०१२

द्वादशः सर्गः १२

श्रीवसिष्ठ उवाच ।

एतस्मात्परमाच्छान्तात्पदात्परमपावनात् ।
यथेदमुत्थितं विश्वं तच्छृणूत्तमया धिया ॥ १ ॥

अत्यन्तासम्भवं वक्तुमपवादेन कृत्स्नशः ।
सर्गस्तदनुरूपोऽस्मिन्नध्यारोपः प्रपश्यते ॥ १ ॥

प्रतिज्ञातार्थ वक्तुमुपक्रममाणः श्रीवसिष्ठ उवाच - एतस्मादिति ॥ १ ॥

सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् ।
सर्वात्मकं च तत्स्थानं तत्र तावत्क्रमं शृणु ॥ २ ॥

यथा प्रतिपुरुषं सुषुप्तात्मरूपमेव स्वप्नवद्विवर्तते तथा ब्रह्मापीति
दृष्टानुसारिणीयं कल्पनेत्यर्थः । तत्रैकपुरुषवासनामात्रकार्यत्वात्स्वप्नो
न सुघनप्रत्ययः सर्ववासनाकार्यत्वाच्च प्रपञ्चः सुघनप्रत्यय इति
पूर्वशङ्कापरिहारमभिप्रेत्याह - सर्वात्मकं चेति । सर्वात्मकत्वं च
आत्मा वा इदमेक एवाग्र आसीत् इति श्रुतौ सर्ववाचीदम्पदसामानाधिकरण्यात् ।
तत्स्थानं सर्वसुषुप्तसमष्टिप्रलयावस्थं ब्रह्म ॥ २ ॥

तस्यानन्तप्रकाशात्मरूपस्यानन्तचिन्मणेः ।
सत्तामात्रात्मकं विश्वं यदजस्रं स्वभावतः ॥ ३ ॥

यद्यस्मात्कारणाद्विश्वं चिन्मणे सत्तामात्रमात्मा परमार्थरूपं यस्य
तथाविधं तत्तस्माचेत्यतामिव गच्छतीत्युत्तरेण सम्बन्धः ॥ ३ ॥

प्। १५७)

तदात्मनि स्वयं किञ्चिच्चेत्यतामिव गच्छति ।
अगृहीतात्मकं संविदहम्मर्शनपूर्वकम् ॥ ४ ॥

तस्य प्रथमं स ईक्षत लोकान्न सृजा इति श्रुतिसिद्धमीक्षणभावं दर्शयति

  • तदित्यादित्रिभिः । संविदा
    अहम्मर्शनपूर्वकमगृहीतात्मकमहङ्काराध्यासं विनेति यावत् ।
    आकाशादणु शुद्धं च यद्बोधनं तत्सर्वस्मिन्सृज्यविषये
    भाविनामरूपानुसन्धानैः किञ्चिदुहितानि रूपकाणि यस्मिंस्तथा विधं
    सच्चेत्यतामिव गच्छतीत्यन्वयः ॥ ४ ॥

भाविनामार्थकलनैः किञ्चिदूहितरूपकम् ।
आकाशादणु शुद्धं च सर्वस्मिन्भाति बोधनम् ॥ ५ ॥

ततः सा परमा सत्ता सचेतश्चेतनोन्मुखी ।
चिन्नामयोग्या भवति किञ्चिल्लभ्यतया तथा ॥ ६ ॥

तस्येक्षणवृत्तितद्विषयोपाधिभ्यामीश्वरजीवभावो दर्शयति - तत इति ।
चेत-ईक्षणात्मिका वृत्तिस्तत्सहिता चेतना तदभिव्यक्तचेतन्यं तदुन्मुखी
तत्प्रधाना सती चेतयतीति चित्सर्वज्ञेश्वरस्तन्नामयोग्येत्यर्थः ।
वाक्प्रवृत्तिविषयधर्मवत्त्वेन वाग्व्यवहारलभ्यतया ॥ ६ ॥

घनसंवेदना पश्चाद्भाविजीवादिनामिका ।
सम्भवत्यात्तकलना यदोज्झति परं पदम् ॥ ७ ॥

चिरानुवृत्त्या घना दृढीभूता ईक्षणसंवेदना यस्यास्तथाविधा सती
भाता गृहीता कलना
तद्विषयसूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदकलना यथा अत एव परं
पदमपरिच्छिन्नभूमात्मभावं [सदैव काल इति पाठः]
विस्मरणेनोज्झति तदा भाविप्राणधारणोपाधिकजीवहिरण्यगर्भादिनामिका
सम्भवतीत्यर्थः ॥ ७ ॥

सत्तैव भावनामात्रसारा संसरणोन्मुखी ।
तदा वस्तुस्वभावेन त्वनुत्तिष्ठति ताभिमाम् ॥ ८ ॥

तथा भावेऽपि न ब्रह्मसत्ताया स्वरूपक्षतिरित्याह - सत्तेति । तदा
ब्रह्मसत्तैव भावनामात्रसारा संसरणोन्मुखी भवति न
विकारादिक्रियासारेत्यर्थः । तत्कुतस्तत्राह - वस्तुस्वभावेनेति । कथं तर्हि
जीवभावस्तत्राहमन्विति । तामिमांसत्तमेवानुसृत्य रजौ सर्प इव जीवभाव
उत्तिष्ठतीत्यर्थः ॥ ८ ॥

समनन्तरमेवास्याः [भेदस्याः इति पाठः] स्वसत्तोदेति शून्यता ।
शब्दादिगुणबीजं सा भविष्यदभिधार्थदा ॥ ९ ॥

इदानीं महाभूतसर्ग विवक्षुः प्रथममाकाशसर्गमाह -
समनन्तरमिति । अस्या जीवसत्तायाः समनन्तरमेव स्वसत्ता
इतरभूतावकाशदत्वाच्छऊन्यताप्राया उदेति । सूर्यादिसर्गोत्तरं
भविष्यन्तीनामाकाशाद्यभिधानामासमन्प्रपद्यते प्रकाशत इत्याद्यर्यदा ॥
९ ॥

अहन्तोदेति तदनु सह [भूतायथार्थ(?) इति पाठः]
वै कालसत्तया ।
भविष्यदभिधार्थेन बीजं मुख्यजगत्स्थितेः ॥ १० ॥

तत्र प्रागुक्तजीवस्याद्दन्ताभिमानं तदाप्रभृति द्विपरार्थपरिमिततदायुः
का * * प्तिं चाह - अहन्तेति । भविष्यदित्यादि पूर्ववत् ॥ १० ॥

तस्याः शक्तेः परायास्तु स्वसंवेदनमात्रकम् ।
एतज्जालमसद्रूपं सदिषोदेति विस्फुरत् ॥ ११ ॥

इयमाकाशार्दकारकान्सृष्टिर्न हिरण्यगर्भादेव किन्तु
तद्वेषोपहितपरमात्मसत्ताया एव तस्या एव सर्वकारणत्वादित्याह - तस्या
इति । शक्तिशब्देमात्र परवृत्तेबोध्यते । तस्या अविकृतातद्योतनाय
स्वसंवेदनमात्रकमिति ॥ ११ ॥

एवम्प्रायात्मिका संविद्बीजं सङ्कल्पशाखिनः ।
भवत्यहङ्कारकणस्ततः स्पन्दतया मरुत् ॥ १२ ॥

एवम्प्राथात्मिका विवदहङ्कारेण विकारभाव(?) आत्मा स्वरूपं
यस्यास्तथाविधा स।विद्वियत्कार्यगोचरसङ्कल्पवृक्षस्य बीजमित्यर्थः । अत एव
तस्याहङ्कारस्य कण एकदेश इव परि * *##?
आविर्भवतीत्यर्थः ॥ १२ ॥

चिदहं तावती व्योमशब्दतन्मात्रभावनात् ।
स्वतो घनीभूय शनैः स्वतन्मात्रं भवत्यलम् ॥ १३ ॥

तस्या एव वियदहन्तोपहितपरसत्तायाः सर्व * ? बीजभूतशब्दता
आकाशभावादतिसूक्ष्मा
*?द्धनीभूय स्वतन्मात्रं
शब्दतन्मात्रं भवतीत्यर्थः । यद्यपि साङ्ख्यदर्शनपुराणादिषु तन्मात्रतो
भूतोत्पत्तिः प्रसिद्धा(?) तथा आत्मन आकाशः सम्भूतः
तत्तेजोभ्युजत इत्यादिश्रुतिषु वियदादीनां साक्षाद्द्र * *?
दानकत्वश्रवणात् तद्यथा दुन्दुभेर्दग्धमानस्य इत्यादौ शब्दसामान्यस्य
तद्विशेषोभावानत्वश्रवणाचाकाशादेव शब्दसामान्याकतान्मात्रोत्पत्ति

भाविनामार्थरूपं तद्बीजं शब्दोघशाखिनः ।
पदवाक्यप्रमाणाख्यं वेदवृन्दं विकासितम् ॥ १४ ॥

शब्दतन्मात्रस्य वेदादिसर्व * *? विशेषोपादानात्वमाह -
भावीति ॥ १४ ॥

तस्मादुदेप्यत्यखिला जगच्छ्रीः परमात्मनः ।
शब्दौघनिर्मितार्थौघपरिणामविसारिणः ॥ १५ ॥

तस्माद्वेदभावा * *? परमात्मनो जग * * * *
प्रजापतिर्देवानष्र्जत अ * *? मिति मनुष्याविन्दव इति प्तृन्
इत्यादिश्रुतेरित्यर्थः ॥ १५ ॥

चिदेवम्परिवारा सा जीवशब्देन कथ्यते ।
भाविशब्दार्थजालेन बीजं रुपोपशाखिनः ॥ १६ ॥

यदुक्तं भाविजीवादिनामिवेति तद्वा * *? त्तं तस्यैव प्रा *
पाठः] यस्यः सा । तस्याः सर्वमूर्त्र्याकारहेतुतामाह - बीजमिति ।
रूपमत्र मूर्द्धाकारा ॥ १६ ॥

चतुर्दशविधं भूतजालमावलितान्तरम् ।
जगज्जटरगर्तौघं प्रसरष्यति वै ततः ॥ १७ ॥

तस्य * *? प्राणभावेनाध्या * * * *?
क्रियाहेतुत्वमाह - चतुर्दशेति । चतुर्दशभुवनभेदाचतुर्दशविधं
प्राणिजातं तत * *? प्राणवायोर्निमित्तात्वेन * * *
गर्तोयं प्रसरिष्यति पञ्चरिष्यति ॥ १७ ॥

असम्प्राप्तामिवाचारा चिज्जवात्प्रस्फुरद्वपुः ।
सा चैव स्पर्शतन्मात्रं भावनाद्भवति क्षणात् ॥ १८ ॥

तस्येव * * *?भिमानोपहितचैतन्यस्य
सर्वस्पर्शविशेषोपादानस्पर्शतन्मात्रभावमावहप्रवहाद्येकोनपञ्चाश
त्पवनस्कन्धविभागेन सर्वपदार्थक्रियास्पन्दनिमित्तत्वं चाह -
असम्प्राप्तेति द्वाभ्याम् । प्रागसम्प्राप्ताभिधाचारापि
वायुभावाभिमानजवात्प्रस्फुरद्वपुः ॥ १८ ॥

प्। १५८)

पवनस्कन्धविस्तारं बीजं स्पर्शौघशाखिनः ।
सर्वभूतक्रियास्पन्दस्तस्मात्सम्प्रसरिष्यति ॥ १९ ॥

तत्रैव चिद्विलासेन प्रकाशोऽनुभवाद्भवेत् ।
तेजस्तन्मात्रकं तत्तु भविष्यदभिधार्थकम् ॥ २० ॥

ततस्तेजस उत्पत्तिमाह - तत्रेति । चिद्विलासः प्रकाशात्मकत्वभावना । शेषं
पूर्ववत् । तेजस्तन्मात्रकं रूपतन्मात्रकम् ॥ २० ॥

तत्सूर्याग्निविजृम्भादिबीजमालोकशाखिनः ।
तस्माद्रूपविभेदेन संसारः प्रसरिष्यति ॥ २१ ॥

तत्तेजः । विजृम्भेव क्षणव्यादाना विद्युत् । आदिपदाच्चन्द्रनक्षत्रादि ॥ २१ ॥

भावयंस्तनुतामेव रसस्कन्ध इवाम्भसः ।
स्वदनं तस्य सङ्घस्य रसतन्मात्रमुच्यते ॥ २२ ॥

ततो जलोत्पत्तिमाह - भावयन्निति । स तेजोभूत आत्मा अम्भसो रसस्कन्ध
इवाहमस्मीति तनुतां तच्छरीरतां परिच्छिन्नतां वा भावयन्
संस्तद्भावमापद्यत इति शेषः । तस्य जलात्मकस्य सङ्घस्य मूर्तद्रव्यस्य
जिह्वया आस्वादने मधुरमिदमिति यत्स्वदनं
तद्रसविशेषोपादानसामान्यरूपत्वाद्रसतन्मात्रमुच्यत इत्यर्थः ॥ २२ ॥

भाविवारिविलासात्मा तद्बीजं रसशाखिनः ।
अन्योन्यस्वदने तस्मात्संसारः प्रसरिष्यति ॥ २३ ॥

तस्यैव रसस्येन्द्रियविषयभावेनान्योन्यस्वदने तद्विषयरागाद्युद्भवेन
पुनःपुनर्विषयार्जनप्रवृत्त्यात्मा संसारः प्रसरिष्यतीत्यर्थः । एवं
पूर्वत्रापि ॥ २३ ॥

भविष्यद्रूपसङ्कल्पनामासौ कल्पनात्मकः ।
सङ्कल्पात्मगुणैर्गन्धतन्मात्रत्वं प्रपश्यति ॥ २४ ॥

ततः पृथिवीसर्गमाह - भविष्यदिति । असौ जलभावापन्नः परमात्मा
पृथिव्येवाहमिति सङ्कल्पनात्मकः सन् भविष्यद्रूपसङ्कल्पनामा
[भविष्यतद्रूप इति पाठः] भूत्वा गन्धसङ्कल्पात्मगुणैः स्वस्य
गन्धतन्मात्रत्वं प्रपश्यतीत्यर्थः ॥ २४ ॥

भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।
सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति ॥ २५ ॥

तस्योपयोगमाह - भावीति । भूगोलकत्वेन ब्रह्माण्डगोलकत्वेन
ज्योतिषप्रसिद्धभूगोलकत्वेन वा । आकृतिर्मनुष्याद्याकारः ॥ २५ ॥

चिता विभाव्यमानानि तन्मात्राणि परस्परम् ।
स्वयं परिणतान्यन्तरम्बुनीव निरन्तरम् ॥ २६ ॥

एवमुत्पन्नानां भूतानां मिश्रणेन ब्रह्माण्डाकारपरिणतिमाह -
चितेति । पूर्वोक्तभूताहम्भावापन्नया चिता ब्रह्माण्डाकारेण
विभाव्यमानानि अन्तर्दशगुणोत्तरस्वावरणान्तरम्बुनि बुद्बुदानीव
ब्रह्माण्डात्मना परिणतानीत्यर्थः ॥ २६ ॥

तथैतानि विमिश्राणि विविक्तानि पुनर्यथा ।
न शुद्धान्युपलभ्यन्ते सर्वनाशान्तमेव हि ॥ २७ ॥

कियत्कालं तेषां विमिश्रभावेनावस्थानं तदाह - तथेति । एतानि भूतानि
तथा विमिश्राणि यथा पुनः सर्वनाशपर्यन्तं न विविक्तानि
शुद्धान्युपलभ्यन्ते ॥ २७ ॥

संवित्तिमात्ररूपाणि स्थितानि गगनोदरे ।
भवन्ति वटजालानि यथा बीजकणान्तरे ॥ २८ ॥

ब्रह्मसत्तया प्राक् सत्तामेव स्थूलात्मनाविर्भाव इति सदृष्टान्तमाह -
संवित्तीति । गगनमत्राव्याकृताकाशः ॥ २८ ॥

प्रसवं परिपश्यन्ति शतशाखं स्फुरन्ति च ।
परमाण्वन्तरे भान्ति क्षणात्कल्पीभवन्ति च ॥ २९ ॥

ननु सूक्ष्मतमत्वादनवकाशेषु तन्मात्रेषु स्थूलावस्थितिर्विरुद्धा तत्राह ##-
मायिकप्रसवादिदर्शनमात्रं तच्च परमाण्वाद्यन्तरेऽपि सम्भवति । स्वप्ने
सूक्ष्मतमनाडीच्छिद्रेष्वपि विशालतमजगद्दर्शनादिति भावः ॥ २९ ॥

विवर्तमेव धावन्ति निर्विवर्तानि सन्ति च ।
चिद्वेधितानि सर्वाणि क्षणात्पिण्डीभवन्ति च ॥ ३० ॥

तेषां स्थूलभावेऽपि न स्वरूपसौक्ष्म्यापायो विवर्तस्याविकारकत्वादित्याह ##-
अत एव न विलम्ब इत्याह - क्षणादिति । परिणामपक्षे हि कूश्माणोद्पचय इव
विलम्बः स्यात् ॥ ३० ॥

तन्मात्रगणमेतत्स्यात्सा सङ्कल्पात्मिका चितिः ।
वेदनात्रसरेण्वाभमनाकारैव पश्यति ॥ ३१ ॥

उक्तार्थस्मारणेनोपसंहरति - तन्मात्रेति । एतदुक्तप्रकारम् । छान्दसि
क्लीबता ॥ ३१ ॥

बीजं जगत्सु ननु पञ्चकमात्रमेव
बीजं पराव्यवहितस्थितिशक्तिराद्या ।
बीजं तदेव भवतीति सदानुभूतं
चिन्मात्रमेवमजमाद्यमतो जगच्छ्रीः ॥ ३२ ॥

इत्थं च यदुक्तं ब्रह्मैव जगदाकारं भवतीति तत्सिद्धमित्याह - बीजमिति
। जगतस्तन्मात्रपञ्चकं बीजं कारणं तस्य च बीजं परेण परमात्मना
अव्यवहिता साक्षात्सम्बधा जगत्स्थितिहेतुर्मायाशक्तिरेव । इत्थाञ्च
तत्परमात्मतत्त्वमेव मायाशक्त्या बीजं भवन्मायापगमे तदेव भवतीति
प्रतिज्ञातार्थसिद्धिरित्यर्थः ॥ ३२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
जगदुत्पत्तिवर्णनं नाम द्वादशः सर्गः ॥ १२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जगदुत्पत्तिवर्णनं नाम द्वादशः सर्गः ॥ १२ ॥

प्। १५९)