००५

पञ्चमः सर्गः ५

श्रीराम उवाच ।

भगवन्मुनिशार्दूल किमिवेह मनोभ्रमे ।
विद्यते कथमुत्पन्नं मनो मायामयं कुतः ॥ १ ॥

विश्वस्य मूलं हि मनस्तस्य मूलमिहोच्यते ।
तदेव मनसस्तत्त्वं विश्वस्येति च वर्ण्यते ॥ १ ॥

एवं मनोमिथ्यात्ववर्णनेन प्रकरणार्थे कॢप्ते तदधिष्ठानतत्त्वं
तदारोपप्रकारं तस्य मिथ्यात्वे कारणं च विस्तरेण जिज्ञासमानः श्रीराम
उवाच - भगवन्निति । किं विद्यते । मनो भ्रमे परमार्थभूतं मूलं
किमित्यर्थः ॥ १ ॥

उत्पत्तिमादाविति मे समासेन वद प्रभो ।
प्रवक्ष्यसि ततः शिष्टं वक्तव्यं वदतां वर ॥ २ ॥

सर्वजगदुत्पत्तिमूलमपहाय मनोमूलमात्रप्रश्ने बीजमाह - आदाविति ।
आद्यस्य मूलपरिज्ञाने नैव सङ्क्षेपतः सर्वमूलपरिज्ञानोपपत्तेरित्याशयः
॥ २ ॥

प्। १४०)

श्रीवसिष्ठ उवाच ।

महाप्रलयसम्पत्तावसतां समुपागते ।
अशेषदृश्यसर्गादौ शान्तमेवावशिष्यते ॥ ३ ॥

तत्राद्यप्रश्नोत्तरं मुख्यत्वाद्विस्तरेणासर्गसमाप्तेर्वसिष्ठ उवाच -
महाप्रलयेति । अर्थाज्जगति । असत्तां सूक्ष्मीभावादर्थक्रियाऽसमर्थताम् ।
भाविनोऽशेषदृश्यसर्गस्य आदौ । शान्तं निर्विक्षेपम् ॥ ३ ॥

आस्तेऽनस्तमितो भास्वानजो देवो निरामयः ।
सर्वदा सर्वकृत्सर्वः परमात्मा महेश्वरः ॥ ४ ॥

सर्वकृत्सर्वक्रियाशक्तिसम्पन्नः ॥ ४ ॥

यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते ।
यस्य चात्मादिकाः सञ्ज्ञाः कल्पिता न स्वभावजाः ॥ ५ ॥

मुक्तैर्जीवन्मुक्तैरवगम्यते प्रत्यक्षमनुभूयते । स्वो भावः अनारोपितरूपं
तज्जा न किन्त्वारोपितधर्मजाः ॥ ५ ॥

यः पुमान्साङ्ख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् ।
विज्ञानमात्रं विज्ञानविदामेकान्तनिर्मलम् ॥ ६ ॥

सर्ववादिनामपि स एव तत्तद्बुद्धिकल्पितविशेषैः सिद्धान्तविषय इत्यविवादः
सर्वाधिष्ठाने तस्मिन्नित्याह - य इति । विज्ञानमात्रं
क्षणिकविज्ञानमात्रम् ॥ ६ ॥

यः शून्यवादिनां शून्यो भासको योऽर्कतेजसाम् ।
वक्ता मन्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव सः ॥ ७ ॥

सर्वेषां प्रत्यगात्मापि स एवेत्याह - वक्तेति । ऋतं सत्यम् ॥ ७ ॥

सन्नप्यसद्यो जगति यो देहस्थोऽपि दूरगः ।
चित्प्रकाशो ह्ययं यस्मादालोक इव भास्वतः ॥ ८ ॥

असत्त्वापादकाविद्यावृतत्वात्पामरदृशा असत् । अत एव दूरगः ॥ ८ ॥

यस्माद्विष्ण्वादयो देवाः सूर्यादिव मरीचयः ।
यस्माज्जगन्त्यनन्तानि बुद्बुदा जलधेरिव ॥ ९ ॥

देवाः प्रकाशप्राधान्यान्मरीचय इव । अचेतनत्वात् जगन्ति तु बुद्बुदानीव
जायन्त इति शेषः ॥ ९ ॥

यं यान्ति दृश्यवृन्दानि पयांसीव महार्णवम् ।
य आत्मानं पदार्थं च प्रकाशयति दीपवत् ॥ १० ॥

यान्ति प्रलयेनापियन्ति । तस्यैव स्वप्रकाशत्वात्स्वपरप्रथानिर्वाहकत्वमाह ##-

य आकाशे शरीरे च दृषत्स्वप्सु लतासु च ।
पांसुष्वद्रिषु वातेषु पातालेषु च संस्थितः ॥ ११ ॥

तस्यैव सर्वान्तरत्वेन सर्वगतत्वमाह - य इति ॥ ११ ॥

यः प्लावयति संरब्धं पुर्यष्टकमितस्ततः ।
येन मूकीकृता मूढाः शिला ध्यानमिवास्थिताः ॥ १२ ॥

संरब्धं स्वस्वव्यापारेषूद्युक्तं कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि
भूतसूक्ष्माणि प्राणा अविद्याकामकर्मान्तःकरणमिति
पुर्यष्टकमितस्ततोऽन्तर्बहिश्च स्वचिद्व्याप्त्या प्लावयति । चेतनानां चेतनता
यत्प्रयुक्तेत्यर्थः । एवमचेतनानामपि वैचित्र्ये स एव हेतुरित्याह -
येनेत्यादिना ॥ १२ ॥

व्योम येन कृतं शून्यं शैला येन घनीकृताः ।
आपो द्रुताः कृता येन दीपो यस्य वशो रविः ॥ १३ ॥

यस्य वशः सन् रविर्दीपो दीप्तिस्वभावः । प्रकाशक इति यावत् । येन सूर्यस्तपति
तेजसेद्धः इति श्रुतेः ॥ १३ ॥

प्रसरन्ति यतश्चित्राः संसारासारवृष्टयः [दृष्टय इति
पाठः] ।
अक्षयामृतसम्पूर्णादम्भोदादिव वृष्टयः ॥ १४ ॥

संसारलक्षणा असारदृष्टय एव आसारवृष्टयः । अक्षयेण नित्येन बहलेन
चामृतेन सुखेन जलेन च सम्पूर्णादिति यथायोगमुभयविशेषणम् ॥ १४ ॥

आविर्भावतिरोभावमयास्त्रिभुवनोर्मयः ।
स्फुरन्त्यतितते यस्मिन्मराविव मरीचयः ॥ १५ ॥

प्राचुर्ये मयट् ।अतिततेऽत्यन्तविस्तीर्णे । मरीचयस्तदुदकानि ॥ १५ ॥

नाशरूपो विनाशात्मा योऽन्तःस्थः सर्वजन्तुषु ।
गुप्तो योऽप्यतिरिक्तोऽपि सर्वभावेषु संस्थितः ॥ १६ ॥

प्रपञ्चात्मना नाशरूपः । स्वरूपेण त्वविनाशात्मा ।
सूक्ष्मतमत्वादन्तर्गुप्तः । महत्तमत्वात्सर्वतोऽप्यतिरिक्तः ।
निष्प्रपञ्चतयावशिष्टः । तथाच श्रुतिः पादोऽस्य सर्वा भूतानि
त्रिपादस्यामृतं दिवि इति ॥ १६ ॥

प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला ।
चित्तमूलेन्द्रियदला येन नृत्यति वायुना ॥ १७ ॥

प्रकृतिर्माया सैव व्रततिर्लता । व्योम्नि शुद्धचिति । येनेश्वरेण ॥ १७ ॥

यश्चिन्मणिः प्रकचति प्रतिदेहसमुद्गके ।
यस्मिन्निन्दौ स्फुरन्त्येता जगज्जालमरीचयः ॥ १८ ॥

समुद्गके सम्पुटके ॥ १८ ॥

प्रशान्ते चिद्घने यस्मिन्फुरन्त्यमृतवर्षिणि ।
धाराजलानि भूतानि सृष्टयस्तडितः स्फुटाः ॥ १९ ॥

भूतानि जाड्यप्राधान्याद्धाराजलानि । स्फुटाश्चित्प्रकाशप्रधानाः
सृष्टयस्तडितः ॥ १९ ॥

चमत्कुर्वन्ति वस्तूनि यदालोकतया मिथः ।
असज्जातमसद्येन येन सत्सत्त्वमागतम् ॥ २० ॥

चमत्कुर्वन्ति विचित्रकार्याणि कुर्वते ॥ २० ॥

चलतीदमनिच्छस्य कायो यो यस्य सन्निधौ ।
जडं परमरक्तस्य शान्तमात्मनि तिष्ठतः ॥ २१ ॥

यः प्रसिद्धो देवनरतिर्यगादिकायः अरक्तस्यासङ्गस्यानिच्छतश्च यस्य
सन्निधौ इदं दृश्यभूतमत एव परमत्यन्तं जडमपि चलति ।
पदसंस्कारपक्षाश्रयणात्सामान्ये नपुंसकम् ॥ २१ ॥

नियतिर्देशकालौ च चलनं स्पन्दनं क्रिया ।
इति येन गताः सत्तां सर्वसत्तातिगामिना ॥ २२ ॥

सर्गकालेऽवश्यं सृष्ट्या भाव्यं प्रलयकाले च प्रलयेनेत्यादिनियमो
नियतिस्तदवच्छेदकौ देशकालौ । तत्राप्यौ बीजाद्यन्तर्गतकार्यस्य
बीजोच्छूनतया चलनम् । बीजपुटं भित्त्वाङ्कुरादिनिर्गमनेन स्पन्दनम् । ततः
काण्डपत्रशाखादिक्रमेण फलावसानो व्यापारः क्रिया । इत्येवं क्रमेण
सर्वभावा येन सत्तां व्यवहारार्थक्रियासमर्थतां गताः ।
सर्वसत्तातिगामिनेति तस्य जगद्विलक्षणपारमार्थिकसत्तोक्ता ॥ २२ ॥

प्। १४१)

शुद्धसंविन्मयत्वाद्यः खं भवेद्व्योमचिन्तया ।
पदार्थचिन्तयार्थत्वमिव तिष्ठत्यधिष्ठितः ॥ २३ ॥

अथवा स एव मायिकव्योमादिभावचिन्तया व्योमादिभावेन सम्पन्नो न
ततोऽन्यद्व्योमादिशब्दभागस्तीत्याह - शुद्धेति । तथाच श्रुतिः सर्वाणि
रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते इति ।
चमत्कुर्वन्तीत्याद्येतदन्तेन श्लोकचतुष्टयेन
जगदारोपप्रकारप्रश्नस्याप्युत्तरमुक्तम् ॥ २३ ॥

कुर्वन्नपीह जगतां महतामनन्त-
वृन्दं न किञ्चन करोति न काश्चनापि ।
स्वात्मन्यनस्तमयसंविदि निर्विकारे
त्यक्तोदयस्थितिमति स्थित एक एव ॥ २४ ॥

सम्प्रति तस्य मिथ्यात्वे कारणमाह - कुर्वन्नपीति । निर्विकारे अत एव
त्यक्तस्वजातीयाद्युदयादिमति यतोऽयं स्थितस्ततोऽयं महतां जगतां
ब्रह्माण्डानां वृन्दं तत्र विचित्रलीलाश्च कुर्वन्नपि न किञ्चन कार्यं न
काश्चन क्रियाः करोतीति निर्विकारोपादानकत्वमेव कार्यमिथ्यात्वे हेतुरित्यर्थः
॥ २४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
मूलकारणदेवस्वरूपवर्णनं नाम पञ्चमः सर्गः ॥ ५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
मूलकारणदेवस्वरूपवर्णनं नाम पञ्चमः सर्गः ॥ ५ ॥