एकादशः सर्गः ११
श्रीराम उवाच ।
इदं [इत्थंरूपं इति पाठः] रूपमिदं दृश्यं जगन्नास्तीति
भासुरम् ।
महाप्रलयसम्प्राप्तौ भो ब्रह्मन्क्वेव तिष्ठति [गच्छति इति
पाठः] ॥ १ ॥
सदधिष्ठानतः सत्ता प्रलयेऽपि न वार्यते ।
स्वतस्तु सत्ता जगतः सर्गेऽप्यत्र निवार्यते ॥ १ ॥
नन्वस्तु प्रलये जगत्सत्तासामान्यात्मकब्रह्ममात्रपरिशेषात्प्रातिस्विकसत्तया
जगतो निवृत्तावपि ताद्रूप्येण सत्ता सर्गे तु प्रलयवैलक्षण्यस्य
सर्वानुभवसिद्धत्वात्स्वतन्त्रसत्ताप्यपरा वाच्या । तथाच तयोपेतं
जगद्ब्रह्मणि निवर्तमानमन्यत्र तिष्ठतीत्येव सम्भाव्यते । नाभावो विद्यते
सतः इति सतोऽसत्त्वस्य त्वयैव वारितत्वात् । तथाच यत्र तिष्ठति तदेव जगतः
परायणमुपदिश्यतामितिमन्यमानः श्रीराम उवाच - इदमिति ।
इदमेवंविधं चतुर्दशभुवनदेवनरासुरतिर्यगाद्यनन्तविस्ताररूपं यस्य
इदमित्थं भासुरं स्फुटतरं दृश्यं प्रत्यक्षादिदृढीकृतं जगत्
महाप्रलयसम्प्राप्तौ क्वेव तिष्ठति तद्वदेति शेषः । गच्छतीति पाठेऽपि
प्राप्त्यर्थस्य गमेरुक्त एवार्थः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
कुत आयाति कीदृग्वा वन्ध्यापुत्रः क्व गच्छति ।
क्व याति कुत आयाति वद वा व्योमकाननम् ॥ २ ॥
सर्वपदार्थानामुत्पत्तिकाले यदि पृथक्सत्तया कुतश्चिदागमनं स्यात्तर्हि
तस्य प्रलयेऽन्यत्र गमनं तत्र क्सत्तया कुतश्चिदागमनं स्यात्तर्हि तस्य
प्रलयेऽन्यत्र गमनं तत्र स्थितिश्च स्यात्तदेव तावद्बन्ध्यापुत्रवदस्य
नास्तीत्याशयेन वसिष्ठ उवाच - कुत इति ॥ २ ॥
श्रीराम उवाच ।
वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति ।
कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता ॥ ३ ॥
रामो दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं शङ्कते - वन्ध्येति ।
तात्कालिकस्वसत्ता भविष्यत्कालिकसत्ताप्रत्यक्षवेद्यता च तयोर्नास्तीति वैषम्यमिति
प्रतियोग्यस्तित्वाप्रसिद्धौ नास्तितापि तयोर्दुर्वचेत्यर्थः ॥ ३ ॥
श्रीवसिष्ठ उवाच ।
वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन ।
जगदाद्यखिलं दृश्यं तथा नास्ति कदाचन ॥ ४ ॥
यद्येवं तर्हि जगदपि स्वसत्तया नास्ति न भविष्यति न दृश्यमपीति तस्य
तत्साम्यमेवेति वसिष्ठ आह - वन्ध्येति ॥ ४ ॥
प्। १५५)
न चोत्पन्नं न च ध्वंसि यत्किलादौ न विद्यते ।
उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा ॥ ५ ॥
सत्ताभावे उत्पत्त्याद्यपि जगतो न सिद्ध्यतीत्याह - न चेति ॥ ५ ॥
श्रीराम उवाच ।
वन्ध्यापुत्रनभोवृक्षकल्पना तावदस्ति हि ।
सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत् ॥ ६ ॥
ननु प्रत्यक्षसिद्धोत्पत्त्यादिमतो जगतो न वन्ध्यापुत्रादिरुपमानम् । अत्यन्तासत
उपमानत्वादर्शनाच्च । अतः परिशेषाद्विकल्परूपस्तत्प्रत्यय एवोपमानं
जन्मनाशादिमत्त्वेन तस्य जगत्साधर्म्यसम्भवादिति रामः शङ्कते -
वन्ध्येति ॥ ६ ॥
श्रीवसिष्ठ उवाच ।
तुल्यस्यातुलदुःस्थस्य भावकैः किल तोलनम् ।
निरन्वया यथैवोक्तिर्जगत्सत्ता तथैव हि ॥ ७ ॥
स्यात्तस्योपमानता यद्युपमेयजगदन्तःपातो न स्यात् । तदन्तःपाते तु तस्य
नोपमानतासम्भव इत्यपरमार्थसतो जगतो मदुक्त एव दृष्टान्तः
परिशिष्यत इत्याशयेन वसिष्ठ उवाच - तुल्यस्येति । तुल्यस्योपमातुमिष्टस्य
दृश्यस्योपमेयबहिर्भूततुलाऽलाभेन
दुःस्थस्योपमातुमशक्यस्योपमेयकोटिप्रविष्टैर्भावकैर्यत्तोलनमुपमावच्
अनं तत् निरन्वया अनन्वयालङ्कारोदाहरणभूता यथा उक्तिस्तथैव । यथा
गगनं गगनाकारं सागरः सागरोपमः इत्युक्तिरनुपमत्वे पर्यवस्यति
तथैव स्यादिति न विकल्पकल्पनादृष्टान्तः । अतो जगतः पृथक्सत्ता यथा
मदुक्तवन्ध्यापुत्रादिसत्ता तथैवेत्यर्थः । असतः
सद्दृष्टान्तत्वादर्शनेऽप्यसद्दृष्टान्तता न विरुध्यते । वन्ध्यापुत्र इव
खपुष्पमसदित्युक्तिर्दर्शनादिति भावः ॥ ७ ॥
यथा सौवर्णकटके दृश्यमानमिदं स्फुटम् ।
कटकत्वं तु नैवास्ति जगत्त्वं न तथा परे ॥ ८ ॥
ननु प्रत्यक्षमुपलभ्यमानस्य कथमसत्त्वमित्याशङ्क्य तथाविधस्यापि
सम्यग्दर्शने बाधदृष्टेरसत्त्वं बहुतरदृष्टान्तेषु प्रसिद्धमित्याह
- कटकत्वमित्यादिपञ्चभिः ॥ ८ ॥
आकाशे च यथा नास्ति शून्यत्वं व्यतिरेकवत् ।
जगत्त्वं ब्रह्मणि तथा नास्त्येवाप्युपलब्ध्मत् ॥ ९ ॥
व्यतिरेको भेदस्तद्वत् । उपलब्धिमदुपलभ्यमानमपि ॥ ९ ॥
कज्जलान्न यथा कार्ष्ण्यं शैत्यं च न यथा हिमात् ।
पृथगेवं भवेद्बुद्धं जगन्नास्ति परे पदे ॥ १० ॥
यथा शैत्यं न शशिनो न हिमाद्व्यतिरिच्यते ।
ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान् ॥ ११ ॥
मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता ।
नास्त्येवेह जगन्नाम दृष्टमप्यमलात्मनि ॥ १२ ॥
दृष्टं अनुभूयमानमपि ॥ १२ ॥
आदावेव हि यन्नास्ति कारणासम्भवात्स्वयम् ।
वर्तमानेऽपि तन्नास्ति नाशः स्यात्तत्र कीदृशः ॥ १३ ॥
क्वासम्भवद्भूतजाड्यं पृथ्व्यादेर्जडवस्तुनः ।
कारणं भवितुं शक्तं छायायाश्चातपो यथा ॥ १४ ॥
कथं कारणासम्भवस्तमाह - क्वेति । पृथ्त्र्यादेर्जडवस्तुनो हि
जडमेव कारणं भवितुं शक्तं तत्त्वसम्भवद्भूतजाड्यं ब्रह्म ।
क्वचिदपि स्वविरुद्धपरिणामादर्शनादिति भावः ॥ १४ ॥
कारणाभावतः कार्यं नेदं तत्किञ्चनोदितम् ।
यत्तत्कारणमेवास्ति तदेवेत्थमवस्थितम् ॥ १५ ॥
परिणामदृष्ट्या नेदं किञ्चिदुदितम् विवर्तदृष्ट्या तु यद्यपि
विरुद्धारोपोऽपि सम्भवति तथापि तत्कारणमेवेत्थं जगद्भावेनावस्थितं न
पृथक्कार्यसत्तास्तीत्यर्थः ॥ १५ ॥
अज्ञानमेव यद्भाति संविदाभासमेव तत् ।
यज्जगद्दृश्यते स्वप्ने संवित्कचनमेव तत् ॥ १६ ॥
नन्वज्ञानमेव तर्हि परिणामिकारणमस्तीति कथं कारणाभावस्तत्राह -
अज्ञानमेवेति । यदज्ञानमेव [यज्ज्ञानेति क्वचित्] जगदाकारपरिणतं
भातीत्युच्यते तत्संविदं जगदात्मना आभासयतीति संविदाभासम् ।
संविदमेव जगदात्मना विवर्तयतीत्यर्थः । अज्ञानपरिणामस्य
संविद्विवर्तत्वमेव स्वप्ने प्रसिद्धमित्याह - यदिति ॥ १६ ॥
संवित्कचनमेवान्तर्यथा स्वप्ने जगद्भ्रमः ।
सर्गादौ ब्रह्मणि तथा जगत्कचनमाततम् ॥ १७ ॥
तदेव स्पष्टमाह - संविदिति ॥ १७ ॥
यदिदं दृश्यते किञ्चित्सदैवात्मनि संस्थितम् ।
नास्तमेति न चोदेति जगत्किञ्चित्कदाचन ॥ १८ ॥
तथाच जगतो ब्रह्ममात्रत्वं यत्प्रतिज्ञातं तत्सिद्धमित्याह - यदिदमिति ।
आत्मनि परमार्थस्वभावे ॥ १८ ॥
यथा द्रवत्वं सलिलं स्पन्दनं पवनो यथा ।
यथा प्रकाश आभासो ब्रह्मैव त्रिजगत्तथा ॥ १९ ॥
यथा पुरमिवास्तेऽन्तर्विदेव [ऽन्तश्चिदेव इति पाठः]
स्वप्नसंविदः ।
तथा जगदिवाभाति स्वात्मैव परमात्मनि ॥ २० ॥
स्वप्नसंविदः स्वप्नद्रष्टुरन्तर्गता वित् चैतन्यमेव पुरमिव यथा आस्ते ॥ २० ॥
श्रीराम उवाच ।
एवं चेत्तत्कथं ब्रह्मन्सुघनप्रत्ययं वद ।
इदं दृश्यविषं जातमसत्स्वप्नानुभूतिवत् ॥ २१ ॥
जगत्प्रत्ययस्य सुघनत्वेन स्वप्नस्य च कार्त्स्येनानभिव्यक्ततया पेलवत्वेन
वैषम्यं द्रष्टृदृश्यसम्बन्धस्य च
स्वाभाविकत्वेनानिवार्यत्वान्मुक्त्यसम्भवं च रामः शङ्कते - एवं
चेदित्यादिना । इदं दृश्यविषमेवमुक्तरीत्या
स्वप्नानुभूतिवदसच्चेदाकल्पान्तं व्यवहाराविसंवादार्हं सुघनं
दृढमिति प्रत्ययो यस्मिंस्तथाविधं कथं जातमित्यर्थः ।
स्वप्नानुभूतिमत् इति पाठेऽपि स्वदृष्टान्ततया
स्वप्नानुभूतिमत्तत्सदृशमित्येवार्थः ॥ २१ ॥
सति दृश्य किल द्रष्टा सति द्रष्टरि दृश्यता ।
एकसत्त्वे द्वयोर्बन्धो मुक्तिरेकक्षये द्वयोः ॥ २२ ॥
दृअष्टा दुर्वार इति शेषः । एवमुत्तरवाक्ययोरपि । द्वयोर्मध्ये एकस्य क्षये हि
मुक्तिः स्यात्स एव दुर्घट इति भावः ॥ २२ ॥
प्। १५६)
अत्यन्तासम्भवो यावद्रुद्धो दृश्यस्य न क्षयः ।
तावद्द्रष्टरि दृश्यत्वं न सम्भवति मोक्षधीः ॥ २३ ॥
कुतो दुर्घटस्तत्राह - अत्यन्तेति । अत्यन्तं मूलपरिशेषणासम्भवो यस्य ।
मूलाविद्याबाधेनात्यन्तिक इत्यर्थः । दृश्यत्वमपरिहार्यमिति शेषः । अतो
मोक्षधीर्न सम्भवतीत्यर्थः ॥ २३ ॥
दृश्यं चेत्सम्भवत्यादौ पश्चात्क्षयमुपालभेत् ।
तद्दृश्यस्मरणानर्थरूपो बन्धो न शाम्यति ॥ २४ ॥
मास्त्वत्यन्तासम्भवबोधः सम्भूतस्यैव विद्यया क्षयोऽस्तु तत्राह -
दृश्यमिति । तत्तर्हि स्मर्णमिव स्मरणं संस्कारात्मना स्थितस्य
पुनरुद्भवः स एवानर्थः ॥ २४ ॥
यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः ।
प्रतिबिम्बो लगत्येव सर्वस्मृतिमयो ह्यलम् ॥ २५ ॥
दृश्यप्रदेशपरिहाणेनैव दृश्यासम्भवोपपत्तिशङ्कायास्तु
परिहारस्त्वयैव प्रागुक्त इत्याह - यत्रेति ॥ २५ ॥
आदावेव हि नोत्पन्नं दृश्यं नास्त्येव चेत्स्वयम् ।
द्रष्टुर्दृश्यस्वभावत्वात्तत्सम्भवति मुक्तता ॥ २६ ॥
यद्यनुत्पन्नं स्यात्तदा द्रष्टुश्चैतन्यस्य दृश्यस्वभावत्वान्मुक्तता
सम्भवेत् । नत्वनुत्पन्नमनुभूयते अतो न द्रष्टुः स्वभावनिर्मुक्तिरिति भावः
॥ २६ ॥
तस्मादसम्भवन्मुक्तेर्मम प्रोत्सार्य युक्तिभिः ।
अत्यन्तासम्भवो यावत्कथयात्मविदां वर ॥ २७ ॥
तस्मान्मम असम्भवन्मुक्तेर्मुक्त्यसम्भवस्य शङ्कामिति शेषः ।
यावन्निरुढः स्यात्तवात्कथय ॥ २७ ॥
श्रीवसिष्ठ उवाच ।
असदेव सदा भाति जगत्सर्वात्मकं यथा ।
शृण्वहं कथया राम दीर्घया कथयामि ते ॥ २८ ॥
यच्छङ्कितं स्वप्नवैषम्यं तस्य वक्ष्यमाणसृष्ट्याख्यायिकया
समाधानं वसिष्ठः प्रतिजानीते - असदिति । दीर्घया
मण्डपोपाख्यानादिविस्तारितया यद्यपि सुघनप्रत्ययं तथाप्यसदेव
सदात्मनावभातीत्यंशे स्वप्नसाम्यमस्त्येव सुघनप्रत्ययता तु
चिरानुवृत्त्येति भावः ॥ २८ ॥
व्यवसायकथावक्यैर्यावत्तत्रानुवर्णितम् ।
न विश्राम्यति ते तावद्धृदि पांसुर्यथा हृदे ॥ २९ ॥
व्यवसायः पूर्वेषां व्यवहारस्तत्कथावाक्यैः ॥ २९ ॥
अत्यन्ताभावमस्यास्त्वं जगत्सर्गभ्रमस्थितेः ।
युद्धैकध्याननिष्ठात्मा व्यवहारं करिष्यसि ॥ ३० ॥
तेनैव ते द्वितीयशङ्कानिरासस्तत्त्वे विश्रान्तिर्लोकव्यवहारश्च सेत्स्यतीत्याह ##-
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः ।
दृशस्त्वां वेधयिष्यन्ति न महाद्रिमिवेपवः ॥ ३१ ॥
प्रयोजनादिभावे गृह्यन्त इति ग्रहाः प्रयोजनाभावे नूत्सृज्यन्त इत्युत्सर्गाः ।
स्थूलसूक्ष्मादिविषयेषु चलाचलास्तदनुरूपा दृशो व्यवहारदृष्टयो न
वेधयिष्यन्ति । रागाद्युद्भवेन न पीडयिष्यन्तीत्यर्थः । प्राग्व्याख्यातो वार्थो
ग्राह्यः ॥ ३१ ॥
स एषोऽस्त्येक एवात्मा न द्वितीयास्ति कल्पना ।
जगदत्र यथोत्पन्नं तत्ते वक्ष्यामि राघव ॥ ३२ ॥
अत्र द्वितीयकल्पनारहितेऽप्यात्मनि ॥ ३२ ॥
तस्मादिमानि सकलानि विजृम्भितानि
सोऽपीदमङ्ग सकलासकलं महात्मा ।
रूपावलोकनमनोमननप्रकारा
कारास्पदं स्वयमुदेति विलीयते च ॥ ३३ ॥
हे अङ्ग इमानि जगन्ति तस्मादात्मनः सकाशाद्विजृम्भितानि आविर्भूतानि । किं
तटस्थेश्वरादिव भेदेन नेत्याह - स इति । स महात्मापि सकलासकलं
समष्टिव्यष्टिरूपं इदं बहिरिन्द्रियैर्दृश्यमानं
रूपावलोकनप्रकारास्पदमन्तस्तु मनो मननप्रकाराकारास्पदं भूत्वा
स्वयमेवोदेति विलीयते च । उदयविलयभावेन भ्रान्त्या विभाव्यत इत्यर्थः ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
परमार्थवर्णनं नामैकादशः सर्गः ॥ ११ ॥
इति श्रीवासिष्ठमहारामायण उत्पत्तिप्रकरणे
परमार्थवर्णनन्नामैकादशः सर्गः ॥ ११ ॥