००७

सप्तमः सर्गः ७

श्रीराम उवाच ।

य एष देवः कथितो यस्मिञ्ज्ञाते विमुच्यते ।
वद क्वासौ स्थितो ब्रह्मन्कथमेनमहं लभे ॥ १ ।

विरिञ्च्यादिजगन्मूलं यो देवः प्राङ्निरूपितः ।
निरस्तनिखिलोपाधेस्तस्य तत्त्वमोहोच्यते ॥ १ ॥

प्रसङ्गजिज्ञासिते साधने परिज्ञाते प्रस्तुतजगत्कारणस्य वास्तवं रूपं
जिज्ञासुः श्रीराम उवाच - य इति । यो विरिञ्च्यादिकारणभूत एष
प्रत्यगात्मभूतो देवः प्राक्कथितः असौ क्व
कस्मिन्नुपाधावनावरणेनाभिव्यक्तः । कीदृशे वा तत्त्वे स्थितः । कथं लभे
इत्यौत्सुक्योक्तिः साधनानां पूर्वमुक्तत्वादन्तरङ्गोपायान्तरप्रश्नो वा ॥ १ ॥

श्रीवसिष्ठ उवाच ।

य एष देवः कथितो नैष दूरेऽवतिष्ठते ।
शरीरे संस्थितो नित्यं चिन्मात्रमिति विश्रुतः ॥ २ ॥

तत्रादौ प्रथमप्रश्नोत्तरमाह - य इति । नैष दूरेऽवतिष्ठत
इत्यौत्सुक्यपरिहारार्थमुक्तिः । शरीरे सामान्याभिव्यक्त्या
तदन्तर्हृदयपुण्डरीके तु विशेषतः सम्यगभिव्यक्तः । स्थित इत्यर्थः ॥ २ ॥

एष सर्वमिदं विश्वं न विश्वं चैष सर्वगः ।
विद्यते ह्येष एवैको न तु विश्वाभिधास्ति दृक् ॥ ३ ॥

तर्हि किं देहपरिच्छिन्न एव सः नेत्याह - एष इति । तर्हि किं
दृश्यविश्वाकार एव नेत्याह - नेति । सर्वाधिष्ठानभावेन
सर्वगतत्वप्रतिपादनाय विश्वात्मत्वोक्तिरिति भावः ॥ ३ ॥

चिन्मात्रमेष शशिभृच्चिन्मात्रं गरुडेश्वरः ।
चिन्मात्रमेव तपनश्चिन्मात्रं कमलोद्भवः ॥ ४ ॥

न केवलं कार्यात्मकं विश्वमेव तद्व्यतिरेकेण नास्ति किन्तु तत्कारणमायापि
सहतद्गुणाभिमानिदेवैरित्याशयेनाह - चिन्मात्रमेष इति । गरुडस्येश्वरो
नियन्ता विष्णुः । तपनस्य त्रिमूर्त्यात्मत्वप्रसिद्धेस्तत्पङ्क्तावुक्तिः ॥ ४ ॥

श्रीराम उवाच ।

बाला अपि वदन्त्येतद्यदि चेतनमात्रकम् ।
जगदित्येव केवात्र नाम स्यादुपदेशता ॥ ५ ॥

चिन्मात्रमित्यत्र कर्तरि क्विबन्तान्मात्रचि चेतनमात्रं विश्वमित्यर्थो लभ्यते ।
तच्च लोके आबालगोपालं प्रसिद्धं पुरुषार्थापर्यवसितं चेति नोपदेशार्हमिति
मन्यमानानामाशयमुद्घाटयन् रामः शङ्कते - बाला अपीति ॥ ५ ॥

प्। १४३)

श्रीवसिष्ठ उवाच ।

चिन्मात्रं चेतनं विश्वमिति यज्ज्ञातवानसि ।
न किञ्चिदेव विज्ञातं भवता भवनाशनम् ॥ ६ ॥

नासौ कर्तरि क्विप् अपितु भावे । तथाच नोक्तदोष इति मन्यमानो वसिष्ठः
प्रागुक्तकल्पं निन्दति - चिन्मात्रमिति । किञ्चिदल्पमपि न विज्ञातम् ।
भ्रान्तेरज्ञानलेशस्याप्यनिवृत्तेरिति भावः ॥ ६ ॥

चेतनं राम संसारो जीव एष पशुः स्मृतः ।
एतस्मादेव निर्यान्ति जरामरणभीतयः ॥ ७ ॥

कुतो न विज्ञातं तत्राह - चेतनमिति । कर्तरि क्विबन्तत्वे चिच्चेतनशब्दौ
तुल्यार्थौ स्याताम् । नन्द्यादिल्युप्रत्ययस्यापि कर्तर्येव
विधानाच्चितिकर्तृतदर्थः [कर्तरितृ इति पाठः] स्यात् । नच नित्यचितेः
कर्तृत्वसम्भव इत्यनित्यमनोवृत्तिप्रतिफलनचित्परिग्रहे
तदाश्रयभूतमन्तःकरणमेवात्मतया गृह्णंस्तदात्मा जीव उक्तः स्यात् । स
च बहिर्मुखतया विषयानेव सारतया पश्यन्पशुः । एतस्मादेव
देहेन्द्रियविषयवासनानुसारात्तत्तद्देहपरिग्रहे जरामरणादयोऽन्तस्था
निर्यान्तीवाविर्भ्वन्तीत्यर्थः ॥ ७ ॥

पशुरज्ञो ह्यमूर्तोऽपि दुःखस्यैवैष भाजनम् ।
चेतनत्वाच्चेतनीयं मनोऽनर्थः स्वयं स्थितः ॥ ८ ॥

ननु मूर्तस्थूलशरीरातिरिक्ततया तज्ज्ञानादेव जरामरणादिप्रत्ययः सिद्धः
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति श्रुतेरित्याशङ्क्याह -
पशुरिति । अमूर्तस्थूलदेहशून्योऽप्यसौ न कृतार्थो यतोऽज्ञः अज्ञानवान्
चेतनीयं यन्मनस्तद्रूपोऽनर्थश्च स्वयं भूत्वा स्थितोऽतो दुःखस्यैव
भाजनम् । अशरीरमित्यादिश्रुतेस्तु स्थूलसूक्ष्मकारणाख्यदेहत्रयरहितं
प्रियाप्रिये न स्पृशत इत्यर्थो न स्थूलदेहमात्ररहितमिति । तथात्वेऽपि स्वप्ने
प्रियाप्रियदर्शनादिति भावः ॥ ८ ॥

चेत्यनिर्मुक्तता या स्यादचेत्योन्मुखताथवा ।
अस्य सा भरितावस्था [भवितावस्था इति पाठः] तां ज्ञात्वा
नानुशोचति ॥ ९ ॥

कीदृशस्य तर्हि तस्य ज्ञानात्कृतकृत्यता तत्राह - चेत्येति ।
चेत्यनिर्मुक्तता मुक्तौ अचेत्योन्मुखता तु समाधौ प्रसिद्धा ॥ ९ ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ १० ॥

तत्र श्रुतिं प्रमाणयति - भिद्यत इति ।
मूलाज्ञाननाशात्तत्कार्यान्तःकरणतादात्म्याध्यासलक्षणो
हृदयग्रन्थिर्भिद्यते नश्यति तन्नाशादेव तन्मूलकसंशयादयोऽपीत्यर्थः
। परं कारणमप्यवरं यस्मात्तथाविधे ॥ १० ॥

तस्य चेत्योन्मुखत्वं तु चेत्यासम्भवनं विना ।
रोद्धुं न शक्यते दृश्यं चेत्यं शाम्यति वै कथम् ॥ ११ ॥

ननु तर्हि चित्तनिरोधलक्षणयोगेनैव चेत्योन्मुखत्वस्य रोद्धुं शक्यत्वात्किं
ज्ञानप्रयासेन तत्राह - तस्येति । चेत्यस्य दृश्यस्यासम्भवनं ज्ञानेन
मूलतो बाधम् । शाम्यति वै कथम् विना ज्ञानमिति शेषः । तथाच विना
ज्ञानं तादृशस्वरूपसमाधिरेव न सिद्ध्यतीत्यर्थः ॥ ११ ॥

अचेत्यचित्स्वरूपं यत्तच्चासम्भवनं विना ।
क्व स्वरूपोन्मुखत्वं हि केवलं चेत्यरोधतः ॥ १२ ॥

एवं मोक्षोऽपि ज्ञानमन्तरेण दुर्लभ इत्याह - अचेत्येति ।
यन्मोक्षाख्यमचेत्यचित्स्वरूपं तच्च असम्भवनं
प्रागुक्तचेत्यासम्भवनं विना क्व । हि यस्मात्समाधौ केवलं
स्वरूपोन्मुखत्वमपि चेत्यरोधतो दृश्यबाधादेव भवति तत्र किं वाच्यं
मोक्षे तदावश्यकत्वमिति भावः ॥ १२ ॥

श्रीराम उवाच ।

यस्मिञ्जीवे हि विज्ञाते न विनश्यति संसृतिः ।
व्योमरूपी पशुस्त्वज्ञः स ब्रह्मन्कुत्र कीदृशः ॥ १३ ॥

यस्मिन्निति । ननु रामस्येदं प्रश्नश्लोकद्वयमप्यसङ्गतं चेतनं राम
संसारो जीव एष पशुः स्मृतः इति जीवस्वरूपस्य तदाधारस्य
मनोमूलकारणस्य च प्रागुक्तत्वेनाद्यश्लोकानुत्थानात् [प्राक्तनत्वेन इति
पाठः] । ब्रह्मस्वरूपस्य च सर्गाद्यश्लोके पृष्ठत्वेन
पुनःप्रश्नानर्हत्वादिति चेत् । एवं तर्हि न यथाश्रुतप्रश्नो रामाभिप्रेतः
किन्त्वाक्षेपः । तथाहि । ननु जीव एव संसार इति व्याहृतं तस्य ब्रह्मप्राप्तौ
ब्रह्मणोऽपि संसारित्वप्रसङ्गात् । तदप्राप्तौ तु
तत्साधनज्ञानशास्त्रादिवैयर्थ्यम् । तस्मादन्यदेव जैवं रूपं वाच्यम् ।
तथा तदाधारोऽपि किं ब्रह्मैव उतान्यत् । आद्ये ज्ञानेन
ब्रह्माध्यस्तसर्वद्वैतेन सह बाधापत्तौ वरघातन्यायापत्तिः । द्वितीये
ब्रह्माद्वैतव्याघात इति मन्यमानः श्रीराम्ः पृच्छति - यस्मिन्निति ।
व्योमेव रूपी कल्पितरूपवान् । कुत्र कस्मिन्नाधारे तिष्ठति कीदृशः किं
संसारकोटावुतात्मकोटावित्यर्थः [उतान्यकोटौ इति पाठः] ॥ १३ ॥

साधुसङ्गमसच्छास्त्रैः [भवितावस्था इति पाठः]
संसारार्णवतारकः ।
दृश्यते परमात्मा यः स ब्रह्मन्वद कीदृशः ॥ १४ ॥

किञ्च यदि जीवः संसारकोटावेव तर्हि तस्य संसारार्णवतारको यः
शास्त्रैरुपदिश्यते स कीदृशः । नहि जलधिमेव जलधेः कश्चित्तारयति ।
तस्माद्व्याहृतं जीवस्य संसारित्ववचनमिति ॥ १४ ॥

श्रीवसिष्ठ उवाच ।

यदेतच्चेतनं जीवो [जीवे विशीर्णे इति पाठः] विशीर्णो जन्मजङ्गले

एतमात्मानमिच्छन्ति ये तेऽज्ञाः पण्डिता अपि ॥ १५ ॥

स्यादेतदेवं यदि जीव एव संसरेज्जीव एव स्वज्ञानान्मुच्येत जीव एव वा तात्त्विक
आत्मा स्यात् । नत्वेवम् । ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं
ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् इति श्रुतौ ब्रह्मण एव स्वाज्ञानात्संसारः
स्वज्ञानान्मुक्तिरिति प्रतिपादनविरोधात् । नान्योऽतोऽस्ति द्रष्टा
इत्यादिचेतनधात्वन्तरप्रतिषेधविरोधाच्च । यदा तु ब्रह्मैव अनेन जीवेनात्मना
इति श्रुतेरिदङ्कारास्पदत्वात्कल्पितत्वाच्चानात्मभूतेन
संसारकोट्यन्तर्भूतेनैव जीवेनात्मतया भ्रान्त्या गृहीतेन
तद्धर्मैर्जीवोऽहमिति मन्यमानः संसरति तदा जीवस्यैव संसारित्वं
पर्यवसन्नमिति तद्बाधेऽपि न वरघातन्यायापातादिदोष इत्यभिप्रेत्य
स्वोक्तमेव द्रढयन् श्रीवसिष्ठ उवाच - यदेतदित्यादिना । जन्मग्रहणं
शरीरसङ्घोपलक्षणं ॥ १५ ॥

प्। १४४)

जीव एव हि संसारश्चेतना दुःखसन्ततिः [सन्ततेः इति पाठः] ।
अस्मिञ्ज्ञाते न विज्ञातं किञ्चिद्भवति कुत्रचित् ॥ १६ ॥

ज्ञायते परमात्मा चेद्राम दुःखस्य सन्ततिः ।
क्षयमेति विषावेशशान्ताविव विषूचिका ॥ १७ ॥

श्रीराम उवाच ।

रूपं कथय मे ब्रह्मन्यथावत्परमात्मनः ।
यस्मिन्दृष्टे मनो मोहान्समग्रान्सन्तरिष्यति ॥ १८ ॥

एवं समाहितो रामः सर्गोपक्रमपृष्टार्थमेव प्रासङ्गिकोक्तिव्यवहितमिति
पुनः स्पष्टं पृच्छति - रूपमिति । कार्यबाहुल्यान्मोहानिति बहुवचनम् ॥
१८ ॥

श्रीवसिष्ठ उवाच ।

देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।
निमिषेणैव [निमेषेणैव इति पाठः] यन्मध्ये तद्रूपं
परमात्मनः ॥ १९ ॥

तत्र लोके निर्विषयज्ञानाप्रसिद्धेर्निर्विषयानावृतापरोक्षचिद्रूपं
[नावृत्त्या इति पाठः] तदित्युक्तेऽप्यनुभवपथानारोहाद्यथा
तत्तमारोहति तथाह - देशादिति । शाखाग्रचन्द्रदर्शने चक्षुर्द्वारा
निःसृतान्तःकरणाभिव्यक्तापरोक्षसंविदः शाखादेशाद्दूरं
चन्द्रदेशं निमिषान्तरमात्रेण प्राप्तायाः
शाखाचन्द्रयोर्युगपद्ग्रहणान्यथानुपपत्त्या शाखाप्रदेशमारभ्य
चन्द्रपर्यन्तमनुस्यूतता अवश्यं वाच्या । अन्तराले विच्छेदे
कारणानुभवयोरभावात् । तत्र तस्याः शाखाचन्द्रप्रदेशयोः सविषयत्वेऽपि
मध्ये यद्वपुः स्वरूपं तदेव निर्विषयापरोक्षचिद्रूपं प्रसिद्धमिति
परमात्मनोऽपि तद्रूपं ज्ञेयमित्यर्थः ॥ १९ ॥

अत्यन्ताभाव एवास्ति संसारस्य यथास्थितेः [जगत्स्थितेः इति
पाठः] ।
यस्मिन्बोधमहाम्भोधौ तद्रूपं परमात्मनः ॥ २० ॥

यथास्थितेः नाशादिविकारमन्तरेणैव स्वस्थाने [स्वाधिष्ठाने इति
पाठः] मिथ्यात्वमापन्नस्येति यावत् । जगत्स्थितेः [निमेषेणैव इति
पाठः] इति पाठेऽपि गच्छति बाधमिति जगदिति व्युत्पत्त्या अयमेवार्थः ॥ २०

द्रष्टृदृश्यक्रमो यत्र स्थितोऽप्यस्तमयं गतः ।
यदनाकाशमाकाशं तद्रूपं परमात्मनः ॥ २१ ॥

तदेव स्पष्टमाह - द्रष्ट्रिति । आकाशबाधेऽप्यपरिच्छिन्नत्वेन
विपुलत्वादाकाशम् ॥ २१ ॥

अशून्यमिव यच्छून्यं यस्मिन्शून्यं जगत्स्थितम् ।
सर्गौघे सति यच्छून्यं तद्रूपं परमात्मनः ॥ २२ ॥

जगत्स्वभावशून्यमपि यत्सर्ववस्तुयाथात्म्यभूतस्वरूपेण
पूर्णत्वादणुमातेणाप्यशून्यमिव शून्यमसदपि जगद्यस्मिन् स्थितं
सद्भावमापन्नमित्यर्थः । सर्गलक्षणा ओघा यस्य तथाविधे अज्ञाने सति
यत्सदप्यनुपयोगाछून्यमिव शून्यम् ॥ २२ ॥

यन्महाचिन्मयमपि बृहत्पाषाणवत्स्थितम् ।
जडं वा जडमेवान्तस्तद्रूपं परमात्मनः ॥ २३ ॥

महाचित्प्रचुरत्वादस्थूलादिधर्मकमप्यज्ञदृशा
पाषाणवद्बृहत्स्थूलमन्तरजडमेव जडं वा । इवार्थे वाशब्दः । जडमिव
स्थितमित्यर्थः ॥ २३ ॥

सबाह्याभ्यन्तरं येन सर्वं सम्प्राप्य सङ्गमम् ।
स्वरूपसत्तामाप्नोति तद्रूपं परमात्मनः ॥ २४ ॥

बाह्यमधिभूताधिदैवमाभ्यन्तरमध्यात्मं च यत्प्रसिद्धं तत्सहितं
सर्वं जगद्येन सङ्गमाध्यासिकतादात्म्यं सम्प्राप्य सत्सदिति
व्यवहारयोग्यतालक्षणां स्वरूपसत्तामाप्नोतीत्यर्थः ॥ २४ ॥

प्रकाशस्य यथालोकः शून्यत्वं नभसो यथा ।
तथेदं संस्थितं यत्र तद्रूपं परमात्मनः ॥ २५ ॥

प्रकाशादेरालोकादि यथा आत्मतया संस्थितं तथेति लोकदृष्ट्या
दृष्टान्तोक्तिः । वस्तुतस्त्वान्त्यात्कार्यादनुगतं ब्रह्मैव
सर्वभावानामात्मा नत्वान्तरालिकाः प्रकाशादय इति ॥ २५ ॥

श्रीराम उवाच ।

सद्रूपं परमात्मेति कथं नाम हि बुध्यते ।
इयतोऽस्य जगन्नाम्नो दृश्यस्यासम्भवः कथम् ॥ २६ ॥

यत् खलु प्रमाणैर्यथावगम्यते तत्तथैव सत् न रूपान्तरेण । ब्रह्म च
नावगम्यते तत्कथं सद्रूपं निश्चेतुं शक्यम् जगच्च तथावगम्यमानं
कथमसदिति रामः शङ्कते - सद्रूपमिति । इयतः इदम्प्रमाणस्य
विपुलस्य बहुप्रमाणसिद्धस्य चेत्यर्थः ॥ २६ ॥

श्रीवसिष्ठ उवाच ।

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अत्यन्ताभावसम्बोधे यदि रूढिरलं भवेत् ॥ २७ ॥

ब्रह्म प्रमाणैर्नावगम्यत इत्यसिद्धम् । असति प्रतिबन्धके
महावाक्यैस्तदवगमात् । प्रतिबन्धनिरासस्तु
तदध्यस्तद्वैतमिथ्यात्वबोधेनैव । नहि सर्पादिकमप्रत्याख्याय रज्जुतत्त्वं
बोधयितुं शक्यमित्यभिप्रेत्य श्रीवसिष्ठ उवाच - भ्रमस्येत्यादिना ॥ २७ ॥

तज्ज्ञातं ब्रह्मणो रूपं भवेन्नान्येन कर्मणा ।
दृश्यात्यन्ताभावतस्तु ऋते नान्या शुभा गतिः ॥ २८ ॥

अत्यन्ताभावसम्पत्तौ दृश्यस्यास्य यथा स्थितेः ।
शिष्यते परमार्थोऽसौ बुध्यते जायते ततः ॥ २९ ॥

यः शिष्यते स बुध्यते यो बुध्यते स ततो बोधात् बोद्धुरात्मैव जायत इत्यर्थः
॥ २९ ॥

न विदः प्रतिबिम्बोऽस्ति दृश्याभावादृते क्वचित् ।
क्वचिन्नाप्रतिबिम्बेन किलादर्शोऽवतिष्ठते ॥ ३० ॥

उक्तेऽर्थे उपपत्तिमाह - नेति । विदो ब्रह्मणः प्रतिबिम्बो नास्ति बुद्धाविति
शेषः । बुद्धौ प्रतिबिम्बितं हि ब्रह्म स्वावरकमज्ञानं दहत्तत्त्वतः
प्रतीयेत । न चाध्यस्तसत्यताबुद्धौ ब्रह्म प्रतिबिम्बति ।
विरोधिद्वैताक्रान्तबुद्धावद्वैतप्रतिबिम्बानुदयादित्यर्थः । ननु
द्वैतप्रतिबिम्बशून्यतादशायां ब्रह्म प्रतिबिम्बतां तत्राह - क्वचिदिति ।
यथा आदर्शः क्वचिदपि किञ्चित्प्रतिबिम्बग्रहणं विना नावतिष्ठते
तद्वद्बुद्धिरपि द्वैतप्रतिबिम्बग्रहणं विनेत्यर्थः ॥ ३० ॥

प्। १४५)

जगन्नाम्नोऽस्य दृश्यस्य स्वसत्तासम्भवं विना ।
बुध्यते परमं तत्त्वं न कदाचन केनचित् ॥ ३१ ॥

अनयोपपत्त्यापि प्रागुक्तं सिद्धमित्याह - जगदिति । स्वसत्ताऽसम्भवं
मिथ्यात्वम् । तन्निश्चयमिति यावत् ॥ ३१ ॥

श्रीराम उवाच ।

इयतो दृश्यजातस्य ब्रह्माण्डस्य जगत्स्थितेः ।
मुने कथमसत्तास्ति क्व मेरुः सर्षपोदरे ॥ ३२ ॥

रामः किञ्चिदधिकं विशेषमभिप्रेत्य द्वितीयं प्रश्नमुत्थापयति - इयत
इति । भवेदेवं यदि ब्रह्मणि जगदध्यस्तं स्यात्तदेव त्वसम्भवि ।
चिन्मात्ररूपत्वात्परमसूक्ष्मे ब्रह्मणि इयतो
ब्रह्माण्डविस्तृतस्थूलप्रपञ्चस्याध्यासाघटनात्तदेतदाह - क्व
मेरुरिति ॥ ३२ ॥

श्रीवसिष्ठ उवाच ।

दिनानि कतिचिद्राम यदि तिष्ठस्यखिन्नधीः ।
साधुसङ्गमसच्छास्त्रपरमस्तदहं क्षणात् ॥ ३३ ॥

भवेदेवं यदि जगति स्थूलता विमर्शसहा स्यान्नतु सा तथा । स्थूलताप्रत्यय
एव यदा तवास्माभिः कालेनोपपत्तिभिः शिथिलीकरिष्यते तदा
त्वमस्मदुक्तमवधारयिष्यसीत्यभिप्रेत्य श्रीवसिष्ठ उवाच -
दिनानीत्यादिना । अखिन्नधीरनुद्विग्नचित्तः ॥ ३३ ॥

प्रमार्जयामि ते दृश्यं बोधे मृगजलं यथा ।
दृश्याभावे द्रष्टृता च शाम्येद्बोधोऽवशिष्यते ॥ ३४ ॥

द्रष्टृत्वं सति दृश्येऽस्मिन्दृश्यत्वं सत्यथेक्षके ।
एकत्वं सति हि द्वित्वे द्वित्वं चैकत्वयोजने ॥ ३५ ॥

दृश्यद्वैताभावे न केवलं द्रष्टुरेवाभावः किन्तु
द्वित्वैकत्वयोरपीत्युपपादयति - द्रष्टृत्वमिति । सति ईक्षके द्रष्टरीत्यर्थः ।
एकत्वं हि द्वित्वादावन्यत्र प्रसिद्धे सति तद्व्यावृत्तये कल्प्यते न
व्यावर्त्याप्रसिद्धावित्यर्थः ॥ ३५ ॥

एकाभावे द्वयोरेव सिद्धिर्भवति नात्र हि ।
द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सदवशिष्यते ॥ ३६ ॥

इत्थं द्वैतैक्यवर्जितं सन्मात्रं परिशिष्यत इत्याह - द्वित्वैक्येति ॥ ३६ ॥

अहन्तादिजगद्दृश्यं सर्वं ते मार्जयाम्यहम् ।
अत्यन्ताभावसंवित्त्या मनोमुकुरतो मलम् ॥ ३७ ॥

प्रकारान्तरेणापि दृश्यमार्जनं प्रतिजानीते - अहन्तादीति ॥ ३७ ॥

नासतो विद्यते भावो नाभावो विद्यते सतः ।
यत्तु नास्ति स्वभावेन कः क्लेशस्तस्य मार्जने ॥ ३८ ॥

असतो हि सत्ताविकारो विवर्तः स्वरूपं वोच्येत न त्रयमपि । खपुष्पादौ
त्रयस्याप्यदर्शनादेवं सतोऽप्यसत्त्वं
स्वरूपव्याघातादेवासम्भवीत्यनिर्वचनीयतासिद्धौ न तस्य मार्जने क्लेश
इत्यर्थः ॥ ३८ ॥

जगदादावनुत्पन्नं यच्चेदं दृश्यते ततम् ।
तत्स्वात्मन्येव विमले ब्रह्मचित्त्वात्स्वबृंहितम् ॥ ३९ ॥

एवमुत्पत्तिरपि सती व्यर्था असतस्त्वसम्भविनीति हेम्नि कल्पितं कटकत्वं
हेमदृष्ट्येव सुबाधमित्याह - जगदिति द्वाभ्याम् ॥ ३९ ॥

जगन्नाम्ना न चोत्पन्नं न चास्ति न च दृश्यते ।
हेम्नीव कटकादित्वं किमेतन्मार्जने श्रमः ॥ ४० ॥

तथैतद्विस्तरेणाहं वक्ष्यामि बहुयुक्तिभिः ।
अबाधितं यथा तत्त्वं स्वयमेवानुभूयते ॥ ४१ ॥

वक्ष्यमाणप्रकारान्तरोक्तीरपि प्रसङ्गात्प्रतिजानीते - तथेति ॥ ४१ ॥

आदावेव हि नोत्पन्नं यत्तस्येहास्तिता कुतः ।
कुतो मरौ जलसरिद्द्वितीयेन्दौ कुतो ग्रहः ॥ ४२ ॥

अनुत्पन्नस्य सत्तेव [सत्त्वेन इति पाठः] ग्रहणमप्यसदेवेत्याह -
आदाविति ॥ ४२ ॥

यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ।
यथा नास्ति नभोयक्षस्तथा [नभोवृक्षः इति पाठः] नास्ति
जगद्भ्रमः ॥ ४३ ॥

एवञ्च भ्रान्तितद्विषययोरुभयोरप्यसत्ता सिद्धेति सदृष्टान्तमाह -
यथेति ॥ ४३ ॥

यदिदं दृश्यते राम रद्ब्रह्मैव निरामयम् ।
एतत्पुरस्ताद्वक्ष्यामि युक्तितो न गिरैव च ॥ ४४ ॥

किं तर्हि दर्शनाभासेषु परमार्थतोऽस्ति तदाह - यदिदमिति । युक्तित
आख्यानाद्युपपत्तितः ॥ ४४ ॥

यन्नाम युक्तिभिरिह प्रवदन्ति तज्ज्ञास्तत्रावहेलनमयुक्तमुदारबुद्धे ।
यो युक्तियुक्तमवमत्य विमूढबुद्धिः
कष्टाग्रहो भवति तं विदुरज्ञमेव ॥ ४५ ॥

अनुभवपथानारोहे किं युक्तिसहस्रेणापि
लक्ष्यापराद्धेषोर्धानुष्कस्येवेत्यवहेलनामाशङ्क्याह - यदिति ।
तज्ज्ञास्तत्त्वज्ञाः । अवमत्य अनादृत्य । कष्टे निर्युक्तिके आग्रहोऽभिनिवेशो यस्य
तथाविधो यो भवति तमज्ञमेव विदुः । प्राज्ञा इति शेषः ॥ ४५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
जगदादिदृश्यासत्ताप्रतिज्ञा नाम सप्तमः सर्गः ॥ ७ ॥

इति श्रीवासिष्टमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जगदादिदृश्यासत्ताप्रतिज्ञा नाम सप्तमः सर्गः ॥ ७ ॥