०१३

त्रयोदशः सर्गः

श्रीवसिष्ठ उवाच ।

परमे ब्रह्मणि स्फारे समे राम समस्थिते ।
अनुत्पन्ननभस्तेजस्तमःसत्ता चिदात्मनि ॥ १ ॥

सर्गोक्त्या प्राग्जगद्भावो वर्णितो ब्रह्मणोऽनृतः ।
जीवभावोऽधुना तस्य देहाद्याप्तिश्च वर्ण्यते ॥

प्रलये सुषुप्ताविव विलयेन मायाशबलब्रह्मभावं प्राप्तानां
जीवोपाधीनां पुनराविर्भावक्रमं सहेतुकं श्रीवसिष्ठ उवाच - परम
इत्यादिपञ्चभिः । विकारकृतवैषम्यशून्यमायाशबलत्वात्समेऽसमे
चाधिष्ठाने स्थिते अनुत्पन्नानां नभस्तेजस्तम आदीनां या कारणात्मना सत्ता
तद्रूपे चिदात्मनि ॥ १ ॥

पूर्वं चेत्यत्वकलनं सतश्चेत्यांशचेतनात् ।
उदेति चित्तकलनं चितिशक्तित्वचेतनात् ॥ २ ॥

चितश्चेतयितृभावलक्षणजीवत्वस्य विषयकरणसिद्धिपूर्वकत्वात्तदध्यासं
प्रथमं दर्शयति - पूर्वमिति । कलनं कल्पनम् । तत्र हेतुः
सद्वस्तुनस्तत्प्रथा स्वभावतैव । एवमुत्तरत्रापि । यदेवाध्यस्यते
तत्प्रथास्वभावतायाश्चिति पूर्वसिद्धत्वात्सर्वत्र निमित्तता ॥ २ ॥

ततो जीवत्वकलनं चेत्यसंयोगचेतनात् ।
ततोऽस्य [ततोऽहम्भावकलनं इति पाठः] मायाकलनं
चेत्यैकपरतावशात् ॥ ३ ॥

मायात्राहम्भावः । अहम्भावकलनम् इति पाठे तु स्पष्टम् । सा हि
जीवभावस्य निरूढावस्था एकपरता तावन्मात्रोऽहमित्यभिमानः ॥ ३ ॥

ततो बुद्धित्वकलनमहन्तापरिणामतः ।
एतदेव मनस्तादिशब्दतन्मात्रकादिमत् ॥ ४ ॥

परिणामत उपचयतः । इत्थं धर्मसिद्धौ शब्दादिविषयमात्राणां
वासनात्मना स्वान्तर्गतानां स्वप्न इव मननात्तद्घटितं मनोरूपमेतदेव
सम्पद्यत इत्यर्थः ॥ ४ ॥

उच्छूनादन्यतन्मात्रभावनाद्भूतरूपिणः [भावनोद्भूत इति
पाठः] ।
अयमित्थं महागुल्मो जगदादिर्विलोक्यते ॥ ५ ॥

तस्य स्थूलदेहभावापत्तिमाह - उच्छूनादिति । वासनात्मनां
शब्दतन्मात्राणामन्यैः
स्पर्शादितन्मात्रैर्भावनान्मेलनात्पञ्चीकृतभावेनोच्छूनादाध्यात्मिकम
हाभूतरूपिणः । स्थूलदेहभावापन्नान्मनस इति यावत् ॥ ५ ॥

झटित्येवं क्रमेणेति स्वप्ने पुरमिवाकृतम् ।
महाकाशमहाटव्यामुद्भूयोद्भूय नश्यति ॥ ६ ॥

उक्तमुपसंहरति - झटितीत्यादिना । अकृतमनिच्छासम्पन्नम् ॥ ६ ॥

जगत्करञ्जकुञ्जानां बीजमेतद्वापजम् ।
नापेक्षते किञ्चिदपि क्षितिवार्यनलादिकम् ॥ ७ ॥

एतच्चिदात्मकं पश्चात्किलोर्व्यादि करिष्यति ।
स्वं स्वप्नवित्पुरमिव चिन्मात्रामकमेव यत् ॥ ८ ॥

पश्चादुत्तरकाले । स्वप्नवित्स्वप्नद्रष्टा । स्वं स्वानुभूयमानम् । वस्तुतस्तु
तदसङ्गमेवेत्याह - चिन्मात्रात्मकमेवेति । यच्चिन्मात्रात्मकं तत्
यत्रतत्रस्थमपि जगदाद्यङ्कुरं मुञ्चत्येवेत्युत्तरेणान्वयः ॥ ८ ॥

जगदाद्यङ्कुरं यत्र तत्रस्थमपि मुञ्चति ।
जगतः पञ्चकं बीजं पञ्चकस्य चिदव्यया ॥ ९ ॥

पञ्चकं तन्मात्राणाम् ॥ ९ ॥

यद्बीजं तत्फलं विद्धि तस्माद्ब्रह्ममयं जगत् ।
एवमेष महाकाशे सर्गादौ पञ्चको गणः ॥ १० ॥

एवमित्यादेः सर्वस्योत्तरान्वयः ॥ १० ॥

चिच्छक्त्या स्वाङ्गभूतात्मा कल्पितोस्ति न वास्तवः ।
अनेनोच्छूनतामेत्य यदपीदं वितन्यते ॥ ११ ॥

चिच्छक्त्या चेत्यप्रथनशक्त्या स्वाङ्गभूतात्मा स्वशरीरमिव
सम्पन्नस्वरूपः । अनेन पञ्चकगणेन । इदं स्थूलम् ॥ ११ ॥

तदप्याकाशरूपात्मकल्पनात्मनि सन्मयम् ।
क्वचिन्न नाम तत्सिद्धं यदसिद्धेन साध्यते ॥ १२ ॥

आकाशरूपमिव स्वकल्पनाधिष्ठानात्मनि स्थितत्वात्सन्मयं न स्वत इत्यर्थः ।
तदेवोपपादयति - क्वचिदिति ॥ १२ ॥

स्वरूपं यद्विकल्पात्म कथं तत्सत्यतामियात् ।
अथ चेत्पञ्चकं ब्रह्म ब्रह्मात्मकतया धिया ॥ १३ ॥

ननु पञ्चकगणस्य ब्रह्मण्यध्यस्तस्यास्तु ब्रह्ममात्रता तत्कार्यस्य तु सा
कथं तत्राह - अथेति ॥ १३ ॥

तत्पञ्चकं विद्धि प्रौढो ब्रह्मैव त्रिजगत्क्रमः ।
यथा स्फुरति सर्गादावेष पञ्चकसम्भवः ॥ १४ ॥

तत्पञ्चकं तत्कार्यस्थूलभूतपञ्चकमपि चिद्ब्रह्मैव । हीति
कारणकार्ययोरेकत्वप्रसिद्धेर्हेतोरित्यर्थः । तथाच प्रौढो रूढजगत्क्रमो
ब्रह्मैवेति सिद्धमित्यर्थः । कथं तर्ह्यभिन्ने
कार्यकारणत्वव्यवहारस्तत्राह [कार्येति पदं क्वचिन्न लभ्यते] -
यथेति ॥ १४ ॥

तथैवाद्येह भूतत्वे याति कारणतां स्वयम् ।
एवं न जायते किञ्चिज्जगज्जातं [जातं तु इति पाठः] न लक्ष्यते ॥
१५ ॥

भूतत्वे पौर्वकालिकत्वे । स्वयं औत्तरकालिकं स्वं प्रत्येवेति शेषः ।
उपसंहरति - एवमिति ॥ १५ ॥

स्वप्नसङ्कल्पपुरवदसत्सदनुभूयते ।
ब्रह्माकाशपराकाशे जीवाकाशत्वमात्मनि ॥ १६ ॥

तदुपाधिकजीवभावोऽप्यसन्नेवेति दर्शयन्नसतः सत्त्वानुभावसम्भावनां
दृष्टान्तेनापनुदति - स्वप्नेति । ब्रह्माकाशरूपे पराकाशे
परमप्रकाशे आत्मनि जीवाकाशत्वं असत्सदिवानुभूयते ॥ १६ ॥

इति चित्यवदातात्मा पृथ्व्यादीनामसम्भवात् ।
इत्येष जीवः कथितो व्योम्नि खात्मा इवोदितः ॥ १७ ॥

अवदातात्मा प्रपश्यतीत्यध्याहृत्यान्वयः । वस्तुतः पृथ्व्यादीनां
परिच्छेदोपाधीनामसम्भवाद्व्योम्नि
गन्धर्वनगरगृहघटादिपरिच्छिन्नः खादेव कल्पनया उदितः ।
खात्मैवैष जीवः कथित इत्यर्थः ॥ १७ ॥

प्। १६०)

जीवाकाशस्त्विमं देहं यथा विन्दति तच्छृणु ।
जीवाकाशः स्वमेवासौ तस्मिंस्तु परमेश्वरे ॥ १८ ॥

एवं सामान्याभिमानेन ब्रह्मणः समष्टिजीवभावमुक्त्वा
विशेषाभिमानेन व्यष्टतद्भावेन स्थूलदेहान्ततादात्म्यारोपक्रमं
प्रपञ्चयितुमारभते - जीवाकाश इत्यादिना । तत्रादौ भावनयैव
समष्ट्युपाधेर्व्यष्ट्यन्तःकरणाङ्कुरारम्भं दर्शयति - जीवाकाश
इत्यादिना तस्मिन्परमेश्वरे कल्पितः समष्टिजीवाकाशो विस्तृतमपि स्वं
अणुरल्पतरः स्फुलिङ्गवत्तेजःकणोऽस्मीति चिन्तया तथैवात्मानं
चेतत्यनुभवतीत्युत्तरेणान्वयः । एतदेवाभिम्प्रेत्याह श्रुतिः यथाऽग्नेः
क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्व एत आत्मानो
व्युच्चरन्ति इति ॥ १८ ॥

अणुतेजःकणोऽस्मीति स्वयं चेतति चिन्तया ।
यत्तदेवोच्छूनमिव [उच्छून्यभावं इति पाठः]
भावयत्यात्मनाम्बरे ॥ १९ ॥

तस्याभावनोपचयादुपचयमाह - यदित्यादिना । यञ्चेतति
तदेवोच्छूनमिव भावयति ॥ १९ ॥

असदेव सदाकारं सङ्कल्पेन्दुर्यथा न सन् ।
तमेव भावयन् द्रष्टृदृश्यरूपतया स्थितः ॥ २० ॥

यद्भावयति तत्सङ्कल्पेन्दुर्यथा न सन् तथा असदेवेत्यर्थः ।
तद्भावनफलमाह - तमेवेति ॥ २० ॥

एक एव द्वितामेति स्वप्ने स्वमृतिबोधवत् ।
किञ्चित्स्थौल्यमिवादत्ते ततस्तारकतां विअन् ॥ २१ ॥

द्रष्टृदृश्यभावसंवलने तस्योपचयं दर्शयति - किञ्चिदिति ।
अणुतेजःकणभावमपहाय तारकासादृश्यं विदन् किञ्चित्स्थौल्यमादत्त इव
। अयमेवास्य भूतमात्रासंवलितलिङ्गात्मभावः ॥ २१ ॥

यथाभावितमात्रार्थभाविताद्विश्वरूपतः [भावित्वाद्यत्स्वरूपतः
इति पाठः] ।
स एव स्वात्मा सततोऽप्ययं सोहमिति स्वयम् ॥ २२ ॥

अयं जीवस्ततस्तादृशवेदनात्सतारकाकार एव स्वात्मा आस बभूव । तत्र
हेतुद्वयमाह - यथाभावितेति सोऽहमिति तद्भावाभिनयः ॥ २२ ॥

चित्तात्प्रत्ययमाधत्ते स्वप्ने स्वामिव पान्थताम् ।
तारकाकारमाकारं भाविदेहाभिधं तथा ॥ २३ ॥

अयं लिङ्गदेहप्रत्ययो भाविस्थूलदेहप्रत्ययश्च चित्तकल्पनावशादेवेत्याह

  • चित्तादिति । तारकाकारं प्रागुक्तलिङ्गाकारम् ॥ २३ ॥

भावयत्येति [भावयन्याति इति पाठः] तद्भावं चित्तं
चेत्यार्थतामिव ।
परित्यज्यैव तद्बाह्यं ततस्तारककोटरे ॥ २४ ॥

तत्र दृष्टान्तश्चित्तं चेत्यार्थतां विषयाकारतामिवेति । वस्तुनः
सर्वोपाधिवात्यस्यापि मोहात्तद्भावपरित्यागेनोपाध्यन्तर्भानं
सदृष्टान्तमुपपादयंस्तस्य स्वप्नादिवासनामयसंसारमाह -
परित्यज्यैवेत्यादिना । तारककोटरे उपाध्यन्तःकल्पिताकाशे ॥ २४ ॥

अन्तर्भाति बहिष्ठोऽपि पर्वतो मुकुरे यथा ।
कूपसंस्थो यथा देहः समुद्गकगतं वचः ॥ २५ ॥

यथा सर्वत्र व्यवहारसमर्थो देहः कूपसंस्थस्तन्मात्रव्यवहारी भाति ।
यथा वा पूराच्छ्रवणयोग्यमप्याक्रोशादिवचः समुद्गकगतः
सम्पुटकावरुद्धमबहिःप्रसारि ॥ २५ ॥

स्वप्नसङ्कल्पयोः संविद्वेत्त्येतज्जिवकोऽणुके [वेत्त्येवं जीवक इति
पाठः] ।
स्वरूपतारकान्तस्थो जीवोऽयं चेतति स्वयम् ॥ २६ ॥

यथा वा स्वप्नसङ्कल्पयोः संविद्देहान्तरेव स्वप्नादि पश्यति तथा अणुके
प्रागुक्तस्फुलिङ्गसदृशोपाधौ स्वरूपतया कल्पिततारकान्तस्थो
वासनामयदेहादिव्यवहारं चेततीत्यर्थः । चित्तं चेत्यार्थतामिवेति
दृष्टान्तपक्षेऽपि परित्यज्येत्यादिसार्धश्लोकद्वयमेव योज्यम् ।
स्वप्नसङ्कल्पयोर्बहिष्ठोऽपि विषयस्तद्बाह्यरूपं परित्यज्यैव अन्तर्भाति यथा
कूपजलप्रतिबिम्बितो देहो यथा वा गुहादिसम्पुटगतं प्रतिध्वनिवचस्तथा
जीवक एतद्वासनामयं वेद्यं वेत्ति । शिष्टं प्राग्वत् ॥ २६ ॥

तदेतद्बुद्धिचित्तादिज्ञानसत्तादिरूपकम् ।
जीवाकाशः [जीवाकाशस्ततस्तत्रेति पाठः] स्वतस्तत्र
तारकाकाशकोशगम् ॥ २७ ॥

तदेतद्वासनामयदेहादिव्यवहारदृशा निष्कर्षे
बुद्धिचित्तादिपरिणामत्वात्तत्तद्रूपकं परमार्थदृशा विमर्शे तु
ज्ञानसत्तानन्दरूपकमेव । तत्तत्स्थूलदेहभावनया तद्भावापन्नस्य
चक्षुरादिकल्पनया जाग्रद्व्यवहारसंसारं प्रपञ्चयति - जीवाकाश
इत्यादिना ॥ २७ ॥

प्रेक्षेऽहमिति भावेन द्रष्टुं प्रसरतीव खे ।
ततो रन्ध्रद्वयेनैव भाविबाह्याभिधं पुनः ॥ २८ ॥

येन पश्यति तन्नेत्रयुगं नाम्ना भविष्यति ।
येन स्पृशति सा वै त्वग्यच्छृणोति श्रुतिस्तु सा ॥ २९ ॥

येन जिघ्रति तद्घ्राणं स स्वमात्मनि पश्यति ।
तत्तस्य स्वदनं पश्चाद्रसना चोल्लसिष्यति ॥ ३० ॥

स्वदनं रसनेन्द्रियम् ॥ ३० ॥

स्पन्दते यत्स तद्बायुश्चेष्टा कर्मेन्द्रियव्रजम् ।
रूपालोकमनस्कारजातमित्यपि भावयत् ॥ ३१ ॥

यत्स्पन्दते तद्वायुः प्राणादिवृत्तिः ॥ ३१ ॥

आतिवाहिकदेहात्मा तिष्ठत्यम्बरमम्बरे ।
एवमुच्छूनतां तस्मिन्भावयंस्तेजसः [भाववत्तेजसः इति
पाठः] कणे ॥ ३२ ॥

भावयत् अध्यस्यत् आस्ते ब्रह्म ॥ ३२ ॥

असत्यां सत्यसङ्काशां ब्रह्मास्ते जीवशब्दवत् ।
इत्थं स जीवशब्दार्थः कलनाकुलतां गतः ॥ ३३ ॥

आतिवाहिकदेहात्मा चित्तदेहाम्बराकृतिः ।
स्वकल्पनान्त आकारमण्डं संस्थं प्रपश्यति ॥ ३४ ॥

चित्तदेहाम्बरमेव स्थौल्येन स्थूलदेहाकृतिर्यस्य ।
स्फुलिङ्गाकारादिबाह्यविषयान्तस्वकल्पनाकारं ब्रह्म तदन्ते संस्थं
आवरणादिसंस्थायुक्तमण्डं ब्रह्माण्डं प्रपश्यतीत्यर्थः ॥ ३४ ॥

कश्चिज्जलगतं वेत्ति कश्चित्सम्राट्स्वरूपिणम् ।
भाविब्रह्माण्डकलनां पश्यत्यनुभवत्यपि ॥ ३५ ॥

तस्यैव जलान्तर्गतब्रह्माण्डशरीराहम्भाववेदनं
तदन्तश्चतुर्मुखशरीराहम्भाववेदनं चेति द्वैविध्यमाह - कश्चिदिति ॥
३५ ॥

प्। १६१)

आत्मगर्भगृहं चित्ताद्यथासङ्कल्पमात्मनः ।
देशकालक्रियाद्रव्यकल्पनावेदनं स तत् ॥ ३६ ॥

आत्मन आत्मत्वेनाभिमताच्चित्तादेव निमित्ताद्यथासङ्कल्पमात्मनो
गर्भगृहवासनिमित्तत्वाद्गर्भगृहं देशादिकल्पनावेदनं
भावयन्नामादिनिर्मातेश्वर एव तत्तच्छब्दैस्तांस्तानर्थानात्मानं च
बद्नातीत्युत्तरेणान्वयः ॥ ३६ ॥

भावयञ्छब्दनिर्माता शब्दैर्बध्नाति कल्पितैः ।
आतिवाहिकदेहोऽसावित्यसत्यजगद्भ्रमे ॥ ३७ ॥

असत्य एव कचति स्वप्ने खोड्डयनं यथा ।
इत्यनुत्पन्न एवासौ स्वयम्भुः स्वयमुत्थितः ॥ ३८ ॥

उपपादिताया उत्पत्त्याख्यायिकायाः प्रस्तुतोपयोगमाह - इत्यनुत्पन्न इति ॥ ३८

आतिवाहिकदेहात्मा प्रभुराद्यः प्रजापतिः ।
एतस्मिन्नपि सम्पन्ने ब्रह्माण्डाकारिणि भ्रमे ॥ ३९ ॥

न किञ्चिदपि सम्पन्नं न च जातं न दृश्यते ।
तद्ब्रह्माकाशमाकाशमेव स्थितमनन्तकम् ॥ ४० ॥

सङ्कल्पनगराकारमेतत्सदपि नैव सत् ।
अनिर्मितमरागं च एतद्वै [एतत् खे चित्रं इति पाठः]
चित्रमुत्थितम् ॥ ४१ ॥

अरागं रङ्गद्रव्यशून्यम् ॥ ४१ ॥

अकृतं चानुभूतं च न सत्यं सत्यवत्स्थितम् ।
महाकल्पे विमुक्तत्वाद्ब्रह्मादीनामसंशयम् ॥ ४२ ॥

बाह्यसामग्र्या अनिर्मितमान्तरप्रयत्नेन त्वकृतमिति भेदः । ननु
तर्ह्यदृष्टसंस्कारादिसामग्रीजन्यमेव जगत्किं न स्यात्तत्राह -
महाकल्पे इति । अयं भावः । ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥
यावदधिकारमवस्थितिराधिकारिकाणाम् इत्यादिस्मृतिसूत्रोपदर्शितन्यायेन
महाकल्पान्ते प्राक्तनानां ब्रह्मादीनां मुक्तत्वावधारणान्न
तदीयादृष्टसंस्कारेणाग्रिमजगन्निर्माणम् । यस्तूपासकः कल्पादौ
हिरण्यगर्भादिपदं लभते न तेन कदापि प्राग्विचित्रं जगत्
सृष्टमित्यनुभवाभावे तत्संस्कारासम्भवाज्जगतो न सङ्कारजत्वमिति
स्वप्नेन्द्रजालवदकस्मादेवाविद्ययैवोद्भूतत्वान्मिथ्यात्वमेवेति ॥ ४२ ॥

स्मृतिर्न प्राक्तनी काचित्कारणं वा स्वयम्भुवः ।
तेन यादृक्स्वयम्भूः स्यात्तादृक्तज्जमिदं स्मृतम् ॥ ४३ ॥

अनाद्यनुभवस्त्वित्थं योऽत्रास्ति [योऽवास्त्यवनिकादिके इति पाठः]
वनिकादिके ।
स्वप्नानुभूतं पृथ्व्यादि प्रबोधे यादृशं भवेत् ॥ ४४ ॥

ननु तर्ह्यनादिसाक्ष्यनुभवादेव तत्संस्कारोऽस्तु तज्जश्च प्रपञ्चोऽस्तु तत्राह

  • अनादीति । अवनिकादिके पृथ्व्यादिसर्गविषये । यादृशं तादृशं
    भवेदिति शेषः । साक्षिवेद्यस्वप्नादेर्मिथ्यात्वदृष्तेस्तज्जनितसंस्कारजस्यापि
    मिथ्यात्वमेव स्यादिति भावः ॥ ४४ ॥

स्मृतः स व्योममात्रात्मा सर्वदैव स्मृतं जगत् ।
यत्र यत्र यथा तोये द्रवत्वं नाम भिद्यते ॥ ४५ ॥

यादृक्स्वयम्भूस्तादृक्तज्जमिति यदुक्तं तद्विवृणोति - स्मृत इति । स
स्वयम्भूः स्मृत इव स्मृतः स्मर्यमाणातीतपदार्थवद्व्योममात्रात्मा
शून्यमात्रस्वभावस्तथा जगदपीत्यर्थः । यत्र यत्र देशे काले च यथा तोये
द्रवत्वं न भिद्यत इत्यग्रिमनञोऽत्रापि सम्बन्धः । नामेति प्रसिद्धौ ॥ ४५ ॥

तत्र तत्र तथा नान्यः सर्गोऽस्ति परमात्मनि ।
सृष्टिरेवमियं प्रौढा सम एव त्वयं स्थितः ॥ ४६ ॥

प्रौढा भाति । परमार्थतस्तु समो जगद्वैषम्यशून्य एव स्थितः ॥ ४६ ॥

भात्येवं नाम ब्रह्माण्डं व्योमात्मेवातिनिर्मलम् ।
दृश्यमेवमिदं शान्तं स्वात्मनिर्मितविभ्रमम् ॥ ४७ ॥

उक्तमेव विवृणोति - भातीत्यादिना ॥ ४७ ॥

निराधारं निराधेयमद्वैतं चैक्यवर्जितम् ।
जगत्संविदि जातायामपि जातं न किञ्चन ॥ ४८ ॥

द्वैतव्यवहाराभावे व्यावर्त्याभावादेकत्वसङ्ख्ययापि वर्जितम् । संविदि
भ्रान्तौ ॥ ४८ ॥

परमाकाशमाशून्यमच्छमेव व्यवस्थितम् ।
सर्वसंसारता नास्ति यदेव तदवस्थितम् ॥ ४९ ॥

सर्वः संसारो यस्मिंस्तद्भावो नास्ति ॥ ४९ ॥

नाधेयं तत्र नाधारो न दृश्यं न च द्रष्टृता ।
ब्रह्माण्डं नास्ति न ब्रह्मा न च वैतण्डिका क्वचित् ॥ ५० ॥

वैतण्डिका मोहमदान्धजनवेतण्डघटा । जगद्विमर्शे
स्थाप्यपक्षाभावात्प्रसक्ता वादिनो वैतण्डिकता वा ॥ ५० ॥

न जगन्नापि जगती शान्तमेवाखिलं स्थितम् ।
ब्रह्मैव कचति स्वच्छमित्थमात्मात्मनात्मनि ॥ ५१ ॥

चित्त्वाद्द्रवत्वात्सलिलमिवावर्ततयात्मनि ।
असदेवेदमाभाति सदिवेहानुभूयते ॥ ५२ ॥

विनश्यत्यसदेवान्ते स्वप्ने स्वमरणं यथा ।
अथवा स्वस्वरूपत्वात्सदेवेदमनामयम् ।
अखण्डितमनाद्यन्तं ज्ञानमात्राम्बरोदरम् ॥ ५३ ॥

इत्थमपवाददृष्ट्या स्वतो जगतः शून्यत्वमुक्त्वा अधिष्ठानदृष्ट्या
त्वाह - अथवेति ॥ ५३ ॥

आकाश एव परमे प्रथमः प्रजेशो
नित्यं स्वयं कचति शून्यतया समो यः ।
स ह्यातिवाहिकवपुर्नतु भूतरूपी
पृथ्व्यादि तेन न सदस्ति यथा [तथा न इति पाठः] न जातम् ॥ ५४ ॥

सिंहावलोकनन्यायेन प्रागुक्तं सर्वमनुसन्धायोपसंहरति - आकाश
एवेति । परमे ब्रह्मणि प्रजेशः स्वयम्भूराकाशः शून्यमेव । यः समः
परमात्मा स एव शून्यप्रजेशाद्यात्मना कचति प्रथते । हि यस्मात्स प्रजेश
आतिवाहिकवपुर्मनोमयशरीरो न पाञ्चभौतिकः । तेन
तत्सङ्कल्पमात्ररूपत्वेन पृथ्व्यादि न सत् सत्यम् । यथा न जातमनुत्पन्नं
शशशृङ्गादि नास्ति तद्वदित्यर्थः । यथा न जातं नास्ति च तथोपवर्णितमिति
शेषो वा ॥ ५४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
स्वयम्भूत्पत्तिवर्णनं नाम त्रयोदशः सर्गः ॥ १३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
स्वयम्भूत्पत्तिवर्णनं नाम त्रयोदशः सर्गः ॥ १३ ॥

प्। १६२)