००६

षष्ठः सर्गः ६

श्रीवसिष्ठ उवाच ।

अस्य देवाधिदेवस्य परस्य परमात्मनः ।
ज्ञानादेव परा सिद्धिर्न त्वनुष्ठानदुःखतः ॥ १ ॥

इत्थं जगन्मूलकारणं देवस्वरूपमुपवर्ण्य
तत्प्राप्त्युपायज्ञानसाधनान्युपदिदिक्षुः श्रीवसिष्ठ उवाच - अस्येत्यादि ।
देवस्य हिरण्यगर्भस्यादिकारणत्वात्तदधिदेवस्य
द्योतकत्वाद्देवानामिन्द्रियमनसामपि साक्षितया
प्रकाशकत्वात्तेषामधिदेवस्येति वा ॥ १ ॥

अत्र ज्ञानमनुष्ठानं नत्वन्यदुपयुज्यते ।
मृगतृष्णाजलभ्रान्तिशान्तौ चेदं निरूपितम् ॥ २ ॥

अनुष्ठानमिव वक्ष्यमाणप्रयत्नसम्पाद्यत्वाज्ज्ञानमपि
गौण्यानुष्ठानमुच्यते । कर्मकोटिभिरपि दुर्भेद्यस्य ज्ञानमात्रेण
निवृत्तावनुरूपं दृष्टान्तमाह - मृगतृष्णेति । निरूपितं दृष्टम्
॥ २ ॥

नह्येष दूरे नाभ्याशे नालभ्यो विषमे न च ।
स्वानन्दाभासरूपोऽसौ स्वदेहादेव लभ्यते ॥ ३ ॥

नातिदूरे नातिसन्निहिते क्रियामन्तरेणालभ्ये विषमादिस्थे च फले क्रिया सफला
स्यादात्मा तु न तथेति तस्य न क्रियालभ्यतेत्याह - नहीति ।
विस्मृतकण्ठचामीकरवज्ज्ञानलभ्यता त्वस्य सुलभेत्याह - स्वानन्देति ॥
३ ॥

किञ्चिन्नोपकरोत्यत्र तपोदानव्रतादिकम् ।
स्वभावमात्रे विश्रान्तिमृते नात्रास्ति साधनम् ॥ ४ ॥

अत्रास्यां प्रागुक्तदेवप्राप्तौ ॥ ४ ॥

साधुसङ्गमसच्छास्त्रपरतैवात्र कारणम् ।
साधनं बाधनं मोहजालस्य यदकृत्रिमम् ॥ ५ ॥

अत्र तत्प्राप्तिसाधने ज्ञानेऽपि कुतः सर्वथा कर्मनिरपेक्षता तत्राह -
साधनमिति । यद्यतो मोहजालस्य बाधनमकृत्रिमं नित्यसिद्धं ब्रह्मैव
चरमसाक्षात्कारवृत्त्यारूढं सद्बाधनं भादे कारणं नान्यदित्यर्थः
॥ ५ ॥

अयं सदेव इत्येव सम्परिज्ञानमात्रतः ।
जन्तोर्न जायते दुःखं जीवन्मुक्तत्वमेति च ॥ ६ ॥

दुःखनिवृत्तौ जीवन्मुक्तौ वा तर्हि साधनान्तरं स्यात्तत्राह - अयमिति ॥ ६

श्रीराम उवाच ।

सम्परिज्ञातमात्रेण किलानेनात्मनात्मना [मात्मनः इति पाठः]

पुनर्दोषा न बाधन्ते मरणाद्याः कदाचन [कथञ्चन इति
पाठः] ॥ ७ ॥

तमेतं वेदानुवचनेन इति प्रत्यक्षं यज्ञदानतपसां
ज्ञानसाधनत्वश्रवणात्किञ्चिन्नोपकरोतीत्याद्युक्तिः साधारणतप आदिविषया
तीव्रतरतप आदिविधित्सयेति मन्यमानः श्रीराम उवाच - सम्परीति ॥ ७ ॥

देवदेवो महानेष कुतो दूरादवाप्यते ।
तपसा केन तीव्रेण क्लेशेन कियताथवा ॥ ८ ॥

अदूराच्छीघ्रमवाप्यते ज्ञानेन प्राप्यते । शीघ्रं तज्ज्ञानं केनोपायेन
सिद्ध्यतीत्यर्थः ॥ ८ ॥

श्रीवसिष्ठ उवाच ।

स्वपौरुषप्रयत्नेन विवेकेन विकासिना ।
स देवो ज्ञायते राम न तपःस्नानकर्मभिः ॥ ९ ॥

विविदिषार्थं विहितानां निष्कामकर्मणां जन्मान्तरानुष्ठितसाधारणानां
विविदिषोत्पत्तावेवोपक्षयात्सत्यामुत्कटविविदिषायां श्रवणादिप्रयत्न
एवोपयुज्यते न तप आदीति मन्यमानः श्रीवसिष्ठ उवाच -
स्वपौरुषेत्यादिना ॥ ९ ॥

रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् ।
विना राम तपोदानं क्लेश एव न वास्तवम् ॥ १० ॥

न वास्तवं साधनमिति शेषः ॥ १० ॥

रागाद्युपहृते [द्युपगते इति पाठः] चित्ते वञ्चयित्वा परं
धनम् ।
यदर्ज्यते तस्य दानाद्यस्यार्थास्तस्य तत्फलम् ॥ ११ ॥

तत्कुतस्तत्राह - रागादीति । सति रागादौ धनार्जने
परवञ्चनाद्यवश्यम्भावाच्चित्तशुद्धेरेव दौर्लभ्याद्दानादेः काम्यं
फलमपि दुर्लभं दूरे ततो ज्ञानमोक्ष [मोक्षप्रत्या इति पाठः]
प्रत्याशेत्याशयेनाह - रागादीति द्वाभ्याम् ॥ ११ ॥

प्। १४२)

रागाद्युपहते चित्ते व्रतादि क्रियते च यत् ।
तद्दम्भः प्रोच्यते तस्य फलमस्ति मनाङ्ग च ॥ १२ ॥

तस्मात्पुरुषयत्नेन मुख्यमौषधमाहरेत् ।
सच्छास्त्रसज्जनासङ्गौ संसृतिव्याधिनाशनौ ॥ १३ ॥

मुख्यमौषधमेवादौ द्विधा दर्शयति - सच्छास्त्रेति ॥ १३ ॥

अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः ।
सर्वदुःखक्षयप्राप्तौ न काचिदुपपद्यते ॥ १४ ॥

इतरा गतिरुपायान्तरम् ॥ १४ ॥

शृणु तत्पौरुषं कीदृगात्मज्ञानस्य लब्धये ।
येन शाम्यत्यशेषेण रागद्वेषविषूचिका ॥ १५ ॥

यथासम्भवया वृत्त्या लोकशास्त्राविरुद्धया ।
सन्तोषसन्तुष्टमना भोगगन्धं परित्यजेत् ॥ १६ ॥

वृत्त्या जीवनसाधनसम्पत्त्या । भोगगन्धं भोगवासनाम् ।
तदभिनिवेशमिति यावत् ॥ १६ ॥

यथासम्भवमुद्योगादनुद्विग्नतया स्वया ।
साधुसङ्गमसच्छास्त्रपरतां प्रथमं श्रयेत् ॥ १७ ॥

अनुद्विग्नतया अशक्यमिदमिति निर्वेद उद्विग्नता तद्वर्जनेन । स्वया आत्मीयया ।
हितयेति यावत् ॥ १७ ॥

यथाप्राप्तार्थसन्तुष्टो यो गर्हितमुपेक्षते ।
साधुसङ्गमसच्छास्त्रपरः शीघ्रं स मुच्यते ॥ १८ ॥

गर्हितं शास्त्रशिष्टेषु निन्दितम् ॥ १८ ॥

विचारेण परिज्ञातस्वभावस्य महामतेः ।
अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥ १९ ॥

परिज्ञातः स्वभाव आत्मतत्त्वं येन तस्य ॥ १९ ॥

देशे यं सुजनप्राया लोकाः साधुं प्रचक्षते ।
स विशिष्टः स साधुः स्यात्तं प्रयत्नेन संश्रयेत् ॥ २० ॥

साधुं लक्षयति - देश इति । सुजनाः
श्रुतिस्मृत्याचारनिष्ठास्तत्प्रायास्तत्प्रचुरा लोका जनां यं प्रचक्षते स
चेद्विशिष्टैर्ज्ञानवैराग्यादिगुणैः सहितः स्यात्तर्हि स साधुः स्यादित्यर्थः ॥
२० ॥

अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् ।
शास्त्रं सच्छास्त्रमित्याहुर्मुच्यते तद्विचारणात् ॥ २१ ॥

आत्मानमधिकृत्य प्रवृत्ता विद्या ज्ञानमध्यात्मविद्या
तदुत्पत्त्यनुकूलविचारात्मककथाया आश्रयं
शास्त्रमुपनिषत्सूत्रभाष्यैतद्ग्रन्थादि ॥ २१ ॥

सच्छास्त्रसत्सङ्गमजैर्विवेकै-
स्तथा विनश्यन्ति बलादविद्याः ।
यथा जलानां कतकानुषङ्गा-
द्यथा जनानां मतयोऽपि [मतयश्च इति पाठः] योगात् ॥ २२ ॥

ननु सत्स्वनेकेषूपायेषु कुतः साधुसङ्गमसच्छास्त्रे एव प्रशयेते तत्राह

  • सच्छास्त्रेति । अविद्या मोहाः विद्याविरोधिनो रागादयश्च । जलानां पङ्का
    इति शेषः । मतयो बाह्यमनोवृत्तयो योगाभ्यासाद्विनश्यन्ति ॥ २२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे
मुमुक्षुप्रयत्नोपदेशो नाम षष्ठः सर्गः ॥ ६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
मुमुक्षुप्रयत्नोपदेशो नाम षष्ठः सर्गः ॥ ६ ॥