दशमः सर्गः १०
श्रीराम उवाच ।
महाप्रलयसम्पत्तौ यदेतदवशिष्यते ।
भवत्येतदनाकारं नाम नास्त्यत्र संशयः ॥ १ ॥
विरोधमिव सम्भाव्य प्रागुक्ते ब्रह्मलक्षणे ।
क्रमात्तत्परिहारेण तात्पर्यमिह वर्ण्यते ॥ १ ॥
महाप्रलये यत्सत्किञ्चिदवशिष्यते तत् न तेजो न तम
इत्यादिविरुद्धरूपसम्भावितं मन्यमानस्तथोक्तेस्तात्पर्यं जिज्ञासुः
श्रीराम एकतरार्थसम्भावनोपन्यासेन प्रश्नभूमिकां रचयति -
महाप्रलयेति । आकारविलये अनाकारताप्रसिद्धेः सम्भावितमिदमिति द्योतनाय
नामेति निपातः ॥ १ ॥
न शून्यं कथमेतत्स्यान्न प्रकाशः कथं भवेत् ।
कथं वा न तमोरूपं कथं वा नैव भास्वरम् ॥ २ ॥
इदानीं प्रष्टव्यार्थं दर्शयति - नेत्यादिन । नष्टस्याशून्यता दुर्लभा
तेजस्तमसोरन्यतरनाशेऽन्यतरापरिशेषोऽप्यप्रसिद्ध इत्यर्थः ।
प्रकाश्यविलयात्तदानीं परप्रकाशरूपत्वाभावेऽपि
खद्योतवत्स्वमात्रप्रकाशेन भास्वरं कथं न भवेदित्यर्थः ॥ २ ॥
कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् ।
कथं न बुद्धितत्त्वं स्यात्कथं वा न मनो भवेत् ॥ ३ ॥
दृश्यातिरिक्तस्य दर्शनत्वप्रसिद्धेर्न दृश्यं न च
दर्शनमित्युक्तिव्याघातमभिप्रेत्याह - कथं वेति । यदि तु
दृश्यदर्शनातिरिक्तो द्रष्टैव प्रसिद्ध इत्युच्येत तर्हि जीवो बुद्धितत्त्वं मनो
वा कथं न भवेत्तेषामेवमतभेदेन द्रष्टृप्रसिद्धेस्तथाच तेषामेव लोके
प्राणिवाचकभूतशब्दाभिलप्यत्वान्न [शब्दाभिधेयत्वात् इति पाठः]
च भूतपदार्थौघ इत्युक्तिव्याघात इति भावः ॥ ३ ॥
कथं वा नैव किञ्चित्स्यात्कथं वा सर्वमित्यपि ।
अनयैव वचोभङ्ग्या मम मोह इवोदितः ॥ ४ ॥
यच्चोक्तं यस्त्वमेकोऽवभासात्मा योऽहमेते जनाश्च ये । यश्च न
त्वमबुद्धात्मा नाहं नैते जनाश्च ये ॥ इति तदपि स्वोक्तिव्याहतमित्यभिप्रेत्याह
- कथं वेति । किञ्चित्त्वमहमादि ॥ ४ ॥
श्रीवसिष्ठ उवाच ।
विषमोऽयमतिप्रश्नो भवता समुदाहृतः ।
भेत्तास्म्यहं त्वयत्नेन नैशं तम इवांशुमान् ॥ ५ ॥
मदाशयमतिक्रम्य प्रश्नोऽतिप्रश्नः । भेत्ता छेत्ता तत्प्रश्नबीजं संशयं
स्वाशयोद्घाटनेनेति शेषः । अंशुमान् सूर्यः ॥ ५ ॥
महाकल्पान्तसम्पत्तौ यत्तत्सदवशिष्यते ।
तद्राम न यथा शून्यं तदिदं शृणु कथ्यते ॥ ६ ॥
अनुत्कीर्णा यथा स्तम्भे संस्थिता शालभञ्जिका ।
तथा विश्वं स्थितं तत्र तेन शून्यं न तत्पदम् ॥ ७ ॥
स्तम्भोत्कीर्णप्रतिमायाः स्तम्भसत्तातिरिक्तसत्ताभावात्तत्सत्तया
स्थितेरनुत्कीर्णदशायामप्यनपायादिति भावः ॥ ७ ॥
अयमित्थं महाभोगो जगदाख्योऽवभासते ।
सत्यो भवत्वसत्यो वा यत्र तत्र त्वशून्यता ॥ ८ ॥
अयं प्रपञ्चो व्यवहारतः सत्यो वा परमार्थतोऽसत्यो वा भवतु । यत्र
यस्मिन्नधिष्ठानेऽवभासते तत्रास्य न शून्यता ।
शून्यस्यारोपाधिष्ठानत्वायोगादित्यर्थः ॥ ८ ॥
यथा न पुत्रिकाशून्यः स्तम्भोऽनुत्कीर्णपुत्रिकः ।
तथा भातं [मासं इति पाठः] जगद्ब्रह्म तेन शून्यं न
तत्पदम् ॥ ९ ॥
अन्वयमुखसमर्थितमर्थं व्यतिरेकमुखेनापि समर्थयते - यथेति ।
तथा तत्पदं जगच्छून्यं नेति सम्बन्धः । यतो ब्रह्मैव प्राग्जगद्भातं
तेन हेतुनेत्यर्थः ॥ ९ ॥
सौम्याम्भसि यथा वीचिर्न चास्ति नच नास्ति च ।
तथा जगद्ब्रह्मणीदं शून्याशून्यपदं गतम् ॥ १० ॥
ननु तदा यदि जगदस्ति तर्हि प्रलयानुपपत्तिर्यदि नास्ति तर्हि प्राप्तैव
तच्छून्यतेति सत्त्वसत्त्वव्याघातं दृष्टान्तेन वारयति - सौम्येति ।
वीचिलीनेति शेषः । शून्याशून्यपदं अनिर्वचनीयतां
शून्याशून्योभयकल्पनाधिष्ठानं परमार्थवस्तुप्राप्तमिति वा ॥ १० ॥
देशकालादि शान्तत्वात्पुत्रिकारचनं द्रुमे ।
सम्भवत्ययथाऽतो वै तेनानन्ते विमुह्यते ॥ ११ ॥
यदि स्तम्भपुत्रिकावदेव प्रलये जगदस्ति तर्हि कथं वादिभिस्तत्र विमुह्यते न
स्तम्भपुत्रिकायां तत्राह - देशेति ।
पुत्रिकारचनयोग्यकर्तृकर्माधारदेशस्य अहरादिकालस्य
आदिपदात्कर्तृकरणोपकरणादेश्च विषये
शान्तत्वान्निराकाङ्क्षत्वात्सर्वसामग्रीसम्पत्तेरित्यर्थः । द्रुमे
द्रुमविकारस्तम्भे पुत्रिकारचनं सम्भवति तेन तत्र तत्सत्ता सम्भावयितुं
शक्यत इत्यर्थः । अनन्ते त्रिविधपरिच्छेदशून्ये ब्रह्मणि तु अयथा
यथोक्तसामग्र्यदर्शनमित्यर्थः । वै इति निश्चये । अतस्तेन प्रसिद्धेन
वादिजनेन विमुह्यते मोहः प्राप्यत इत्यर्थः ॥ ११ ॥
तत्स्तम्भपुत्रिकाद्येतत्परमार्थे जगत्स्थितेः ।
एकदेशेन सदृशमुपमानं न सर्वथा [सर्वतः इति पाठः] ॥
१२ ॥
यद्युक्तरीत्या वैषम्यं कथं तर्हि स्तम्भपुत्रिकादृष्टान्तस्तत्राह -
तदिति । तदेतत्प्रागुक्तं स्तम्भपुत्रिकादि परमार्थे ब्रह्मणि एकदेशेन
तत्सत्तानुच्छेदांशेन [तत्सत आधारसत्तानुच्छेदांशेन इति पाठः]
॥ १२ ॥
न कदाचिदुदेतीदं परस्मान्न च शाम्यति ।
इत्थं स्थितं केवलं सद्ब्रह्म स्वात्मनि संस्थितम् ॥ १३ ॥
नन्वस्तूक्तरीत्या जगत्सत्ता तदुदयास्तमययोर्विरुद्धयोस्तु तत्र युगपत्कथं
सत्तेत्याशङ्क्य तयोः
स्वधर्मिव्यतिरिक्तसत्तानभ्युपगमाद्धर्मिपृथक्सत्तानिरासे सम्भावनैव
नास्तीत्याशयेनाह - न कदाचिदिति ॥ १३ ॥
अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना ।
अशून्यत्वात्सम्भवतः शून्यताशून्यते कुतः ॥ १४ ॥
नन्वशून्यत्वेनोदेति न शाम्यतीति शून्योर्थकनञा [अशून्यार्थकनञः
इति पाठः] कथमुल्लेखस्तत्राह - अशून्येति । प्रतियोगिन्यशून्यत्वं
सिद्धवत्कृत्य तदपेक्षया वस्त्वन्तरे तच्छून्यता कल्प्यते कल्पितां च
शून्यतामपेक्ष्य प्रतियोगिन्यशून्यत्वमिति परस्परसापेक्षकल्पने
शून्यताशून्यते कुतः सम्भवतः इत्यर्थः ॥ १४ ॥
प्। १५२)
ब्रह्मण्ययं प्रकाशो हि न सम्भवति भूतजः ।
सूर्यानलेन्दुतारादिः कुतस्तत्र किलाव्यये ॥ १५ ॥
इत्थं प्रथमप्रश्नपदं [प्रश्ने पदं इति पाठः] व्यवस्थाप्य
द्वितीयमपि समाधत्ते - ब्रह्मणीत्यादिना । अबिन्धनस्य पार्थिवेन्धनस्य
वाव्ययेन हि सूर्यानलादेः सम्भवः । अव्यये तु ब्रह्मणि स कुत इति न प्रकाश
इत्युक्तिरिति भावः । एतेन कथं वा नैव भास्वरमित्यस्याप्युत्तरमुक्तमेव ॥ १५ ॥
महाभूतप्रकाशानामभावस्तम उच्यते ।
महाभूताभावजं तु तेनात्र न तमः क्वचित् ॥ १६ ॥
कथं वा न तमोरूपमित्येतत्समाधत्ते - महाभूतेति ।
सूर्यामहाताभावजं तु तमः [तत्तमः इति पाठः]
पृथ्व्यादिमहाभूतप्रकाशानां अभावो विरोधी सन् परप्रकाश्येषु
पृथ्व्यादिष्वेव तम इत्युच्यते न स्वप्रकाशे तेनात्र न तम इत्यर्थः । तु शब्दो
मायातमोव्यावृत्त्यर्थः ॥ १६ ॥
स्वानुभूतिः प्रकाशोऽस्य [प्रकाशोऽयं इति पाठः] केवलं
व्योमरूपिणः ।
योऽन्तरस्ति स तेनैव नत्वन्येनानुभूयते ॥ १७ ॥
स्वप्रकाशतामनुभवेन साधयति - स्वानुभूतिरिति । यद्यपि
बुद्ध्यादयोऽन्येनानुभूयन्ते तथापि तेषामन्तर्योऽस्ति स तेनैवानुभूयते
स्वातिरिक्तानुभवं नापेक्षते । अन्यथा अनवस्थापत्तेरित्यर्थः ॥ १७ ॥
मुक्तं तमःप्रकाशाभ्यामित्येतदजरं पदम् ।
आकाशकोशमेवेदं विद्धि कोशं जगत्स्थितेः ॥ १८ ॥
द्वितीयतृतीयप्रश्नोत्तरमुपपादितमुपसंहरति - मुक्तमिति । इति
उक्तविधया बोध्यमिति शेषः । जगत्स्थितेर्धनस्थानीयायाः
कोशगृहस्थानीयं ब्रह्म आकाशोदरस्वच्छं विद्धीत्यर्थः ॥ १८ ॥
बिल्वस्य बिल्वमध्यस्य यथा भेदो न कश्चन ।
तथास्ति ब्रह्मजगतोर्न मनागपि भिन्नता ॥ १९ ॥
अन्त्योपान्त्यप्रश्नोत्तरमाह - बिल्वस्येति । मध्यस्योदरस्य ॥ १९ ॥
सलिलान्तर्यथा वीचिर्मृदन्तर्घटको [र्मृदोन्तः इति मुद्रितपुस्तके
पाठः] यथा ।
तथा यत्र जगत्सत्ता तत्कथं खात्मकं भवेत् ॥ २० ॥
अल्पो घटो घटकः । सिंहावलोकनन्यायेनाह - तत्कथमिति । खात्मकं
शून्यम् ॥ २० ॥
भूर्जलाद्युपमानश्रीः साकारान्ता समानसा ।
ब्रह्म त्वाकाशविशदं तस्यान्तस्थं तथैव तत् ॥ २१ ॥
ननु जलान्तःस्थिताया भुवो घटाद्यन्तर्गतजलादेर्वा
आधारस्वभावत्वादर्शनात्कथं ब्रह्मान्तर्गतजगतस्तदा ब्रह्मस्वभावता
तत्राह - भूजलादीति । त्वदुक्ता भूजलाद्युपमानश्रीर्न समा । यतः
साकारमन्तोऽवसानं दर्शनावधिर्यस्यास्तथाविधा । तस्य निराकारस्य
ब्रह्मणोऽन्तस्थं तज्जगत्तु विलीनत्वान्निराकारमेवेति तथैवेत्यर्थः ॥ २१ ॥
तस्माद्यादृक्चिदाकाशमाकाशादपि निर्मलम् ।
तदन्तस्थं तादृगेव जगच्छब्दार्थभागपि ॥ २२ ॥
उक्तमेवार्थं स्फुटमाह - तस्मादिति ॥ २२ ॥
मरीचेऽन्तर्यथा तैक्ष्ण्यमृते भोक्तुर्न लक्ष्यते ।
चिन्मात्रत्वं चिदाकाशे तथा चेत्यकलां विना ॥ २३ ॥
अत एव चतुर्थप्रश्नोऽपि निराकृत इत्याह - मरीच इति । सत्यं
दृश्यातिरिक्तमेव दर्शनत्वेन प्रसिद्धं तत्तु दृश्याभावेन
दर्शनत्वव्यवहारार्हमिति भावः ॥ २३ ॥
तस्माच्चिदप्यचिद्रूपं चेत्यरिक्तं तदात्मनि ।
जगत्ता तादृगेवेयं तावन्मात्रात्मतावशात् [तादृङ्मात्र इति
पाठः] ॥ २४ ॥
तस्मादिति । अत एव चिदादिशब्दाः प्रतीचि लक्षणयैव प्रवर्तन्ते न
मुख्यवृत्त्येति भावः । यथा जगल्लये चितस्तद्विषयतालक्षणा चित्ता निवर्तते
एवं चिद्विषयत्वलक्षणा जगतो जगत्तापीत्याह - जगत्तेति ।
तावन्मात्रात्मतावशाद्बहीरूपालोका अन्तर्मनस्काराश्च तन्मया इत्युत्तरेण
सम्बन्धः ॥ २४ ॥
रूपालोकमनस्कारास्तन्मया एव नेतरत् ।
यथास्थितमतो विश्वं सुषुप्तं तुर्यमेव वा ॥ २५ ॥
वक्ष्यमाणासु सप्तसु पञ्चम्यन्तभूमिकागतानां सुषुप्तमुत्तरयोस्तुर्यम् ॥
२५ ॥
तेन योगी सुषुप्तात्मा व्यवहार्यपि शान्तधीः ।
आस्ते ब्रह्म निराभासं सर्वाभाससमुद्गकः ॥ २६ ॥
उक्तार्थमेव पूर्वोत्तरार्धाभ्यां स्पष्टमाह - तेनेति । सर्वाभासानां
संस्काराणां समुद्रकः सम्पुटकः ॥ २६ ॥
आकारिणि यथा सौम्ये स्थितास्तोये महोर्मयः ।
अनाकृतौ तथा विश्वं स्थितं तत्सदृशं परे ॥ २७ ॥
अनाकारब्रह्मात्मना कथं साकारजगत्सत्तेत्याशङ्क्य यथा
नानाकाराणामूर्मीणामेकाकारजलात्मनेत्यविरोध इत्यभिप्रेत्याह -
आकारिणीति । सौम्ये निश्चलत्वात्प्रसन्ने ॥ २७ ॥
पूर्णात्पूर्णं प्रसरति यत्तत्पूर्णं निराकृति ।
ब्रह्मणो विश्वमाभातं [विश्वभानं तत्तद्धि स्वार्थं इति
पाठः] तद्धि स्वार्थं विचक्षितम् ॥ २८ ॥
एवमुपाधिभूतस्य जगतः कारणाव्यतिरेकमुक्त्वा तदुपाधिकजीवस्यापि तमाह
- पूर्णादिति । यत्पूर्णाद्ब्रह्मणः सकाशादौपाधिकभेदेन जीवभावेन
प्रसरति तत्परमार्थतः पूर्णमेव । तत्र साकारस्य पूर्णत्वायोगाद्यत्पूर्णं
तन्निराकृति । यदि पूर्णं तर्हि किमर्थं विश्वात्मना जीवभावेन चाभातं
तत्राह - यदिति । यद्विश्वात्मना भातं तद्धि स्वार्थं
स्वस्वरूपलाभप्रयोजनसिद्धये विचक्षितं दिदृक्षितम् ।
क्रमादधिकारिशरीरप्राप्त्या
स्वतत्त्वसाक्षात्कारेणाज्ञानतिरोहितस्वात्मलाभार्थं जगज्जीवभावेन
प्रसरतीत्यर्थः । तछाच श्रुतिः रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं
प्रतिचक्षणाय इति ॥ २८ ॥
पूर्णात्पूर्नं प्रसरति संस्थितं पूर्णमेव तत् ।
अतो विश्वमनुत्पन्नं यच्चोत्पन्नं तदेव तत् ॥ २९ ॥
कथं तद्दिदृक्षितं तदाह - पूर्णादिति । उक्तार्थम् ॥ २९ ॥
चेत्यासम्भवतस्तस्मिन्यदेका जगदर्थता ।
आस्वादका सम्भवतो मरीचे कैव तीक्ष्णता ॥ ३० ॥
यद्यस्मात्कारणाज्जगच्छब्दार्थता एका एकरसा सम्पन्नेत्यर्थः । पदे इति
पाठे का इत्यपह्नवे ॥ ३० ॥
प्। १५३)
सत्येवेयमसत्यैष चित्तचेत्यादिता परे ।
तद्भावात्प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः ॥ ३१ ॥
एकरसत्वादेव चित्तचेत्यादिनानारसताऽसत्यैव सत्येव प्रतिभासतः इत्यर्थः ।
एवं चोपाध्यभावे प्रतिबिम्बजीवभावार्हतो कुतो नास्त्येवेति जीवो वा न कथं
भवेदिति शङ्कापि निरस्तेति भावः ॥ ३१ ॥
परमाणोरपि परं तदणीयो ह्यणीयसः ।
शुद्धं सूक्ष्मं परं शान्तं तदाकाशोदरादपि ॥ ३२ ॥
दिक्कालाद्यनवच्छिन्नरूपत्वादतिविस्तृतम् ।
तदनाद्यन्तमाभासं भासनीयविवर्जितम् ॥ ३३ ॥
जीवो हि अणुर्मध्यमपरिमाणो वा पुण्यपापादिदूषितत्वादशुद्धः
स्वभासनीयविषयभोक्ता प्रसिद्धस्तत्तु तद्विपरीतमित्याह - परमाणोरपीति
द्वाभ्याम् ॥ ३२ ॥ ३३ ॥
चिद्रूपमेव नो यत्र लभ्यते तत्र जीवता ।
कथं स्याच्चित्तताकारा वासना नित्यरूपिणी [ऽनिलरूपिणी इति पाठः]
॥ ३४ ॥
यद्विषयप्रथात्वलक्षणं [विषयप्रत्याय्यत्वलक्षणं इति पाठः]
चिद्रूपत्वमेव न सहते तदनुकूलप्रतिकूलविषयभोक्तृतालक्षणं जीवत्वं
सुतरामित्याह - चिद्रूपमिति । एतेन कथं न बुद्धितत्त्वं स्यात्कथं वा न
मनो भवेदिति शङ्कापि प्रत्युक्तेत्याह - कथमिति ॥ ३४ ॥
चिद्रूपानुदयादेव तत्र नास्त्येव जीवता ।
न बुद्धिता चित्तता वा नेन्द्रियत्वं न वासना ॥ ३५ ॥
उक्तमेव स्पष्टयति - चिद्रूपेति ॥ ३५ ॥
एवमित्थं महारम्भपूर्णमप्यजरं पदम् ।
अस्मद्दृष्ट्या स्थितं शान्तं शून्यमाकाशतोऽधिकम् ॥ ३६ ॥
सर्वप्रश्नसमाधाने फलितमुपसंहरति - एवमिति ॥ ३६ ॥
श्रीराम उवाच ।
परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः ।
पुनरेतन्ममाचक्ष्व निपुणं बोधवृद्धये ॥ ३७ ॥
एवं समाहिते चेतसि येन रूपेण तदपरोक्षमनुभवितुं शक्यं
तदसाधारणं रूपं परिचेतुकामः पुनः पृच्छति - परमार्थस्येति ॥
३७ ॥
श्रीवसिष्ठ उवाच ।
महाप्रलयसम्पत्तौ सर्वकारणकारणम् ।
शिष्यते परमं ब्रह्म तदिदं वर्ण्यते शृणु ॥ ३८ ॥
तदिदमपरोक्षम् ॥ ३८ ॥
नाशयित्वा स्वमात्मानं मनसो वृत्तिसङ्क्षये ।
सद्रूपं यदनाख्येयं तद्रूपं तस्य वस्तुनः ॥ ३९ ॥
यथा समाधौ निरोधेन वृत्तिसङ्क्षये सति निरिन्धनाग्निवन्मनसः
स्वमात्मानं मनःस्वरूपमपि नाशयित्वा यदनाख्येयं
स्वप्रकाशसद्रूपमवशिष्यते तदित्यर्थः ॥ ३९ ॥
नास्ति दृश्यं जगद्द्रष्टा दृश्याभावाद्विलीनवत् ।
भातीति भासनं यत्स्यात्तद्रूपं तस्य वस्तुनः ॥ ४० ॥
एवं निर्विकल्पसमाध्यारम्भे दृश्याभावाद्रष्टा प्रमातापि
विलीनवद्भातीति त्रिपुटीलयभासनं साक्षिरूपं तदित्यर्थः ॥ ४० ॥
चितेर्जीवस्वभावाया यदचेत्योन्मुखं वपुः ।
चिन्मात्रं विमलं शान्तं तद्रूपं परमात्मनः ॥ ४१ ॥
एवं समाधिव्युत्थानप्राक्काले भाविजीवस्वभावायाश्चितेरचेत्योन्मुखं
यद्वपुः स्वरूपं तदित्यर्थः । यद्यपि समाधिमध्यकालेऽपि
स्फुरत्परमात्मरूपमेव तथापि तदपि [तदतिसूक्ष्मत्वात् इति पाठः]
सूक्ष्मत्वान्नारुरुक्षुणाभ्यासदशायां लक्षयितुं
शक्यमित्याद्यन्तप्रदर्शनम् ॥ ४१ ॥
अङ्गलग्नेऽपि वातादौ स्पर्शाद्यनुभवं विना ।
जीवतश्चेतसो रूपं यत्तद्वै परमात्मनः ॥ ४२ ॥
इदानीमारूढानुभवसिद्धतन्मध्यस्फुरद्रूपेणापि तद्दर्शयति -
अङ्गेति । ब्रह्माकाराविच्छिन्नापरोक्षवृत्तिमत्त्वाच्चेतसो जीवत एव चित्ते जीवत्येव
सति क्षीरोदकवद्ब्रह्मण्यैकरस्येन तिरोभूतत्वाच्चित्तमनादृत्येत्यर्थः ।
षष्ठी चानादरे इति भावलक्षणे षष्ठी । वातादौ अङ्गलग्नेऽपि
तत्स्पर्शाद्यनुभवं विना स्फुरद्यद्रूपं तदेव तद्रूपमित्यर्थः । क्वचित्तु
पुस्तके एतत्पूर्वार्धस्थाने अङ्गुष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति इति
पठ्यते तत्राङ्गुष्ठस्य तथाङ्गुल्याश्च ये वातादयो
नोदनादिव्यापारास्तेषामस्पर्शने स्पर्शाप्रतिसन्धाने सतीत्यर्थः । वा
गतिगन्धनयोः भावे क्तः ॥ ४२ ॥
अस्वप्नाया अनन्ताया अजडाया मनःस्थितेः ।
यद्रूपं चिरनिद्रायास्तत्तदानघ शिष्यते ॥ ४३ ॥
इदानीं योगाभ्यासविधुराणामप्यनुभवपथं यथारोहति तथाह -
अस्वप्नाया इति । स्वप्नदर्शनशून्या मशकमत्कुणाद्यविच्छिना
मनोविश्रान्तिहेतुर्या सुषुप्तिः सैव चेतसो जाड्यहीना चिरं सम्भाव्येत
तद्रूपं प्रलयेऽवशिष्यत इत्यर्थः ॥ ४३ ॥
यद्व्योम्नो हृदयं यद्वा शिलायाः पवनस्य च ।
तस्याचेत्यस्य चिद्व्योम्नस्तद्रूपं परमात्मनः ॥ ४४ ॥
व्योम्नो हृदयं रहस्यं शून्यत्वं पवनस्य
हृदयमन्तर्बहिःपूर्णत्वं शिलायास्तु घनत्वं तस्यैवाचेत्यस्य
चेत्यभिन्नस्य चेत्यरहितस्य च चिद्व्योम्नः सतो यद्रूपं भवेत्तत्तदित्यर्थः ॥ ४४
॥
अचेत्यस्यामनस्कस्य जीवतो या स्वभावतः ।
स्यात्स्थितिः सा परा शान्ता सत्ता तस्याद्यवस्तुनः ॥ ४५ ॥
किं बहुना सर्वस्यापि जीवतश्चेत्यचित्तपरित्यागे या स्थितिः परिशिष्यते सा
तद्रूपमित्याह - अचेत्यस्येति ॥ ४५ ॥
चित्प्रकाशस्य यन्मध्यं प्रकाशस्यापि खस्य वा ।
दर्शनस्य च यन्मध्यं तद्रूपं ब्रह्मणो विदुः ॥ ४६ ॥
यत् द्रष्टृकोटौ अन्नमयान्ते आत्मतया प्रसृतस्य
चित्प्रकाशस्यैकैककोशविवेकेन
पर्यालोच्यमानस्यानन्दमयकोशस्याप्यान्तरत्वान्मध्यं दृश्यकोटौ च
मूर्तप्रपञ्चसारभूतादित्यात्मकप्रकाशस्यामूर्तप्रपञ्चसारभूतस्य
खस्याकाशस्य लिङ्गसमष्ट्यात्मनोऽव्याकृताकाशस्य वा
आन्तरत्वाद्यन्मध्यं दर्शनस्य चाक्षुषादिवृत्तिरूपस्य
चान्तःस्फुरणरूपत्वाद्यन्मध्यं क्रमादानन्दसच्चिद्रूपं प्रसिद्धं
तदित्यर्थः । तथा च तैत्तिरियाणामुपनिषदि अन्नमयादीनां
कोशानामान्तरमानन्दमयकोशं प्रदर्श्य तस्य प्रियमेव शिरः । मोदो
दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्मपुच्छं
प्रतिष्ठा इति तस्याप्यान्तरं ब्रह्म दर्शितम् । बृहदारण्यके च द्वे वाव
ब्रह्मणो रूपे मूर्तं चैवामूर्तं च इति प्रस्तुत्य तस्यैतस्य मूर्तस्यैष रसो य
एष तपति तस्यैतस्यामूर्तस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः इति
तदुभयसारं प्रदर्श्य अथात आदेशो नेति नेतीति मूर्तामूर्तारोपाधिष्ठानं
तदान्तरं ब्रह्म तन्निषेधेन दर्शितम् । प्रतिबोधविदितं मतमिति
तलबकारिणामुपनिषदि ब्रह्मणः सर्वबुद्धिवृत्त्यान्तरत्वमुक्तमिति ॥ ४६ ॥
प्। १५४)
वेदनस्य प्रकाशस्य दृश्यस्य तमसस्तथा ।
वेदनं यदनाद्यन्तं तद्रूपं परमात्मनः ॥ ४७ ॥
बुद्धिवृत्तेरर्थस्फुरणस्य विषयस्याज्ञानस्य च यत्साक्षिभूतं वेदनं
तेषामाद्यन्तप्रथात्वादनाद्यन्तं तदित्यर्थः ॥ ४७ ॥
यतो जगदुदेतीव नित्यानुदितरूप्यपि ।
विभिन्नवदिवाभिन्नं तद्रूपं परमार्थकम् ॥ ४८ ॥
व्यवहारपरस्यापि यत्पाषाणवदासनम् ।
अव्योम्न एव व्योमत्वं तद्रूपं परमात्मनः ॥ ४९ ॥
मायिकव्यवहारपरस्यापि ज्ञस्येश्वरस्य वा यत् पाषाणवदचलमासनम् ।
अच्छिद्रस्यैव सर्वजगदवकाशदातृत्वाद्व्योमत्वं यस्येति शेषस्तदित्यर्थः
॥ ४९ ॥
वेद्यवेदनवेट्तृत्वरूपत्रयमिदं पुरः ।
यत्रोदेत्यस्तमायाति तत्तत्परमदुर्लभम् ॥ ५० ॥
वेद्यादित्रिपुटीजन्मादिनिमित्तं यत्सच्चिदात्मरूपं तदेव तदित्याह - वेद्येति
॥ ५० ॥
वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति ।
अबुद्ध्यादौ महादर्शे तद्रूपं परमं स्मृतम् ॥ ५१ ॥
निमित्ततापि न परिणामेन किन्तु विवर्तभावेनेत्याह - वेद्येति ॥ ५१ ॥
मनः स्वप्नेन्द्रियैर्मुक्तं यद्रूपं स्यान्महाचितेः ।
जङ्गमे स्थावरे वापि तत्सर्वान्तेऽवशिष्यते ॥ ५२ ॥
स्वप्नैरिन्द्रियोपलक्षितजागरैश्च मुक्तं मनो यत्सुषुप्तात्मरूपं स्यात्तदेव
स्थावरे जङ्गमे च दृश्यप्रलयकालेऽवशिष्यते ॥ ५२ ॥
स्थावराणां हि यद्रूपं तच्चेद्बोधमयं भवेत् ।
मनोबुद्ध्यादिनिर्मुक्तं तत्परेणोपमीयते ॥ ५३ ॥
स्थावराणां रूपमचलस्वभावः । परेण परमात्मना ॥ ५३ ॥
ब्रह्मार्कविष्णुहरशक्रसदाशिवादि
शान्तौ शिवं परममेतदिहैकमास्ते ।
सर्वोपधिव्ययवशादविकल्परूपं
चैतन्यमात्रमयमुज्झितविश्वसङ्गम् ॥ ५४ ॥
उक्तं प्रलयात्मतत्त्वावस्थानमुपसंहरति - ब्रह्मेति ।
एतत्सर्वानुभवसिद्धप्रत्यगात्मभूतम् । इहास्मिन् जगति । सर्वोपधिव्ययः
सर्वोपाधिलयः । मायासंवलानात्प्राचुर्ये मयट् ॥ ५४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे
महाकल्पान्तावशिष्टपरमभाववर्णनं नाम दशमः सर्गः ॥ १० ॥
इति श्रीवासिष्ठ महारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
महाकल्पान्तावशिष्ठपरमभाववर्णनं नाम दशमः सर्गः ॥ १० ॥