चतुर्थः सर्गः ४
श्रीवाल्मीकिरुवाच ।
कथयत्येवमुद्दामवचने मुनिनायके ।
श्रोतुमेकरसे जाते जने मौन्मुपस्थिते ॥ १ ॥
श्रुत्वोपदेशं प्रथममुत्थानादिनिशाक्रमः ।
प्रातरागमनं चित्रस्वभावश्चात्र [चित्तस्वभावश्च इति पाठः]
वर्ण्यते ॥ १ ॥
एकरसे एकाग्रे ॥ १ ॥
शान्तेषु किङ्किणीजालरवेषु स्पन्दनं विना ।
पञ्जरान्तरहारीतशुकेष्वप्यस्तकेलिषु ॥ २ ॥
एकरसतामेव लिङ्गैर्दर्शयति - शान्तेष्वित्यादिना । हारीताः पक्षिविशेषाः ॥
२ ॥
सुविस्मृतविलासासु स्थितासु ललनास्वपि ।
चितभित्ताविव न्यस्ते समस्ते राजसद्मनि ॥ ३ ॥
राजसद्मनि लक्षणया राजसद्मस्थप्राणिनिकाये चित्रभित्तौ न्यस्ते चित्र इव स्थिते
इति विपरिणामेनानुषङ्गः ॥ ३ ॥
मुहूर्तशेषमभवद्दिवसं मधुरातपम् ।
व्यवहारा रविकरैः सह तानवमाययुः ॥ ४ ॥
तानवमल्पताम् ॥ ४ ॥
ववुरुत्फुल्लकमलप्रकरामोदमांसलाः ।
वायवो मधुरस्पन्दाः श्रवणार्थमिवागताः ॥ ५ ॥
आमोदेन मांसलाः पुष्टाः । मधुरो मन्दत्वात्सुखकरः स्पन्दो येषाम् ।
सर्वत्र विशेषणानि साधारणानि । उपमानमुत्प्रेक्षा वा ॥ ५ ॥
श्रुतं चिन्तयितुं भानुरिवाहोरचनाभ्रमम् ।
तत्याजैकान्तमगमच्छून्यमस्तगिरेस्तटम् ॥ ६ ॥
भानुः श्रुतं श्रवणावधृतमर्थं चिन्तयितुं मननेन
दृढीकर्तुमिवेत्युत्प्रेक्षा । शून्यं जनशून्यम् ॥ ६ ॥
उत्तस्थुर्मिहिकारम्भसमता वनभूमिषु ।
विज्ञानश्रवणादन्तःशीतलाः शान्तता इव ॥ ७ ॥
मिहिकानां तुषाराणामारम्भेण समता अविषमताः । अन्तःशीतला इति
साधारणं विशेषणम् ॥ ७ ॥
बभूवुरल्पसञ्चारा जना दशसु दिक्ष्वपि ।
सावधानतया श्रोतुमिव सन्त्यक्तचेष्टिताः ॥ ८ ॥
सन्त्यक्तानि चेष्टितानि व्यापारान्तराणि यैः ॥ ८ ॥
छाया दीर्घत्वमाजग्मुर्वासिष्ठं वचनक्रमम् ।
इव श्रोतुमशेषाणां वस्तूनां दीर्घकन्धराः ॥ ९ ॥
अशेषाणां वस्तूनां छाया अशेषाणां श्रोतॄणां दीर्घाः कन्धराः
कण्ठा वचनक्रमं श्रोतुमिव दीर्घत्वमाजग्मुः । असमासश्छान्दसः ॥ ९ ॥
प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् ।
देव स्नानद्विजार्चासु कालो व्यतिगतो भृशम् ॥ १० ॥
प्रतीहारो द्वारपालः । प्रह्वो नम्रो भूत्वा ॥ १० ॥
ततो वसिष्ठो भगवान्संहृत्य मधुरां गिरम् ।
अद्य तावन्महाराज श्रुतमेतावदस्तु वः ॥ ११ ॥
संहृत्योपसंहृत्य ॥ ११ ॥
प्रातरन्यद्वदिष्यामि इत्युक्त्वा मौनवानभूत् ।
इत्याकर्णैवमस्तूक्त्वा भूपतिर्भूतिवृद्धये ॥ १२ ॥
एवमस्तु इत्युक्त्वा ॥ १२ ॥
पुष्पपाद्यार्घसन्मानदक्षिणादानपूजया ।
सदेवर्षिमुनीन्विप्रान्पूजयामास सादरम् ॥ १३ ॥
अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला ।
मण्डलाकीर्णरत्नौघपरिवेषावृतानना ॥ १४ ॥
सभाशब्दो जनवचनः । निःस्पृहैर्मुनिभी
राजदत्तरत्नानामुपेक्षणान्मण्डलाकारेण कीर्णानां रत्नौघानां
प्रभापरिवेषेऽन आवृतजनानना ॥ १४ ॥
परस्पराङ्गसङ्घट्टरणत्केयूरकङ्कणा ।
हारभाराहृतस्वर्णपट्टाभोरुस्तनान्तरा ॥ १५ ॥
हृता अपहृता स्वर्णजटितपट्टवस्त्राणां आभाकान्तिर्यैस्तथाविधानि
ऊरुस्तनान्तराणि यस्याम् ॥ १५ ॥
शेखरोत्सङ्गविश्रान्तप्रबुद्धमधुपस्वनैः ।
सघुङ्घुमशिरोभारा वदद्भिरिव मूर्धजैः ॥ १६ ॥
शेखरस्य शिरोग्रस्य उत्सङ्गवद्विस्तृतभागे
घुङ्घुमेत्यव्यक्तध्वन्यनुकरणम् ॥ १६ ॥
काञ्चनाभरणोद्द्योतकनकीकृतदिङ्मुखाः ।
बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः ॥ १७ ॥
जग्मुर्नभश्चरा व्योम भूचरा भूमिमण्डलम् ।
चक्रुर्दिनसमाचारं सर्वे ते स्वेषु सद्मसु ॥ १८ ॥
एतस्मिन्नन्तरे श्यामा यामिनी समदृश्यत ।
जनसङ्गाद्विनिर्मुक्ता [जनसङ्घात् इति पाठः] गृहे
बालाङ्गना यथा ॥ १९ ॥
श्यामा कृष्णा । बालाङ्गना । पक्षे यौवनमध्यस्था ।
सम्भवादुपमानदर्शनस्यापि तत्कालता गम्यते ॥ १९ ॥
देशान्तरं भासयितुं ययौ दिवसनायकः ।
सर्वत्रालोककर्तृत्वमेव सत्पुरुषव्रतम् ॥ २० ॥
सद्ब्रह्म तदात्मा पुरुषो ब्रह्म तन्निष्ठश्च तयोर्व्रतम् ॥ २० ॥
उदभूदभितः सन्ध्या तारानिकरधारिणी ।
उत्फुल्लकिंशुकवना वसन्तश्रीरिवोदिता ॥ २१ ॥
चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे ।
निलिल्यिरे खगाश्चित्तेऽवदाता वृत्तयो यथा ॥ २२ ॥
अवदाता निर्मलाः । चित्ते अर्थान्निद्रावृते इति गम्यते ॥ २२ ॥
भानोर्भासा भूषितैर्मेघलेशैः
किञ्चित्किञ्चित्कुङ्कुमच्छाययेव ।
पाश्चात्त्योऽद्रिः पीतवासाः समेघै-
स्ताराहारः श्रीयुतः खवं समेतः ॥ २३ ॥
किञ्चित्किञ्चित्कुङ्कुमच्छाययेव विचित्रया भानोर्भासा भूषितैर्मेघैः
पीतवासाः । तारालक्षणहारेण श्रिया च युक्तः । स प्रागुक्तः
पाश्चात्त्योऽस्ताद्रिर्भानोर्भासा भूषितैर्मेघलेशैरुपलक्षितमर्थात्ताराहारं
श्रीयुतं चेति समानधर्मकं स्वं आकाशं च समेतः प्रविष्टः । यथा
पीतवासा विष्णुरुक्तधर्मा श्रीयुतो निरावरणं स्वानुरूपं ध्यायिनां
हृदयाकाशं प्रविशति तद्वत् । सन्ध्यासु हि भगवद्ध्यानं प्रशस्तमिति
समासोक्त्या गम्यते ॥ २३ ॥
प्। १३७)
पूजामादाय सन्ध्यायां प्रगतायां यथागतम् ।
अन्धकाराः समुत्तस्थुर्वेताला वपुषा यथा ॥ २४ ॥
सन्ध्यायां देव्यां पूजामादाय गतायां तद्गणा वेताला वपुषा यथा
समुत्तिष्ठन्ति तद्वत् ॥ २४ ॥
अवश्यायकणास्पन्दी हेलाविद्युतपल्लवः ।
कोमलः कुमुदाशंसी ववावाशीतलोऽनिलः ॥ २५ ॥
कलिकाविकासात्कुमुदान्यासमन्ताच्छंसत्यनुमापयति तच्छीलः ।
विशेषणत्रयानुसारादाशीतलग्रहणं मान्द्यसौरभ्ययोरप्युपलक्षणम् ॥ २५
॥
परमान्ध्यमुपाजग्मुर्दिशोऽविस्फुटतारकाः ।
लम्बदीर्घतमःकेश्यो विधवा इव योषितः ॥ २६ ॥
नीहारपटावृतत्वादविस्फुटास्तारका नक्षत्राणि कनीनिकाश्च यासां ताः ।
धवस्य भानोरस्तमयाद्विधवा इव ॥ २६ ॥
आययौ भुवनं तेजः क्षीरपूरेण पूरयन् ।
रसायनमयाकारः शशिक्षीरार्णवो [क्षीरार्णवोपमः इति
पाठः] नभः ॥ २७ ॥
तेजोलक्षणेन दुग्धप्रवाहेण पूरयन् । रसायनममृतं तन्मयाकारः ॥ २७
॥
जग्मुस्तिमिरसङ्घाताः पलाय्य क्वाप्यदृश्यताम् ।
श्रुतज्ञानगिरश्चित्तान्महीपानामिवाज्ञताः ॥ २८ ॥
श्रुता ज्ञानगिरो येन तथाविधान्महीपानां चित्तात् ॥ २८ ॥
ऋषयो भूमिपालाश्च मुनयो ब्राह्मणास्तथा ।
चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः ॥ २९ ॥
विचित्राः वसिष्ठोपदिष्टा अर्थाः स्वचेतसीव स्वेषामास्पदेषु प्रतिष्ठासु
विशश्रमुर्विश्रान्ताः ॥ २९ ॥
यमकायोपमाश्यामा ययौ तिमिरमांसला ।
आययौ मिहिकास्फारा तत्र तेषामुषः शनैः ॥ ३० ॥
श्यामा रात्रिः । उषः प्रत्यूषः ॥ ३० ॥
अन्तर्धानमुपाजग्मुस्तारा नभसि भासुराः ।
प्रभातपवनेनेव हृताः कुसुमवृष्टयः ॥ ३१ ॥
हृता अपनीताः । कुसुमवृष्टयो वृष्टिनिपतितकुसुमानीवेत्यत्र तात्पर्यम् ॥ ३१
॥
दृश्यतामाजगामार्कः प्रभोन्मीलितलोचनः ।
विवेकवृत्तिर्महतां मनसीव नवोदिता ॥ ३२ ॥
प्रभाभिरुन्मीलितानि जनलोचनानि येन ॥ ३२ ॥
भानोर्भासा भूषितैर्मेघलेशैः
किञ्चित्किञ्चित्कुङ्कुमच्छाययेव ।
पूर्वक्ष्माभृत्पीतवासाः समेघै-[स्तमोघ्नैः इति पाठः]
स्ताराहारः श्रीयुतः खं समेतः ॥ ३३ ॥
तमोघ्नैः इति पाठे तमोविघातकैः काञ्चनशृङ्गैरित्यर्थः ॥ ३३ ॥
सभां पुनरुपाजग्मुर्नभश्चरमहीचराः ।
ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः ॥ ३४ ॥
ह्यस्तनेन पूर्वेद्युस्तनेन ॥ ३४ ॥
पूर्ववत्सन्निवेशेन विवेश सकला सभा ।
बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी ॥ ३५ ॥
वातमुक्ता निर्वाता पद्मिनी पद्मवती सरसीव ॥ ३५ ॥
अथ प्रसङ्गमासाद्य रामो मधुरया गिरा ।
उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् ॥ ३६ ॥
प्रसङ्गं प्रस्तावम् ॥ ३६ ॥
श्रीराम उवाच ।
भगवन्मनसो रूपं कीदृशं वद मे स्फुटम् ।
यस्मात्तेनेयमखिला तन्यते लोकमञ्जरी ॥ ३७ ॥
रूपं तात्त्विकस्वरूपम् । यद्रूपं मनो वक्ष्यति जगतोऽपि तदेव रूपमिति न
निस्तत्त्वतालक्षणं मिथ्यात्वं सेत्स्यतीति रामाशयः ॥ ३७ ॥
श्रीवसिष्ठ उवाच ।
रामास्य मनसो रूपं न किञ्चिदपि दृश्यते ।
नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः ॥ ३८ ॥
नाममात्रादिति । अत एव तत्कार्येषु वाचारम्भणं विकारो नामधेयम्
इतिश्रुतमिथ्यात्वोपपत्तिरिति भावः । शून्यजडाकृतेरिति भूतव्योम्नो मनसश्च
साधारणम् ॥ ३८ ॥
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
सर्वत्रैव स्थितं चैतद्विद्धि राम यथा नभः ॥ ३९ ॥
नभःसाम्यमेवोपपादयति - नेति ॥ ३९ ॥
इदमस्मात्समुत्पन्नं मृगतृष्णाम्बुसन्निभम् ।
रूपं तु क्षणसङ्कल्पाद्द्वितीयेन्दुभ्रमोपमम् ॥ ४० ॥
इदं जगदस्मान्मनसः भ्रमः । तद्विषयोऽध्यस्त इति यावत् । तदुपमम् ॥ ४० ॥
मध्ये यदेतदर्थस्य प्रतिभानं प्रथां गतम् ।
सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत् ॥ ४१ ॥
यद्यपि मनो नाम परमार्थतो नास्त्येव तथापि शास्त्रीयव्यवहारोपयुक्तं
कल्पितं तद्रूपमाह - मध्ये इति । प्रत्यक्षे पुरः सतः स्मृत्यादि परोक्षे
त्वसतो वाऽर्थस्य मध्ये यदेतत्तदाकारप्रतिभानं प्रथां गतं
सर्वजनानां तन्मन इत्यर्थः ॥ ४१ ॥
यदर्थप्रतिभानं तन्मन इत्यभिधीयते ।
अन्यत्र किञ्चिदप्यस्ति मनो नाम कदाचन ॥ ४२ ॥
तदेव सङ्क्षिप्याह - यदिति । निराकारचितो योऽर्थाकाराध्यासस्तन्मन
इत्यर्थः ॥ ४२ ॥
सङ्कल्पनं मनो विद्धि सङ्कल्पात्तत्र भिद्यते ।
यथा द्रवत्वात्सलिलं तथा स्पन्दो यथानिलात् ॥ ४३ ॥
एवं वृत्तिसामान्यैस्तल्लक्षणमुक्त्वा असाधारणवृत्त्याप्याह -
सङ्कल्पनमिति ॥ ४३ ॥
यत्र सङ्कल्पनं तत्र तन्मनोऽङ्ग तथा स्थितम् ।
सङ्कल्पमनसी भिन्ने न कदाचन केचन ॥ ४४ ॥
तदेव विषयभेदव्यवस्थितिप्रदर्शनेन द्रढयति - यत्रेति ॥ ४४ ॥
सत्यमस्त्वथवाऽसत्यं पदार्थप्रतिभासनम् ।
तावन्मात्रं मनो विद्धि तद्ब्रह्मैव पितामहः ॥ ४५ ॥
ननु चित्संवलितैव वृत्तिः पदार्थप्रतिभासनमित्युच्यते तत्र चितः सत्यत्वे
कथं तद्घटितमनसो मिथ्यात्वं तत्राह - सत्यमिति ।
मिथ्याविषयाकारान्मिथ्या वा सत्यचित्संवलनात्सत्यं यथाविवक्षमस्तु न
तत्राग्रहः यादृशं मनस्तत्समष्टिरपि तन्मात्रस्वभावा सैव
विरिञ्चिरित्येतत्तु न व्याहतमित्याह - असत्यमिति ॥ ४५ ॥
प्। १३८)
आतिवाहिकदेहात्मा मन इत्यभिधीयते ।
आधिभौतिकबुद्धिं तु स आधत्ते चिरस्थितेः ॥ ४६ ॥
यदि सर्वाकारमनोदेहोऽसौ तर्हि तस्य किमन्यत्सृज्यं तत्राह - आतिवाहिकेति ।
सूक्ष्माणामेव चिरं मिलितावस्थितेर्मिश्रणात्पञ्चीकरणे
स्थूलपृथ्व्यादिबुद्धिं स एव धत्ते तदेवास्य स्रष्टृत्वमित्यर्थः ॥ ४६ ॥
अविद्या संसृतिश्चित्तं मनो बन्धो मलस्तमः ।
इति पर्यायनामानि दृश्यस्य विदुरुत्तमाः ॥ ४७ ॥
मन आदिप्रपञ्चः सर्वोऽप्यविद्याविलासत्वादविद्यैव तस्या एवोत्तरोत्तरं
नामानीत्याह - अविद्येति ॥ ४७ ॥
नहि दृश्यादृते किञ्चिन्मनसो रूपमस्ति हि ।
दृश्यं चोत्पन्नमेवैतन्नेति वक्ष्याम्यहं पुनः ॥ ४८ ॥
यद्युत्पन्नस्य दृश्यस्याविद्यात्वं मनस्त्वं वा तर्हि कथं
तयोरनादित्वप्रसिद्धिस्तत्राह - दृश्यं चेति ॥ ४८ ॥
यथा कमलबीजान्तः स्थिता कमलवल्लरी ।
महाचित्परमाण्वन्तस्तथा दृश्यं जगत्स्थितम् ॥ ४९ ॥
तथा च चित्यविद्यास्थितिरेव जगत्स्थितिरिति फलितमित्याशयेनाह - यथेति ॥ ४९ ॥
प्रकाशस्य यथाऽलोको यथा वातस्य चापलम् ।
यथा द्रवत्वं पयसि दृश्यत्वं द्रष्टरीदृशम् ॥ ५० ॥
साविद्यचितो दृश्याव्यभिचाराद्दृश्यस्य तत्स्वभावता फलितेत्याह -
प्रकाशस्येति । ईदृशमेवम्प्रकारम् । स्वभाव इति यावत् ॥ ५० ॥
अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् ।
भित्तिर्यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः ॥ ५१ ॥
तत्स्वभावत्वे तदपृथक्सत्ता फलितेत्याह - अङ्गदत्वमिति ॥ ५१ ॥
एवं द्रष्टरि दृश्यत्वमनन्यदिव यत्स्थितम् ।
तदप्युन्मार्जयाम्याशु त्वच्चित्तादर्शतो मलम् ॥ ५२ ॥
यद्द्रष्टुरस्याद्रष्टृत्वं दृश्याभावे भवेद्बलात् ।
तद्विद्धि केवलीभावं तत एवासतः सतः ॥ ५३ ॥
यदिति । दृश्यस्य द्रष्टृपृथक्सत्तापगमे अन्यसत्तयान्यस्य सत्त्वायोगात्
दृश्याभावे तद्बलादस्य द्रष्टुश्चिन्मात्रस्य यदद्रष्टृत्वं भवेत्तत
एवासतो बाधिताद्दृश्यात्सतः सन्मात्रचिद्रूपेण
परिशिष्टस्यात्मनस्तत्केवलीभावं विद्धित्यर्थः ॥ ५३ ॥
तत्तामुपगते भावे रागद्वेषादिवासनाः ।
शाम्यन्त्यस्पन्दिते वाते स्पन्दनक्षुब्धता यथा ॥ ५४ ॥
अस्त्वेवं तथापि कथं प्रतिज्ञातं मच्चित्तादर्शे दृश्यमलमार्जनं
सिद्ध्यति तत्राह - तत्तामिति । भावे चित्ते तत्तां कैवल्यबोधेन तद्भावम् ।
वातस्पन्दनप्रयुक्तवनजलाशयादिक्षुब्धताः ॥ ५४ ॥
असम्भवति सर्वस्मिन्दिग्भूम्याकाशरूपिणि ।
प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥ ५५ ॥
निर्विषयज्ञानस्थितिमसम्भावयन्तं दृष्टान्तेनानुभावयति -
असम्भवतीत्यादिभिः ॥ ५५ ॥
त्रिजगत्त्वमहं चेति दृश्येऽसत्तामुपागते ।
द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः ॥ ५६ ॥
असत्तामिति च्छेदः ॥ ५६ ॥
अनाप्ताखिलशैलादि प्रतिबिम्बे हि यादृशी ।
स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥ ५७ ॥
केवलदर्पणात्मस्वरूपिणी ॥ ५७ ॥
अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे ।
स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे ॥ ५८ ॥
चितो दृश्योन्मुखत्वं वीक्षणं तच्छून्ये ॥ ५८ ॥
श्रीराम उवाच ।
सच्चेन्न शाम्यत्येवेदं नाभावो विद्यते सतः ।
असत्तां च न विद्मोऽस्मिन्दृश्ये दोषप्रदायिनि ॥ ५९ ॥
दृश्यस्यासत्त्वे त्वदुक्तः केवलीभावः स्यात्तदेवानुभवविरुद्धं
सत्सदित्येव दृश्यानुभवादिति परिणामवादमभिप्रेत्य श्रीरामः शङ्कते
- सच्चेदिति द्वाभ्याम् ॥ ५९ ॥
तस्मात्कथमियं शाम्येद्ब्रह्मन्दृश्यविषूचिका ।
मनोभवभ्रमकरी दुःखसन्ततिदायिनी ॥ ६० ॥
मनसा भवो जन्मादिस्तद्भ्रमकरी ॥ ६० ॥
श्रीवसिष्ठ उवाच ।
अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रमिमं शृणु ।
रामात्यन्तमयं येन मृतिमेष्यति नङ्क्ष्यति ॥ ६१ ॥
असतोऽप्यविद्यया सदनुबोधाद्दृश्यस्य सत्ताभ्रमः
केवलीभावसाक्षात्कारेणाविद्यानाशे तु नायं भ्रमः समुदेतीति
गूढाभिसन्धिः । प्रथमं जीवन्मुक्तदर्शनलिङ्गेनानिर्मोक्षप्रसञ्जनेन
च दृश्ये सत्यताविश्वासं वारयन् विवर्तवादमाश्रित्य श्रीवसिष्ठ उवाच ##-
नङ्क्ष्यतीति बाध एव द्वेधोक्तः ॥ ६१ ॥
यदस्ति तस्य नाशोऽस्ति न कदाचन राघव ।
तस्मात्तन्नष्टमप्यन्तर्बीजभूतं [बीजरूपं इति पाठः]
भवेद्धृदि ॥ ६२ ॥
परिणामवादे दोषमाह - यदिति । अयं भावः - परिणामवादे
ह्युत्तरोत्तरावस्थाभिः पूर्वपूर्वावस्थातिरोभावमात्रं नोच्छेदः
सतोऽसत्त्वायोगात् तथाच नाशलक्षणषष्ठविकारेणापि तिरोहितस्य द्वैतस्य चित्ते
प्रकृतौ वा स्थितस्य कामकर्मवासनाबीजात्पुनरुद्भवो दुर्वार
इत्यनिर्मोक्षप्रसङ्ग इति ॥ ६२ ॥
स्मृतिबीजाच्चिदाकाशे पुनरुद्भूय दृश्यधीः ।
लोकशैलाम्बराकारं दोषं वितनुतेऽतनुम् ॥ ६३ ॥
स्मृतिग्रहणं भोगोपयुक्तान्तःकरणवृत्तिप्रमुखजगन्मात्रोपलक्षणम् ॥
६३ ॥
इत्यनिर्मोक्षदोषः स्यान्न च तस्येह सम्भवः ।
यस्माद्देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् ॥ ६४ ॥
मुक्तिभाजनं जीवन्मुक्ताः ॥ ६४ ॥
यदि स्याज्जगदादीदं तस्मान्मोक्षो न कस्यचित् ।
बाह्यस्थमस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् ॥ ६५ ॥
ननु चिदात्मायं स्वबाह्यप्रधानस्थमेव दृश्यं
बुद्ध्यविवेकात्स्वहृत्स्थतया पश्यति सोऽयं संसारः
विवेकज्ञानोदयात्तदविवेकाभिमाननिवृत्तौ सत्यपि बहिस्तस्मिंस्ततो मोक्षः
स्यादिति साङ्ख्यरीतिमाशङ्क्याह - यदीति ॥ ६५ ॥
प्। १३९)
तस्मादिमां प्रतिज्ञां त्वं शृणु रामातिभीषणाम् ।
यामुत्तरेण ग्रन्थेन नूनं त्वमवबुध्यसे ॥ ६६ ॥
तस्माद्विवर्तवाद एव परिशिष्यत इत्याशयेनाह - तस्मादित्यादिना ।
विषयरागिणामारम्भादिवादिनां च भीषणाम् । यथाहुर्गौडपादाचार्याः
- अस्पर्शयोगो नामैष दुर्दर्शः सर्वयोगिनाम् । योगिनो बिभ्यति
यस्मादभये भयदर्शिनः ॥ इति ॥ ६६ ॥
अयमाकाशभूतादिरूपोऽहं चेति लक्षितः ।
जगच्छब्दस्य नामार्थो ननु नास्त्येव कश्चन ॥ ६७ ॥
यदिदं दृश्यते किञ्चिद्दृश्यजातं पुरोगतम् ।
परं ब्रह्मैव तत्सर्वमजरामरमव्ययम् ॥ ६८ ॥
पूर्णे पूर्णं प्रसरति शान्ते शान्तं [परं स्थितं इति पाठः]
व्यवस्थितम् ।
व्योमन्येवोदितं व्योम ब्रह्मणि ब्रह्म तिष्ठति ॥ ६९ ॥
प्रतीचो यद्ब्रह्मैक्यं तत् पूर्णे पूर्णं प्रसरति । यतस्तच्छान्तावस्थात्रये
शान्तं वियदादि द्वैतं व्यवस्थितम् । यतश्च व्योमन्येव
घटाद्युपाधित्यागाद्व्योमेवोदितम् । अतो ब्रह्मण्येव ब्रह्म तिष्ठति
नाणुमात्रमपि तद्विकृतमित्यर्थः । यत्र हि यदध्यासस्तत्कृतेन गुणेन
दोषेण वा अणुमात्रेणापि स न सम्बध्यत इति ॥ ६९ ॥
न दृश्यमस्ति सद्रूपं न द्रष्टा न च दर्शनम् ।
न शून्यं न जडं नो चिच्छान्तमेवेदमाततम् ॥ ७० ॥
चित् बुद्धिप्रतिबिम्बचैतन्यम् ॥ ७० ॥
श्रीराम उवाच ।
वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रगायति ।
प्रसार्य भुजसम्पातं शिला नृत्यति ताण्डवम् ॥ ७१ ॥
उक्ते विवर्तवादे पामराणामसम्भावनामुद्घाटयन् श्रीराम उवाच -
वन्ध्यापुत्रेणेत्यादिना । अत्र प्रायः
पदार्थवाक्यार्थोभयासम्भवप्रदर्शनाय तथा दृष्टान्ताः ॥ ७१ ॥
स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः ।
गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ॥ ७२ ॥
इत्येतानि वचांसीव प्रतिभान्तीति शेषः ॥ ७२ ॥
जरामरणदुःखादिशैलाकाशमयं जगत् ।
नास्तीति किमिदं नाम भवताऽपि ममोच्यते ॥ ७३ ॥
भवता प्रामाणिकमूर्धन्येनापि ममविवेकशालिनोऽप्रतार्यस्यापीति
पामराशयसर्वस्वोक्तिः ॥ ७३ ॥
यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते ।
तथा कथय मे ब्रह्मन्येनैतन्निश्चितं भवेत् ॥ ७४ ॥
इदानीं स्वाशयानुरूपमाह - यथेति ॥ ७४ ॥
श्रीवसिष्ठ उवाच ।
नासमन्वितवागस्मि शृणु राघव कथ्यते ।
यथेदमसदाभाति वन्ध्यापुत्र इवाऽरवी ॥ ७५ ॥
उक्तदोषं परिहृत्यासतोऽपि सत्यवद्भानं स्वप्नदृष्टान्तेन
सम्भावयिष्यन् श्रीवसिष्ठ उवाच - नेत्यादिना । आरवी ध्वनिमान् ॥ ७५ ॥
इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम् ।
इदं हि मनसो भाति स्वप्नादौ पत्तनं यथा ॥ ७६ ॥
मन एव च सर्गादावनुत्पन्नमसद्वपुः ।
तदेतच्छृणु वक्ष्यामि यथैवमनुभूयते ॥ ७७ ॥
मनोदृश्यमयं दोषं तनोतीमं क्षयात्मकम् ।
असदेव सदाकारं स्वप्नः स्वप्नान्तरं यथा ॥ ७८ ॥
तत्स्वयं स्वैरमेवाशु सङ्कल्पयति देहकम् ।
तेनेयमिन्द्रजालश्रीर्विततेन वितन्यते ॥ ७९ ॥
विततेन चिरं भावनाविपुलेन ॥ ७९ ॥
स्फुरति वल्गति गच्छति याचते
भ्रमति मज्जति संहरति स्वयम् ।
अपरतामुपयात्यपि केवलं
चलति चञ्चलशक्तितया मनः ॥ ८० ॥
केवलं मन एव चञ्चलशक्तितया यच्चलति तत्रैव
स्फुरतीत्यादिभ्रमविभावनमिति भावः । अपरतां
सांसारिकदशाप्रयुक्तमपकर्षं केवलं कैवल्यलक्षणोत्कर्षं चोपयाति ॥
८० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
उत्पत्तिप्रकरणार्थकल्पनं नाम चतुर्थः सर्गः ॥ ४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
उत्पत्तिप्रकरणार्थकल्पनं नाम चतुर्थः सर्गः ॥ ४ ॥