्मात्रममलं ब्रह्मास्तीह हि सर्वगम् ।
तद्यथा सर्वशक्तित्वाद्विन्दते याः स्वयं कलाः ॥ २१ ॥
कलाः कल्पनाकौशलानि विन्दते लभते । अनुसन्धत इति यावत् ॥ २१ ॥
चिन्मात्रानुक्रमेणैव सम्प्रफुल्ललतामिव ।
ननु मूर्ताममूर्तां वा तामेवाशु प्रपश्यति ॥ २२ ॥
तत्तत्सङ्कल्पवृत्तिक्रमानुसारिणां चितो
मात्राणामाभासानामनुप्रवेशेनैव निमित्तेन तामेव कलां
कूर्तामूर्तस्वरूपेणाविर्भूतां प्रपश्यति । यथा लताक्रमेण स्वां
कोरकितामथ सम्प्रफुल्लतां च पश्यति तद्वत् ॥ २२ ॥
जीवो बुद्धिः क्रियास्पन्दो मनोद्वित्वैक्यमित्यपि ।
स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने ॥ २३ ॥
दर्शनप्राकरमेव विषयप्रपञ्चनेन विशदयति - जीव इति । तद्ब्रह्मैव
वेदने नियोजयति । विषयीकरोतीति यावत् ॥ २३ ॥
साऽबुद्धैव भवत्येवं भवेद्ब्रह्मैव बोधतः [बोधिता इति
पाठः] ।
अबोधः प्रेक्षया याति नाशं न तु प्रबुध्यते ॥ २४ ॥
तथा प्रकचनं चास्याविद्ययैव तदपगमे तु
निर्विक्षेपस्वरूपमात्रावस्थितिरित्याह - सेति । अबुद्धा
अज्ञानावृतैवैवमुक्तरूपा भवति । प्रेक्षयात्मप्रबोधेन । प्रबोध एव
दुर्लभ इत्याह - नत्विति ॥ २४ ॥
यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति ।
न चास्य ज्ञायते तत्त्वमबोधस्यैवमेव हि ॥ २५ ॥
निवर्तितस्याबोधस्य तर्हि किमात्मना परिशेषः । न तावद्बोधात्मना तस्य
तदकरणत्वाद्विरोधाच्च । नाप्यन्यात्मनान्यपरिशेषादित्याशङ्क्याह -
यथेति ॥ २५ ॥
एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः ।
सर्वशक्तिरनाद्यन्तो महाचित्साररूपवान् ॥ २६ ॥
उपपादितमुपसंहरति - एवमिति । चेदेव सारोऽबाध्यांशस्तेनैव
परमार्थरूपेण रूपवान् ॥ २६ ॥
सर्वानणुतया त्वस्य न क्वचिद्भेदकल्पना ।
विद्यते या हि कलना सा तदेवानुभूतितः ॥ २७ ॥
सर्वतोऽप्यनणुतया अपरिच्छिन्नतया विषयभेदापगमे तत्कलनभेदोऽपि
[अपीति क्वचिन्न पठ्यते] वनच्छेदे वनातपभेद इवापगत इति
ब्रह्ममात्रपरिशेष इत्याह - विद्यत इति ॥ २७ ॥
श्रीराम उवाच ।
एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः ।
जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ॥ २८ ॥
उक्तमभ्युपगम्य श्रीरामः प्रागुक्ते व्यष्टिसमष्टिजीवयोरभेदे
व्यष्टिजीवेच्छादेरपि समष्टिधर्मत्वेनामोघत्वापत्त्या
भोगमोक्षाव्यवस्थां शङ्कते - एवमिति ।
एतत्प्राग्वर्णितमेवमेवेत्यभ्युपगमः । जगज्जीवा अन्ये सर्वे जीवाः ॥ २८ ॥
श्रीवसिष्ठ उवाच ।
महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् ।
स्थितं तथेच्छमेवेह निर्विभागं निरन्तरम् ॥ २९ ॥
ब्रह्म प्रथमं सत्यसङ्कल्पसमष्टिजीवभावापन्नं
सत्स्वसङ्कल्पाधीनवृत्तिव्यष्टिजीवभावमापद्यते । तत्र
पूर्वसङ्कल्पविरुद्धेऽर्थे न व्यष्टीनां सत्यसङ्कल्पतासिद्धिरिति परिहरन्
श्रीवसिष्ठ उवाच - महाजीवेति । यथा जगद्व्यवस्था सिद्ध्यति तथेच्छं
अहमेव सर्वदा सर्वेषु सत्यसङ्कल्पः स्यामितीच्छावदिति यावत् । निर्विभागं
व्यष्टिविघागात्पूर्व तच्छून्यम् । निरन्तरमित्युत्तरान्वयि ॥ २९ ॥
यदेवेच्छति तत्तस्य भवत्याशु महात्मनः ।
पूर्वं तेनेष्टमिच्छादि ततो द्वित्वमुदेति यत् ॥ ३० ॥
इच्छा सत्यसङ्कल्पः । आदिपदात्तेनेतरेच्छाप्रतिरोधः । द्वित्वं व्यष्टिविभागः
॥ ३० ॥
पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः ।
अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः ॥ ३१ ॥
स्वशक्तीनां स्वांशजीवानाम् । अनेन दण्डचक्रादिबाह्योपकरणेनेत्थं
भ्रमणादिना घटादि भवतीति क्रियाक्रमो न सङ्कल्पमात्रादित्यर्थः ॥ ३१ ॥
तं विनानुदये त्वासां प्रधानेच्छैव रोहति ।
शक्त्या ह्यजातया ब्राह्या नियमोऽयं प्रकल्पितः ॥ ३२ ॥
ननु तर्हि कथमन्येषामपि महर्षीणां क्रियाक्रमं विनापि सङ्कल्पादेव
कार्यदर्शनं तत्राह - तमिति । एवं तं क्रियाक्रमं विना कार्यानुदये
नियते सति यत्क्वचिदासां महर्ष्यादिव्यष्टिशक्तीनां क्रियाक्रमं विना इच्छा
रोहति तत्प्रधानस्य समष्टेरिच्छैव रोहति । अस्यायं सङ्कल्पः सिद्ध्यत्विति
प्रधानस्यैव तत्रेच्छा कल्प्यत इत्यर्थः ॥ ३२ ॥
यस्या जीवाभिधानायाः शक्त्यपेक्षा फलत्यसौ ।
प्रधानशक्तिनियमानुष्ठानेन विना न तु ॥ ३३ ॥
उक्तार्थमेव स्पष्टयति - यस्या इति । असौ फलति ॥ ३३ ॥
प्। १६४)
प्रधानशक्तिनियमः सुप्रतिष्ठो न [भवेद्भवेत् इति पाठः]
चेद्भवेत् ।
तत्फलं शक्त्यधीनत्वान्नेहितानां क्वचिद्भवेत् ॥ ३४ ॥
क्रियाक्रमस्यापि फलसिद्धिः प्रधानसङ्कल्पाधीनैवेत्याह - प्रधानेति ।
सुप्रतिष्ठः सम्यक्फलसिद्ध्यनुगुणो यदि भवेत्तदा ईहितानां
कार्यादिचेष्टानामपि फलं न भवेदिति सम्बन्धः ॥ ३४ ॥
एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः ।
जीवकोटि महाकोटि भवत्यथ न किञ्चन ॥ ३५ ॥
एवञ्च निष्कर्षे ब्रह्मैव महाजीवः स एव व्यष्टिसमष्टिकोटिद्वयं भवतीति
फलितमित्युपसंहरति - एवमिति ॥ ३५ ॥
चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् ।
तदसंवेदनाद्रूपं समायाति समं पुनः ॥ ३६ ॥
विस्तरोक्तं बोधसौकर्याय सङ्क्षिप्य दर्शयति - चेत्येति । सममविषमं
ब्रह्मस्वरूपम् ॥ ३६ ॥
एवं कनिष्ठजीवानां ज्येष्ठजीवक्रमाक्रमैः ।
समुदेत्यात्मजीवत्वं ताम्राणामिव हेमता ॥ ३७ ॥
ब्रह्मभावो जीवानामुपासनेन समष्टिभावप्राप्तिक्रमेण वा अत्रैव ज्ञानेन
साक्षाद्वा समुदेतीत्याह - एवमिति । आत्मजीवत्वं
प्रागुक्तब्रह्मभावमहाजीवत्वम् । यथा ताम्राणां हेमता रसौषधैः
पाकक्रमेण वा स्पर्शसंयोगे अक्रमेण वा भवति तद्वत् ॥ ३७ ॥
अत्रान्तरे महाकाश इत्थमेष गणोऽप्यसन् ।
स्वात्मैव सदिवोदेति चिच्चमत्करणात्मकः ॥ ३८ ॥
जीवजगद्भावौ विमर्शे चिच्चमत्कारमात्रं न वस्त्वन्तरमित्याह - अत्रेति ।
आन्तरे प्रत्यग्रूपे महाकाशे ॥ ३८ ॥
स्वयमेव चमत्कारो यः समापद्यते चितः ।
भविष्यन्नामदेहादि तदहम्भावनं विदुः ॥ ३९ ॥
चितो यस्माच्चिदालेहस्तन्मयत्वादनन्तकः ।
स एष भुवनाभोग इति तस्यां प्रबिम्बति ॥ ४० ॥
कोऽसौ चिच्चमत्कारस्तमाह - चित इति ।
जगत्संस्कारसंस्कृतमायाप्रतिफलनेन तदैकरस्येन स्वात्मा
स्वादश्चिदालेहः तस्यामात्मचिति प्रबिम्बति स्फुरति ॥ ४० ॥
परिणामविकारादिशब्दैः सैव चिदव्यया ।
तादृग्रूपादभेद्यापि स्वशक्त्यैव विबुध्यते ॥ ४१ ॥
सा चिदालीढा चिद्वास्तवचिद्रूपाद्भेत्तुमशक्यापि परिणामादिशब्दैर्भिन्नेव
विबुध्यते ॥ ४१ ॥
अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः ।
चेत्यस्य च प्रकाशस्य जगदित्येव तत्स्थितम् ॥ ४२ ॥
चितस्तदधीनप्रकाशस्य चेत्यस्य च स्वतः स्वाभाविकं यदविच्छिन्नविलासात्म
अविविक्तस्वभावापन्नं स्वदनं तदेव जगदिति भ्रान्त्या स्थितमित्यर्थः ॥ ४२ ॥
आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः ।
सा स्वभावत एवैतामहन्तां परिपश्यति ॥ ४३ ॥
तत्राप्यहन्तादर्शनं पूर्वं तत्कृतं च
परिच्छिन्नजगद्रूपदर्शनमित्याह - आकाशादिति द्वाभ्याम् ॥ ४३ ॥
आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् ।
जगदन्तमहन्ताणुं तदैषा सम्प्रपश्यति ॥ ४४ ॥
बहिर्बहिः स्थौल्योत्कर्षणपरम्परायां जगद्ब्रह्माणोऽन्ते यस्य
तथाविधमहन्ताणुम् ॥ ४४ ॥
चमत्कारकरी चारु यच्चमत्कुरुते चितिः ।
स्वयं स्वात्मनि तस्यैव जगन्नाम कृतं ततः ॥ ४५ ॥
तथाच चिच्चमत्कृतेरेव जगदिति नामकरणं न जगत्पृथगस्तीति
फलितमित्याह - चमत्कारेति ॥ ४५ ॥
चितश्चेत्यमहङ्कारः सैव राघव कल्पना ।
तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते ॥ ४६ ॥
चिदधीनमहङ्कारकल्पनं तदधीनं तन्मात्रादिजगत्कल्पनमिति स्थिते
यदधीनमन्यकल्पनं तदेव परिशिष्टमित्याह - चित इति ॥ ४६ ॥
जीवहेत्वादिसन्त्यागे त्वं चाहं चेति सन्त्यज ।
शेषः सदसतोर्मध्ये भवत्यर्थात्मको भवेत् ॥ ४७ ॥
सदसतोः सत्यानृतयोः कल्पनयोर्मध्ये त्वं चाहं चेति
चेतनपरिच्छेदकल्पनैव दुस्त्यजा तत्त्यागे कृते शेषः स्वत एव
विकल्पकाभावात्सन्मात्ररूपः सम्पद्यत इत्याह - जीवेति । भावप्रधानो
निर्देशः । जीवभावं प्रति हेतुर्निमित्तं वासनाकर्मादि ।
आदिपदादुपादानपरिग्रहः । भवत्यर्थः सत्ता तदात्मकः ॥ ४७ ॥
चिता यथादौ कलिता स्वसत्ता सा तथोदिता ।
अभिन्ना दृश्यते व्योम्नः सत्तासत्ते न विद्महे ॥ ४८ ॥
ज्ञानेन दृश्यतत्संवलितसत्तापाये पूर्वसिद्धाधिष्ठानसत्ता यथा
स्थितैवोदिता मेधापाये निर्मलव्योमसत्तावदित्याह - चितेति ॥ ४८ ॥
विश्वङ्खं जगदीहाख्यं खमस्ति विबुधालयः ।
साकारश्चिच्चमत्काररूपत्वान्नान्यदस्ति हि ॥ ४९ ॥
अनुभावितं निष्प्रपञ्चत्वमनुमानेनापि द्रढयति - विश्वमिति ।
ईहाख्यं मनश्चेष्टारूपं सूक्ष्मं जगत् खं शून्यमेव । तथा
विबुधानामिन्द्रियतदधिष्ठातृदेवानामालयः साकारः स्थूलश्च
विश्वविराड्रूप इति द्विविधमपि विश्वं खं शून्यमेवास्ति
चिच्चमत्काररूपत्वादित्यर्थः ॥ ४९ ॥
यो यद्विलासस्तस्मात्स न कदाचन भिद्यते ।
अपि सावयवं तस्मात्कैवानवयवे कथा ॥ ५० ॥
तत्र व्याप्त्यादिसिद्धये उदाहरणादि दर्शयति - यो यदिति ।
सावयवजलादिकार्ये तरङ्गादावपि तथा दृष्टं निरवयवचित्कार्ये कैव
कथेत्यर्थः ॥ ५० ॥
चितेर्नित्यमचेत्याया निर्नाम्न्या वितताकृतेः ।
यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः ॥ ५१ ॥
इत्थं च नामरूपनिष्कृष्टापरिच्छिन्नचिद्रूपमेव जगतस्तात्त्विकं रूपं
फलितमित्याह - चितेरिति ॥ ५१ ॥
मनो बुद्धिरहङ्कारो भूतानि गिरयो दिशः ।
इति या यास्तु रचनाश्चितस्तत्त्वाज्जगत्स्थितेः ॥ ५२ ॥
वैपरीत्यदर्शनेऽपि जगद्रचना चिद्रचनैवेति फलितमित्याह - मन इति ॥ ५२ ॥
चितेश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि ।
अजगत्त्वादचिच्चित्स्याद्भानाद्भेदो जगत्कुतः ॥ ५३ ॥
एवं जगतश्चिन्मयत्वे सति चिद्धर्मतैव फलितेत्याह - चित इति । चिच्चित्वयोश्च
[त्विच्चेत्ययोश्च इति पाठः] कल्पनरूपभानाद्भेदो न वस्तुत इति
जगत्कुतः ॥ ५३ ॥
प्। १६५)
चितेर्मरीचिबीजस्य निजा यान्तश्चमत्कृतिः ।
सा चैषा जीवतन्मात्रमात्रं जगदिति स्थिता ॥ ५४ ॥
वर्णितां जगतश्चिन्मात्रतामुक्तिवैचित्र्यैर्दृढं व्युत्पादयितुमुपक्रमते
- चितेरित्यादिना । चितेरर्थप्रथनशक्तिरेव जीवतदुपाधिभूततन्मात्रमात्रं
सज्जगदिति वेष्।एण [विशेषेण इति पाठः] स्थितेत्यर्थः ॥ ५४ ॥
चित्तात्स्वशक्तिकचनं [चित्तादिति मूले टीकायां च पाठः]
यदहम्भावनं चितः ।
जीवः स्पन्दनकर्मात्मा भविष्यदभिधो ह्यसौ ॥ ५५ ॥
ततश्चित्तादहङ्कारशक्तिस्फुरणमेव स्पन्दनकर्मप्राणसंवलने
जीवशब्दवाच्यं भविष्यईत्याह - चित्तादिति ॥ ५५ ॥
यच्चिच्चित्त्वेन कचनं स्वसम्पाद्याभिधात्मकम् ।
स्वविकारैर्व्यवच्छेद्यं भिद्यते नो न विद्यते ॥ ५६ ॥
तथा भावेऽपि न चित्स्वभावभेद इत्याह - यदिति । यत् यद्यपि चितश्चित्त्वेन
कचनं स्वविकाररैहन्तादिभिर्व्यवच्छेद्यं
सत्स्वसम्पाद्यजीवाद्यभिधात्मकं सम्पन्नं तथापि
तद्व्यवच्छिन्नरूपमुपाधिमिथ्यात्वान्न विद्यत इति नो भिद्यते नैव
भेदप्रसक्तिरित्यर्थः ॥ ५६ ॥
चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः ।
स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः ॥ ५७ ॥
चित्स्पन्दशक्तिभेदादहङ्कारप्राणोपहितजीवभेदमाशङ्क्याह - चिदिति ।
चित्प्रधानोऽहङ्कारः कर्ता स्पन्दप्रधानः प्राणः क्रिया । नहि स्वक्रियया
कर्ता भिद्यते अतः स चित्स्पन्दसंवलित एव पुरुषो जीव इत्यर्थः ॥ ५७ ॥
जीवश्चित्तपरिस्पन्दः पुंसां चित्तं स एव च ।
मनस्त्विन्द्रियरूपं सत्सत्तां नानेव गच्छति ॥ ५८ ॥
एवं चित्तमन-इन्द्रियादिभावेऽपि न जीवभेदः । जीवोपाधिमनस एव
गोलकभेदेनेन्द्रियभावेनावस्थानादित्याह - जीव इति ॥ ५८ ॥
शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् ।
कार्यकारणकादित्वं तस्मादन्यन्न विद्यते ॥ ५९ ॥
एवं जगज्जीवभेदनिरासे फलितमुपसंहरति - शान्तेति । हि
यस्मात्तुच्छतरकार्यकारणादिभावस्वभावं जगत्प्रागुक्तरीत्या
चित्प्रकाशस्य छटाप्रान्त इव तदभिन्नसत्तस्फूर्तिकं तस्माद्धेतोरन्यत्र
विद्यते इति शान्ताशेषविशेषं प्रत्यगात्मरूपमेव सम्पन्नमित्यर्थः ॥ ५९ ॥
अच्छेद्योऽहमदाह्योऽहमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽहमिति स्थितम् ॥ ६० ॥
तत्र सर्वानर्थनिवृत्तिं दर्शयति - अच्छेद्य इति ॥ ६० ॥
ववदन्ते तथा ह्यत्र विवदन्तो यथा भ्रमैः ।
भ्रमयन्तो वयं त्वेते जाता विगतविभ्रमाः ॥ ६१ ॥
एतदपरिज्ञानादेव द्वैतवादिनां विवादभेदो नास्माकमित्याह - विवदन्त
इति । स्वस्वभ्रमैरन्यान्भ्रमयन्तो यथा तद्वत् ॥ ६१ ॥
दृश्ये मूर्ते ज्ञसंरूढे विकारादि पृथग्भवेत् ।
नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ॥ ६२ ॥
अज्ञतज्ज्ञयोर्दृश्ये मूर्तामूर्तभावनाकृत एव
सत्यमिथ्यात्वप्रयुक्तद्वैताद्वैतविभाग इत्याह - दृश्य इति ॥ ६२ ॥
चित्तरौ चेत्यरसतः शक्तिः कालादिनामिकाम् ।
तनोत्याकाशविशदां चिन्मधुश्रीः स्वमञ्जरीम् ॥ ६३ ॥
चेत्ये रस आसक्तिस्तद्रूपजलसेकाच्चिद्वसन्तश्रीरूपा शक्तिर्मायाकालादिनामिकां
स्वमञ्जरीं तनोति । आकाशे प्रथमभूते ऊर्ध्वदेशे च विशदाम् ॥ ६३ ॥
स्वयं विचित्रं स्फुरति चिदण्डकमनाहतम् ।
स्वयं विलक्षणस्पन्दं चिद्वायुरण्डजात्मकः [रण्डजात्मकम् इति
पाठः] ॥ ६४ ॥
यथा ब्रह्म स्वाधीनकल्पनाक्रमैर्जगज्जीवभावं प्राप्तं तथा स्वाधीनैरेव
बोधक्रमैः स्वरूपेऽवतिष्ठत इत्याह - स्वयमित्यादिसार्धचतुर्भिः ।
चित्स्वयमेवानाहतमच्छिन्नगर्भमेव सत् प्रथममाकाशकल्पने
सच्छिद्रत्वादण्डकमण्डसदृशं ब्रह्माण्डरूपं वा स्फुरति ।
ततोऽण्डजात्मको वायुः सूत्रात्मा वातस्कन्धरूपो वा स्फुरतीति
सर्वत्रानुषङ्गः ॥ ६४ ॥
स्वयं विचित्रं कचनं चिद्वारि न निखातगम् ।
स्वयं विचित्रधातुत्वं श्रेष्ठाङ्गमपि निर्मितम् ॥ ६५ ॥
ततो वक्ष्यमाणतेजोजन्मानन्तरं वारि अप्तत्त्वं भूत्वा स्फुरति । तच्च न
तडागादिनिखातगं भूसर्गात्प्राक्तदयोगात् । सा चित्स्वयं विचित्राः
स्वर्णरजतादिधातवो यस्यां पृथिव्यां तद्भावं श्रेष्ठानां
देवासुरमनुष्याणामङ्गं देहादिभावमपि निर्माणेन प्रापितम् ॥ ६५ ॥
स्वविचित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ।
स्वयं चिदेव प्रकटश्चिदालोको महात्मकः ॥ ६६ ॥
जगदाप्यायकचन्द्रात्मनापि स्वयमेवाभूदित्याह - स्वयमिति ।
भौमोषधिरसभेदानामपि चन्द्राधीनत्वात्स्वविचित्रेत्युक्तम् । अत्र तेजःसर्गः
पाठक्रमादार्थक्रमो बलीयानिति प्रागुक्तवायुसर्गानन्तरं बोध्यः ।
चिदण्डकमित्यादिसमस्तं सर्वत्र रूपकं वा बोध्यम् ॥ ६६ ॥
स्वयमस्तं गते बाह्ये स्वज्ञानादुदिता चितिः ।
स्वयं जडेषु जाड्येन पदं सौषुप्तमागता ॥ ६७ ॥
स्वज्ञानादेव बाह्ये दृश्येऽस्तं गते सति उदिता आविर्भूतपूर्णभावा
अवतिष्ठत इति शेषः । जडेषु स्थावरादिषु ॥ ६७ ॥
स्वयं स्पन्दितयास्पन्दिचित्त्वाच्चिति महानभः ।
चित्प्रकाशप्रकाशो हि जगदस्ति च नास्ति च ॥ ६८ ॥
उक्तमेवार्थं सङ्क्षिप्याहार्धेन - स्वयमिति । अविचारे
स्पन्दस्वभावप्राणाद्यात्मभावकल्पने स्पन्दि संसार्येव भवति ।
स्वविचाराविर्भूतचित्त्वात्तु चित्येव स्वस्वभावेऽवतिष्ठत इत्यर्थः । तदवस्थस्य
किं जगदस्ति उत नास्ति सत्त्वे संसारापत्तिरसत्त्वे त्वसद्व्याप्तिप्रसङ्ग
इत्याशङ्क्य सर्वदा जगतो ब्रह्मसत्तया सत्त्वमेव स्वसत्तया
त्वसत्त्वमेवेत्याह - चित्प्रकाश इत्याद्यर्धषट्केन । सर्वत्र
चित्सत्तोपजीवित्वप्रदर्शनाय प्रकाशादिभावरूपि तत्तद्धर्मतोक्तिः। प्रकाशस्य
तेजसः प्रकाशो भास्वररूपम् ॥ ६८ ॥
चिदाकाशैकशून्यत्वं जगदस्ति च नास्ति च ।
चिदालोकमहारूपं जगदस्ति च नास्ति च ॥ ६९ ॥
प्। १६६)
चिन्मारुतपरिस्पन्दो जगदस्ति च नास्ति च ।
चिद्धनध्वान्तकृष्णत्वं जगदस्ति च नास्ति च ॥ ७० ॥
चिदर्कालोकदिवसो जगदस्ति च नास्ति च ।
चित्कज्जलरजस्तैलपरमाणुर्जगत्क्रमः [जगद्भमः इति पाठः]
॥ ७१ ॥
तैलदाहे कज्जलस्येव जगद्बाधे चिदवशेषात्कज्जलत्वोक्तिर्न कार्यत्वाभिप्रायेण
॥ ७१ ॥
चिद्ग्न्यौष्ण्यं जगल्लेखा जगच्चिच्छङ्खशुक्लता ।
जगच्चिच्छैलजठरं चिज्जलद्रवता जगत् ॥ ७२ ॥
जगच्चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ।
जगच्चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् ॥ ७३ ॥
जगच्चित्सर्षपस्नेहो वीचिश्चित्सरितो जगत् ।
जगच्चित्क्षुद्रमाधुर्यं जगच्चित्कनकाङ्गदम् ॥ ७४ ॥
जगच्चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत् ।
चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः ॥ ७५ ॥
सर्वत्र चिदपृथक्सत्त्वादेव जगतश्चिद्धर्मत्वमभिप्रेतमिति स्फुटमाह ##-
अत्र भेदविकारादि नखे मलमिव स्थितम् ।
इतीदं दन्मयत्वेन सदसद्भुवनत्रयम् ॥ ७६ ॥
खे मलं नैल्यमिव प्रतीतमपि न स्थितम् । असदपि भुवनत्रयमित्युक्तविधया
सन्मयत्वेन सदित्यर्थः ॥ ७६ ॥
अविकल्पतदात्मत्वात्सत्तासत्तैकतैव च ।
अवयवावयविता शब्दार्थौ शशशृङ्गवत् ॥ ७७ ॥
जगदसत्ता तर्हि वस्त्वन्तरं स्यात्तत्राह - अविकल्पेति ।
कल्पितनिरूपितसत्तासत्तयोरधिष्ठानातिरेकादर्शनादित्यर्थः ।
सावयवनिरवयवयोः कथमपृथक्सत्त्वमिति
वदस्तार्किकान्विद्वदनुभवापलापिनो धिक्करोति - अवयवेति ॥ ७७ ॥
अनुभूत्यपलापाय कल्पितो यैर्धिगस्तु तान् ।
न विद्यते जगद्यत्र साद्र्यब्ध्युवीनदीश्वरम् ॥ ७८ ॥
तत्र युक्तिविरोधमाह - न विद्यत इति ।
अद्र्यब्धिभिरुर्व्यादिभिस्तत्तदीश्वरैश्च सहितं जगत् ॥ ७८ ॥
चिदेकत्वात्प्रसङ्गः स्यात्कस्तत्रेतरविभ्रमः ।
शिलाहृदयपीनापि स्वाकाशे विशदैव चित् ॥ ७९ ॥
प्रसज्ज्यत इति प्रसङ्गः । कर्मणि घञ् । तत्र इतरस्यावयवादेर्विभ्रमः कः
प्रसक्तः स्यादित्यर्थः । विशदा स्वच्छा ॥ ७९ ॥
धत्तेऽन्तरखिलं शान्तं सन्निवेशं यथा शिला ।
पदार्थनिकराकाशे त्वयमाकाशजो मलः ॥ ८० ॥
शान्तं मिथ्यात्वादसदेवाखिलं यथा
स्फटिकशिलाप्रतिबिम्बनगरसन्निवेशं धत्ते तद्वत् । कुतोऽखिलस्य शान्तत्वं
तत्राह - पदार्थेति । सर्वपदार्थाधिष्ठाने चिदाकाशेऽयं भूताकाशजो
मलो वाय्वादिः सावयवप्रपञ्चः । तत्र भूताकाशेऽप्यसङ्गस्वभावे यदि
तत्कार्यश्लेषा न सन्ति तदा चिदाकाशे सत्तासत्ताद्याः श्लेषाः सुतरां न
सन्तीत्यर्थः ॥ ८० ॥
सत्तासत्तात्मतात्वत्तामत्ताश्लेषा न सन्ति ते ।
पल्लवान्तरलेखौघसन्निवेशवदाततम् ॥ ८१ ॥
तर्हि चित्यसतो जगत्सन्निवेशस्य कथं भानं तत्राह - पल्लवेति । यथा
पल्लवं शिरारेखौघसन्निवेशं पल्लवात्पृथगनिरूढत्वादसदेव
तदन्यानन्यात्मकतया स्थितं धत्ते चिदपि तथा जगदित्यर्थः ॥ ८१ ॥
अन्यानन्यात्मकमिदं धत्तेऽन्तश्चित्स्वभावतः ।
समस्तकारणौघानां कारणादि पितामहः ॥ ८२ ॥
निर्विकाराकाशोपादानकत्वाज्जगद्विकारस्य मिथ्यात्वमुक्तं सम्प्रति
मिथ्याविकल्पसहस्रात्मकचित्तसमष्ट्यात्मकहिरण्यगर्भनिदानकत्वादपि
जगतो मिथ्यात्वमित्याह - समस्तेति ॥ ८२ ॥
स्वभावतो कारणात्म चित्तं चिद्ध्यनुभूतितः ।
न चासत्त्वमचेत्यायाश्चितो वाचापि सिद्ध्यति ॥ ८३ ॥
चित्तकार्यमानोरथिकविकल्पानामसत्त्वादेव चित्तमकारणात्म तदेव पितामह
इत्यर्थः । चेत्यासत्त्वे चितोऽप्यसत्त्वं तस्यास्तदव्यभिचारदर्शनादिति वाचपि
चितोऽसत्त्वं न सिद्ध्यति । हि यस्माच्चिदनुभूतितः सिद्धा । अनुभवविरुद्धे च न
वाचः प्रामाण्यमित्यर्थः ॥ ८३ ॥
यदस्ति तदुदेतीति दृष्टं बीजादिवाङ्कुरः ॥ ८४ ॥
यदि जगत्स्वतः सत्स्यात्तदा ज्ञानाद्युपायसहस्रैरप्यनुच्छेद्यमेव स्यात्सत
आत्यन्तिकोच्छेदासम्भवेन पुनराविर्भावावर्जनादनिर्मोक्षप्रसङ्गः
स्यादित्याशयेनाह - यदिति ॥ ८४ ॥
गगन इव सुशून्यभेदमस्ति
त्रिभुवनमङ्ग महाचितोऽन्तरस्याः ।
परमपदमयं समस्तदृश्यं
त्विदमिति निश्चयवान्भवानुभूतेः ॥ ८५ ॥
यदि दृश्यस्य सत्तायां महानाग्रहस्तर्हि अनुभवेन भेदं निरस्य
परमपदात्मकच्चिन्मयत्वेन तत्सत्तयैव सा स्वीकार्येत्याह - गगन इति ॥ ८५ ॥
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो [मितो इति क्वचित्] जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ ८६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
ब्रह्मप्रतिपादनं नाम चतुर्दशः सर्गः ॥ १४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
ब्रह्मप्रतिपादनं नाम चतुर्दशः सर्गः ॥ १४ ॥
तृतीयो दिवसः ।
प्। १६७)