००८

अष्टमः सर्गः ८

श्रीराम उवाच ।

कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिध्यति ।
न्यायानुभूत एतस्मिन्न ज्ञेयमवशिष्यते ॥ १ ॥

प्रागुक्ततत्त्वविज्ञानं सच्छास्त्रेभ्यो न चान्यतः ।
सच्छास्त्रेष्वप्ययं ग्रन्थः सद्यः फल इतीर्यते ॥ १ ॥

वक्ष्यामि युक्तित इति यत्प्रतिज्ञातं गुरुणा तत् श्रीरामः पृच्छति -
कयैतदिति । यदिदं दृश्यते राम रद्ब्रह्मैव निरामयमिति यदुक्तमेतत् ।
एतस्मिन्नित्यनेनाप्यस्यैव परामर्शः ॥ १ ॥

प्। १४६)

श्रीवसिष्ठ उवाच ।

बहुकालमियं रूढा मिथ्याज्ञानविषूचिका ।
जगन्नाम्न्यविचाराख्या विना ज्ञानं न शाम्यति ॥ २ ॥

वदाम्याख्यायिका राम या इमा बोधसिद्धये ।
ताश्चेच्छृणोषि तत्साधो मुक्त एवासि बुद्धिमान् ॥ ३ ॥

वदामि वक्ष्यामि । इमास्त्वत्पृष्टयुक्तिप्रधानाः सन्निहिताः ॥ ३ ॥

नो चेदुद्वेगशीलत्वादर्धादुत्थाय गच्छसि ।
तत्तिर्यग्धर्मिणस्तेऽद्य न किञ्चिदपि सेत्स्यति ॥ ४ ॥

नो चेत् न शृणोषि चेत् । अश्रवणे हेतुमाह - उद्वेगेति । तत्तर्हि तिरश्चां
पश्वादीनां धर्मः सच्छास्त्रश्रवणायोग्यता तद्वतः ॥ ४ ॥

योऽयमर्थं प्रार्थयते तदर्थं यतते तथा ।
सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥ ५ ॥

ननु महतामपि दुर्लभमिदं कथं मादृशेन लभ्येतेति
मन्दमतेरनाश्वासमाशङ्क्याह - य इति । निवर्तते अर्धप्रयत्नादिति
शेषः ॥ ५ ॥

साधुसङ्गमसच्छास्त्रपरो भवसि राम चेत् ।
तद्दिनैरेव नो मासैः प्राप्नोषि परमं पदम् ॥ ६ ॥

श्रीराम उवाच ।

आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर ।
किं नाम तत्प्रधानं स्याद्यस्मिञ्ज्ञाते न शोच्यते ॥ ७ ॥

श्रीवसिष्ठ उवाच ।

आत्मज्ञानप्रधानानामिदमेव महामते ।
शास्त्राणां परमं शास्त्रं महारामायणं शुभम् ॥ ८ ॥

इतिहासोत्तमादस्माच्छ्रुताद्बोधः प्रवर्तते ।
सर्वेषामितिहासानामयं सार उदाहृतः ॥ ९ ॥

कुतोऽस्योत्तमत्वं तत्राह - सर्वेषामिति ॥ ९ ॥

श्रुतेऽस्मिन्वाङ्मये यस्माज्जिवन्मुक्तत्वमक्षयम् ।
उदेति स्वयमेवात इदमेवातिपावनम् ॥ १० ॥

वाङ्मये वाक्यसन्दर्भात्मके ग्रन्थे ॥ १० ॥

स्थितमेवास्तमायाति जगद्दृश्यं विचारणात् ।
यथा स्वप्ने परिज्ञाते स्वप्नादावेव भावना ॥ ११ ॥

यथा स्वप्नादौ स्थिते एव स्वप्नोऽयमिति परिज्ञाते स्वप्नसत्यत्वभावना
अस्तमभ्येति तद्वत् ॥ ११ ॥

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
इमं समस्तविज्ञानशास्त्रकोशं विदुर्बुधाः ॥ १२ ॥

अन्यत्र ग्रन्थान्तरे । यद्बोधोपयुक्तयुक्तिजातम् । विज्ञानशास्त्रधनानां
कोशगृहम् ॥ १२ ॥

य इदं शृणुयान्नित्यं तस्योदारचमत्कृतेः ।
बोधस्यापि परं बोधं बुद्धिरेति न संशयः ॥ १३ ॥

बोधस्येतरग्रन्थजन्यबोधस्यापि परमुत्कृष्टं बोधम् । पञ्चम्यर्थे
षष्ठी ॥ १३ ॥

यस्मै नेदं त्वरुचये रोचते दुष्कृतोदयात् ।
विचारयतु यत्किञ्चित्सच्छास्त्रं ज्ञानवाङ्मयम् ॥ १४ ॥

यस्मै एतन्न रोचते सोऽन्यत्सच्छास्त्रं विचारयतु नास्माकं तत्र प्रद्वेष
इत्यर्थः ॥ १४ ॥

जीवन्मुक्तत्वमस्मिंस्तु श्रुते समनुभूयते ।
स्वयमेव यथा पीते नीरोगत्वं वरौषधे ॥ १५ ॥

कस्तर्ह्यस्यातिशये हेतुस्तमाह - जीवन्मुक्तत्वमिति ॥ १५ ॥

श्रूयमाणे हि शास्त्रेऽस्मिञ्छ्रोता वेत्त्येतदात्मना ।
यधावदिदमस्माभिर्ननूक्तं वरशापवत् ॥ १६ ॥

एतज्जीवन्मुक्तत्वमात्मना स्वयमेव वेत्त्यनुभवति । इदमस्माभिरुक्तं वरवत्
शापवद्वा यथावत् यथार्थमेव भवति नान्यथेत्यर्थः ॥ १६ ॥

नश्यति संसृतिदुःखमिदं ते
स्वात्मविचारणया कथयैव ।
नो धनदानतपःश्रुतवेदै-
स्तत्कथनोदितयत्नशतेन ॥ १७ ॥

स्वात्मविचारणात्मिकया प्रकृतग्रन्थकथयैव नश्यति ।
धनैर्दानैस्तपोभिः श्रुतैर्द्वैतशास्त्रश्रवणैः कर्मकाण्डरूपैर्वेदैश्च
द्वैतवेदशास्त्रलक्षणेन कथनेन वाक्यप्रबन्धेन
उदितयागहोमादियत्नशतेन च ते संसृतिदुःखं नो नश्यतीत्यर्थः ॥ १७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
सच्छास्त्रनिरूपणं नामाष्टमः सर्गः ॥ ८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सच्छास्त्रनिरूपणं नामाष्टमः सर्गः ॥ ८ ॥