नवमः सर्गः ९
श्रीवसिष्ठ उवाच ।
तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च ॥ १ ॥
जीवन्मुक्तस्य लक्ष्माणि तस्य सर्वात्मता तथा ।
जगत्प्रलयशिष्टात्मस्वरूपं चेह कीर्त्यते ॥ १ ॥
आत्मविचारोऽपि यावदवधारणं तदेकप्रवणतालक्षण एवापेक्ष्यते न
कादाचित्को व्यापारान्तरव्यवहितावृतो वा । आत्मक्रीड आत्मरतिः क्रियावानेष
ब्रह्मविदां वरिष्ठः । ब्रह्मसंस्थोऽमृतत्वमेति इत्यादिश्रुतेरित्यभिप्रेत्य
श्रीवसिष्ठ उवाच - तच्चित्ता इति । तस्मिन्नात्मन्येव चित्तं येषाम् ।
तद्गतास्तत्प्राप्तावेवोद्युक्ताः प्राणा जीवनव्यापारा येषाम् ॥ १ ॥
तेषां ज्ञानैकनिष्ठानामात्मज्ञानविचारिणाम् ।
सा जीवन्मुक्ततोदेति विदेहान्मुक्ततैव या ॥ २ ॥
ज्ञाने ज्ञानसाधनश्रवणादौ एका निष्ठा अनन्यव्यापारतालक्षणा
स्थितिर्येषां । विदेहाद्देहविगमाद्या शुद्धा मुक्ततैव नान्येत्यर्थः ॥ २ ॥
प्। १४७)
श्रीराम उवाच ।
ब्रह्मन्विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् ।
ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया ॥ ३ ॥
श्रवणादिफलोक्तिप्रसञ्जिते जीवन्मुक्तविदेहमुक्तलक्षणे जिज्ञासुः श्रीराम
उवाच - ब्रह्मन्निति । शास्त्रलक्षणया दृशा चक्षुषोत्पादितया धिया ॥ ३ ॥
श्रीवसिष्ठ उवाच ।
यथास्थितमिदं यस्य व्यवहारवतोऽपि च ।
अस्तं गतं स्थितं व्योम जीवन्मुक्तः स उच्यते ॥ ४ ॥
विदेहमुक्तेर्जीवन्मुक्तिपूर्वकत्वात्पाठक्रमादर्थक्रमो बलीयानिति न्यायेन
प्रश्नक्रममुल्लङ्घ्य प्रथमं जीवन्मुक्तलक्षणं श्रीवसिष्ठ उवाच -
यथेति । शास्त्रानिषिद्धव्यवहारवतोऽपि यस्य विश्वं परमार्थदृशा
भादादस्तं गतं सद्व्योम आकाशमिव शून्यं स्थितं दर्पणनगरमिव
प्रतीयमानमपि नास्त्येवेत्यर्थः ॥ ४ ॥
बोधैकनिष्ठतां यातो जाग्रत्येव सुषुप्तवत् ।
या आस्ते व्यवहर्तैव जीवन्मुक्तः स उच्यते ॥ ५ ॥
यो व्यवहर्ता सन्नपि नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् इति
भगवदुक्तदिशा जाग्रत्यपि सुप्तवन्निर्विकार आस्ते ॥ ५ ॥
नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा ।
यथाप्राप्तस्थितेर्यस्य जीवन्मुक्तः स उच्यते ॥ ६ ॥
यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ७ ॥
निर्विकारे स्वात्मनि सुषुप्त इव तिष्ठतीति सुषुप्तस्तथाभूतोऽपि
योऽविद्यानिद्राक्षयात्स्वात्मनि जागर्ति ।
देहेन्द्रियादिभाधादिन्द्रियैरर्थोपलब्धिलक्षणा जाग्रद्यस्य न विद्यते । यस्य
बोधो निर्वासन इति जाग्रद्वासनोद्भवनिमित्तः स्वप्नोऽपि यस्य न विद्यत इति
भावः ॥ ७ ॥
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदच्छस्थः स जीवन्मुक्त उच्यते ॥ ८ ॥
अनुरूपं यथोचितं नट इवानुकाराभिनयमिति वा । अच्छे निरावरणात्मनि
तिष्ठतीत्यच्छस्थः । सुपि स्थः इति कः ॥ ८ ॥
यस्य नाहङ्कृतो भावो यस्य बुद्धिर्न लिप्यते ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ९ ॥
न लिप्यते कर्तृत्वाकर्तृत्वाभिमानाभ्यामित्यर्थः ॥ ९ ॥
यस्योन्मेषनिमेषार्धाद्विदः प्रल्यसम्भवौ ।
पश्येत्त्रिलोक्याः स्वसमः स जीवन्मुक्त उच्यते ॥ १० ॥
यस्य विदश्चिदात्मन उन्मेषादावरणविघटनात् त्रिलोक्याः प्रलयं
निमेषादावरणाच्च प्राक् सम्भवं यः पश्येदित्यर्थः । विदेहमुक्तावेव
निःशेषोन्मेषात्साक्षिणीश्वरे चावरणाभावाचोभयत्राप्यर्धादित्युक्तिः ॥ १० ॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥ ११ ॥
नोद्विजते न बिभेति । लोको जनः । यतोऽसौ
हर्षामर्षभयहेत्वज्ञानाभिमानोन्मुक्तः ॥ ११ ॥
शान्तसंसारकलनः कलावानपि निष्कलः ।
यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ १२ ॥
यतोऽसौ सचित्तः सचेतनोऽपि निश्चित्तो निर्मनस्कः । शान्ता संसारस्य कलना
सत्यतामतिर्यस्य सः । परदृष्ट्या कलावान्देहावयववानपि निष्कलो
निरवयवः ॥ १२ ॥
यः समस्तार्थजातेषु व्यवहार्यपि शीतलः ।
पदार्थेष्वपि पूर्णात्मा स जीवन्मुक्त उच्यते ॥ १३ ॥
शीतलो रागाद्यतापितः । यतोऽयं रागादिविषयेष्वपि पदार्थेषु
पूर्णस्तेषामप्यात्मा । नह्यहेयोपादेये स्वात्मनि तदध्यस्ते मिथ्यात्वेन निश्चिते
वार्थे रागादिसम्भव इति भावः ॥ १३ ॥
जीवन्मुक्तपदं त्यक्त्वा देहे कालवशीकृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ १४ ॥
इदानीं प्रथमपृष्टं विदेहमुक्तलक्षणं वक्तुमुपक्रमते -
जीवन्मुक्तेति । कालेन वशीकृते ग्रस्ते । प्रारब्धक्षये सतीति यावत् ॥ १४ ॥
विदेहमुक्तो नोदेति नास्तमेति न शाम्यति ।
न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥ १५ ॥
तस्यादौ विद्वदनुभवसिद्धं स्वरूपलक्षणमाह - विदेहमुक्त इति ।
उदयास्तमयौ वृद्ध्यपक्षयौ । सन्व्यक्तः । असन्नव्यक्तः । न च अहं अहं
नेति च न । न च इतरः ॥ १५ ॥
सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् ।
रुद्रः सर्वान्संहरति सर्गान्सृजति पद्मजः ॥ १६ ॥
तस्य लोकदृष्ट्या सार्वात्म्यलक्षणं तटस्थलक्षणमाह - सूर्य
इत्यादिना ॥ १६ ॥
खं भूत्वा पवनस्कन्धं धत्ते सर्पिसुरासुरम् ।
कुलाचलगतो भूत्वा लोकपालपुरास्पदः ॥ १७ ॥
कुलाचलो मेरुर्मानसोत्तरश्च । तयोरेव लोकपालपुरप्रसिद्धेः ॥ १७ ॥
भूमिर्भूत्वा बिभर्तीमां लोकस्थितिमखण्डिताम् ।
तृणगुल्मलता भूत्वा ददाति फलसन्ततिम् ॥ १८ ॥
लोकस्थितिं जनमर्यादाम् ॥ १८ ॥
बिभ्रज्जलानलाकारं ज्वलति द्रवति द्रुतम् ।
चन्द्रोऽमृतं प्रसवति मृतं हालाहलं विषम् ॥ १९ ॥
हालाहलसञ्ज्ञं विषं भूत्वा मृतं मरणं प्रसवतीति च्छान्दसो
विकरणव्यत्ययः ॥ १९ ॥
तेजः प्रकटयत्याशास्तनोत्यान्ध्यं तमो भवत् ।
शून्यं सद्व्योमतामेति गिरिः सन् रोधयत्यलम् ॥ २० ॥
तेजो भवत् प्रकटयत्याशा दिशः ॥ २० ॥
करोति जङ्गमं चित्तः स्थावरं स्थावराकृतिः ।
भूत्वार्णवो बलयति भूस्त्रियं वलयो यथा ॥ २१ ॥
चित्तः स्फुटान्तःकरणाभिव्यक्तचैतन्यतः । स्थावराकृतिः
अस्फुटचित्तत्वाज्जडप्रायाकृतिः । भूरेव स्त्री ताम् ॥ २१ ॥
परमार्कवपुर्भूत्वा प्रकाशान्तं विअसारयन् ।
त्रिजगत्त्रसरेण्वोघं [त्रिजगत्त्रसरेण्वन्तं इति पाठः]
शान्तमेवावतिष्ठते ॥ २२ ॥
परमार्कवपुरनावरणचिदात्मा प्रकाशान्तं तत्प्रकाशव्याप्तं त्रिजगदादि
त्रसरेण्वन्तं पदार्थौघं विसारयन्विस्तारयन्नपि स्वयं शान्तं
निर्विकारमेवावतिष्ठते ॥ २२ ॥
प्। १४८)
यत्किञ्चिदिदमाभाति भातं भानमुपैष्यति ।
कालत्रयगतं दृश्यं तदसौ सर्वमेव च ॥ २३ ॥
श्रीराम उवाच ।
कथमेवं वद ब्रह्मन्भूयते विषमा हि मे ।
दृष्टिरेषाथ दुष्प्राप्या दुराक्रम्येति निश्चयः ॥ २४ ॥
प्रतिबन्धबाहुल्येन समदृष्टिर्दौर्लभ्यान्मुक्तेर्दौर्लभ्यं
मन्यमानस्तत्प्राप्त्युपायसोत्कण्ठः श्रीराम उवाच - कथमिति । हि
यस्माद्विषमा दृष्टिः । एषा मुक्तिर्दुष्प्राप्या । अथ कथञ्चित्प्राप्तापि तत्र
चित्तस्थैर्यस्य दुष्करत्वाद्दुरारोहेति मे निश्चय इत्यन्वयः ॥ २४ ॥
श्रीवसिष्ठ उवाच ।
मुक्तिरेषोच्यते राम ब्रह्मैतत्समुदाहृतम् ।
निर्वाणमेतत्कथितं शृणु तत्प्राप्यते कथम् ॥ २५ ॥
एवं सोत्कण्ठं रामं तत्प्राप्त्युपायोपदेशेनाश्वासयन् वसिष्ठ उवाच ##-
यदिदं दृश्यते दृश्यमहन्त्वन्तादिसंयुतम् [त्वन्त्वादि इति
क्वचित्] ।
सतोऽप्यस्यात्यनुत्पत्त्या बुद्धयैतदवाप्यते ॥ २६ ॥
अनात्मन्यारोपितप्रत्यक्तमहन्त्वम् । पराक्चेतनत्वं त्वन्त्वम् । सतः सदिति
भासमानस्याप्यस्य वन्ध्यापुत्रस्येवात्यन्तमनुत्पत्त्या [मनुत्पन्न इति
पाठः] ॥ २६ ॥
श्रीराम उवाच ।
विदेहमुक्तास्त्रैलोक्यं सम्पद्यन्ते यदा तदा ।
मन्येते सर्गतामेव गता वेद्यविदांवर ॥ २७ ॥
ब्रह्मणः सार्वात्म्यश्रवणाद्ब्रह्मप्राप्तौ तद्भावेन संसारप्राप्तिरेव किं
न स्यादिति रामः शङ्कते - विदेहेति । ते विदेहमुक्ताः सर्गतां
संसारभावमेव गता इति मन्ये ॥ २७ ॥
श्रीवसिठ उवाच ।
विद्यते चेत्त्रिभुवनं तत्तत्तां सम्प्रयान्तु ते ।
यत्र त्रैलोक्यशब्दार्थो न सम्भवति कश्चन ॥ २८ ॥
प्रागुक्तात्यन्तानुत्पत्तिमेवावलम्ब्य वसिष्ठः परिहरति - विद्यते चेदिति ।
तत्तर्हि तत्तान्तत्तत्सर्गरूपताम् । ते मुक्ताः यत्र न सम्भवन्ति तत्र उक्तार्थधीः
कुत इत्युत्तरेणान्वयः ॥ २८ ॥
एतत्त्रिलोकतां यातं ब्रह्मेत्युक्तार्थधीः कुतः ।
तस्मान्नो सम्भवत्येषा जगच्छब्दार्थकल्पना ॥ २९ ॥
उक्तार्थधीस्त्वच्छङ्कितार्थबुद्धिः तस्मादित्युपसंहारः ॥ २९ ॥
अनन्यच्छान्तमाभासमात्रमाकाशनिर्मलम् ।
ब्रह्मैव जगदित्येतत्सर्वं सत्त्वावबोधतः ॥ ३० ॥
अनन्यदद्वयम् । आभासमात्रं चिन्मात्रम् । सत्त्वं
सन्मात्रभावस्तदवबोधतः ॥ ३० ॥
अहं हि हेमकटके विचार्यापि न दृष्टवान् ।
कटकत्वं क्वचिन्नाम ऋते निर्मलहाटकात् ॥ ३१ ॥
प्रत्यग्दृष्ट्या पर्यालोचने तदध्यस्तस्यासत्त्वं दृष्टान्तैरनुभावयति ##-
जलादृते पयोवीचौ नाहं पश्यामि किञ्चन ।
वीचित्वं तादृशं दृष्टं यत्र नास्त्येव तत्र हि ॥ ३२ ॥
स्पन्दत्वं पवनादन्यन्न कदाचन कुत्रचित् ।
स्पन्द एव सदा वायुर्जगत्तस्मान्न भिद्यते ॥ ३३ ॥
यथा शून्यत्वमाकाशे ताप एव मरौ जलम् ।
तेज एव सदा लोके ब्रह्मैव त्रिजगत्तथा ॥ ३४ ॥
श्रीराम उवाच ।
अत्यन्ताभावसम्पत्त्या जगद्दृश्यस्य मुक्तता ।
ययोदेति मुने युक्त्या तां ममोपदिशोत्तमम् ॥ ३५ ॥
एवं दर्शितदृष्टान्तान्पर्यालोच्य गुरूक्तार्थं श्लोकद्वयेन
सम्भवयंस्तत्र
विपरीतभावनाविक्षेपात्पुनरसम्भावनाविकल्पोदयैरप्रतिष्ठितेन
मनसावधारयितुमशक्नुवन्निव तदवधारणोपायं पृच्छति -
अत्यन्तेत्यादिना । जगद्दृश्यस्यात्यन्ताभावसम्पत्तिर्बाधस्तया ॥ ३५ ॥
मिथःसम्पन्नयोर्द्रष्टृदृश्ययोरेकसङ्ख्ययोः ।
द्वयाभावे स्थितिं याते [याति इति पाठः] निर्वाणमवशिष्यते ॥ ३६ ॥
मुथः एकसङ्ख्ययोः
सम्पन्नयोर्बाधपरिशिष्टस्वप्रकाशात्मभावापन्नयोरिति यावत् ॥ ३६ ॥
दृश्यस्य जगतस्तस्मादत्यन्तासम्भवो यथा ।
ब्रह्मैवेत्थं स्वभावस्थं बुध्यते वद मे तथा ॥ ३७ ॥
कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिद्ध्यति ।
एतस्मिंस्तु मुने सिद्धे न साध्यमवशिष्यते ॥ ३८ ॥
श्रीवसिष्ठ उवाच ।
बहुकालमियं रूढा मिथ्याज्ञानविषूचिका ।
नूनं विचारमन्त्रेण निर्मूलमुपशाम्यति ॥ ३९ ॥
श्रुतार्थस्य सकृत्सम्भावनोदये पुनःपुनश्चिरमनाभ्यास एव
तत्प्रतिष्ठावधारणोपाय इति श्रीवसिष्ठ उवाच - बहुकालमित्यादिना ॥ ३९ ॥
न शक्यते झटित्येषा समुत्सादयितुं क्षणात् ।
समप्रपतने ह्यद्रौ समरोहावरोहणे ॥ ४० ॥
शिखरारूढस्य पुंसः सर्वतः सममधः प्रपतनं यस्मात्तथाविधेऽद्रौ
समे तुल्यकाले आरोहावरोहणे यथा झटित्येव कर्तुं न श्येते तद्वत् ॥ ४० ॥
तस्मादभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः ।
जगद्भ्रान्तिर्यथा शाम्येत्तवेदं कथ्यते शृणु ॥ ४१ ॥
वक्ष्याम्याख्यायिकां राम यामिमां बोधसिद्धये ।
तां चेच्छृणोषि तत्साधो मुक्त एवासि बोधवान् ॥ ४२ ॥
वक्ष्यमाणजगत्प्रलयाख्यायिकाम् ॥ ४२ ॥
अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते ।
यत्किलोत्पद्यते राम तेन मुक्तेन भूयते ॥ ४३ ॥
अथ प्रलयाख्यायिकानन्तरम् । उत्पत्तिप्रकरणं जगदुत्पत्तिप्रक्रमः । स च
निर्विकारोपादानको विवर्त एव पर्यवस्यतीति बन्धमिथ्यात्वे स्वतः सिद्ध एव
मोक्ष इति तद्वर्णनाशय इत्याह - यदित्यादिना । यद्यदुत्पद्यते इति
प्रतिपाद्यते तेन तेन मुक्तेन तत्तद्बन्धशून्येन स्वेन भूयते स्थीयत इत्यर्थः
॥ ४३ ॥
इयमित्थं जगद्भ्रान्तिर्भात्यजातैव खात्मिका ।
इत्युत्पत्तिप्रकरणे कथ्यतेऽस्मिन्मयाधुना ॥ ४४ ॥
प्। १४९)
यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।
सर्वं सर्वप्रकाराढ्यं ससुरासुरकिन्नरम् ॥ ४५ ॥
अजातैव खात्मिका भातीत्युक्तमर्थं प्रलयाख्यायिकया
समर्थयितुमुपक्रमते - यदिदमिति । यदिदं जगद्दृश्यते तत्प्रलये
असद्भवतीत्युत्तरेणान्वयः ॥ ४५ ॥
तन्महाप्रलये प्राप्ते रुद्रादिपरिणामिनि ।
भवत्यसददृश्यात्म क्वापि याति विनश्यति ॥ ४६ ॥
महाप्रलये प्राकृते । रुद्रदीनां परिणामिनि तिरोभावयितरि । विनश्यतीत्यस्य
व्याख्या असददृश्यात्मेति ॥ ४६ ॥
ततः स्तिमितगम्भीरं न तेजो न तमस्तततम् ।
अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते ॥ ४७ ॥
किं शून्यान्तं नश्यति नेत्याह - तत इति । अनाख्यमनभिव्यक्तमिति
नामरूपप्रतिषेढः ॥ ४७ ॥
न शून्यं नापि चाकारं न दृश्यं न च दर्शनम् ।
न च भूतपदार्थौघो यदनन्ततया स्थितम् ॥ ४८ ॥
तत्प्रतिषेधे नामरूपशून्यवस्तुनो जगत्यत्यन्ताप्रसिद्धेः
शून्यतामाशङ्क्याह - नेति । तर्हि
तस्याशून्यस्याकारदृश्यदर्शनादिभावः परिशेषात्स्यात्तत्राह -
नापीत्यादिना । आकारमिति च्छान्दसं मत्वर्थी याजन्तं वा ॥ ४८ ॥
किमप्यव्यपदेशात्म पूर्णात्पूर्णतराकृति ।
न सन्नासन्न सदसन्न भावो भवनं न च ॥ ४९ ॥
अनाख्यत्वादेवाव्यपदेशात्म । अव्यपदेश्यतामेव प्रपञ्चयति - न
सदित्यादिना । भवनं कालसम्बन्ध उत्पत्तिर्वा तद्वान्भावः ॥ ४९ ॥
चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम् ।
अनादिमध्यपर्यन्तं यदनादि निरामयम् ॥ ५० ॥
न विद्यते आदिः कारणं यस्य तदनादि ॥ ५० ॥
यस्मिञ्जगत्प्रस्फुरति दृष्टमौक्तिकहंसवत् ।
यश्चेदं यश्च नैवेदं देवः सदसदात्मकः ॥ ५१ ॥
मुक्ताभुजां हंसानां तत्परिणामत्वात्पूर्वं मुक्तात्मना
पश्चाद्धंसात्मना च
दृष्टतदुभयानुगतद्रव्यवच्चित्रभ्रान्त्यादिदृष्टमुक्तामयहंसवद्वा ।
यश्चेदमध्यारोपदृशा । नैवेदमपवाददृशा । सदसदात्मको
व्यक्ताव्यक्तावस्थाद्वयानुगतः ॥ ५१ ॥
अकर्णजिह्वानासात्वग्नेत्रः सर्वत्र सर्वदा ।
शृणोत्यास्वादयति यो जिघ्रेत्स्पृशति पश्यति ॥ ५२ ॥
कर्णनासाद्यभावेऽपि श्रवणादिकमस्य स्वप्ने प्रत्यक्षम् । तथाच श्रुतिः
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इति ॥ ५२ ॥
स एव सदसद्रूपं येनालोकेन लक्ष्यते ।
सर्गचित्रमनाद्यन्तं स्वरूपं चाप्य रञ्जनम् ॥ ५३ ॥
येनालोकेन प्रागुक्तसदसद्रूपं लक्ष्यते स चिदालोकोऽपि स एव । तथा
अज्ञानसत्त्वे सर्गचित्रमज्ञाननिवृत्तौ त्वनाद्यन्तं स्वरूपं चाप्य प्राप्य
रञ्जनं प्रथनं स एवेत्यर्थः ॥ ५३ ॥
अर्धोन्मीलितदृश्यभ्रूमध्ये तारकवज्जगत् ।
व्योमात्मैव सदाभासं स्वरूपं योऽभिपश्यति ॥ ५४ ॥
एवं जीवन्मुक्तदशायां बाधितजगदाभासदर्शनमपि स एवेत्याह -
अर्धेति । यथा योगिनः खेचरमुद्रायां भ्रूमध्ये दृष्टिनिवेशे
अर्धोन्मीलितचक्षुर्दृश्यभ्रूमध्ये निविष्टं
कृष्णतारकमस्फुटत्वात्सदाभासं जगत्पश्यन्ति तद्वद्यो व्योमात्मैव
सदाभासं स्वरूपं पश्यति सोऽपि स एवेत्यर्थः । खेचरमुद्रायास्तु
लक्षणमुक्तं योगशास्त्रे - कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ न पीड्यते स रोगेण न च लिप्येत
कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ इति ॥ ५४ ॥
यस्यान्यदस्ति न विभोः कारणं शशशृङ्गवत् ।
यस्येदं च जगत्कार्यं तरङ्गौघ इवाम्भसः ॥ ५५ ॥
ज्वलतः सर्वतोऽजस्रं चित्तस्थानेषु तिष्ठतः ।
यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् ॥ ५६ ॥
एवं सर्वलयाधारतत्पदार्थरूपं प्रदर्श्य त्वम्पदार्थरूपेणापि तं
दर्शयितुमुपक्रमते - ज्वलत इत्यादिना । सर्वतः सामान्यतो ज्वलतो
दीप्यमानस्य चित्रस्थानेषु त्वनावृतत्वादजस्रं विशेषाभिव्यक्त्या
ज्वलतस्तिष्ठतः ॥ ५६ ॥
यं विनाऽर्कादयोऽप्येते प्रकाशास्तिमिरोपमाः ।
सति यस्मिन्प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः ॥ ५७ ॥
यथान्धस्य दिनजातमप्यप्रकाशरूपं तथा दृग्रूपं यं विना
तिमिरोपमाः ॥ ५७ ॥
सस्पन्दे समुदेतीव निःस्पन्दान्तर्गते न च ।
इयं यस्मिञ्जगल्लक्ष्मीरलात इव चक्रता ॥ ५८ ॥
यस्मिन्मनोभावेन सस्पन्दे जगल्लक्ष्मीः समुदेतीव । निःस्पन्दे अन्तः
प्रत्यक्तत्वं गते प्राप्ते तु न च समुदेति । चोऽवधारणे । अलाते ज्वलदुल्मुके निशि
भ्राम्यमाणे चक्राकारता प्रसिद्धा ॥ ५८ ॥
जगन्निर्माणविलयविलासो व्यापको महान् ।
स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलोऽक्षयः ॥ ५९ ॥
उक्तमेव स्पष्टमाह - जगदिति । यस्य स्वभावः पारमार्थिकरूपं तु
निर्मलोऽक्षयः ॥ ५९ ॥
स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा ।
सत्ता नाम्नैव भिन्नेव व्यवहारान्न वस्तुतः ॥ ६० ॥
उक्तस्पन्दास्पन्दयोः
सद्रूपपूर्णतयोरनन्यथाभावात्तद्व्यतिरिक्तान्यथाभावस्य
विवर्ततापर्यवसाना नाम्नैव भिन्ना न वस्तुत इत्यर्थः ॥ ६० ॥
सर्वदैव प्रबुद्धो यः सुप्तो यः सर्वदैव च ।
न सुप्तो न प्रबुद्धश्च यः सर्वत्रैव सर्वदा ॥ ६१ ॥
तस्य प्रबुद्धाज्झमुक्तदृक्प्रसिद्धं त्रैविध्यमाह - सर्वदैवेति ॥ ६१ ॥
यदस्पन्दं शिवं शान्तं यत्स्पन्दं त्रिजगत्स्थितिः ।
स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः [भरतावनिः इति
पाठः] ॥ ६२ ॥
मुमुक्षुहेयोपादेयताप्रयोजकमपि तस्योक्तरूपद्वयमेवेत्याशयेनाह -
यदिति ॥ ६२ ॥
प्। १५०)
आमोद इव पुष्पेषु न नश्यति विनाशिषु ।
प्रत्यक्षस्थोऽप्यथाग्राह्यः शौक्ल्यं शुक्लपटे यथा ॥ ६३ ॥
आमोद इव सार इति शेषः । सर्ववस्तुप्रत्यक्षवृत्तिषु प्रथारूपेण स्थितोऽपि
वृत्तिविषयनिष्कर्षेणाग्राह्यो [सन्निकर्षग्राह्यो इति पाठः]
ग्रहीतुमशक्यः ॥ ६३ ॥
मूकोपमोऽपि योऽमूको मन्ता योऽप्युपलोपमः ।
यो भोक्ता नित्यतृप्तोऽपि कर्ता यश्चाप्यकिञ्चनः ॥ ६४ ॥
वागिन्द्रियाभावान्मूकोपमोऽपि सर्ववाक्प्रवृत्तिनिमित्तत्वादमूकः । एवं
मननविकारहीनत्वादुपलोपमोऽपि मन्तेत्यादि बोध्यम् । नास्ति किञ्चन
क्रियादिनिमित्तं यस्य सोऽकिञ्चनः ॥ ६४ ॥
योऽनङ्गोऽपि समस्ताङ्गः सहस्रकरलोचनः ।
न किञ्चित्संस्थितेनापि येन व्याप्तमिदं जगत् ॥ ६५ ॥
समस्तानामङ्गान्येवाङ्गानि यस्य अत एव सहस्राण्यनन्तानि करलोचनादीनि
यस्य ॥ ६५ ॥
निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः ।
यस्य निर्मननस्यैता मनोनिर्माणरीतयः ॥ ६६ ॥
एताः प्रसिद्धजगद्रूपाः ॥ ६६ ॥
यदनालोकनाद्भ्रान्तिसंसारोरगभीतयः ।
यस्मिन्दृष्टे पलायन्ते सर्वाशाः सर्वभीतयः ॥ ६७ ॥
आशाः कामाः दिशः प्रतीति वा ॥ ६७ ॥
साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः ।
सति यस्मिन्प्रवर्तन्ते चित्तेहाः स्पन्दपूर्विकाः ॥ ६८ ॥
दीपे सति नाट्यादिक्रिया इव स्फारे अपरिच्छिन्ने आभासे प्रकाशरूपे अत एव
साक्षिणि । यस्मिन्सति चित्तस्येहाश्चेष्टाः प्रवर्तन्ते ॥ ६८ ॥
यस्माद्घटपटाकारपदार्थशतपङ्क्तयः ।
तरङ्गगणकल्लोलवीचयो वारिधेरिव ॥ ६९ ॥
वारिधेरिव प्रवर्तन्ते इत्यनुषज्यते ॥ ६९ ॥
स एवान्यतयोदेति यत्पदार्थशतभ्रमैः ।
कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ॥ ७० ॥
स चिदात्मैवान्यतया जडप्रपञ्चात्मना । ये प्रसिद्धाश्च ते
पदार्थशतभ्रमाश्चेति कर्मधारयादित्थम्भावे तृतीया ॥ ७० ॥
यस्त्वमेकोऽवभासात्मा योऽहमेते जनाश्च ये ।
यश्च न त्वमबुद्धात्मा नाहं नैते जनाश्च [जनाश्च ये इति
पाठः] यः ॥ ७१ ॥
यः अवभासत इत्यवभासस्त्वया साक्षात्कृत आत्मा सन् त्वमेवैकः । एवं
मया जनैर्वा साक्षात्कृतस्तत्तदात्मैवैकः । अबुद्धात्मा तु तद्विपरीत
इत्यर्थः ॥ ७१ ॥
अन्येवाप्यतिरिक्तेव सैवासेव च भङ्गुरा ।
पयसीव तरङ्गाली यस्मात्फुरति दृश्यभूः ॥ ७२ ॥
असौ अनन्याप्यन्येव । अनतिरिक्ताप्यतिरिक्तेव । अतिरेकोऽत्र [अतिरिक्तत्वं
पृथक्त्वं इति पाठः] पृथक्त्वमिति न पौनरुक्त्यम् । सा
प्राक्सिद्धैवासेवोत्पत्तिसिद्धेव ॥ ७२ ॥
यतः कालस्य कलना यतो दृश्यस्य दृश्यता ।
मानसी कलना येन यस्य भासा विभासनम् ॥ ७३ ॥
कालस्य कलनाः षड्भावविकाराः दृश्यस्य दृश्यता दर्शनफलव्याप्तिः ।
मानसी कलना इष्टानिष्टप्राप्तिपरिहारविषया मनोरथविकल्पा येन निमित्तेन ।
क्रमाद्यदीयसच्चिदानन्दरूपतानिर्वाह्या इति यावत् । तच्च त्रयं यस्य भासा
जगद्विभासनमेव नान्यत् । अज्ञातसाधारणी सर्वव्याप्तिः सत्ता ।
अनावृतमात्रव्याप्तिर्दर्शनं ।
तत्रानुकूलवेदनीयमात्रव्याप्तिरानन्दतेत्यवान्तरौपाधिकवैलक्षण्येऽपि
भारूपव्याप्तेरेकत्वादिति भावः ॥ ७३ ॥
क्रियां रूपं रसं गन्धं शब्दं स्पर्शं च चेतनम् ।
यद्वेत्सि तदसौ देवो येन वेत्सि तदप्यसौ ॥ ७४ ॥
देहकर्मेन्द्रियोपाधौ क्रियाम् ज्ञानेन्द्रियोपाधौ रूपादि अन्तःकरणोपाधौ
चेतनम् प्रमातारं च यत्स्वरूपः सन् वेत्सि तत्प्रमातृ
निष्कृष्टचिद्रूपमसौ । येन विषयव्याप्तवृत्तिनिष्कृष्टचिद्रूपेण वेत्सि
तदप्यसौ देव इत्यर्थः ॥ ७४ ॥
द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्थितम् ।
साधो तदवधानेन स्वात्मानमवबुध्यसे ॥ ७५ ॥
तथाच त्रिपुटीसाक्षी स इति फलितमित्याह - द्रष्ट्रिति । अवधानमेकाग्रेण
मनसा उपाधिभ्यो निष्कृष्य दर्शनम् ॥ ७५ ॥
अजमजरमनाद्यं शाश्वतं ब्रह्म नित्यं
शिवममलममोघं वन्द्यमुच्चैरनिन्द्यम् ।
सकलकलनशून्यं कारणं कारणाना-
मनुभवनमवेद्यं वेदनं विश्वमन्तः ॥ ७६ ॥
इत्थं तत्त्वम्पदार्थौ निर्दिश्य वाक्यार्थमन्ते दर्शयति - अजमिति ।
कारणं कारणानामिति तत्पदवाच्यार्थस्य [वाक्यार्थस्य इति पाठः]
निर्देशः । शून्यमित्यन्तस्तत्पदलक्ष्यार्थस्य । विश्वं कृत्स्नं
वेदनमित्यवस्थात्रयद्रष्टृत्वम्पदवाच्यस्य । अवेद्यं वेदनमिति
वेद्यावस्थात्रयनिर्मुक्तत्वम्पदलक्ष्यस्य ।
समभिव्याहाराच्चाखण्डवाक्यार्थोपदेश इति ॥ ७६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
परमकारणवर्णनं नाम नवमः सर्गः ॥ ९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
परमकारणवर्णनं नाम नवमः सर्गः ॥ ९ ॥
प्। १५१)